Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. bālagrahapratiṣēdhaḥ

Adhikarana atha bAlagrahapratiShedho nAma caturtho~adhyAyaH - avataraNikA · Śloka

🔊 Audio coming soon

ग्रहाणां स्वरूपमुक्त्वा तेनैव क्रमेण चिकित्सां प्रदर्शयितुमध्याय आरभ्यते

Adhikarana pratij~jA (1) · Śloka 1

अथातो बालग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana sAdhyagrahe sAmAnyacikitsA (2) · Śloka 2

ग्रहेषु साध्येषु शिशुं विविक्ते शरणे स्थितम्| त्रिरह्ना मुष्टसंसिक्ते सदा सन्निहितानले| विकीर्णभूतिकुसुमबीजपत्रान्नसर्षपे| रक्षोघ्नतैलज्वलितप्रदीपहतपाप्मनि| व्यवायमद्यपिशितनिवृत्तपरिचारके| पुराणसर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना| साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः| पारिभद्रककट्वङ्गजम्बूवरणकत्तृणैः| कपोतवङ्कापामार्गपाटलीमधुशिग्रुभिः| काकजङ्घामहाश्वेताकपित्थक्षीरिपादपैः| सकदम्बकरञ्चैश्च धूपं स्नातस्य चाचरेत्| द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः||२||

🔊 Audio coming soon

साध्येषु ग्रहेषु न तु दुःसाध्येषु शिशुमेवं कुर्यात्| अह्ना दिनेन त्रीन् वारान् यदा मृष्टं संसिक्तं च तस्मिन्| विविक्ते जनादिरहिते| शरणे गृहे स्थितं कुर्यात्| सदा सन्निहितोऽनलो यस्मिन्| तथा विकीर्णं विक्षिप्तं भूत्यादिकं यस्मिन्| भूतिर्भस्म| रक्षोघ्नैस्तैलैर्ये ज्वलिता प्रदीपास्तैर्हतः पाप्मा यत्र| व्यवायादितो निवृत्ताः परिचारिका यत्र| व्यवायो मैथुनम्| पुराणसर्पिषाऽभ्यक्तं सुखाम्बुनोष्णोदकेन| परिषिक्तं स्नातम्| कुर्यादिति किर्यापदमत्र लभ्यते| अथ वा स्नातस्य चाचरेदित्यनेनैव चकारेण यथाकथं चिदाचरेदित्येतत् क्रियापदं बोद्धव्यम्| किम्भूतेन सुखाम्बुना आह-बलादिभिः कदम्बान्तैः साधितेन| वैजयन्त्यग्निमन्थः| नृपद्रुम आरग्वधः| पारिभद्रकः कण्टककिंशुकः कट्वङ्गः स्योनाकः| कत्तृणं भूतीकम्| कपोतपङ्का सुवर्चला| काकजङ्घा लोमशपादिका| महाश्वेता नीलपुष्पी गिरिकर्णिका| क्षीरिपादपा वटादयः| स्नातस्य च द्वीप्यादिचर्मभिर्घृतमिश्रितैर्धूपमाचरेत्|| २||

Adhikarana sarvagrahe dhUpAH (3) · Śloka 3

पूतीदशाङ्गसिद्धार्थवचाभल्लातदीप्यकैः| सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः| सर्षपानिम्बपत्राणि मूलमश्वखुराद्वचा| भूर्जपत्रं घृतं धूपः सर्वग्रहनिबर्हणः||३||

🔊 Audio coming soon

पूत्यादिभिर्धूपः सर्वग्रहविमोक्षणः| सर्षपादिभिर्धूपः सर्वग्रहनिबर्हणः| अश्वखुरा गिरिकर्णी ततो मूलम्|| ३||

Adhikarana anantAdighRutam (4) · Śloka 4

अनन्ताम्रास्थितगरं मरिचं मधुरो गणः| सृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत्| दशमूलरसक्षीरयुक्तं तद् ग्रहजित् परम्||४||

🔊 Audio coming soon

अनन्तादिभिः कल्कितैर्दशमूलक्वाथेन क्षीरेण च घृतं पाचयेत्| तत्परं ग्रहजित्| अनन्ता यवासकः| सृगालविन्ना पृश्निपर्णी|| ४||

Adhikarana sarvagrahe rAsnAdighRutam (5) · Śloka 5

रास्नाद्व्यंशुमती वढ्रपञ्चमूलबलाघनात्| क्वाथे सर्पिः पचेत्पिष्टैः शारिवाव्योषचित्रकैः| पाठाविडङ्गमधुकपयस्याहिङ्गुदारुभिः| सग्रन्थिकैः सेन्द्रयवैः शिशोस्तत्सततं हितम्| सर्वरोगग्रहहरं दीपनं बलवर्णदम्||५||

🔊 Audio coming soon

रास्नादिकषाये शारिवादिभिः पिष्टैः सर्पिर्विपाचयेत्| ततः सुबोधम्| वढ्रपञ्चमूलं महत्पञ्चमूलम्|| ५||

Adhikarana sarvagrahe sArivAdighRutAni (6) · Śloka 6

सारिवासुराभिर्ब्राह्मीशङ्खिनीकुष्ठसर्षपैः| वचाश्वगन्धासुरसायुक्तैः सर्पिर्विपाचयेत्| तन्नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च| योजयेद् भूतविद्यायां यान्युक्तानि घृतानि च||६||

🔊 Audio coming soon

सारिवादिभिः सर्पिर्विपाचयेत्| तत् पानेनाभ्यञ्जनेन च सर्वान् ग्रहान् नाशयेत्| यानि च घृतानि वक्ष्यमाणायां भूतविद्यायामुक्तानि तान्यपि योजयेत्|| ६||

Adhikarana pratisarABimantraNam (7) · Śloka 7

हस्तमात्रं शुचौ देशे गोमयेनोपलेपयेत्| तत्राक्षतानाञ्चोक्षाणां स्थाप्यं पात्रं सदक्षिणम्| निर्धूमश्चानलस्तोयं गुग्गुलुः सर्पिराहुतिः| शुक्लं पुष्पं बलिर्धूपो दूर्वा श्वेताश्च सर्षपाः| प्राङ्मुखोऽथ शुचिर्वैद्यस्त्रिवर्णामथवा सिताम्| उपविष्टः प्रतिसरां गृहीत्वा वेष्टयेत्तया| भूर्जे रोचनया विद्यां लिखितामपराजिताम्| विधिना साधितां भूतैः सर्वैरप्यपराजिताम्| लक्ष्मणादिपरीवारां नित्यानुस्मृसेविताम्| लक्ष्मणासहदेवाख्यानागदन्तीकटम्भरा| मर्कटी कर्कटी लम्बा बृहती कण्टकारिका| खरनासा मृगोर्वारुर्महाश्वेता शतावरी| उदङ्मुखस्य बालस्य बध्नीयात्तां ततो गले| तदभावे दृढं क्षौमसूत्रं मन्त्रमिदं जपन्||७||

🔊 Audio coming soon

हस्तमात्रमित्यादिना प्रतिसराबन्धनोपकरणविधानं सुबोधम्| चोक्षाणां निर्मलानाम्| अथ प्राङ्मुखो वैद्यस्त्रिवर्णां सितरक्तपीतां सितामेव वा प्रतिसरां कार्पाससूत्रवेणिकां गृहीत्वा भूर्जलिखितामपराजिताख्यां विद्यां लक्ष्मणाद्द्यौषधिपरिवारां नित्यं च स्वानुस्मृत्या वैद्येन सेवितां तया प्रतिसरया वेष्टयेत्| किम्भूतामपराजितां सर्वैरपि भूतैर्न पराजिताम्| कास्ता लक्ष्मणादय इत्याह| (नि) 'लक्ष्मणा पुत्रनननी रक्तबिन्दुच्छदा तथा|' सहदेवा बला| नागदन्ती हस्तिदन्ती| कटम्भरा गिरिकर्णी| मर्कटी कपिकच्छूः| स्वनामिका च कर्कटी बिल्वादिः लम्बा कटुकालाबुनी| खरनासाभ्रम्| मृगोर्वारुर्गवाक्षी| महाश्वेता नीलपुष्पी गिरिकर्णिका| ततोऽनन्तरं तां वेष्टितां बध्नामीत्यादिमन्त्रं जपन् वैद्य उदीच्यभिमुखस्य बालस्य गले बध्नीयात्| तस्या अपराजिताया अभावे दृढं क्षौमसूत्रं बध्नीयात्| अन्ये तु क्षौमसूत्रस्यैव मन्त्रं वदन्ति|| ७||

Adhikarana pratisarAbandhanamantraH (8) · Śloka 8

बध्नाम्यहं प्रतिसरां नमस्कृत्वा स्वयम्भुवे| बालानां रक्षणार्थाय शिवां पूर्वर्षिनिर्मिताम्| इन्द्रोऽनुमन्यतां तुभ्यं ये च तस्यानुचारिणः| वज्राशनिधरा भूता मेघवृन्दानुसारिणः| ऐरावतस्कन्धगतं येऽनुयान्ति पुरन्दरम्| यमो वैवस्वतो राजा ये च तस्यानुचारिणः| मेषसूकरसिंहोष्ट्रखरवाजिसमाननाः| काला कालायसैः पाशैः स्तब्धाक्षा भ्रुकुटीमुखाः| शक्तिमुद्गरहस्ताश्च खड्गपाशधराश्च ये| पाशभृद्वरुणो राजा तोयभूः सागरालयः| शारदाभ्रघनाकारा ये च तस्यानुचारिणः| महोर्मिमन्तं वेगेन क्षोभयन्ति सरित्पतिम्| धनाधिपो वैश्रवणः सर्वयक्षाधिपो विभुः| नानाकाराश्च ये भूतास्तस्यैवानुचराः सदा| आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि| एते सर्वेऽनुमन्यन्तामिमां प्रतिसरक्रियाम्| दीर्घमायुररोगं च तव दास्यन्ति स्वस्ति ते| स्वस्ति ते भगवान् ब्रह्मा स्वस्ति नारदपर्वतौ| स्वस्ति वेदाश्च यज्ञाश्च अग्नीषोमौ च स्वस्ति ते| स्वस्ति ते श्रीर्धृतिः कीर्तिर्लक्ष्मीर्मेधाक्षमाद्युतिः| स्वस्ति तुष्टिश्च पुष्टिश्च वपुर्ह्रीर्बुद्धिरेव च| स्वस्ति रुद्रो विशाखश्च स्कन्दः शक्तिधरश्च ते| स्वस्ति धाता विधाता च सुपर्णश्च महाबलः| स्वस्ति देवाश्च यक्षाश्च मा च ते पापमागतम्| दुर्व्याहृतानि दुःस्वप्नं मनसा चिन्तितानि च| दुष्टादीनां भयकृतो वाचः प्रतिहता मया| रक्षा प्रतिसरा तुभ्यं बद्धेयं पापघातिनी| निर्वृतस्त्वं निरुद्वेगो जीव वर्षशतं सुखी||८||

🔊 Audio coming soon

बध्नामीत्यादिभिश्चतुर्दशभिः श्लोकैर्मन्त्रो निगदव्याख्यातः किञ्चित् प्रदर्श्यते| स्वयम्भुवे ब्रह्मणे नमस्कृत्वा प्रतिसरां बध्नामि बालानां रक्षणाय| किम्भूतामाह शिवां श्रेयस्करीं पूर्वर्षिनिर्मिताम्| हे बाल! तुभ्यं प्रतिसरामिन्द्रोऽनुमन्यतामङ्गीकरोतु| वज्राशनिधरत्वादिगुणाश्च तस्येन्द्रस्यानुचारिणो ये भूता ऐरावतस्कन्धगतं पुरन्दरमिन्द्रमनुयान्ति| यमोऽनुमन्यतां ये च तदनुचरा मेषाद्याननाः कृष्णादिरूपाश्च| वारुणोऽनुमन्यतां तदनुचराश्च| सागर आलयो यस्य| महोर्मीत्यादि वरुणानुचरविशेषणम्| धनाधिपश्च तदनुचराश्च| आदित्याश्च| इति सर्वे इमां प्रतिसरक्रियामनुमन्य-ताम्| तव शिशोस्ते दीर्घमायुररोगं च दास्यन्ति| रवस्तीत्याद्याशीः पदम्| ते शिशोः पापं दुर्व्याहृतादिकं च मागमत्| दुष्टादीनां वाचो भयङ्करा मया प्रतिहताः| इयं च पापघातिनी रक्षा प्रतिसरा तव बद्धा| अनया च त्वं निर्वृतो निरुद्वेगश्च सुखी वर्षशतं जीव|| ८||

Adhikarana balivitaraNam (9) · Śloka 9

अपूपपूपसंयावस्वस्तिकालोपिकादयः| पायसो मिश्रकः सिद्धो गुडपूरो हरिद्रकः| कृसरो यावकः क्षौद्रं पललं लवणं हविः| दधिकुल्माषनिष्पावो रक्तो भूतौदनः पयः| पक्वाममांसरुधिरमत्स्यसक्तुसुरासवाः| गन्धं माल्यं फलं हेम धूपः सपुरकुन्दुरुः| सुरसार्जकनिर्गुण्डीकुसुमं च सपल्लवम्| बलिः सुशस्तैर्देयः स्याद्भवनस्य चतुर्दिशम्| चतुष्कचैत्यत्रिपथदेवायतनगोपुरे| रेखावृक्षोदपाने च सन्ध्ययोर्दीपवान् निशि||९||

🔊 Audio coming soon

बालनिवासभवनस्य चतुर्दिशमपूपादिकश्च बलिर्देयः| अपूपा मण्डकाः| त एव सगुडाः स्नेहसिद्धाः पूपाः| संयावो यवौदनः| स्वस्तिकाः स्वस्तिकाकृतयः पिष्टविकाराः| लोपिकाः सपूराः पिष्टस्विन्नाः| मिश्रकस्तण्डुलावरान्नौदनः| सिद्धः सिद्धौदनः| गुडपूरः प्रसिद्धः| हरिद्रकः पीतभक्षः| हविर्घृतम्| पललं तिलकल्कः| रक्तौदनो रक्तमिश्रो भूतौदनः| भूतौदनो मांसमिश्रः| चतुष्कादिषु च बलिर्देयः| चतुष्कं चतुःशालम्| रेखामण्डलं मन्ये| उदपानं कूपसरः| निशि दीपवान् बलिर्देयः||९||

Adhikarana maNDalavidhAnaM balimantrashca (10) · Śloka 10

अथापतितगोवर्चः प्रलिप्ते दर्भासंस्तृते| वृत्ते वा चतुरस्रे वा मण्डले कुसुमोज्ज्वले| नानाग्रहपरीवारं भिषग्भूतपतिं लिखेत्| तं प्रतिप्राङ्मुखो विद्यां पठन्नुपहरेद्बलिम्| नमो विमारकस्य| नमः कुमारङ्गाय| नमः सप्तानां मातॄणाम्| नमः स्कन्दाय| एष परिग्रहमन्त्रः| मातॄणामावाहनं च| हिलिहिलिनिमापटलिनि स्वाहा| अनेन सप्तकृत्वः परिजपितेन पानीयचुलुकेनात्माभ्युक्षयितव्यः| एवमात्मरक्षा कृता भवति||१०||

🔊 Audio coming soon

अथेत्यादिना मण्डलविधानम्| अपतितगोवर्चो यत्पतदेव गोर्गृहीतम्| वृत्तं वर्तुलं मण्डलम्| चतुरस्रं चतुष्कोणम्| भूतपतिर्भगवान् महादेवः| तं मण्डले चित्रकर्मणा लिखेत्| तं प्रति प्राङ्मुख इत्यर्थः| नम इत्यादिकां विद्यां पठन् तस्मै भगवते नानाविधं बलिमुपहरेत्| नम इत्यादि बलिपरिग्रहमन्त्रः| एवमेव मातृणामावाहनमाह्वानम्| हिल्यादिकेन सप्तवारान् यत्परिजपितं पानीयचुलुकं तेनात्माभ्युक्षयितव्यः| अभ्युक्षणं समन्ताद्बिन्दुभिः सेचनम्| अनेनाभ्युक्षणेनात्मनो रक्ष कृता भवति|| १०||

Adhikarana grahasannidhAyakaH mantraH (11) · Śloka 11

ग्रहाणां सन्निधानाय बलेश्च प्रतिपत्तये| सत्यसन्धानसंयुक्तमिमं मन्त्रं पठेदनु| प्रजापतौ च यत्सत्यं यत्सत्यममरेश्वरे| धर्मराजे च यत्सत्यं यच्च सत्यं जलाधिपे| यत्सत्यमग्निहोत्रेषु सत्यं यच्छ्रोत्रियेषु च| पतिव्रतासु यत्सत्यमीश्वरे च महात्मनि| एतैस्तु सत्यसमयैर्गुह्यकाः सत्यवादिनः| दर्शयध्वं स्वरूपाणि सत्यं रक्षतु सर्वतः| आमन्त्रिता मया सौम्याः सौम्यरूपाः प्रतीच्छत| बलिं चोपहृतं सर्वं सर्वे कौमारका ग्रहाः| दर्शयध्वं स्वरूपाणि बलिश्च प्रतिगृह्यताम्||११||

🔊 Audio coming soon

अनन्तरं प्रजापतावित्यादिमन्त्रं पठेत्| किमर्थमित्याह ग्रहाणां सन्निधानं कर्तुं तेषामेव च बलेः प्रतिपत्त्यर्थं च| किम्भूतं मन्त्रमाह| सत्यसन्धानसंयुतम्| एवं हीष्टसिद्धिर्भवति| पञ्चभिः श्लोकैर्मन्त्रः| एतैः सत्यैर्गुह्यका भूतविशेषाः| सत्यवादिनः स्वरूपाणि दर्शयध्वं ये मया अभिमन्त्रिताः| सत्यं रक्षत बलिं च प्रतीच्छत मयोपह्वतम्| कौमारकग्रहाश्च सर्वे स्वरूपाणि दर्शयध्वं बलिश्च प्रतिगृह्यताम्|| ११||

Adhikarana kulavidyApAThaH (12) · Śloka 12

ततश्चानु पठेदेनां कुलविद्यां समाहितः| औला नीला खला काला नकुला ग्रहकारिका| सेना सुसेना माता च महासेना यशस्विनी| कृतमाला क्षतशिरा एतास्तु ग्रहमातरः| कुमारवचनाच्छीघ्रं प्रमुञ्चन्तु शिशुन्त्विमम्| कालकल्पा ज्वलच्छक्तिः किङ्किणीजालभूषिता| कुमारवचनाद् दूती सम्प्राप्ता मुच्यतां शिशुः| पताका कुक्कुटः छत्रं घण्टावर्हधरः शिखी| शरस्तम्भश्च ते मुद्रा मुच्यतां मातरः शिशुः| गन्धं धूपं च माल्यं च कुमारस्ते प्रयच्छति| न स्थातव्यं तदाघ्राय स्वां गतिं गच्छ मा चिरम्| धात्र्याः सर्वाः कुमारस्य सङ्गता गन्धमादने| रक्तध्वजपताकस्य रक्तांशुकनिवासिनः| कुमारस्यालयं तत्र यात बालं विमुञ्चत| षण्मुखो द्वादशाक्षो वै तस्मिन् काले वृतो वरम्| वीरः कुमारधिपतिस्तव पुत्रोऽभिषिच्यताम्| ब्राह्मणो ब्राह्मणानान्तु सर्ववेदविदां वरः| यक्षराक्षसनागानां गन्धर्वासुरयोरपि| पिशाचभूतसङ्घानां व्याधीनां च स ईश्वरः| आज्ञापयति वः स्कन्दो गम्यतां गन्धमादनम्| ग्रहो यः कोपयेदाज्ञां कुमारस्य यशस्विनः| स्थानाच्च्युतः स वै क्षिप्रं बाह्यः परिषदो भवेत्||१२||

🔊 Audio coming soon

ततोऽनन्तरं समाहितः वैद्यः सार्धर्दशभिः श्लोकैः कुलविद्यां पठेत्| अस्यार्थः कौलादयस्त्रयोदश ग्रहमातरः| भगवत्कुमारवचादिमं शिशुं शीघ्रं प्रमुञ्चन्तु| कुमारवचनात् कालकल्पादिगुणा दूती सम्प्राप्ता शिशुर्मुच्यतामिति| किङ्किणीजालं सूक्ष्मघण्टासमूहः| पताकादिका मुद्रास्ते तुभ्यम्| हे मातरः| शिशुर्मुच्यतां ते इति बहूनां प्रयोगो मन्त्रत्वात्| ते कुमारो गन्धादिकं प्रयच्छति| तदाघ्राय स्वां गतिं गच्छ| माचिरं शीघ्रम्| कुमारधात्र्यः सर्वाः गन्धमादने सङ्गताः| रक्तध्वजादिमतः कुमारस्य तत्रालयम्| तत्र यातो बालं विमुञ्चत| शेषस्य पाठ एव शरणम्| यो ग्रहः कुमारस्य यशस्विन आज्ञां कोपयेत् सः क्षिप्रमेव स्थानाच्च्युतः परिषदः स्व-वृन्दाद् बाह्यो भवेदिति कुलविद्या|| १२||

Adhikarana homavidhiH (13) · Śloka 13

बलेरनन्तरं कुर्याद्धोममभ्यर्च्य पावकम्| पुष्पैर्भक्ष्यैश्च विविधैश्चरुणा लोहितैस्तथा| गन्धैर्गुग्गुलुधूपैश्च समिधः खदिरादथ| शतमष्टोत्तरं हव्यमथवा चन्दनद्रुमात्||१३||

🔊 Audio coming soon

ततो बलेरनन्तरं पावकमभ्यर्च्य पुष्पादिभिर्होमं कुर्यात्| ततो हव्यमन्नं गन्धैर्गन्धद्रव्यैर्लोहितैः खदिरसमिधां चन्दनसमिधां चाष्टोत्तरं शतं हव्यम्||१३||

Adhikarana havanamantraH (14) · Śloka 14

अग्निदण्डं प्रवक्ष्यामि सर्वग्रहविमोक्षणम्| ब्रह्मण्यन्त्वनलं (त्वमलं) देवं हव्यकव्यप्रतीच्छकम्| देवानां प्राङ्मुखं (प्रमुखं) स्वस्ति स्वाहापहरति द्रुतम्| सन्नस्रविद्यो दहनः पावकः सर्वभक्षणः| त्वं हि यज्ञश्च यूपश्च त्वं हि धर्मवतां गतिः| हिरण्यरेता देवस्त्वं त्वं हि वेदविदां गतिः| दुर्वृत्तानां विनाशाय त्वं समुत्पादितः सुरैः| दह संग्रहदेवत्वमिदं दुष्टस्य निग्रहम्| अग्नये स्वाहा| महाग्नये स्वाहा| त्वं हि शान्तिकरो वह्निस्त्वं मारुतहरोदनः| हरिप्रधानगतिरासीदिमं निगृह्य गुह्यकमुत्सादयतेजसा| त्वं मम वश्यं च तं कुरु दुष्टग्रहनिवारणं सर्वोपद्रवेषु च| त्वया कृतेन होमेन शीघ्रं शान्तिः प्रजायते| आयाहि वह्ने देवानां त्वं हि वक्त्रं पुरातनम्| तेन सत्येन देवेश इस साधय मे ग्रहम्| नमोऽस्तु ते हव्यवाहन दण्डं प्रदर्शय दह दह दर्श दर्श तेज तेज मोटय मोटय अपस्मारमुद्घाटय कुमार पिशाच-रेवती-रोदन-त्रासन-वित्रासन-कम्पन-उत्क- म्पन-विजृम्भण-देव-यक्ष-गन्धर्व-भूत-नाग-राक्षस- सन्तर्जनदण्ड-नाविधूसारय भगवन्नग्निदण्ड अग्निवीर्य नमस्तेजसा स्वेन त्यक्तमुत्सादय स्वाहा| (भुर्भुवाय स्वाहा) भूर्भुवस्स्वस्स्वाहा| दीप्ततेजसे स्वाहा| हव्य वाहनाय स्वाहा| यमाय स्वाहा| नश्यन्त्यनेन होमेन समस्ता बालकग्रहाः||१४||

🔊 Audio coming soon

अग्निदण्डो मन्त्रो यमाय स्वाहेत्येवमन्तः| अनेनानन्तरोक्तेन मन्त्रेण होमेन समस्ता बालकग्रहा नश्यन्ति|| १४||

Adhikarana siddhilakShaNam (15-16) · Śloka 16

तत्राग्नावरुणे ताम्रे तप्तहेमसमार्चिषि| तारावैडूर्यसदृशे शशिविद्युत्समप्रभ| घृतमण्डाभवर्णे वा गन्धेन च घृतोपमे| केतकोत्पलदध्याभे ध्रुवमारोग्यमादिशेत्| अनारोग्यं तु नीलेऽग्नौ कपिले भस्मनिष्प्रभे| कृष्णे कपोते दुर्गन्धे मत्स्यपूयास्रगन्धिके| वचालशुनगन्धाभे विस्रे कर्दमगन्धिके||१५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे बाल ग्रहप्रतिषेधो नाम चतुर्थोऽध्यायः||१६||

🔊 Audio coming soon

तत्राग्नावित्यादि सिद्धलक्षणं तप्तहेमारुणादिरूपेऽग्नौ ध्रुवमवश्यमारोग्यमादिशेत्| नीलादिरूपेऽग्नावातुरस्यानारोग्यमादिशेत्| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे चतुर्थोऽध्यायः