Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

40. viṣapratiṣēdhaḥ

Adhikarana atha viShapratiShedho nAma catvAriMsho~adhyAyaH, pratij~jA (1) · Śloka 1

अथातो विषप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

आगन्तुप्रसङ्गादुक्तशिष्टत्वाद्विषचिकित्साया अवसरस्तस्याश्चानेकप्रकारत्वेन वक्ष्यमाणात्वात् सामान्येन चिकित्सां प्रदर्शयितुमध्याय आरभ्यते (-अथात इत्यादि| विषप्रतिषेधं स्थावरजङ्गमादिभेदेनानेकविधस्य विषस्य प्रतिषेधं चिकित्सितं निदानाद्विना प्रतिषेधस्य दुष्करत्वात्स निदानमित्यर्थः| शेषं पूर्ववत्)||१||

Adhikarana viShasya prAgutpattiH (2) · Śloka 2

पुरा खल्वमृतार्थं सुरासुरैः सलिलनिधेर्विमध्यमानात् क्रोध इव रूपवान् सत्त्वं समुद्बभूव कृष्णमनलनयनमुर्ध्व- प्रदीप्तकेषं दंष्ट्राकरालं भैरवारावरूपम्| तद्दर्शनादेव यतो देवदानवाश्च विषण्णास्तस्मात्तद्विषसंज्ञामवाप||२||

🔊 Audio coming soon

(तत्र पूर्वं विषस्योत्पत्तिं दर्शयति|) इह हि विषचिकित्सा प्रस्तुता| विषस्य च स्वरूपे ज्ञाते तद्व्याधीनां हेत्वादिकं ज्ञेयमतः स्वरूपमेव प्रथममितिहासरूपेणोच्यते-पुरा खल्वित्यादि| पुरा कस्मिंश्चित्काले सुरैश्चासुरैश्चाऽमृतार्थं विमथ्यमानाज्जलनिधे रूपवानिव क्रोधः कृष्णत्वादिगुणं सत्त्वं समुद्बभूव| तस्य सत्त्वस्य दर्शनमात्रादेव देवा दानवाश्च यतो विषादं प्राप्तास्तस्मात् सत्त्वं विषसंज्ञामन्वर्थतां चावाप प्राप|| २||

Adhikarana viShasyauShadhiShu nyAsaH sthAvaraviSham (3) · Śloka 3

तत् सहसैव सर्वभूतानि निर्दग्धुकाममुपयोगविशेषैर्विष ममृततां विनयमानो ब्रह्यानुनीयौषधीषु न्यस्तवान्| ततस्तत् स्थावरासु मूर्तिष्वधिवसनात् स्थावरमित्युच्यते||३||

🔊 Audio coming soon

उद्भूतं तद्विषं सहसैव सर्वभूतानि निर्दग्धुकामं यदा तदैतदमृततां प्राप्नोतीत्युपयोगविशेषयोग्यतां तस्य कुर्वन् ब्रह्मा तद्विषमौषधिषु विशिष्टास्वेव न्यस्तवान् ततस्तद्विषं स्थावरास्वौषध्याख्यासु मूर्तिष्वधिवसनात्स्थावरमित्युच्यते| इति स्थावरस्य विषस्य सम्भवः|| ३||

Adhikarana ja~ggamaviShodbhavaH (4) · Śloka 4

जङ्गमं पुनः पृथिव्या भारावतारार्थमुरगादिरूपेण विष्णू- र्निर्ममे||४||

🔊 Audio coming soon

जङ्गमं तु विषं भगवान् विष्णुर्निर्ममे निर्मितवान्| किमर्थमित्याह| पृथिव्या भारावतारार्थं पृथिवीतो भारोऽवरतत्विति कृत्वा| अत्र भगवानेव प्रमाणम्|| ४||

Adhikarana sthAvarasya viShasya dashAdhiShThAnAni (5) · Śloka 5

तयोः स्थावरं मूलपत्रपुष्पफलत्वक्सारनिर्यासक्षीर धातुकन्दभेदाद्दशाधिष्ठानम्| तत्र मूलविषाणि क्लीत नकाश्वमारकगुञ्जासुगन्धकगर्गरककर्करकरघाटका दीनि| पत्रविषं कालपत्रिका लम्बावरदकरम्भार्कादि नाम्| पुष्पविषं वल्लीरेणुककरम्भमहाकरम्भादीनाम्| फलं कुमुद्वतीरेणुकाकरम्भमहाकरम्भमदनकतुवरका दीनाम्| त्वक्सारनिर्यासाः करककरघाटककरम्भम हाकरम्भनाराचकादीनाम्| क्षीरं कुमुद्वती दन्तीस्नुह्य र्कजालिनीव्यालादीनाम्| धातवो हरितालफेनाश्मभस्म रक्तप्रभृतयः| कन्दजानि तु हालाहलकालकूटवत्स नाभशृङ्गीसार्षपजालककर्दमकवैराटकमुस्तकमुष्कक साक्तुकक्रौञ्चकवालकमहाविषपुण्डरीकगालवमूलक मर्कटकर्कटककरवीरकेन्द्रायुधसङ्कोचकलाङ्गलकतैल पेयकुशपुष्पके तु पुष्पकरोहिषाञ्जनाभकादीनि||५||

🔊 Audio coming soon

तयोः स्थावरजङ्गमविषयोर्मध्ये स्थावरं मूलादिभेदेन दशाश्रयम्| तत्र क्लीतनकादीनि मूलविषाणि| सुबोधम्| सर्वाणि पठिताऽपठितानि विषाश्रयाणि प्रसिद्ध्यैव भारतदेषेषु ज्ञायन्ते| अस्माभिस्तुल्यव्याप्तिबन्धनभयान्न लिख्यन्ते| शास्त्रकृता तु मूलादिमुद्रयैव तेषां जातिसंग्रहः कृतः| (मूलादिविषाणां यत्नपरैरपि ज्ञातुमशक्यत्वात्तानि हिमवत्प्रदेशे किरातशबरादिभ्यो ज्ञेयानीति निबन्धसंग्रहाख्यायां सुश्रुतटीकायाम्)|| ५||

Adhikarana AshrayabhedAnusAraM prabhAvabhedAH (6) · Śloka 6

तत्र मूलविषैरुपयुक्तैरुद्वेष्टनप्रलापमोहाः प्रजायन्ते| पत्र विषैर्जृम्भोद्वेष्टनश्वासाः| पुष्पविषैश्छर्द्याध्मानमोहाः| फलविषैर्दाहमुष्कशोफौ| त्वक्सारनिर्यासविषैः प्रसे कास्यादौर्गन्ध्यपारुष्यशिरोवेदनाः| क्षीरविषैर्जिह्वागौरवं शकृद्भेदश्च| धातुविषैस्तालुदाहमूर्च्छाहृदयपीडाः| सर्व मेव च स्थावरं ज्वरहिध्मादन्तहर्शहनुस्तम्भगलग्रहफेन वमनारुचिश्वासमूर्च्छाः करोति विशेषेण कन्दजम्| तद्ध्यतितीक्ष्णत्वादाशुकारितरम्| इतरत्तु प्रायः काला न्तरप्राणहरम्||६||

🔊 Audio coming soon

तत्र मूलविषैरित्यादिना दशानामुपयोगक्रमेण व्याधिकीर्त्तिनम्| सुबोधम्| उद्वेष्टनं वेष्टनमिवाङ्गानाम्| मुष्कशोफो वृषणशोफः| धातवस्तु रक्तादयः प्राणिविशेषेण विषं भवन्ति| सर्वमपि च दशविधमपि स्थावरं विषं ज्वरादिकं करोति| व्याख्यासमम्| इतरत्तु कन्दजातादन्यन्नवविधम्| (उपयोगदिवसादन्यो दिवसपक्षमासादि कालान्तरमिति निबन्धसंग्रहः)|| ६||

Adhikarana sthAvaraviShaM sarvameva maulam (7) · Śloka 7

सर्वमपि चैतन्मौलमित्युच्यते मूलाश्रयत्वात्पत्रादीनाम्||७||

🔊 Audio coming soon

सर्वमपि चैतत् स्थावरं विषं मौलमित्युच्यते, पत्रादीनां मूलाश्रयत्वात्| न हि यन्मूले न श्रितं तत्पत्रादिषु भवति| इत्युक्तं स्थावरम्|| ७||

Adhikarana ja~ggamasyAshrayAH prabhAvashca (8) · Śloka 8

जङ्गमस्य त्वाश्रयाः षोडशदृष्टिनिश्वासस्पर्शदंष्ट्रामुखन खास्थिमूत्रपुरीषशुक्रार्त्तवलालाशूकपित्तशोणितशवानि| तानि पुनः सर्पकीटकणभाद्याश्रितानि| तत्कृतान्यथा स्वमामयान् साधनं चोत्तरत्र वक्ष्यति| सर्वञ्च प्रायशो जङ्गमं निद्रातन्द्राक्लमदाहरोमहर्षशोफ पाकातिसारान् करोति||८||

🔊 Audio coming soon

जङ्गमस्य विषस्य दुष्ट्यादीनि शवान्तानि षोडशाश्रयाः| तानि दुष्ट्यादीनि सर्पाद्याश्रयाण्येव विषाधिष्ठानानि विज्ञेयानि| तत्कृतान् जङ्गमाश्रयविषकृतान्| यथास्वमिति पृथग्भेदमामयांस्तत्साधनञ्चोत्तरत्राऽध्यायेषु वक्ष्यति| सर्वञ्च जङ्गमं विशं प्रायशो निद्रादीन् करोति|| ८||

Adhikarana viShasAmAnyaguNAstasya dehe prabhAvashca (9) · Śloka 9

द्विविधमपि चैतद्विषं तीक्ष्णोष्णरूक्षविशदसूक्ष्मव्यवा य्याशुकारिविकाषिलघ्वव्यक्तरसत्वैर्दशभिर्गुणैर्युक्तम पाकि च| तत्र तैक्ष्ण्यौष्ण्यात् पित्तं रक्तञ्च प्रकोपयति| रौक्ष्या द्वायुम्| वैशद्यादसक्तवेगं प्रसरति| सौक्ष्म्याद्व्यवायि त्वाच्च दोषधातुमलादीन् समस्तान् शरीरावयवाननु प्रविशति| आशुकारित्वादाशु व्यापादयति| विकाषि त्वान्मर्मच्छेदेन मतिं व्यामोहयति| लाघवाद्दुर्निर्हरमव्यक्त रसत्वाच्छ्लेष्मप्रयत्नेनान्नानि विषतो रक्षेदित्युक्तम्| अपा कित्वात् जरां नो याति| तेनाभ्यवहृतमवश्यं मारयति| मन्त्रौषधबलेन चोपशमितमपि, प्रत्ययमासाद्यपुनः प्रकु प्यतीति||९||

🔊 Audio coming soon

द्विविधं स्थावरं जङ्गमं च विषं तीक्ष्णादिभिर्दशभिर्गुणैर्युक्तमपाकि च भवति| (अनेकरससम्भवादेकस्यापि रसस्याव्यक्तत्वमस्याऽव्यक्तरसत्वे हेतुः| अपाकित्वन्तु मन्त्रतन्त्राभ्यामन्तरेण पाकाभावात्| पाको वीर्यहानिः| पक्वेऽप्यन्ने विषस्यापक्वस्यैवोपलब्धेः| मन्त्रतन्त्राभ्यामपाक एवास्य कारणान्तरे पुनः कोपहेतुः)| एभिश्च गुणैर्यत् करोति देहे तत्तैक्ष्ण्यौष्ण्यात् पित्तमित्यादिना क्रमेणोच्यते| तत्रेत्यादि सुबोधम्| अन्नस्यापि दुष्ट्या तैर्देहेन तथा वेदनात्तथा गुणत्वम्| अपाकित्वादेव च मन्त्रादिबलेनोपशमितमपि प्रत्ययं वक्ष्यमाणं कारणसामान्यमासाद्य प्राप्य पुनः प्रकुप्यतीति||९||

Adhikarana viShasya kRutrimAkRutrimau bhedau (10) · Śloka 10

भवति चात्र- स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्| कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः| हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्| शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा||१०||

🔊 Audio coming soon

गतानुगतिका| विषस्य कृत्रिमाकृत्रिमभेदं दर्शयति| स्थावरजङ्गमं चेति द्विविधमपि विषमाचार्यैरकृत्रिममिति प्रोक्तम्| (अकृत्रिमं केनाप्यनिर्मितं स्वतः सञ्जातं विषमित्यर्थः)| कृत्रिमं तु विषं गरसंज्ञितं नानाविधैरौषधैः संयुक्तैः क्रियते यत्तेन तच्च कृत्रिमं सम्योगवशादाशु वा हन्ति चिराद्वा चिरतराद्वा| अथवा तत्र हन्ति, अपितु शोफादीन् करोति| (यद्विविधौषधैः क्रियते तत्तु कृत्रिमं कृत्रिमविषं गरसंज्ञञ्च| तत् योगवशेन तथाविधद्रव्ययोगवशादाशु सद्य एव चिरात् चिरकालेन चिरतरादतिचिरकालेन च हन्ति मारयति| शोफादीन् करोति वा)|| १०||

Adhikarana viShasya prANaharatvam (11) · Śloka 11

अपि चैतद्विषं सर्वं तीक्ष्णाद्यैरन्वितं गुणैः| वातपित्तोत्तरं नृणां सद्यो हरति जीवितम्||११||

🔊 Audio coming soon

अपि चेत्यनुक्रान्तसमुच्चये| व्याख्यासमम्| (तीक्ष्णादिगुणयुक्तमुद्रिक्तवातपित्तमेतत्सर्वं विषं नराणां जीवितमाश्वेव हरति| तीक्ष्णादिगुणयोग एव वातपित्तोद्रेके हेतुः)|| ११||

Adhikarana viShasya prANaharaNe kramaH (12) · Śloka 12

विषं हि देहं सम्प्राप्य प्राग्दूषयति शोणितम्| कफपित्तानिलांश्चानु समदोषं सहाशयान्| ततो हृदयमास्थाय देहोच्छेदाय कल्पते| शरीरे दूषिते रक्ते सर्वं चिमिचिमायते| कोठः समण्डलः स्वेदो रोमहर्षश्च जायते| क्षुद्रकीटा इवाङ्गेषु विसर्पन्तीति मन्यते| विनामयति गात्राणि जृम्भते शिशिरप्रियः| व्यापिनस्तस्य दुष्टस्य द्रुतस्य विषतेजसा| वातादयो वशं यान्ति बलिनोऽप्यबला इव||१२||

🔊 Audio coming soon

एतच्च विषे शोणिते दुषिते अनुसमदोषमन्यूनाधिक्यान्यतमविकारान् कृत्वा सहाशयान् कफादीन् दूषयति| आशयानपि तेषां तद्विषं दूषयतीत्यर्थः| तत इति पश्चात्| (विषं पीतजग्धदिग्धा हतान्यतमत्वेन देहं सम्प्राप्य प्राक्पूर्वं रक्तं दूषयति| अनन्तरं समदोषं तुल्यदोषं समबलदोशमित्यर्थः| सहाशयानाशयसहितान् आशयः कफद्याशयः| कफपित्तानिलान् दूषयति| ननु तिक्ष्णादिगुणयुक्तस्य विषस्य पूर्वं रक्तकोपित्वं पश्चाद्युगपदेव त्रिदोषकोपित्वं चेति यदुक्तं तदयुक्तमिव मन्ये 'दोषा दुष्टा रसैर्द्धातुन् दूषयन्ती त्यादिवचनात्| अत्र भणामः-'रक्तमण्वपि तु प्राप्तंवर्द्धते तैलमम्बुवति'ति वक्ष्यमाणात्वात्| तद्गतं विषं वातपित्तकफजुष्टाशुद्धभेदेन चतुर्विधं सर्वशरीरगं रक्तं द्रागेव दूषयति तस्माद्रक्तदुष्टेरनन्तरं युगपदेव दोषत्रयकोपो युज्यत एव| ततोऽनन्तरं हृदयमास्थाय सशोणितैर्दोषैः सह हृदयं प्राप्य सर्वस्रोतांसि बद्ध्वा देहनाशाय प्रवर्त्तते)| शरीरमित्यादिना रक्तादौ दूषिते क्रमेण लक्षणम्| रक्ते दूषिते सर्वं शरीरं चिमिचिमायते कोठादिकं च जायते| विषवांश्चाङ्गेषु सूक्ष्मा कीटा इव विसर्पन्तीति मनसा मन्यन्ते| शीतप्रियश्च सन् गात्राणि विनामयति जृम्भते च| तस्येति रक्तस्य व्यापिनो दुष्टस्य च सतो विषतेजसा च द्रुतस्य वेगवतो बलवन्तोऽपि वातादयोऽबला इव वशं यान्ति|| १२||

Adhikarana doShAshayAnusAraM viShaprabhAvaH (13) · Śloka 13

विषं यद्दोषभूयिष्ठं तं दोषं प्राक् प्रपद्यते| आशये यस्य यस्यैव ततस्तदवतिष्ठते| तज्जान् विकारान् कुरुते यान् सर्वैषूपदेक्ष्यति| वाताशयस्थं कुरुते तथा श्लेष्मामयानपि| पित्तश्लेष्माशयगतं तद्वत्पित्तकफोद्भवान्| तत्रापि चोत्तमाङ्गस्थे सकोठं शूयते शिरः| विशेषादक्षिकूटौष्ठनासास्यं हृष्टदन्तता| तालुशोषो रुजा मूर्ध्नि वक्त्रे चिमिचिमायनम्| अर्थेषु चक्षुरादीनामप्रवृत्तिर्हनुग्रहः| इत्यन्यत्रापि च विषं स्थितमङ्गेऽभिलक्षयेत्| व्याप्यैवं सकलं देहमुपरुध्य च वाहिनीः| विषं विषमिव क्षिप्रं प्राणानस्य निरस्यति||१३||

🔊 Audio coming soon

तच्च विषमाश्रयद्रव्यविशेषवशेन येन च दोषेण भूयिष्ठं सदृशं तमेव दोषं प्रथमं प्रपद्यते| तत एव च भूयिष्ठत्वाद्धेतोर्यस्य यद्विशिष्टस्य दोषस्याशयेऽवतिष्ठते तज्जानेव विकारान् कुरुते| कांस्तानित्याह-यान् सर्वेषु वातादिभेदेनोपदेक्ष्यति| वाताशयस्थं च विषं स्वानपि विकारान् कुरुते श्लेष्मागतानपि| तद्वदेव पित्तश्लेष्माशयगतं पित्तकफोद्भवान् विकारान् कुरुते| तेनैतदुक्तं भवति-पित्तायस्थं पित्तोद्भवान् कफोद्भवांश्च करोति| कफाशयस्थमपि कफोद्भवान् पित्तोद्भवांश्चेति| तत्रापीत विशेष| उत्तमाङ्गस्थे विषे कोठसहितं शिरः शूयते| तत्राप्यक्षिकूटादिकं विशेषाच्छूयते| हृष्टदन्ततादिकं च भवति| अर्थेषु विषयेषु रूपादिषु चक्षुरादीनामिन्द्रियाणामप्रवृत्तिः| इत्यनया दिशा अन्यत्राप्यङ्गे विकारैर्विषं स्थितमित्यभिलक्षयेत्| एवमन्तरोक्तप्रकारेण सकलं निश्शेषं देहं व्याप्य वाहिनीश्च सिरादोषादि वाहिनीरुपरुध्य विषं क्षिप्रमेवास्य प्राणान् निरस्यति विषमिव आत्मानामेव वर्जयित्वाऽस्य क्षिप्रमारणे अन्यदुपमानं न विद्यत इत्यर्थः|||| १३||

Adhikarana viShajagdhAdimAMsaprabhAvaH (14) · Śloka 14

पीतं मृतस्य हृदये जग्धदिग्धाभिविद्धयोः| दंशे तिष्ठति भूयिष्ठं सर्वतः पिण्डितं विषम्| नाद्यादतो विशेषेण तेषां मांसं तदाश्रयम्| यथास्वं भक्षिते पीडा यथास्वं च क्रियाक्रमः||१४||

🔊 Audio coming soon

तच्च विषं यदा पीतं निगीर्णं भवति तदा तेन मृतस्य हृदये भूयिष्ठं तिष्ठति| विषप्राणिनां तु जग्धस्य भक्शितस्य मृतस्यापि विषं दंशे दंष्ट्राभिघाते भूयिष्ठं तिष्ठति| विषदग्धेन च शस्त्रेणाभिहतस्य मृतस्याभिघाते भूयिष्ठं तिष्ठति| सर्वतः शरीरात् प्रति निवृत्त्य तत्रैव पिण्डितम्| अतो हेतोस्तेषां पीतजग्धविद्धानां प्राणिनां मृतानां मांसं नाद्यात्| तदाश्रयं हृदयदंशाभिघाताश्रयं मांसं विशेषेण नाद्यात्| यथास्वमित्यादेरयमर्थः| येनैव दोषेणाधिकं विषं भक्षितं तद्दोषजा एव पीडा भवन्ति| तद्दोषानुगुण्येनैव किर्याक्रमः|| १४||

Adhikarana viShavegeShu matadvayam (15) · Śloka 15

सप्तवेगान् विषस्याहुरष्टाविति पुनर्वसुः||१५||

🔊 Audio coming soon

सर्वे आचार्या विषस्य सप्तवेगान् प्रबलशक्त्युदयक्षोभानाहुः| पुनर्वसुनामा ऋषिस्तु अष्टावित्याह|| १५||

Adhikarana viShavegAnAM lakShaNAni (16) · Śloka 16

दुष्यति प्रथमे वेगे रसश्छर्द्दिप्रसेककृत्| द्वितीयऽस्रं चिमिचिमाजृम्भावेपथुकारि तत्| तृतीये पिशितं कण्डूकोठमण्डलशोफदम्| दोषाश्चतुर्थे तेषु स्युर्यथायमुपद्रवाः| पञ्चमे दर्शनभ्रान्तिः षष्ठे हिध्मा समुद्भवः| सप्तमे स्कन्धभङ्गोऽस्य जायते मृत्युरष्टमे||१६||

🔊 Audio coming soon

दुष्यतीत्यादिना क्रमेण वेगानां कीर्तनम्| प्रथमे वेगे रसाख्यो धातुर्दुष्यति| स च दुष्टः छर्दिप्रसेककृद् भवति| द्वितीये वेगे अस्रं रक्तं दुष्यति| तद्रक्तं देहे चिमचिमादिकारि भवति| तृतीये पिशितं मांसं दुष्यति, तच्च कण्ड्वादिदम्| चतुर्थे दोषा वातादयो दुष्यन्ति| तेषु दुष्टेषु यथास्वमुपद्रवाः स्युः| पञ्चमे वेगे दर्शनभ्रान्तिर्मिथ्यादर्शित्वम्| षष्ठे हिध्मासमुद्भवः| सप्तमे अस्य विषबुक्तस्य स्कन्धभङ्गः| अष्टमे मरणम्| एवं जातूकर्णकश्यपादीनां पुनर्वसोश्चापि प्रतिपत्तिः केवलमष्टमस्तैरनुपयोगान्नाङ्गीकृतः; पुनर्वसुना तु विषकार्यत्वादङ्गीकृतः|| १६||

Adhikarana nagnajitasya matam (17) · Śloka 17

दुष्यति प्रथमे रक्तं द्वितीये श्वयथूद्भवः| तृतीयेऽङ्गे चिमिचिमा चतुर्थे ज्वरमूर्च्छना| पञ्चमे पाण्डुजिह्वास्यशोषः षष्ठे हृदि व्यथा| सप्तमे मरणं वेग इति नग्नजितो मतम्||१७||

🔊 Audio coming soon

नग्नजितो दारुवाहिनोऽप्यत्र दुष्यति प्रथमे रक्तमित्यादिक्रमेण सप्तवेगा इति मतम्|| १७||

Adhikarana videhapatimatam (18) · Śloka 18

मूर्च्छा हृदि परं पीडा शिरोरुगपतन्त्रकः| हिध्मा च दारुणो मर्मच्छेदो जीवितसंशयः| सप्तेति वेगा मूर्च्छाद्याः विदेहपतिना स्मृतः||१८||

🔊 Audio coming soon

विदेहपतिना जनकेन मूर्च्छाद्या जीवितसंशयान्ताः क्रमोद्भवाः सप्त वेगाः स्मृताः|| १८||

Adhikarana AlambAyanamatam (19) · Śloka 19

रक्तमांसवसास्नायु तथास्थ्याद्यास्रयः क्रमात्| आश्रयाः सप्त सप्तानामित्यालम्बायनोऽब्रवीत्||१९||

🔊 Audio coming soon

आलम्बायननामर्षिः सप्तानां वेगानां क्रमादुक्तानां सप्त आश्रया इत्यब्रवीत्| अस्थ्याद्यास्रयोऽस्थिमज्जाशुक्राख्याः| तेन प्रथमो वेगो रक्तमाश्रिते विषे भवति| द्वितीयो मांसम्| तृतीयो वसाम्| चतुर्थः स्नायुम्| पञ्चमोऽस्थि| षष्ठो मज्जानम्| सप्तमः शुक्रमित्यर्थः||१९||

Adhikarana dhanvantarimatam (20) · Śloka 20

वेगान् धन्वन्तरिस्तद्वत् सर्पदष्टस्य मन्यते| स्नाववर्जन्तु तत्स्थाने दोषानिच्छति कोष्ठगान्||२०||

🔊 Audio coming soon

तद्वदित्यालम्बायनोक्तविषवेगक्रमेण धन्वन्तरिः सुश्रुतोपदेष्टा सर्पदष्टस्य वेगान् मन्यते स्नाववर्जम्| तत्स्थाने स्नावस्थाने कोष्ठगान् दोषानिच्छति| तेनैतदुक्तम् भवति| आलम्बायनः स्नावस्थे विषवेगे चतुर्थो वेगो भवतीति| धन्वन्तरिस्तु सर्पदष्टस्य चतुर्थो वेगः कोष्ठस्थवाताद्याश्रिते विषे भवतीत्याहेति|| २०||

Adhikarana viShavegavyAkhyA (21) · Śloka 21

धात्वन्तरेषु याः सप्त कलाः पूर्वं प्रकीर्त्तिताः| अतीत्य तासामेकैकां वेगं प्रकुरुते विषम्||२१||

🔊 Audio coming soon

धात्वन्तरेष्वस्माभिर्याः कलाः प्राक्शारीरे प्रकीर्तिताः सप्त तासां सप्तानां क्रमेणैकैकां कलामतीत्यातिक्रम्य विषं कर्तृ वेगं प्रकुरुते| तेन प्रथमामतीत्य प्रथमं कुरुते| द्वितीयां द्वितीयमिति क्रमेण सप्तानां वाच्यम्|| २१||

Adhikarana vegAntarakAlaH (23) · Śloka 23

तत्कालकल्पं कालेन कलामभ्येति यावता| ऊह्यमानं समीरेण तावद्वेगान्तरं स्मृतम्||२३||

🔊 Audio coming soon

शास्त्रकारस्तु येन मुनिना यदुक्तं तत्सर्वमिह मया प्रदर्शितम्| एवं च मुनित्वे यत्तदाह| यतः- स्मर्तारो वयमागमस्य न पुनः कर्तु व्यवस्थां क्षमाः| क्रान्ते वर्त्मनि तैर्न भावगहने बुद्धिः प्रविश्यत्यलम्|| पारावारदृशः करामलकवत् पश्यन्ति भावान् सुखम्| ये तेषां रसना प्रयातु गदितुं यद्युक्तमत्रास्फुटम्|| २३||

Adhikarana dUShIviSham (24) · Śloka 24

जीर्णं विषग़्नौषधिभिर्हं वा दवाग्निवातातपशोषितं वा| स्वभावतो वा न गुणैः सुयुक्तं दूषीविषाख़्यां विषमभ्युपैति||२४||

🔊 Audio coming soon

दूषीविषलक्षणमाह-जीर्णमिति| तदेव च विषं जीर्णत्वादिगुणयुक्तं सत् दूषीविषाख्यामभ्युपैति| दूषीविषमिति नाम प्राप्नोति| जीर्णं चिरकालातीतम्| अथवा विषघ्नाभिरौषधीभिः संयोगादिना हतशक्तिः| अथवा दवादिभिः शोषितम्| दवो वनदहनः| अथवा स्वभावादेवात्मीयैस्तीक्ष्णादिभिर्गुणैः सुयुक्तं यन्न भवतीति| (विषघ्नाभिरोषधीभिः शिरीषादिविषहरद्रव्यैः| वाशब्दस्यान्तरान्तरा प्रयोगः प्रत्येकं दूषीविषकारणत्वज्ञापनार्थः| अत्र विषस्याविशेषकथनात् स्थावरजङ्गमात्मकं सर्वमपि विषं दूषी विषाख्यां दूषीविषसंज्ञामभ्युपैति प्राप्नोति)|| २४||

Adhikarana dUShIviShasyAvibhAvyAtA (25) · Śloka 25

वीर्याल्पभावादविभाव्यमेतत् कफावृतं वर्षगणानुबन्धि||२५||

🔊 Audio coming soon

एतच्च दूषीविषमुपयुक्तमपि देहे अल्पवीर्यत्वाद् विभाव्यमानं भवति| कफेन चावृतं सत् स्फुटमविभाव्यमानं वर्षगणमनुबध्नाति| (आविभाव्यमलक्ष्यम्| वर्षगणानुबन्धि अनेकसंवत्सरस्थायित्वात् इति शेषः)|| २५||

Adhikarana dUShIviShalakShaNAni (26) · Śloka 26

तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्त्तः| मूर्च्छन् वमन् गद्गदवाग्विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः||२६||

🔊 Audio coming soon

तेन च दूषीविषेणार्दितः पीडितो भिन्नपुरीषादिगुणो भवति| पुरीषं भिन्नमतिप्रवृत्तम्| वर्णात् भिन्नो वियुक्तः| दुष्योदरलिङ्गानि निदानोक्तानि तैर्जुष्टः सहितः| (तेन वपुष्यनेकसंवत्सरस्थेन दूषीविषेण| भिन्नवर्णो व्यक्तशुक्लरक्तादिवर्णः| दुष्टास्ररोगी दुष्टासृङ्निमित्तानेकरोगयुक्तः| तृषा अरोचकेन चार्त्तः पीडितः| वमन् सदा वमनयुक्तः| गद्गदवागस्पष्टवचनः| विमुह्यन् मोहमुपगतः| मोहं वैचित्यम्| दूष्योदरं सन्निपातोदरम्)|| २६||

Adhikarana AshayAdyanusAraM prabhAvaH (27) · Śloka 27

आमाशयस्थे कफवातरोगी पित्तशयस्थेऽनिलपित्तरोगी| भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः| स्थितं रसादिष्वथवा विचित्रान् करोति धातुप्रभवान् विकारान्||२७||

🔊 Audio coming soon

तस्य दूषीविषस्यान्तरधिष्ठानविशेषजनितं रोगविशेषं दर्शयति| यदा आमाशये विषं तिष्ठति तदा कफवाताभ्यां रोगा भवन्ति| यदा पित्ताशये तिष्ठति तदा अलिनपित्ताभ्यां रोगा भवन्ति| स नरो ध्वस्तशिरोरुहो ध्वस्ताङ्गश्च भवति यथा विलूनपक्षो विच्छिन्नपत्रो विहङ्गः पक्षी| अथवा कोष्ठद्धातुषु सङ्क्रान्तं विचित्रान् धातुप्रभवान् विकारान् करोति|| २७||

Adhikarana dUShIviShasyAnvarthatA (28) · Śloka 28

प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः| दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्||२८||

🔊 Audio coming soon

दूषीविषस्यान्वर्थतामाह-तच्च दूषीविषमिति नामतः स्मृतं यतस्तदेवं स्थितमपि प्राग्वातादिभिर्दुष्टं सद्धातून् दूषयतीति| (विषं प्राग्वातादिभिर्दुष्टं धातुन् रसादीन् दूषयते प्राग्वातः पुरोवातः| यतः अतोऽस्माद्धेतोर्दूषीविषमिति संज्ञितम्)|| २८||

Adhikarana sthAvaraviShavegAnAM lakShaNAni prathamavege lakShaNAni (29) · Śloka 29

स्थावरस्योपयुक्तस्य पूर्वे वेगेऽथ जायते| जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः||२९||

🔊 Audio coming soon

पूर्वं हि मुनिमतानुसारेण सामान्येन विषमुक्त्वैकीयमतेन ग्रन्थकृत् स्थावरविषस्य सप्तसु वेगेषु लक्षणं चिकित्सायै चिकीर्षुरिदमाह-स्थावरस्येत्यादि वम्यन्तं प्रथमे वेगे| (अथेत्यानन्तर्ये उपयुक्तस्य उपयोजितस्य अशितस्येत्यर्थः| स्थावरस्य स्थावरविषस्य पूर्वे प्रथमे वेगे जिह्वाश्यावत्वादिकं जायते| स्तम्भो गात्रस्तम्भः| मूर्च्छा मोहः| त्रासो भयाचिकितत्वम्| क्लम इन्दिर्यसादः| वमिर्वमनम्|| २९||

Adhikarana dvitIyavege lakShaNAni (30) · Śloka 30

द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदनाः| विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्||३०||

🔊 Audio coming soon

हृद्वेदनान्तं द्वितीये वेगे| (द्वितीये वेगे वेपथ्यादिकं लिङ्गम्| विषं चामाशयं प्राप्य हृद्यतिपीडां करोति| कण्ठे वेदना अन्नाभ्यवहारासहत्वादिकम्| चशब्दात् पूर्वोक्ता जिह्वाश्यावतादयश्च||३०||

Adhikarana tRutIyavege lakShaNAni (31) · Śloka 31

तालुशोषस्तृतीये तु शूलं चामाशये भृशम्| दुर्बले हरति शूने जायेते चास्य लोचने||३१||

🔊 Audio coming soon

शूने लोचन इत्यन्तं तृतीये| (तृतीये विषवेगे तुशब्दो विशेषद्योतकः| आमाशये भृशमतिशयेन शूलं आमाशये भृशमित्युक्तत्वात् पक्वाशयेऽपि शूलं द्योत्यते| चशब्देन पूर्वोक्तानां ग्रहणम्| अस्योपयुक्तविषस्य पुरुषस्य लोचने नेत्रे दुर्बले बलहीने दर्शनासमर्थ इत्यर्थः| हरिते हरितवर्णे| शूने शोफयुक्ते जायेते)|| ३१||

Adhikarana caturthavege lakShaNAni (32) · Śloka 32

पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्| चतुर्थे जायते वेगे शिरसश्चातिगौरवम्||३२||

🔊 Audio coming soon

चतुर्थे वेगे पक्वाशयगते सति विषे तोदादिकं शिरसश्चातिगौरवं जायते| (चशब्देनान्याङ्गेष्वपि गौरवं द्योत्यते| पूर्वोक्तसमुच्चयार्थश्चशब्दः)|| ३२||

Adhikarana pa~jcamavege lakShaNAni (33) · Śloka 33

कफप्रसेको वैवर्ण्य पर्वभेदश्च पञ्चमे| सर्वदोषप्रकोपश्च पक्वाधाने च वेदना||३३||

🔊 Audio coming soon

कफप्रसेकादि पक्वाधानवेदनान्तं पञ्चमे| (अत्र पूर्वचकारः पूर्वोक्तानां समुच्चयार्थः)|| ३३||

Adhikarana ShaShThavege lakShaNAni (34) · Śloka 34

षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते||३४||

🔊 Audio coming soon

संज्ञाप्रणाशोऽतिसारश्च षष्ठे| (संज्ञाप्रणाशश्चेतनानाशः| चशब्दः पूर्ववत्)|| ३४||

Adhikarana saptamavege lakShaNAni (35) · Śloka 35

स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे||३५||

🔊 Audio coming soon

स्कन्धादिभङ्गो मृत्युश्च सप्तमे| इति सप्तवेगाः|| ३५||

Adhikarana sthAvaraviShavegAnAM cikitsA prathamaviShavege cikitsA (36) · Śloka 36

प्रथमे विषवेगेऽथ वान्तं शीताम्बुसेचितम्| सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद् द्रुतम्||३६||

🔊 Audio coming soon

विषवेगलक्षणमुक्त्वानन्तरन्तच्चिकित्सामाह-प्रथम इत्यादिना| सप्तसु वेगेषु क्रमेण चिकित्सा| प्रथमे विषवेगे पूर्वं वमनं ततः शीताम्बुसेकस्ततो दोषाद्यपेक्षमन्यतममगदं सर्पिर्मधुभ्यां संयुक्तं द्रुतं पाययेत्| (अथशब्दः प्रकरणान्तरद्योतनार्थः| प्रथमे जिह्वाश्यावतादिलक्षणलक्षिते विषवेगे वमितं शीताम्बुना परिषिक्तगात्रमातुरं घृतमाक्षिकोपेतमगदं विषघ्नौषधमाश्वेव पाययेत् भिषगिति शेषः)|| ३६||

Adhikarana dvitIyavege cikitsA (37) · Śloka 37

द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्||३७||

🔊 Audio coming soon

द्वितीयादिषु सुबोधम्| पूर्ववदिति सूत्रोक्तप्रकारेण| अनुपाययेदिति प्रकरणादन्यतममगदम्| (द्वितीये विषवेगे वमनविरेचनान्तरं पूर्ववत् प्रथमवेगवत् अगदं पाययेत्| पूर्ववदित्युक्तत्वात् शीताम्बुपरिषेकघृतमधूपेतत्वादिकं द्योत्यते)|| ३७||

Adhikarana tRutIyavege cikitsA (38) · Śloka 38

तृतीयेऽगदपानं च हितं नस्यं तथाऽञ्जनम्||३८||

🔊 Audio coming soon

तृतीये वेगे अगदपानादिकं हितम्|| ३८||

Adhikarana caturthavege cikitsA (39) · Śloka 39

चतुर्थे स्नेहसंयुक्तमगदं प्रतिभोजयेत्||३९||

🔊 Audio coming soon

चतुर्थे वेगे स्नेहान्वितमगदं प्रतिभोजयेत्| स्नेहस्याविशेषकथनान्महास्नेह इत्यर्थः|| ३९||

Adhikarana pa~jcamavege cikitsA (40) · Śloka 40

पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्||४०||

🔊 Audio coming soon

पञ्चमे वेगे मधुकक्वाथमाक्षिकान्वितमगदं पिबेदातुर इति शेषः||४०||

Adhikarana ShaShThavege cikitsA (41) · Śloka 41

षष्ठेऽतिसारवत् सिद्धिः..........................||४१||

🔊 Audio coming soon

षष्ठे विषवेगे अतिसारतुल्या चिकित्सा हिता|| ४१||

Adhikarana saptamavege cikitsA (42) · Śloka 42

..............................अवपीडस्तु सप्तमे| मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्||४२||

🔊 Audio coming soon

अवपीडः कल्कादि नस्यम्| अथवा सप्तमे वेगे मूर्ध्नि शिरसि तालुप्रदेशस्य काकपदं काकपदमुद्राकृतिं शस्त्रच्छेदं कृत्वा अन्यप्राणिसम्बन्धि पिशितं सास्रं रक्तसहितं क्षिपेत्| (सप्तमे वेगे तुशब्देनास्यापि चिकित्सितव्यत्वं द्योत्यते| अवपीडः रोगानुत्पादनीयोक्तो घृतपानमात्राविशेषः| मूर्ध्नि शिरसि काकपदं कृत्वा काकपदाकारेण छित्वा अन्यजन्तूनां सरक्तं मांसं विषसङ्क्रमणप्रकारं चोक्तमालम्बायनेन- मूर्ध्नि काकपदं चास्य मुण्डिते त्वथ कारयेत्| मांसं सशोणितं सद्यस्तस्मिन् काकपदे न्यसेत्|| विषसङ्क्रमणान्ते तत्परमांसं परित्यजेत्| ऊर्ध्वमुत्क्रममाणं तु विषं मूर्ध्नि प्रतिष्ठति| निवर्तमानं तं हन्ति तस्मात्सङ्क्रामयेद्विषम्|| इति)|| ४२||

Adhikarana viShaghnI yavAgUH (43) · Śloka 43

कोशातक्यग्निकः पाठा सूर्यवल्ल्यमृताभयाः| शेलुः शिरीषः किणिही हरिद्रे क्षुद्रसाह्वया| पुनर्नवे त्रिकटुकं बृहत्यौ शारिवे बले| एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकाम्| युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः||४३||

🔊 Audio coming soon

विषघ्नीं पेयामाह-वेगान्तरे उक्तलक्षणे कोषातक्यादीनांनिर्यूहे क्वाथे कृतां शीतां सघृतमाक्षिकां यवागूं कृतकर्मणो विहितवमनादिकस्य सतो युञ्ज्यात्| सा हि सर्वविषघ्नी| अग्निकश्चित्रकः भल्लातकं च| सूर्यवल्ली अर्कः शेलुः श्लेष्मातकः| किणिही कटभी| क्षौद्रसह्वया माक्षिकधातुः| (प्रकृताद्वेगादन्यो वेगो वेगान्तरम्| कोशातक्यादीनां क्वाथे षडङ्गकल्पनाकल्पिते कृतं यवागूमिति निबन्धसंग्रहे| कोषातकी घोषकः| अग्निकोऽजमोदः| मोरट इत्यन्ये| सूर्यवल्ली पटोलसदृशपत्रा; यस्याः पत्ररसेनाक्तं मांसं स्विन्नमिव भवति| कृतकर्मणः कृतवमनादिकस्य कोशातक्यादीनां निर्यूहे क्वाथे कृतां शीतां स्पर्शशीतलां घृतमाक्षिकोपेतां सर्वविषहरां यवागूं वेगान्तरे योजयेत्| कोशातकी (पुट्टल्पीरम्) अग्निकोऽग्निमन्थः| सूर्यवल्ली (वेम्बाड), करवीरमिति केचित्| किणिही (किलुक्किलुप्प) क्षौद्रसाह्वया (मक्कीरकल्ल) इति कोलभाषा)|| ४३||

Adhikarana aparA yavAgUH (44) · Śloka 44

तद्वन्मधूकमधुकपद्मकेसरचन्दनैः||४४||

🔊 Audio coming soon

मधुकादिभिस्तद्वदिति कोशातक्यादिविधानेन यवागूम्| (मधूकादीनां निर्यूहे कृता यवागूस्तत्तुल्यगुणा| मधूकादि सुबोधम्)||४४||

Adhikarana agadAnAM prayogaH (45) · Śloka 45

अगदान् वक्ष्यते चातः सिद्धान् पूर्वर्षिनिर्मितान्| सर्वेषु सर्वावस्थेषु ये विषेषु परं हिताः||४५||

🔊 Audio coming soon

अतोऽनन्तरं पूर्वर्षिनिर्मितान् दुष्टफलानगादान् वक्ष्यते| ये अगदाः सर्वेषु विषेषु सर्वावस्थेषु परमत्यर्थं हिताः|| ४५||

Adhikarana sa~jjIvano agadaH (46) · Śloka 46

चन्दनं कुङ्कुमं कुष्ठं काङ्क्षी लाक्षा प्रियङ्गवः| मुस्तस्थौणेयशैलेयरोचना मदनप्लवम्| श्रीवेष्टकविडङ्गैला विशालालमनश्शिलाः| सुरसप्रसवस्पृक्का रजनीद्वयवालकम्| हिङ्गुसिद्धार्थकाः पद्मचारिणी पद्मकेसरम्| जात्याः पुष्पं प्रवालश्च पुष्पमर्कशिरीषयोः| द्विरोध्रबृहती कौन्ती मधुकं गन्धनाकुली| मुद्गपर्णी कणा श्यामा ध्यामकं नलदं नतम्| सिन्दुवारकशक्याकदेवदारुमयूरकम्| पुष्ये समाहृतैः पिष्टैर्योज्यस्तैरगदोत्तमः| सञ्जीवनः प्रागमृताद्विहितोऽयं स्वयम्भुवा| पाननस्यञ्जनाघ्राणधूमालेपनधारणैः| जीवनो विषसुप्तानां राजद्वारे जयावहः| धन्यो धान्यधनायुःश्रीक्षेमपुष्टिसुखप्रदः| गृहे स्थितो विषालक्ष्मीमन्त्रज्वरगरग्रहान्| कृत्याकार्मणकाखोर्दव्यालजन्तुसरीसृपान्| स्वप्नोपघातदुः स्वप्नतोयाग्निरिपुतस्करान्| निहन्त्यकालमरणमारकाशानिविग्रहान्||४६||

🔊 Audio coming soon

चन्दनकुङ्कुमादिभिः पुष्पदिने समाहृतैः सञ्जीवनो नामागदः संयोज्यः| अयमगदोऽमृतात्पूर्वमुत्पन्नोऽमृततुल्यकार्यकरः स्वयम्भुवा ब्रह्मणा विहितः| स्थौणेयः कृतबर्हाख्यः| प्ल्वं परिपेलवम्| सुरसस्य प्रसवमङ्कुरः| पुष्पं प्रवालश्च जात्याः| प्रवालः किसलयम्| श्यामा प्रियङ्गुः| नलदं मांसी| नतं तगरम्| शम्याक आरग्वधः| मय़ुरकोऽपामार्गः| एष च सञ्जीवनः पानादिभिर्ज्जीवनादिगुणो धान्यादिप्रदश्च| गृहे स्थितो विषादीन् हन्ति| धन्यो मङ्गल्यः| मन्त्रोऽन्येनाभिचारप्रयुक्तः| कृत्या अभिचारदेवता| काऱ्मणं वशीकरणम्| काखोर्द्दो नाम भूतविशेषः| जन्तवः कृमयः| सरीसृपः सर्पादयः| स्वप्नोपघातः स्वप्ने भयङ्करैरभिभवः| दुःस्वप्नं शारीरोक्तम्| विग्रहो द्वन्द्वः|| ४६||

Adhikarana yApano agadaH (47) · Śloka 47

चन्दनं वालकं मुस्तं ध्यामकं कटुका नतम्| दाडिमं कुङ्कुमं शुण्ठी कपित्थं वत्सलाफलम्| करञ्जबीजं मरिचमुत्पलं कमलं दलम्| नलमूलमपामार्गं करवीरकमञ्जनम्| लाक्षामालत्यहिच्छत्र नागपुष्पाम्लवेतसम्| विषालारोचनाश्यामा शङ्खपुष्पीप्रियङ्गुका| अजाजीसारिवाकुष्ठमजमोदः कुरण्डकः| वयस्था सिन्दुवारैला कायस्था चारटी वचा| कर्कटी पूतना केशी श्वेता च गिरिकर्णिका| गोलोमी सिंहलोमी च वर्षाभुर्गजपिप्पली| अगदो यापनाख्योऽयं पूर्वेण सदृशो गुणैः||४७||

🔊 Audio coming soon

चन्दनादिभिः पञ्चभिः श्लोकैर्यापनाख्य अगदः पूर्वेण सञ्जीवनेन गुणैः सदृशः| ध्यामकं श्यामकम्| कत्तृणमिति केचित्| वत्सकात्फलमिन्द्रयवः| दलं गन्धपत्रम्| अहिच्छत्रं कवकम्| तदेव भूस्फोटम्| छत्राकारमेतत् (कूण्ण-इति भाषा)| श्यामा पिप्पली| शङ्खपुष्पी वीरटिः| कुरण्डकं पीताम्लायनकम्| वय-स्था आमलकम्| कायस्था हरीतकी| चारटी स्थोणेयम्| कर्कटी बिल्वम्| पूतना मांसी| केशी निर्गुण्डी| गोलोमी दूर्वा| वासक इति च| सिंहलोमी (नि) सुरसा च सुपत्रा च बहुपुत्री च तक्रला| वर्षाभूः पुनर्नवा|| ४७||

Adhikarana sUryodayo agadaH (48) · Śloka 48

श्रीवेष्टकं हरिद्रे द्वे कोविदारं मनश्शिलाम्| पिप्पलीं पाटली पद्मां श्वेताञ्च गिरिकर्णिकाम्| मञ्जिष्ठां बृहती वक्रं यष्टी मरिचकेसरम्| फलिनीं किणिहीं चेति गवां पित्तेन भावयेत्| सूर्योदयो हन्ति विषं तमः सूर्योदयो यथा||४८||

🔊 Audio coming soon

श्रीवेष्टकादिभिर्गोपित्तपिष्टैः सूर्योदयनामाऽगदो विषं हन्ति यथा सूर्योदयस्तमोऽन्धकारम्| श्रीवेष्टकः श्रीवासकः श्वेता गिरिकर्णिका कटभी| वक्रं तगरम्| केसरं नागकेसरम्| फलिनी प्रियङ्गुः| किणिही गिरिकर्णिका|| ४८||

Adhikarana apare agadAH (49) · Śloka 49

निम्बपत्रं गृहाद्धूमं फाणितं बृहतीफलम्| गोपित्तयुक्तमगदः परमं मृतजीवनः| गोपित्तकुष्ठसुरसमधुकद्विनिशं तथा| विशालारजनीकुष्ठश्वपित्तव्योषतुम्बरुः| वचाशिरीषपञ्चाङ्गी मृतसञ्जीवनोऽगदः| पञ्चाङ्गानि शिरीषस्य श्वपित्तञ्च वरोऽगदः| प्रियङ्गुतगरं लाक्षा मञ्जिष्ठा मधुकं मधु| हरिद्रा चेत्ययं श्रेष्ठः कौटल्यदयितोऽगदः| विसंज्ञानां विषैर्घोरैः प्रहारैर्नष्टचेतसाम्| उद्बन्धानां जलौघे च मृतानां चेतनावहः| शिरीषफलकाकाण्डसुरसाग्रपुनर्नवैः| कक्ष्यावायसिसंयुक्तैरगदः पूर्ववद्गुणैः| कटुकालाबुमूलानि गवां पित्तेन कल्कयेत्| ब्राह्मो धार्योऽयमगदः सर्वकर्मसु पूजितः| अगारधूमस्त्रिवृता गोपित्तं त्र्यूषणं वचा| प्राजापत्योऽयमगदः सर्वरक्षो विषापहः| श्वेतपुष्करतुल्यांशैर्जीवन्त्या कुसुमैः कृतः| रुक्मपिटो मणिर्द्धार्यश्चाणक्येष्टो विषापहः| मंसीत्वक्पत्रसुरसमनोह्वा शीतकुङ्कुमम्| निशा व्याघ्रनखं शुण्ठी दशाङ्गोऽयं विषापहः| उत्पातगण्डपिटकादिग्धविद्धविषापहः| उदुम्बरत्वग्जम्ब्वस्थिमधुकोत्पलगैरिकैः| चन्दनोशीरनलदनागकेसरपद्मकैः| विशेषाद्विषविस्फोटविसर्पज्वरदाहहा| शिरीषोदुम्बरप्लक्षन्यग्रोधाश्वत्थवल्कलैः| सघृतो दाहतृष्णास्रविषवीसर्पपित्तहा| गजपिप्पलिकासीसक्षारयष्टीमयूरकम्| रक्ता नतं वचा दन्ती शिवः शिवकृतोऽगदः| सुरालापावकीसोमाभोगवत्यमृतानतम्| आढकीकिणिहीसोमराजी चौशनसोऽगदः| श्लेष्मातकार्ककुसुमं तण्डुलीयो मयूरकः| सुरसामञ्जरी काकमाची पानेऽगदो वरः||४९||

🔊 Audio coming soon

निम्बपत्रगोपित्तविशालापञ्चाङ्गानीत्यादयः सुबोधः| (गोपित्तं गोरोचनेति सुश्रुतटीका)| तथेति परमं मृतजीवनः| शिरीषपञ्चाङ्गानि पत्रपुष्पफलत्वङ्मूलानि| वरः श्रेष्ठा| प्रियङ्ग्वादिरयमगदः श्रेष्ठः| यः कौटिल्यस्य दयितः विसंज्ञादीनां चेतनावहश्च| शिरीषफलादिभिरगदो गुणैः पूर्ववत् प्रियङ्ग्वादिवद्विज्ञेयः| सुरसाग्रं तुलसीकुसुमम्| कक्ष्या वायसी काकोदुम्बरिका| कटुकालाबुमूलानि गोपित्तेन कल्कयेत्| ब्राह्मोऽयमगदो मणिवाद्धार्यः| सर्वकर्मस्वभीष्टेषु पूजितः श्रेष्ठः| (कटुकालाबु घेच्चुरः)| अगारधूमादिभिः प्राजापत्यो नामागदः सुबोधः| श्वेतपद्मं जीवन्तीकुसुमं च समभागं कृत्वा रुक्मेन सुवर्णेन पेषयेदयं मणिश्चाणक्यस्य कौटिल्यस्य विषापह इष्टः| मांस्यादिभिर्दशाङ्गो नामागदो विषापहः| विशेषत उत्पाताद्यापहश्च| शीतं चन्दनम्| उदुम्बरत्वगादिभिरगदो विशेषाद्विषविस्फोटादिहा| शिरीषादिवल्कलैः सघृतोऽगदो दाहादिहा| गजपिप्पल्यादिभिर्भगवता शिवेन कृतोऽगदः| शिवः श्रेयष्करः| मयूरकमपामार्गः रक्ता| गुञ्जा| नतं तगरम्| सुरालादिभिरौशनसोऽगदः| सुराला (नि)- सुलक्षणा सुरालाख्या ज्ञेया पुत्रवती परा| पूजा वृद्धाकरी ज्ञेया पत्रपुष्पफलैः शुभा| पावकी (नि)- क्षुरधारा पावकाख्या ज्ञेया सस्यवतीति च| वीरणी वीरगुच्छोक्ता सैवारुणवचा मता|| सोमा ब्राह्मी चन्द्रतरुर्वा| भोगवती समङ्गा| किणिही कटभी| श्लेष्मातकादिभिरगदः पाने वरः श्रेष्ठः| (सुरसा निर्गुण्डी| मञ्जरी तुलसी)|| ४९||

Adhikarana dadhyAdikaM mUlaviShaghnam (50) · Śloka 50

दध्याज्याक्षौद्रलवणं पीतं मूलविषापहम्||५०||

🔊 Audio coming soon

दध्यादिकं संयोज्य पीतं मूलविषापहं भवति|| ५०||

Adhikarana haridrAdiyogaH (51) · Śloka 51

हरिद्रासैन्धवक्षौद्रघृतं संसृज्य पाययेत्| आर्त्तान् मूलविषैर्घोरैर्दिग्धविद्धान् विशेषतः||५१||

🔊 Audio coming soon

घोरैर्मूलविषैरार्त्तान् हरिद्रादीनि संसृज्य पाययेत्| विषदिग्धशस्त्रविद्धान् विशेषेण पाययेत्|| ५१||

Adhikarana nishAyAH antarbahiH prayogaH (52) · Śloka 52

हरिद्रान्तर्बहिः शस्ता विषदोषातुरे परम्||५२||

🔊 Audio coming soon

विषदोषैरातुरे पुरुषे अन्तःपानादिना बहिश्च लेपादिना हरिद्रैव परं शस्ता|| ५२||

Adhikarana nishAdya~jjanam (53) · Śloka 53

निशाश्वमारसुरसकरञ्जव्योषदारुभिः| अञ्जनं बस्त्रमूत्रेण पिष्टैर्नेत्रोपरोधजित्||५३||

🔊 Audio coming soon

निशादिभिर्वस्तमूत्रपिष्टैरञ्जनं विषातुरे नेत्रोपरोधजिद् भवति||५३||

Adhikarana bIjapUrAdya~jjanam (54) · Śloka 54

कर्णाक्षिनासिकाकण्ठजिह्वारोगेषु नावनम्| बीजपूरार्यबृहतीफलज्योतिष्मतीकृतम्||५४||

🔊 Audio coming soon

बीजपूरादिकृतं नावनं विषातुरे कर्णादिरोगेषु योज्यमिति शेषः| आर्युबृहती स्थूलफला कण्टकारिका तस्याः फलानि|| ५४||

Adhikarana gandhahastI agadaH (55) · Śloka 55

श्वेत वचा हिङ्वमृता सुगन्धा कुष्ठसैन्धवम्| शिरीषपुष्पद्विनिशाव्योषटुण्टुकसर्षपाः| कपित्थमध्यं लशुनं करञ्जो वंशलेखनम्| पिष्ट्वा गोबस्तमूत्रेण तत्पित्तेनैव भावयेत्| दिनानि सप्त व्यत्यासाद्विनिहन्ति ततोऽञ्जनात्| विषं शिरस्थं मूर्द्धार्त्तिज्वराजीर्णाविषूचिकाः| अपस्मारग्रहोन्मादपाण्डुमेहमदात्ययान्| शुष्कनेत्रामयशिरोरोगपैल्लगणार्बुदान्| काचान्धकारपटलकण्डूदौर्बल्यपक्ष्मणः| लेपात् पीतक्षतालीढदष्टदिघ्दविषं जयेत्| श्वित्रं कृच्छ्राणि कुष्ठानि दुष्टनाडीमहाव्रणान्| आनाहार्शो गुदे लेपाल्ललाटे दुष्टपीनसम्| योनिलेपेन नारीणां मूढगर्भानुलोमनः| उन्मूलयत्येष विषं गन्धहस्तीव काननम्||५५||

🔊 Audio coming soon

श्वेतादिकं गोबस्तमूत्रेण पिष्टं संशोष्य सप्तदिनानि तत्पित्तेन गोबस्तपित्तेन व्यत्यासात् पर्यायेण भावयेत्| पुनर्गोपित्तेन पुनर्बस्तपित्तेनेत्यर्थः| ततोऽनन्तरमञ्जनेन शिरःस्थं विषं मूर्द्धार्त्यादींश्च विनिहन्ति| शुष्कनेत्रामयः शुष्काक्षिपाकः| अन्धकारं तिमिरम्| लेपात् पीतविषं क्षतविषमालीढविषं दष्टविषं दिग्धविषं च जयेत्| क्षतविषादीनां लक्षणं वक्ष्यति| श्वित्रपीडादींश्च लेपात् जयेत्| गुदे लेपादानाहमर्शश्च| ललाटलेपाद्दुष्टपीनसम्| एष चागदो नारीणां योनिलेपनेन मूढगर्भानुलोमनः| एष च विषमुन्मूलयति यथा गन्धहस्ती वनम्| (श्वेता श्वेतवचा| सुगन्धा गन्धनाकुली| टुण्टुकः स्योनाकः| वंशलेखनं वंशत्वक्)||५५||

Adhikarana ajito~agadaH (56) · Śloka 56

विडङ्गपाठा त्रिफलाजमोदा हिङ्ग्वग्निवक्रं लवणस्य वर्गः| व्योषान्वितं स्थावरजङ्गमानां जेता विषाणामगदोऽजिताख्यः||५६||

🔊 Audio coming soon

विडङ्गादिभिरजितनामागदः स्थावराणां जङ्गमानां च विषाणां जेता| लवणवर्गः सूत्रोक्तः|| ५६||

Adhikarana bAlasUryo~agadaH (57) · Śloka 57

मनोह्वा रोचना चण्डा त्वगेलासितसर्षपैः| स्पृक्काहिङ्गुलकाश्मीरकान्ताभिः कल्कितोऽगदः| विषघ्नो बालसूर्योऽयं श्रीरक्षाविजयर्द्धिदः||५७||

🔊 Audio coming soon

मनोह्वादिभिः कल्कितोऽगदो नाम्ना बालसूर्यो विषघ्नः श्र्यादिप्रदश्च| मनोह्वा मनश्शिला| चण्डा चोरकम्| काश्मीरं कुङ्कुमम्| कान्ता प्रियङ्गुः|| ५७||

Adhikarana mAheshvaro yogaH (58) · Śloka 58

अजगन्धा सगोमूत्रा गृहधूमः सगुग्गुलुः| एष माहेश्वरो योगो न क्वचित् प्रतिहन्यते||५८||

🔊 Audio coming soon

अजगन्धादिभिर्माहेश्वरो योगः सुबोधः| अश्वगन्धा सगोमूत्रा इति च पाठः|| ५८||

Adhikarana digdhaviddhalakShaNAni (59) · Śloka 59

विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः| विवर्णभावं भजते विषादं चाशु गच्छति| कीटैरिवावृतं चास्य गात्रं चिमिचिमायते| श्रोणिपृष्ठशिरः स्कन्धसन्धयः स्युः सवेदनाः| कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्| दुष्टिकालुष्यवमथुश्वासकासकरः क्षणात्| आरक्तपीतपर्यन्तः श्यावमध्योऽतिरुग्व्रणः| शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्| प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्||५९||

🔊 Audio coming soon

विषदिग्धास्त्रविद्धस्य लक्षणमाह-प्रताम्यति मुहुर्मुहुरित्यादिकं विषदिग्धेन विद्धस्य लक्षणम्| तत्र व्रणः क्षणात् दृष्टिकालुष्यादिकर इति सम्बन्धः| आरक्ता ईषल्लोहिताः पर्यन्ता यस्मिन् व्रणे स तथोक्तः| शूयत इति व्रणविशेषणम्| (विषदिग्धेन शस्त्रेण विद्धो नरस्तु मुहुर्मुहुः पुनः पुनः प्रताम्यति ग्लानिं प्राप्नोति विवर्णभावंम् वैवर्ण्यं भजते| आश्वेव विषादं गच्छति| चशब्दः समुच्चये| अस्य विषदिग्धाहतस्य शरीरं कीटैः कृमिभिराचितं व्याप्तमिव चिमिचिमायते चिमिचिमावदाचरति| अणुप्राणि परिसर्पणप्रतीतिश्चिमिचिमा| अस्य श्रोण्यादि नाना वेदनाऽन्विता भवन्ति| व्रणः कृष्णं दुष्टं चास्रं सदा स्रवति| तृडादियुक्तश्च भवति| मूर्च्छा वैचित्यम्| क्षणेन दृष्टिकालुष्यादिकरो भवति| वेधव्रण ईषद्रक्तपीतवर्णपर्यन्तः श्यावर्णमध्यः शोफं प्राप्नोति| सहसा पाकं च प्राप्नोति| तद्गतं मांसं काऱ्र्ष्ण्यमासाद्य अतिशयेन क्लिन्नं सत् पैच्छिल्ययुक्तपूयस्रावोपेतमनवरतं शीर्यते| चशब्दः समुच्चयार्थः)|| ५९||

Adhikarana digdhaviddhacikitsA (60) · Śloka 60

कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्| शल्यमाकृष्य तप्तेन लोहेनानु दहेद् व्रणम्| अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः| शिरीषाद्गृध्रनख्याश्च क्षारेण प्रतिसारयेत्| शुकनासाप्रतिविषाव्याघ्ऱीमूलैश्च लेपयेत्| पीतदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः| व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्||६०||

🔊 Audio coming soon

किर्यादित्यादिना दिग्धविद्धस्य चिकित्सा-अमर्मणि विद्धस्याशु हृदयवरणं कुर्यात्| हृदयावरणं तत् येन पीतेन हृदय प्राप्तेन विषमभिभवितुं न शक्नोति तच्च वक्ष्यते| व्रणाच्च विषदिग्धं शल्यमाकृष्यानु पश्चात्तप्तेन शस्त्रेण व्रणं दहेत्| (अमर्मविद्धस्य मर्मवेधस्यासाध्यत्वान्मर्मरहितप्रदेशे विद्धस्य द्रुतमाश्वेव हृदयावरणं घृतपानेन हृदयाच्छादनं कुर्यात् भिषगिति शेषः)| हृदयस्य सर्वधातुमूलत्वादाहारमार्गत्वात् प्रधानमर्मत्वाच्च तस्मिन् विषघ्नघृतादिभिः प्रच्छादिते सति विषं सहसा नातिविसर्पति| उक्तं चालम्बायनेन- याः सिराः सर्वगात्रेषु हृदये सम्प्रतिष्ठिताः| ताभिरस्य विषं सर्वं हृदयं सम्प्रधावति|| घृतेन तु प्रतिच्छन्नं विषं नाति प्रपीडयेत्| निर्वाणजननं सर्पिः प्राणिनां प्राणवर्द्धनम्|| हृदयावरणास्तद्वद्भक्ष्या भोज्याश्च सागदाः|| इति| अनु हृदयावरणादनन्तरं शल्यं विषदिग्धशिलीमुखादिकं सूत्रोदितेन विधिनाऽहृत्य अग्निना तप्तेन लोहमयेन जाम्ब्वोष्ठादिना वेधव्रणं दहेत्| अथवा नैव दहेदपि तु मुष्ककादीनां क्षारेण प्रतिसारयेत्| शुकनासादिभिर्व्रणं लेपयेत्| (अथवा अदाहे यस्य चेत् मुष्ककादिभवेन क्षारेण व्रणं प्रतिसारयेत्| मुष्ककः कालमुष्ककः| श्वेता श्वेतवचा| सोमात्वक् कट्फलत्वक्| ताम्रवल्ली (चोम्बुल्लिर्कोडि) शिरीषं प्रसिद्धं लोके| गृध्रनखी (कार्तोट्टि) विरलेति पाठ्यकारः| पिष्टैः शुकनासादिभिर्वेधव्रणं लेपयेच्च| शुकनासा स्योनाकः| प्रतिविषाऽतिविषा| व्याघ्री बृहती)| तस्य विषदिग्धशस्त्रविद्धस्य पीतदष्टविषाद्यपेक्षया योजयेत्| सुबोधम्| पूतिपिशिते क्लिन्नमांसे| (तस्य विषदिग्धशस्त्रविद्धस्य पीतदष्टचिकित्सां पीतचिकित्सां विषपीताय सूत्रोदितां वमनादिकां दष्टचिकित्सामुपरि वक्ष्यमाणां सर्पादिदुष्टक्रियां च कुर्यात्| व्रणे विद्धव्रणे पूतिपिशिते दुर्गन्धयुक्तामिषे सति तुशब्देन दुष्टीभूतेऽपि कारणविशेषात् शीतोपचार एव कर्त्तव्य इति द्योत्यते| पित्तविसर्पवत् पित्तविसर्प इव शतधौतघृताप्लुतन्यग्रोधगणाद्यालेपनादिका क्रिया चिकित्सा कार्येति शेषः)|| ६०||

Adhikarana garAkhyaM kRutrimaM viSham (61) · Śloka 61

सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वारातिचोदिताः| गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः||६१||

🔊 Audio coming soon

इत्यकृत्रिममुक्त्वा क्रमप्राप्तं कृत्रिमं निर्णेतुमाह-सौभाग्यार्थं भर्त्रेराहारसम्प्रयुक्तं गरं स्त्रियो यच्छन्ति ददति| राज्ञे चासन्नवर्तिनो यच्छन्ति किम्भूता अरातिचोदिताः राजशत्रुप्रयुक्ताः| (स्त्रियः सौभाग्यार्थं भर्त्रे आसन्नवर्तिनः अरातिचोदिताः वैरिजनप्रेरिताः राज्ञे नृपाय वाशब्दो विकल्पार्थः| गरं वक्ष्यमाणविशेषविषं आहार सम्पृक्तं आहोरेण संयुक्तं आहारशब्देनाद्यमानं सकलमपि वस्तुजातं गृह्यते| यच्छन्ति प्रयच्छन्ति)|| ६१||

Adhikarana 'gara'nirvacanam (62) · Śloka 62

नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्| विषाणाञ्चाल्पवीर्याणां योगो गर इति स्मृतः||६२||

🔊 Audio coming soon

ननु गरशब्देन किमुच्यत इत्याह-नानाविधप्राण्यङ्गशमलानां देहविरुद्धौषधिभस्मनामल्पवीर्याणां विषाणां च य एकत्र योगः स गर इति स्मृतः| (नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनां नानाविधप्राणिनामङ्गानामवयवानां शमलानां मूत्रपुरीषादिमलानां च अथवा नानाप्राणीनां अङ्गमलानां मनुष्यदेहमलानां च प्राणीनामेवाङ्गमलानां वा| विरुद्धौषधिभस्मनां विरुद्धवीर्यद्रव्यभस्मनां अल्पवीर्याणां वत्सनाभादि मन्दवीर्याणां विषद्रव्याणां च योगः एकीकरणं गर इति गरसंज्ञः स्मृतः मुनिभिरिति शेषः)|| ६२||

Adhikarana garaprayukte lakShaNAni (63) · Śloka 63

तेन पाण्डुः कृशोऽल्पाघ्निः कासश्वासज्वरार्दितः| वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः| महोदरयकृत्प्लीहो दीनवाग्दुर्बलोऽलसः| शोफवान् सतताध्मातः शुष्कपादकरः क्षयी| प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्| मन्यते कृष्णमात्मानं गौरो गौरं च कालकः| विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः| एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः| गरार्त्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः||६३||

🔊 Audio coming soon

गरोपयुक्तस्य लक्षणमाह-तेन गरेणोपयुक्तेन पुरुषः पाण्ड्वादिगुणो भवति| अर्द्दितशब्दस्य कासादिभिः सम्बन्धः| प्रतिलोमो वायुर्विपरीतवाही| महच्छब्दस्य प्लीहान्तैः सम्बन्धः स्वप्ने च गोमाय्वादीन् जलाशयान्तान् प्रायः पश्यति| यश्च स्वभावादेव गौरः स कृष्णमात्मानं मन्यते कालश्च गौरम्| तेन च गरण विहतेन्द्रियः सर्वं कर्णादिरहितं पश्यति| गरार्त्तश्च पुरुषः एतैरन्यैश्च घोरैर्बहुभिरुपद्रवैः क्लिष्टो नाशमाप्नोति| कश्च्त् सद्य एवाचिकित्सितः सन्|| ६३||

Adhikarana garacikitsAkramaH (64) · Śloka 64

गरार्त्तो वान्तवान्भुक्त्वा तत्पथ्यं पानभोजनम्| शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्||६४||

🔊 Audio coming soon

गरार्त्त इत्यादिना चिकित्सा| यो गरार्त्तः स प्रथममेव वान्तवान् गरे पथ्यं पानभोजनं भुक्त्वा शुद्धहृत् सन् हेम सुवर्णं सूत्रस्थानोक्तविधिना शीलयेत्| (गरार्त्तः गरपीडितो नरः वान्तवान् कृतवमनः तत्पथ्यां गरहितं पानभोजनं भुक्त्वा सूत्रस्थानविधेः स्मरन् अन्नसंरक्षायां विषपीताय दद्यादित्यादि सूत्रस्थानोक्तं निरूपयन् शुद्धहृत् सक्षौद्रताम्ररजसा शुद्धहृदयः हेम हेमचूर्णं शीलयेदभ्यसेत्)|| ६४||

Adhikarana sharkarAdilehaH (65) · Śloka 65

शर्कराक्षौद्रसंयुक्तश्चूर्णस्ताप्यसुवर्णयोः| लेहः प्रशमयत्युग्रं सर्वं योगकृतं विषम्||६५||

🔊 Audio coming soon

शर्करादिलेहः सुबोधः| ताप्यं माक्षिकधातुः| ताप्यसुवर्णयोश्चूर्णः शर्करया क्षौद्रेण च संयोजितो लेह उग्रमुत्कृष्टवीर्यं योगकृतं सर्वं विषं प्रशमयति नाशयति| अत्र सर्वशब्देन गरस्य नानात्वं द्योत्यते|| ६५||

Adhikarana mUrvAdicUrNam (66) · Śloka 66

मूर्वामृतानतकणापटोलीचव्यचित्रकान्| वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः| पिबेद्रसेन चाम्लेन गरोपहतपावकः||६६||

🔊 Audio coming soon

यस्य गरेण पावक उपहतः स मूर्वादिचूर्णं तक्रादिभिरम्लेन काञ्जिकाद्यम्लद्रव्येण मांसरसेन च पिबेत्|| ६६||

Adhikarana pArAvatAmiShAdiyogaH (67) · Śloka 67

पारावतामिषशटीपुष्कराह्वशृतं हिमम्| गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्||६७||

🔊 Audio coming soon

पारावतमांसादिकं रसविधानेन शृतं पक्वं पश्चाच्च हिमं गराद्यपहरम्| (पारावतामिषादिभिः शृतं अत्र श्रपणोकत्या द्रवद्रव्यत्वात्तोयमित्यर्थः)|| ६७||

Adhikarana shvAsakAsaghnayogau (68) · Śloka 68

वायसी श्वासकासघ्नी भृष्टाज्यत्रिफलारसे| भार्ङ्गीनागरनिर्यूहः शिशिरश्च समाक्षिकः||६८||

🔊 Audio coming soon

आज्यत्रिफलारसयोर्भृष्टा वायसी गरार्त्तस्य श्वासकासघ्नी| वायसी काकोदुम्बरिका| भार्ङ्गीनागरयोः क्वाथः शीतो माक्षिकयुक्तश्चशब्दाच्छ्वासकासघ्नः|| ६८||

Adhikarana hareNvAdilepanam (69) · Śloka 69

हरेणुचन्दनश्यामानलदं श्लक्ष्णपेषितम्| विलेपनं प्रयोक्तव्यं गरेणोपहतत्वचः||६९||

🔊 Audio coming soon

येषां गरेण त्वगुपहता तेषां हरेण्वादिकं श्लक्ष्णपिष्टं विलेपनं प्रयोक्तव्यम्|| ६९||

Adhikarana ma~jjiShThAtipragharShaNam (70) · Śloka 70

मञ्जिष्ठा किणिही निम्बरजन्यश्वत्थचन्दनैः| प्रघर्षणं कृशानां तु गरेण क्षपितौजसाम्||७०||

🔊 Audio coming soon

ये गरेण क्षपित्तौजसः कृशाश्च तेषां मञ्जिष्ठादिभिर्देहे प्रघर्षणं हितम्|| ७०||

Adhikarana shreShThaM pathyam (70) · Śloka 71

पथ्यं परममुद्दिष्टं शीलनं क्षीरसर्पिषोः||७१||

🔊 Audio coming soon

पथ्यमित्यादि गरे विज्ञेयम्|| ७०||

Adhikarana vRuShadisiddhaghRutAniA (72) · Śloka 72

वृषनिम्बपटोलीनां क्वाथेन विपचेत् घृतम्| अभयागर्भिणं श्रेष्ठं तत् गरस्य निबर्हणम्| हरिद्रां नाकुलीं जातीं पृथक्पिष्ट्वा विपाचयेत्| घृतत्रयं विषार्त्तानामेतदारोग्यदं परम्| तण्डुलीयकमूलेन गृहधूमेन चैकतः| क्षीरेण च घृतं सिद्धं समस्तविषरोगजित्| नागदन्ती त्रिवृद्दन्ती द्रवन्ती स्नुक्पयः पलैः| साधितं माहिषं सर्पिः सगोमूत्राढकं हितम्| सर्पकीटविषर्त्तानां गरार्त्तानां च शान्तये||७२||

🔊 Audio coming soon

वृषादिक्वाथे हरीतकीगर्भं घृतं पचेत्तद्घ्रुतं श्रेष्ठं गरनिबर्हणम्| हरिद्रादिकं पृथक्पिष्ट्वा घृतत्रयं विपाचयेत्| तेनैकं घृतं हरिद्रया द्वितीयं नाकुल्या तृतीयं जात्या| तण्डुलीयकमूलादावेकत इति मिश्रीकृत्य| नागदन्त्याद्यं सर्पिर्व्याख्यासमम्| शान्तये रोगोपशमाय||७२||

Adhikarana ajeyaM ghRutam (73) · Śloka 73

मधुकं तगरं कुष्ठं भद्रदारु हरेणवः| मञ्जिष्ठैलैलवालूनि नागपुष्पोत्पलं प्लवम्| विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं बला| अंशुमत्यौ हरिद्रे द्वे बृहत्यौ सारिवाद्वयम्| एषां कल्कैर्घृतं सिद्धमजेयं नाम विशृतम्| विषाणि हन्ति सर्वाणि शीघ्रमेव प्रयोजितम्||७३||

🔊 Audio coming soon

मधुकादिकल्कैरजेयं नाम घृतं सुबोधम्| प्लवं परिपेलवम्| पत्रं गन्धपत्रम्| ध्यामकं कत्तृणम्| अंशुमत्यौ सालपर्णीपृश्निपर्ण्यौ|| ७३||

Adhikarana amRutaM ghRutam (74) · Śloka 74

श्वेते कपोते बीजानि प्रत्यक्पुष्पीशिरीषयोः| गोमूत्रपिष्टैस्तैः सर्पिः सिद्धं विषहरं परम्| अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम्||७४||

🔊 Audio coming soon

श्वेतादिभिर्गोमूत्रपिष्टैः सर्पिः सिद्धं नाम्नाऽमृतं परं विषहरम्| मृतं सञ्जीवयेदिति सम्भाव्यते| श्वेते द्वे वचा कटभी च| प्रत्यक्पुष्पी शिरीषयोर्बीजानि| प्रत्यकपुष्य्पपामार्गः|| ७४||

Adhikarana shirIShatvagAdighRutam (75) · Śloka 75

शिरीषत्वक्त्रित्रकटुकं विदारी चन्दनोत्पलम्| द्वे बले सारिवास्फोतबृहतीनिम्बपल्लवाः| बन्धुजीवाढकीमूर्वावासासुरसवत्सकाः| पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकम्| विशाला बृहती लाक्षा कोविदारशतावरीः| कटभीदन्त्यपामार्गपृश्निपर्णीरसाञ्जनम्| श्वेतौ बाणाश्वखुरकौ कुष्ठदारुप्रिङ्गुकाः| सारं मधूकात्त्रिफलां करञ्जस्य फलं वचाम्| रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्| तुल्याम्बुछागगोमूत्रत्र्याढके तद्विषापहम्| अपस्मारक्षयोन्मादभूतग्रहगरोदरान्| पाण्डुरोगकृमिप्लीहगुल्मोरुस्तम्भकार्मिलाः| हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः| हन्ति सञ्जीवयति च विषोद्वन्धमृतान् नरान्||७५||

🔊 Audio coming soon

शिरीषत्वगादिकमक्षांशं पिष्ट्वा गोच्छागयोर्मूत्रात्त्र्याढके तुल्याम्बुघृताढकं साध्यम्| तत्पानादिभिर्विषापहमपस्मारादींश्च हन्ति| विषमृतानुद्बन्धमृतांश्च नरान् सञ्जीवयति| आस्फोतोऽर्कः| सुरभिः सल्लकी| बन्धुजीवो बन्धूकः| आढकी तुवरी| अङ्कोलः अङ्कोलकः| बाणोऽश्वखुरश्च श्वेतः| बाणः सहचरः| अश्वखुरो गिरिकर्णिका|| ७५||

Adhikarana haritAlaviShArttalakShaNaM cikitsA ca (76) · Śloka 76

भक्षिते हरिताले तु हृदि दाहो रसाग्रहः| आनाहोऽम्लस्य वमनं पीतहारिद्रविट्स्रुतिः| तथा मण्डलिसर्पोक्ता विकारास्तच्च भेषजम्| विभज्य योजयेदूर्ध्वमधः संशोधितं च तम्| अङ्कोलजालिनीबीजशुकनासाप्रियङ्गुकाः| लोध्रध्यामकतालीसनतयष्ट्याह्वगुग्गुलुः| ह्नीबेरं भद्रकाष्ठं च लेहयेन्मधुसर्पिषा| दद्यान्नकुलगोपित्तयुक्तं नस्येऽज्जने च तत्||७६||

🔊 Audio coming soon

भक्षित इत्यादिना हरितालादीनां क्षुद्रविषाणां निर्णयः| हरिताले भक्षिते हृद्व्यथादिकं भवति| मण्डलिसर्पभक्षिते च ये रोगा वक्ष्यमाणास्ते च भवन्ति| तत्र तदेव मण्डलिसर्पोक्तं भेषजमौषधं दोषादीन् विभज्य योजयेत्|| तं च हरितालभोजिनं ऊर्ध्वमधश्च वमनविरेचनाभ्यां संशोधितमङ्कोलादिकं मधुसर्पिषा सह लेहयेत्| तच्चाङ्कोलादिकं नकुलस्य गोश्च पित्तेन युक्तं नस्यऽञ्जने च दद्यात्| जालिनीबीजं गरागरीबीजम्| शुकनासा स्योनाकः| ध्यामकं सौगन्धिकम्| ह्नीबेरं वालकम्| भद्रकाष्ठं देवदारु| इति हरितालविषे|| ७६||

Adhikarana dhattUraviShArttalakShaNa~jcikitsA ca (77) · Śloka 77

धुर्धूरकोपयोगेन सर्वं पश्यति पीतकम्| कम्पलालामदच्छर्दिस्मृतिभ्रंशभ्रमान्वितः| तं वामयेत मधुरैः पाययेद्वा सितापयः||७७||

🔊 Audio coming soon

धुर्धूरकस्य धत्तूरस्योपयोगेन कम्पान्वितः सन् पुरुषः सर्वं पीतकं पश्यति| तमुपयुक्तधुर्धूरं मधुरैर्वामयेत्| शर्कराक्षीरं वा पाययेदिति धुर्धूरविषे|| ७७||

Adhikarana koradUShamadanakayorviShalakShaNaM cikitsA ca (78) · Śloka 78

कोरदूषैर्मदनकैः प्रायो धुर्धूरवद्गदाः| उन्मादोऽक्षिविनाशश्च तत्रापि वमनं हितम्| कूष्माण्डकं च सगुडं बहुशस्तत्र भक्षयेत्| नानाप्रकारैः संयोगैः कोद्रवा मदहेतवः| तान् विभज्य यथादोषं चिकित्सेदविरोधिभिः||७८||

🔊 Audio coming soon

कोरदूषैः कोद्रवैरुपयुक्तैस्तथा मदनकैः प्रायेण धुर्धूरवद् गदा भवन्ति| अत्र तु विशेषः उन्मादाक्षिनाशौ| व्याख्यासमम्| कोद्रवाः कोरदूषा नानाविधैः संयोगैर्मदहेतवो भवन्ति| तान् मदान् दोषादिभिर्विभज्याविरोधेन चिकित्सेत्|| ७८||

Adhikarana dUShIviShe kramaH (79) · Śloka 79

दूषीविषार्त्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्| दूषीविषारिमगदं लेहयेन्मधुना प्लुतम्||७९||

🔊 Audio coming soon

गरं निर्णीय क्रमप्राप्तं दूषीविषं निर्णेतुमाह-दूषीविषार्त्तमित्याति| दूषीविषेणार्त्तमादावेव स्विन्नं कृतोर्ध्वमधश्च वमनविरेचनाभ्यां शोधितं दूषीविषारिनामानमगदं मधुना प्लुतं लेहयेत्||७९||

Adhikarana dUShIviShAriH agadaH (80) · Śloka 80

पिप्पल्यो ध्यामकं मांसी लोध्रमेला सुवर्चिका| कुटन्नटं नतं कुष्ठं यष्टीचन्दनगैरिकम्| दूषीविषारिर्नाम्नाऽयं न चान्यत्रापि वार्यते||८०||

🔊 Audio coming soon

पिप्पल्य इत्यादिना स एव दूषीविषारेरुच्यते| अयमगदो नाम्ना दूषीविषारिरन्यत्रापि विषे न निवार्यते|| ८०||

Adhikarana virecanayogau (81) · Śloka 81

हरीतकी सलवणा मागधी मरिचानि च| एतद्दूषीविषार्त्तानां काश्यपोक्तं विरेचनम्| युञ्ज्याद्वा विषरोगेषु रेके व्योषादिकं भिषक्||८१||

🔊 Audio coming soon

हरीतक्यादि काश्यपोक्तं विरेचनम्| मागधी पिप्पली| व्योषादिर्नाम कल्पोक्तस्तं व्योषत्रिजातकेत्यादि विरेचनं सर्वेषु विषरोगेषु युञ्ज्यात्|| ८१||

Adhikarana taruNapalAshakShArayogaH (82) · Śloka 82

तरुणस्य पलाशस्य स्रुतं क्षारोदकं पचेत्| क्वाथे तत्र प्रतीवापं प्रक्षिपेच्छ्लक्ष्णचूर्णितम्| व्योषं शिरीषकुसुमं मधुकं सारिवे मिसिम्| कुष्ठं वेल्लनिशे लाक्षां शुक्लां सुरसमञ्जरीम्| सिन्धूत्थं रक्तमृन्मांसी रेणुकां हिङ्गुवाह्विकम्| दर्वीप्रलेपि तज्जातं गोविषाणे निधापयेत्| क्षयगुल्मोदरार्शांसि मेहं मन्दाग्नितां ज्वरम्| त्वग्दोषकासापस्मारग्रहोन्मादभगन्दरान्| पाण्डुं कण्ठस्वरगदान् प्लीहानं श्वयथुं कृमीन्| कोलमात्रमतः खादन् जयेत् सर्वविषाणि च||८२||

🔊 Audio coming soon

तरुणपलाशस्य क्षारेण स्रुतमुदकं पचेत्| तस्मिन् क्वाथे पच्यमाने व्योषादिकं श्लक्ष्णचूर्णितं प्रतीवापं प्रक्षिपेत्| तच्च पाकेन दर्वीप्रलेपि जातं गोशृङ्गे निधापयेत्| अतः प्रत्यहं कोलमात्रं खादन् क्षयादीनि सर्वविषाणि च जयेत्| शुक्लामिति सुरसमञ्जर्या विशेषणम्| रक्तमृत् गैरिकम्| रेणुका हरेणुः| वाह्लीकं कुङ्कुमम्|| ८२||

Adhikarana agadaprabhAvanidarshanam (83) · Śloka 83

विषं तेजोमयं मन्त्रैः सत्यब्रह्मतपोमयैः| यथा निवार्यते शीघ्रं प्रयुक्तैर्न तथौषधैः| न तु सर्वमनुष्याणां सन्ति भेषजसम्पदः| अज्ञातरोगसद्भावे योग्यता चातिदुर्लभा| प्रकुप्यति विषं भूयः केवलैश्चौषधैर्जितम्| अवाप्तौ सिद्धमन्त्राणां यतेतातश्चिकित्सकः| तेऽपि च व्रतहीनस्य हीना वा स्वरवर्णतः| यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः||८३||

🔊 Audio coming soon

विषमित्यादिश्लोकचतुष्टयेनागदानां प्रभावातिशयकीर्तिनम्| विषाणां विषरोगाणां च औषधेभ्यो मन्त्राः परमौषधम्| ते च व्रतादिसापेक्षत्वात् सर्वस्य च न सिद्धिदाः तस्मात्तत्कार्ये अगदक्रमो योज्य इति पिण्डार्थः| विषं हि तेजोमयं तच्च यथा सत्यादिमयैर्मन्त्रैः प्रयुक्तैः शीघ्रं निवार्यते तथा नौषधैः| न चापि सर्वेषां मनुष्याणां भेषजसम्पदो विद्यन्ते| सतीष्वपि वा तासु विषस्य क्षिप्रकारित्वादविज्ञातरोगसद्भावे विषभुक्ते पुरुषे भेषजयोग्यतैवातिदुर्लभा| न केवलमेतावानेव यावदौषधैर्जितमपि विषं भूयः प्रकुप्यति| यत एवमतश्चिकित्सकः सिद्धमन्त्राणामवाप्तौ यतेत| एतावता औषधस्याप्राधान्यमुक्तम्| सम्प्रति मन्त्राणां दुर्लभत्वमुच्यते-त इति| तेऽपि च मन्त्रा व्रतहीनस्य भिषजोऽथवा स्वरेण वर्णेन वा हीना नैव सिद्धिमायान्ति| तस्माद्धेतोरगदक्रम एव योज्यः|| ८३||

Adhikarana viShasa~gkaTam (84) · Śloka 84

विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे| विषसङ्कटमुद्दिष्टं शतस्यैकोऽत्र जीवति||८४||

🔊 Audio coming soon

विषादीनामर्थात् सदृशानां सङ्गम एकत्र सन्निपाते विषसङ्कटमुद्दिष्टमाचार्यैः| अत्र विषसङ्कटे शतस्यैको जीवति| जीवितं दुर्लभमिति तात्पर्यार्थः| (विषप्रकृतिः तीक्ष्णादिगुणसाम्यात्पित्तप्रकृतिः| विषकालोऽम्बुयोनित्वाद्वर्षाकालः| विषान्नं कटुतीक्ष्णादिसाम्यत् सर्षपादि| दोषो गुणसाम्यात् पित्तम्| एवं दूष्यं तदा श्रयत्वाद्रक्तम्| आदिशब्देनान्यदपि तत्सदृशगुणं क्षुत्पिपासाद्यपतर्पणं च गृह्यते)|| ८४||

Adhikarana viShavRuddhikAraNAni (85) · Śloka 85

क्षुत्तृणाघर्म्मदौर्बल्यक्रोधशोकभयश्रमः| अजीर्ववर्चोद्रवतापित्तमारुतवृद्धिभिः| तिलपुष्पफलाघ्राणभूबाष्पघनगर्जितः| हस्तिमूषिकवादित्रनिस्वनैर्विषसङ्कटैः| पुरो वातोत्पलामोदमदनैर्वर्धते विषम्||८५||

🔊 Audio coming soon

विषवृद्धिप्रसङ्गात्तत्कारणमन्यदप्याह-क्षुदादिभिर्विषं वर्द्धते| निस्वनशब्देन हस्त्यादीनां प्रत्येकं सम्बन्धः| विषसङ्कटमुक्त लक्षणम्| मदनो हर्षः| (तिलपुष्पफलाघ्राणं तिलस्य पुष्पफलयोराघ्राणम्| तिलपुष्पस्य मदनफलस्य चेति केचित्| भूवाष्पः प्रथमजलसिक्ताया भूमेर्धूमाकार ऊष्मा| घनगर्जितं मेघध्वनिः हस्तिनिस्वनादीनां प्रत्येमेकैकस्य बहुत्वेऽपि विषसङ्कटसंज्ञाऽस्तीति बोध्यम्| उत्पलस्यामोदः उत्पलामोदः| मदनेन कामवृद्ध्या)|| ८५||

Adhikarana varShAsu viShavRuddheH kAraNam (86) · Śloka 86

वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम्| विसर्पति घनापाये तदगस्त्यो हिनस्ति च| प्रयाति मन्दवीर्यत्वं विषं तस्माद् घनात्यये||८६||

🔊 Audio coming soon

वर्षासु विषवृद्धेः कारणमाह-वर्षासु च विषमम्बुकारणत्वस्वभावत्वात् गुडवत् संक्लेदं गतं विसर्पति विस्तीर्यते| तच्च विषं घनापाये शरद्यगत्स्यो हिनस्ति| तस्माद्धेतोर्घनात्यये शरदि विषं मन्दवीर्यत्वं याति| (अम्बुयोनित्वात् सागरोद्भवतया वर्षासु वर्षाकाले गुड इव संक्लेदं गतं प्राप्तं घनापाये शरदि च समुच्चये विसर्पति सर्वतः सञ्चरति| अगस्त्यः नक्षत्ररूपेण तत्कालोदितोऽगस्त्यो नाम महर्षिः तद्विषं हिनस्ति नाशयति| मन्दवीर्यत्वमल्पबलत्वम्)|| ८६||

Adhikarana viShe doShAnusAraM cikitsAkramaH (87) · Śloka 87

इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्| आलोच्य निपुणं बुद्ध्या कर्मानन्तरमाचरेत्| श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः| कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्| पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः| कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः| वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः| सघृतैर्भोजनालेपैस्तथैव पिशिताशनैः||८७||

🔊 Audio coming soon

इत्यनन्तरोक्तप्रकारेण प्रकृत्यादिकम् विशिष्टया बुद्ध्या निपुणमालोच्य विकल्प्यानन्तरमव्यवहितं कर्माचरेत्| (प्रकृतिर्विषप्रकृतिः| सात्म्यं परिचितवस्तु| ऋतुर्वर्षादिः| स्थानं विषस्थानम्| वेगो विषवेगः| बलाबलं द्रव्यविशेषजनितम्)| कफानुपूर्व्या विषस्य चिकित्सामाह-श्लैष्मिकमित्यादिना| कफस्थानक्रमेण चिकित्सा सुबोधा| वमनैरुष्णादिगुणैः प्रलेपनैः कषायादिरसैर्भोजनैश्च श्लेष्मात्मकं विषं शमयेत्| पित्तात्मकं स्रंसनादिभिः| वातात्मकं स्वाद्वादिगुणैर्भोजनैरालेपैस्तथा पिशिताशनैश्च जयेत्|| ८७||

Adhikarana viShaharaNe ghRutaM shreShTham (88) · Śloka 88

नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्| सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम्| विद्यते भेषजं किञ्चिद्विशेषात् प्रबलानिले||८८||

🔊 Audio coming soon

विषहरणे घृतस्य वैशिष्ट्यमाह-सर्वत्र च विषे स्रंसनादि चतुष्टयं घृतरहितं नैव शस्तम्| कुत इत्याह-सर्वेष्वित्यादि| व्याख्यासमः श्लोकः| (सर्वेषु स्थावरजङ्गमात्मकेषु विषेषु सर्वावस्थासु वमनविरेचनास्रावालोपसेकभोजनागदपानप्रभृतिषु घृतोपमं घृततुल्यमन्यदौषधं किञ्चिदपि न विद्यते किमपि नास्तीत्यर्थः| प्रबलानिले वातोल्बणे विषे विशेषात् तत्र घृतमेव विशेषेण शस्तमित्यर्थः|| ८८||

Adhikarana raktagaviShacikitsA (89) · Śloka 89

रक्तगे स्रावयेद्रक्तं पित्तवच्च क्रियाक्रमः| दूषीविषे पुनस्तत्स्थे पञ्चकर्माणि चाचरेत्||८९||

🔊 Audio coming soon

रक्तगे विषे रक्तं स्रावयेत् पित्तप्राप्तवच्च क्रियां कुर्यात्| दूषीविषे पुनस्तत्स्थ इति रक्तस्थे पञ्चकर्माणि वमनादीनि चाचरेत्|| ८९||

Adhikarana shirogataviShacikitsA (90) · Śloka 90

गण्डूषैः कवलैः प्राशैस्तीक्ष्णैः प्रधमनाञ्जनैः| शिरोगतं प्रशमयेद्विषसंक्रमणैस्तथा||९०||

🔊 Audio coming soon

शिरोगतं विषं गण्डूषादिभिस्तीक्ष्णैर्जयेद्विषसंक्रमणैश्च|| ९०||

Adhikarana ruddhavAyoshcikitsA (91) · Śloka 91

विषदुष्टकफस्रोतो रुद्धवायुर्मृतोपमः| यः स्यादसाध्यलिङ्गैश्च रहितस्तस्य योजयेत्| मूर्ध्नि काकपदं कृत्वा कल्कं चर्मकसोद्भवम्| ध्मापनं चास्य कटाभीजालिनी कटुकैर्हितम्||९१||

🔊 Audio coming soon

विषदुष्टेन कफेन स्रोतस्सु रुद्धो वायुर्यस्य स तथाविधो मृतोपमो यः स्यादसाध्यविषलिङ्गरहितश्च तस्य शिरसि शस्त्रेण काकपदं कृत्वा चर्मकसोद्भवं कल्कं योजयेत्| चर्मकसा कटुकरोहिणी| अस्य च मृतोपमस्य कटभ्यादिभिर्नासायां ध्मापनञ्च हितम्|| ९१||

Adhikarana AshrayAshrayiNoravirodhena cikitsA (92) · Śloka 92

आशये यस्य दोषस्य विषं तिष्ठति तं पुरः| आश्रयाश्रयिणोर्विद्वानविरोधेन साधयेत्||९२||

🔊 Audio coming soon

यस्य च दोषस्य वाताद्यन्यतमस्याशये स्थाने विषं तिष्ठति तं दोषं विद्वान् भिषक् पुरः प्रथमं साधयेत्| कथमित्याह-आश्रयाश्रयिणोरविरोधेन यथा चिकित्सयोभौ न विरुध्यतः||९२||

Adhikarana AshayAnusAraM cikitsAvisheShaH (93) · Śloka 93

क्षारागदः कफस्थानस्थिते स्वेदः सिराव्यधः| पित्ते क्षौद्रपयोऽम्लाज्यपानसेकावगाहनम्| स्वेदो वाताशये दध्ना पानं च नतकुष्ठयोः| क्षीरेणागदगर्भेण मदनस्य फलेन च| आस्थापनं प्रयुञ्जीत वाताशयगते विषे| पचेद्यष्टीमधुक्वाथे तैलं क्षीरचतुर्गुणम्| त्रिफला सर्पवेतालीशतपुष्पेन्दुराजिभिः| अनन्तया च तत्पाननावनाभ्यङ्गबस्तिषु| भोजने च प्रणिहितं हन्ति वाताशयाद्विषम्| बलया सोमराज्या वा पचेत्पाटलयाऽथवा| घृतमण्डसमं तैलमानुवासनिकं परम्||९३||

🔊 Audio coming soon

कफस्थानस्थिते विषे चिकित्सितोक्तः क्षारागदः स्वेदः सिराव्यधश्च प्रयोज्यः| पित्ते पित्ताशयस्थे विषे क्षौद्रादिकमवगाहनान्तम्| वाताशये वाताशयस्थे विषे स्वेदस्तथा नतकुष्ठयोर्दध्ना पानम्| अन्यतमागदगर्भेण क्षीरेण मदनफलयुक्तेनास्थापनं च वाताशयगते विषे प्रयुञ्जीत| मधुयष्टीक्वाथे क्षीरचतुर्गुणं तैलं त्रिफलादिभिः कल्कीकृतैः पचेत्| तत्तैलं पानादिषु प्रणिहितं वाताशयाद्विषं हन्ति| सर्प(नि) सर्पमञ्जरिसंज्ञायां केसरी तु समञ्जरी| वेताली (नि) वेताली तालपर्णी च ताली च परिकीर्तिता| अनन्ता दूर्वा| बलादित्रयादन्यतमेन घृतमण्डसमं तैलं पचेत्| तत्परमानुवासनिकं प्रकरणाद्वाताशयगते विषे|| ९३||

Adhikarana pathyanirdeshaH (94) · Śloka 94

विषोपद्रवपथ्यं च वीक्ष्य युञ्ज्याद्यथामयम्|९४|

🔊 Audio coming soon

विषोपद्रवं पथ्यं च वक्ष्यमाणविषोपद्रवप्रतिषेधाध्यायविहितं वीक्ष्य यथामयं रोगानतिक्रमेण युञ्ज्यात्|| ९४||

Adhikarana AshayAnusAraM sAdhyAsAdhyatA (94-40) · Śloka 40

अयत्नाच्छ्लेष्मगं साध्यं यत्नात्पित्ताशयाश्रितम्| सुदुस्साधमसाध्यं वा वाताशयगतं विषम्||९४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे विष प्रतिषेधो नाम चत्वारिंशोऽध्यायः||४०||

🔊 Audio coming soon

विषस्य दोषभेदजनितं सुसाधदुस्साधत्वमुपसंहरणमुखेन दर्शयति-अयत्नादित्यादिना| साध्यासाध्यनिरूपणं सुबोधम्| (श्लेष्मगं श्लेष्माशयगतं विषं अयत्नात् यत्नेन विना साध्यम्| पित्ताशयाश्रितं पित्ताशयगतं यत्नात् प्रयत्नेन साध्यम्| वाताशयप्राप्तं सुदुस्साधं सुतरां दुस्साधं दुःखेन साधयितुं शक्यम्| असाध्यं साधयितुमशक्यम्| वाशब्दो विकल्पार्थः| क्षारागदः कफस्थानस्थित इत्यादि क्रियाकथनादाश्रयाश्रयिणोः क्रियासाम्यतैवात्र श्लेष्माशयगतस्यायत्नसाध्यत्वे हेतुः एवं पित्ताशयाश्रितस्य स्वेदनादिद्रव्योपयोगाद्यसमक्रियतया यत्नसाध्यत्वम्| वाताशयगतस्याश्रयाश्रयिणोः क्रियासाम्येऽपि यस्मा दत्यर्थमुष्णं विषमतः सर्वविषेषूक्ताः परिषेकास्तु शीतला इत्यादि विषक्रियायाः शीतलत्वेन वातलत्वान्महात्ययतयाऽस्य दुःसाधत्वम्|| ९४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे चत्वारिंशोऽध्यायः