Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. apasmārapratiṣēdhaḥ

Adhikarana athApasmArapratiShedho nAma dashamo~adhyAyaH - pratij~jA (1) · Śloka 1

अथातोऽपस्मारप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

उन्मादानन्तरमपस्मारे पूर्वमुक्तं प्रयोजनं तद्विज्ञानार्थमध्याय आरभ्यते||१||

Adhikarana apasmArahetuH samprAptishca (2) · Śloka 2

स्मृत्यापायो ह्यपस्मारः स धीसत्त्वाभिसंप्लवात्| जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः| उन्मादवत् प्रकुपितैश्चित्तदेहगतैर्मलैः| सते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च| तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः| दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन्| पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ| विजिह्याक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते| कालान्तरेण स पुनश्चैवमेव विचेष्टते| अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च||२||

🔊 Audio coming soon

अपस्मारो हि स्मृत्यपायः स्मृत्यपगम उच्यते| स चापस्मारो धियो बुद्धेः सत्त्वस्य धैर्यस्य चाभिसंप्लवाद् विनाशाज्जायते| कथमित्याह| चिन्तादिभिश्चित्तेऽभिहते उन्मादोक्तप्रकारेण प्रकुपितैश्चित्तदेहगतैर्मलै रजस्तमोवातादिभिः सत्त्वे हते हृदि च व्याप्ते संज्ञावाहिषु च स्रोतःसु व्याप्तेष्वेवं सति पुरुषो मूढमतिस्तमो विशन् वीभत्साः क्रियाः कुरुते| दन्तखादनादि कुर्वन् क्षितौ पतति| ततो दोषाणं वेगेऽतीते विजिह्माक्षिभ्रुवो विबुध्यते| सुबोधम्| निचयः सन्निपातः|| २||

Adhikarana pUrvarUpam (3) · Śloka 3

रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः स्नून्यता भ्रमः| तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम्| अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः| अविपाकोऽरुचिर्मूर्च्छा कुक्ष्याटोपो बलक्षयः| निद्रानाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्| पानं तैलस्य मद्यस्य तयोरेव च मेहनम्||३||

🔊 Audio coming soon

अस्मिन्नपस्मार उत्पत्स्यमाने भविष्यति हृत्कम्पादिकं रूपम्| सिङ्घाणकस्रुतिः नासास्रावः| तयोरिति तैलमद्ययोर्मेहनम्| इति सामान्येन पूर्वरूपम्||३||

Adhikarana vAtajApasmAralakShaNam (4) · Śloka 4

तत्र वातात् स्फुरत्सक्थिः प्रततं च मुहुर्मुहुः| अपस्मरति संज्ञां च लभते विस्वरं रुदन्| उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते| आविध्यति शिरो दन्तान् दशत्याध्मातकन्धरः| परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः| रूक्षश्यावारुणाक्षित्वङ्नख़ास्यः कृष्णमीक्षते| चपलं परुषं रूपं विरूपं विकृताननम्||४||

🔊 Audio coming soon

तत्रेत्यादि विकृताननान्तं वातापस्मारलक्षणम्| प्रततं सन्ततं मुहुर्मुहुः प्रतिक्षणमपस्मरति संज्ञां च लभते| विस्वरं रुदन् शब्दं कुर्वन् शिर आविध्यति भित्यादावाविद्धं करोति| आध्माता समन्ताद् ध्माता कन्धरा ग्रीवा यस्य| रूक्षत्वादियुक्तमक्ष्यादिकं यस्य| सर्वं च रूपं कृष्णं चपलादिगुणमीक्षते पश्यति||४||

Adhikarana pittApasmAralakShaNam (5) · Śloka 5

अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति| पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम्| भैरवादीप्तरुषितरूपदर्शी तृषान्वितः||५||

🔊 Audio coming soon

तृषान्वितान्तं पित्तापस्मारलक्षणम्| पीतैः फेनादिभिर्युक्तो मेदिनीं भुवमास्फालयत्यपहन्ति| भैरवादिगुणरूपदर्शी च भवति||५||

Adhikarana kaPApasmAralakShaNam (6) · Śloka 6

कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्| शुक्लाभरुपदर्शित्वम् ..................||६||

🔊 Audio coming soon

शुक्लाभरुपदर्शित्वान्तं कफापस्मारलक्षणम्||६||

Adhikarana sannipAtApasmAralakShaNam (7) · Śloka 7

............................. सर्वलिङ्गं तु वर्जयेत्||७||

🔊 Audio coming soon

सर्वालिङ्गमपस्मारं निचयोद्भवत्वाद्वर्जयेत्| (अत्र तु शब्दो विशेषद्योतकः| अस्यासाध्यत्वकथनेनान्येषां साध्यत्वं सूचितमिति )||७||

Adhikarana cikitsAkramaH (8) · Śloka 8

अथावृतानां धीचित्तहृद्खानां प्राक्प्रबोधनम्| तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः| वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः| श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्||८||

🔊 Audio coming soon

अथेत्यादिना अपस्माराणामुक्तक्रमेण चिकित्सोच्यते| सर्वस्मिन्नपस्मारे प्राक् प्रथममावृतानां बुद्ध्यादीनां तीक्ष्णैर्वमनादिभिः कर्मभिः प्रबोधं कुर्यात्| वातिकमित्यादि व्याख्यासमम्| तृतीयाबहुवचनं सामानाधिकरण्यात्| (वातिकं वातकृतमपस्मारं बस्तिभूयिष्ठैर्बस्तिबहुलैः कर्मभिरुपाचरेत्| भूयिष्ठग्रहणेन वमनादिभिः संशमनैश्चेति बोद्धव्यम्| पित्तश्लेष्मणोश्च प्रायोग्रहणादेवमेवोपाचरेत् चिकित्सेत् )||८||

Adhikarana shodhanacikitsA (9) · Śloka 9

वमनं मदनं लम्बा विशालाऽरिष्टकौटजम्| रेको मूत्रत्रिवृच्छ्यामा द्रवन्ती सप्तला स्नुही| दशमूलबलारास्नासरलामरदारुभिः| यवकिलकुलत्थैश्च समूत्रक्षारसैन्धवैः| आस्थापनं प्रयुञ्जीत हिङ्गुस्नेहसमन्वितैः| एभिरन्यैश्च वातघ्नैः कटुतैलं प्रसाधितम्| वातापस्मारशमनं नस्याभ्यङ्गानुवासनैः||९||

🔊 Audio coming soon

वमनमित्यादि सुबोधम्| मदनादीनि वमनद्रव्याणि| मदनं राठः| विशाला इन्द्रवारुणी| अरिष्टो निम्बः| कौटजं कुटजफलम्| मूत्रादीनि विरेचनद्रव्याणि| मूत्रं गोमत्रम्| द्रवन्ती समुद्रैरण्डः| मूषिकपर्णीति च| मूत्रादिभिर्हिङ्गुना स्नेहेन च युक्तैदर्शमूलादिभिरास्थापनं निरूहं प्रयुञ्जीत| एभिरिति दशमूलादिभिरन्यैरनुक्तैर्वातहरैर्द्रव्यैश्च प्रसाधितं कटुतैलं नस्यादिभिर्वातापस्मारशमनं भवति||९||

Adhikarana saMshamanayogAH - tatra pa~jcagavyaM ghRutam (10) · Śloka 10

सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च| अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु| गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः| अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्||१०||

🔊 Audio coming soon

सर्वत इत्यादिना शमनयोगानामधिकारनिर्देशः| सर्वत ऊर्ध्वमधश्च सुविशुद्धस्य सुतरां विशुद्धस्य सम्यग्विशुद्धस्येत्यर्थः| (सम्यगाश्वासितस्य सम्यक् प्रधानमध्यावरशुद्ध्यनुसारेण पेयाद्यासेवनादाश्वासितस्य च अपस्मारविमोचनार्थं वक्ष्यमाणान् शमनप्रायान् योगानाकर्णय)| तानेवाह-गोमयेत्यादि| गोमयस्वरसादिभिः शृतं हविरपस्मारद्यन्तकरं पिबेत्| उत्तरे हविषीदं पञ्चगव्यं महदिति पाठादस्य लघुपञ्चगव्यनामकत्वमभिमतम्| (अत्र च गोमयस्वरसादीनां सामान्यपरिभाषयाऽन्योन्यसमत्वं घृताच्चतुर्गुणत्वञ्च ज्ञेयम्| चरके तु गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतमिति पाठः)|| १०||

Adhikarana mahatpa~jcagavyaM ghRutam (11) · Śloka 11

द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः| सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्| शम्याकपुष्करजटाफल्गुमूलदुरालभा| द्विपलाः सलिलद्रोणे पक्त्वा पादाविशेषिते| भार्ङ्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः| मूर्वाभूतीकभूनिम्बश्रेयसीशारिवाद्वयैः| मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत्| प्रस्थं तद्वद्द्रवैः पूर्वैः पञ्चगव्यमिदं महत्| ज्वरापस्मारजठरभगन्दरहरं परम्| शोफार्शः कामलापाण्डुगुल्मकासग्रहापहम्||११||

🔊 Audio coming soon

द्विपञ्चमूलेत्यादिना महत् पञ्चगव्यं घृतं सुबोधम्| द्रवैः पूर्वैरिति पूर्वोक्तैर्गोमयस्वरसादिभिः एतेषां पञ्चप्रभृतिद्रवत्वात् पृथक् स्नेहसमत्वम्| (द्विपञ्चमूलेति| द्विपलानि द्विपलप्रमाणानि द्विपञ्चमूलादीनि सलिलद्रोणे पकत्वा पादावशेषिते क्वाथे अक्षांशैः कर्षप्रमाणैर्भाङ्गर्यादिभिः तद्वत् पूर्वैर्गोमयस्वरसादिद्रवैश्च घृतस्य प्रस्थं पचेत्| महत् पञ्चगव्यमिदं घृतं परमतिशयेन ज्वरादिहरम्| द्विपञ्चमूलं दशमूलम्| सप्तपर्णः सप्तच्छदः| शम्याक आरग्वधः| पुष्करजटा पुष्करमूलम्| फल्गुर्मलयूस्तस्य मूलम्| रोहिषः प्लीहघ्नः| (अटक्कावाणियन्)| मदयन्ती धातकी| निचुभो वेतसः )| क्षिपेत्पिष्ट्वाक्षमात्राणि तेन प्रस्थं घृतान् पचेत्| गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः|| इति चरकपाठः|| ११||

Adhikarana shirIShatailam (12) · Śloka 12

शिरीषपुष्पपत्रत्वक्सारमूलतुलाद्वयम्| वरणैरण्डशम्याकदशमूलाटरूषकम्| शतावरीबलारास्नासुषवीपारिभद्रकम्| मुरूङ्गी वञ्जुलं दन्तीं ककुभं सपुनर्नवम्| रोहिषस्य जटां पुष्पं करघाटमयूरकम्| शतार्धांशं पृथग्द्राक्षालाक्षामिसिवरायवान्| सकोलान् सकुलत्थांश्च पृथगर्धाढकोन्मितान्| द्विशतं पिशिताद्गव्याच्छागाद्वा तत्पचेदपाम्| द्रोणैर्द्वात्रिंशताष्टांशशेषेण च विपाचयेत्| तैलद्रोणं दधिवहे श्लक्ष्णपिष्टैश्च पालिकैः| पाठासमङ्गासुषवीद्विनिशाचन्दनद्वयैः| एलाजलोत्पलबलाश्वदंष्ट्राशारिवाघनैः| मञ्जिष्ठाकुष्ठमधुकलोध्ररास्नाकुटन्नटैः| शठीशिरीषकुसुमनतनागामराह्वयैः| वराङ्गजोङ्गपत्नङ्गविडङ्गैः सप्रियङ्गुभिः| मुरुङ्गीपत्रनलदसेव्यकुन्दनखद्वयैः| तिलपर्ण्या च तत्पानवस्त्यभ्यञ्जननावनैः| अपस्मारग्रहोन्मादान् सशोषविषमज्वरान्| योनिशुक्लामयान् गुल्मप्रमेहं पाण्डुतां मदम्| वातशोणितवीसर्पपक्षाघातार्दितादिकान्| सर्वान् मारुतजान्रोगान्विशेषाद्विषवातजान्| निहन्ति कार्मणं कृत्यां मूलदंष्ट्राविषं गरम्| रसायनानां प्रवरं मेध्यं वाजीकरं परम्||१२||

🔊 Audio coming soon

शिरीषेत्यादिना शैरीषं तैलं पानादिभिरपस्मारादीन् निहन्ति| रसायनानां प्रवरं श्रेष्ठं मेध्यं परं वाजीकरं च| शिरीषस्य पुष्पदिकान्मिश्रीभूतात्तुलाद्वयम्| सुषवी पानीयवल्ली| पारिभद्रको निम्बः पारिजातश्च| मुरुङ्गी मधुस्रवा| वञ्जुलं दीर्घपत्रो वेतसः| रोहिषस्य प्लीहघ्नस्य जटा मूलम्| करघाटो मदनः मयूरकोऽपामार्गस्तयोः पुष्पम्| एतद्वरणादिकं पृथक् शतार्धांशं पञ्चाशत् पलानि| द्राक्षादिकं पृथगर्धाढकं द्वात्रिंशत् पलानाम्| तत् सर्वमपां द्वात्रिंशता द्रोणैः पचेत्| अष्टांशशेषेण तेन पालिकैः पलप्रमाणैः श्लक्ष्णपिष्टैः पाठादिभिष्च सह दधिवहे तैलद्रोणं सद्वादशानि पञ्च पलशतानि विपाचयेत्| समङ्गा मञ्जिष्ठा| सुषवी पानीयवल्ली| कुटन्नटं परिपेलवम्| नागं नागकेसरम्| अमराह्वयं देवदारु| वराङ्गं त्वक्| जोङ्गकं कृष्णागुरु| मुरुङ्गी मधुस्रवा| नखद्वयं हस्तिनखं च| तिलपर्णी बदरकः| विषवातो विषौषधिवातः| कार्मणं कृत्रिमयोगः| कृत्या अभिचारदेवता| मूलविशं शृङ्यादिकम्| दंष्ट्राविषं सर्पादिजम्||१२||

Adhikarana brAhmIghRutam (13) · Śloka 13

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्| पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाप्मजित्||१३||

🔊 Audio coming soon

ब्राह्मीरसादिभिः शृतं पुराणं घृतं मेध्यादिगुणम्| (ब्राह्मीरसे कल्कितैर्वचादिभिः सिद्धं पुराणं घृतं मेध्यं मेधायै हितं उन्मादादिजिच्च| अलक्ष्मीः अश्रीः )|| १३||

Adhikarana jIvanIyaghRutam (yamakam) (14) · Śloka 14

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः| क्षीरद्रोणे पचेत् सिद्धमपस्मारविमोक्षणम्||१४||

🔊 Audio coming soon

तैलप्रस्थमित्यादिना यमकं सुबोधम्| (क्षीरस्य द्रोणे चतुष्षष्टिकुडवे पलोन्मितैः पलप्रमाणैर्जीवनीयैर्जीवनीयगणेन सह तैलघृतयोः प्रस्थं मिश्रीकृत्य पचेत्| सिद्धं तत्पानादिभिरपस्मारविमोचनम्||१४||

Adhikarana jIvanIyaghRutamaparam (15) · Śloka 15

कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे| कार्षिकैर्जीवनीयैश्च सर्पिः प्रस्थं विपाचयेत्| वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत्||१५||

🔊 Audio coming soon

कंस इत्यादि व्याख्यासमम्| अष्टगुणं सर्पिषः| (क्षीरेक्षुरसयोः कंसे आढके क्षीरमिक्षुरसश्च प्रत्येकं द्विप्रस्थपरिमितमित्यर्थः| अष्टगुणे घृतादष्टाधिके द्वयाढक इत्यर्थः| काश्मर्ये रसे काश्मर्य सम्बन्धिनि रसे| काश्मर्य इत्यत्र वृद्धाच्छ इत्यस्त्यानित्यत्वातस्येदमित्यण्प्रत्ययः| कार्षिकैः कर्षप्रमाणैर्जीवनीयगणेन च| चशब्दः समुच्चये| प्रस्थं चतुष्कुडवं सर्पिर्विपाचयेत् तद् घृतं पानादिभिर्वातोद्भवं पित्तोद्भवं चापस्मारं क्षिप्रमाशु निहन्ति)||१५||

Adhikarana kAshAdikShIram (16) · Śloka 16

तद्वत् काशविदारीक्षुकुशक्वाथ शृतं पयः||१६||

🔊 Audio coming soon

काशादिशृतं पयः क्षीरं तद्वदिति क्षिप्रं वातपित्तोद्भवमपस्मारं निहन्ति| (काशादिक्वाथेन सह शृतं पयस्तद्वत्| वातजं पित्तजं चापस्मारं क्षिप्रं निहन्तीत्यर्थः )||१६||

Adhikarana madhukaghRutam (17) · Śloka 17

मधुकद्विपले कल्के द्रोणे चामलकीरसात्| सिद्धं सिद्धो घृतप्रस्थः पित्तापस्मार भेषजम्||१७||

🔊 Audio coming soon

आमलकीरसात् द्रोणे मधुकद्विपले कल्के च सिद्धः शृतो घृतस्य प्रस्थः पित्तापस्मारभेषजं सिद्धमप्रतिहतम्||१७||

Adhikarana yaShTIghRutamaparam (18) · Śloka 18

कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम्| यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्||१८||

🔊 Audio coming soon

कूष्माण्डस्वरस इत्यादि सुबोधम्| (अष्टादशगुणे घृतादष्टादशप्रमाणाधिके कूष्माण्डस्वरसे घृतकुडुवादाष्टादशकुडुवा दिककूष्माण्डस्वरस इत्यर्थः| यष्टीकल्कं शृतं पक्वं सर्पिरपस्मारं हरति धीवाक्स्वरान् प्रददाति च)||१८||

Adhikarana gavAdipittanAvanam (19) · Śloka 19

कपिलानां गवां पित्तं नावनं परमं हितम्| श्वसृगालविडालानां सिंहादीनां च पूजितम्||१९||

🔊 Audio coming soon

श्वादीनां पित्तं नावनमिति सम्बध्यते| (कपिलेति| कपिलानां कपिलवर्णानां गवां तासामचिन्त्यप्रभावत्वात् न श्वेतरक्तकृष्णानाम्| पित्तं हृदयादधःस्थितद्रवविशेषं नावनं नस्यं परमं हितं अपस्मारहरमित्यर्थः| श्वसृगालादीनां पित्तञ्च नावने प्रशस्तम्)||१९||

Adhikarana godhAdipittasiddhaM tailam (20) · Śloka 20

गोधानकुलनागानां पृषतर्क्षगवामपि| पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते||२०||

🔊 Audio coming soon

गोधादीनां पित्तेष्वेकीकृतेषु तैलं साधितं नस्येऽभ्यङ्गे च शस्यते||२०||

Adhikarana triPalAdinasyam (21) · Śloka 21

त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः| श्र्याह्वापामर्गकारञ्जबीजैस्तैलं प्रसाधितम्| बस्तमूत्रे हितं नस्यं चूर्णं वाध्मापयेद्भिषक्||२१||

🔊 Audio coming soon

त्रिफलादिभिर्बस्तमूत्रे तैलं प्रसाधितं नस्यं हितम्| एभिरेव कृतं चूर्णं वा भिषङ्नासायां ध्यापयेत्| पीतद्रुर्दार्वी| श्र्याह्वं बिल्वम्| (भिषग्वैद्य एषां त्रिफलादीनां चूर्णं ध्मापयेत् मुखवायुनाऽऽतुरस्य नासायां नाडीयन्त्रेण प्रवेशयेत् चूर्णनस्यं कुर्यादित्यर्थः)||२१||

Adhikarana vRushcikAlyAdivartiH (22) · Śloka 22

वृश्चिकालीबलाकुष्ठभार्ङ्गीलवणपञ्चकम्| कायस्थां शारदां मुद्गमुशीरं जलदं यवान्| व्योषञ्च बस्तमूत्रेण पिष्ट्वा वर्तिं प्रकल्पयेत्| अपस्मारगरोन्मादसर्पदष्टविषाशिते||२२||

🔊 Audio coming soon

वृश्चिकाल्यादिकं बस्तमूत्रेण पिष्ट्वा अञ्जनाय वर्तिं प्रकल्पयेदपस्मारादिके| शारदा जलपिप्पली||२२||

Adhikarana mustAdivartiH (23) · Śloka 23

मुस्तावयस्थात्रिफलाकायस्थाहिङ्गुशाद्वलैः| व्योषमाषयवैर्मूत्रैर्बस्तमेषर्षभोद्भवैः| हन्ति वर्तिरपस्मारकिलासविषमज्वरान्||२३||

🔊 Audio coming soon

मुस्तादिभिर्बस्तमेषाद्युद्भवैर्मूत्रैः कृता वर्तिरञ्जनादपस्मारादीन् हन्ति||२३||

Adhikarana shunaH pittA~jjanam (24) · Śloka 24

पुष्पोद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्| तदेव सर्पिषा युक्तं धूपनं परमं हितम्||२४||

🔊 Audio coming soon

सुबोधम्| तदेवेति पुष्पोद्धृतं श्वपित्तम् ||२४||

Adhikarana kaTaByAditailamaBya~ggArthe (25) · Śloka 25

कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे| सिद्धं मूत्रसमं तैलमभ्यङ्गार्थं प्रशस्यते||२५||

🔊 Audio coming soon

कटभ्यादीनां क्वाथे मूत्रसमं तैलं सिद्धमभ्यङ्गार्थं प्रशस्यते| कटभी श्वेतगुञ्जा प्रसिद्धा| मूत्रं गोः||२५||

Adhikarana pala~gkaShAditailamaBya~ggArthe (26) · Śloka 26

पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः| जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः| लशुनातिरसाच्छत्राकुष्ठैर्विड्भिश्च पक्षिणाम्| मांसाशिनां यथालाभं बस्तमूत्रे विपाचितम्| तैलमभ्यञ्जनं कार्यं तैश्च धूपनलेपनम्||२६||

🔊 Audio coming soon

पलङ्कषादिभिर्मांसाशिनां पक्षिणां विड्भिश्च बस्तमूत्रे साधितं तैलमभ्यञ्जनं तैः पलङ्कषादिभिर्धूपनं लेपनं च कार्यम्| पलङ्कषा लाक्षा| वृश्चिकाल्युष्ट्रधूमकः| अतिरसा मूर्वा| छत्रा गौतमाख्या कुतूम्बकं च| मांसाशिनः पक्षिणः श्येनादयस्तेषां यथालाभं विड्भिः||२६||

Adhikarana dhUpanauShadham (27) · Śloka 27

नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः| तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत्| काकोलीशिग्रुलवणहिङ्गुहिङ्गुशिवाटिकाः| कैडर्यं चन्दनं कृष्णां काकनासां ससर्षपाम्| शुनः स्कन्धाक्षिनखरान् पर्शुकांश्चेति पेषयेत्| बस्तमूत्रेण पुष्यर्क्षे तैर्दिह्याद्धूपयेच्च तैः||२७||

🔊 Audio coming soon

नकुलादिजैस्तुण्डादिभिरस्यापस्माणौ धूपं प्रयोजयेत्| तुण्डं मुखाग्रम्| पुष्यनक्षत्रे काकोल्यादिकं बस्तमूत्रेण पेषयेत्| पिष्टैस्तैरपस्मारिणं दिह्यद्धूपयेच्च| हिङ्गुशिवाटिका हिङ्गुपत्रिका| कैडर्यः पूतिकरञ्जः||२७||

Adhikarana udvartanapariShecanauShadham (28) · Śloka 28

गोपुच्छलोमभिर्दग्धैरथवा बस्तरोमभिः| खरास्थिभिर्हस्तिनखैस्तद्वद्वा मूत्रकल्कितैः| उद्वर्तनं सदा कुर्याच्छृतैश्च परिषेचनम्||२८||

🔊 Audio coming soon

गोपुच्छलोमभिर्दग्धैर्मूत्रकल्कितैश्चोद्वर्तनं सदा कुर्यात्| अथवा बस्तरोमभिर्दग्धैर्मूत्रकल्कितैश्चोद्वर्तनमथवा खरास्थिभिर्हस्तिनखैस्तद्वदिति दुग्धैरनु च मूत्रकल्कितैर्जले शृतैर्गोपुच्छलोमादिभिः परिषेचनं च कुर्यात्||२८||

Adhikarana uktacikitsAPalam (29) · Śloka 29

आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रमुच्यते| स्रोतांसि चास्य शुद्ध्यन्ति स्मृतिं संज्ञाञ्च विन्दति||२९||

🔊 Audio coming soon

आभिरनन्तरोक्ताभिः क्रियाभिः सिद्धाभिरसन्दिग्धकार्यकरणस्वभावाभिरस्यापस्मारिणो हृदयं सम्यक् प्रमुच्यते स्रोतांसि शुद्ध्यन्ति च| सः स्मृतिं संज्ञां च विन्दति लभते||२९||

Adhikarana daivavyapAshrayacikitsA (30) · Śloka 30

भूतानुबन्धेऽपस्मारे दोषलिङ्गाधिकाकृतौ| युञ्ज्याद्यथास्वं भूतोक्तां क्रियां दैवव्यपाश्रयाम्||३०||

🔊 Audio coming soon

अपस्मारे यद्युक्तलिङ्गाधिक्यलक्षणैर्भूतानुबन्धो दृश्यते अतस्तत्र दैवव्यपाश्रयां मात्रादिकां क्रियां युञ्ज्यात्| यस्यैव सुराद्यन्यतमस्यानुबन्धस्तस्यैव क्रियेति यथास्वशब्दार्थः||३०||

Adhikarana tailalashunAdyaByAsaH (31) · Śloka 31

शीलयेत्तैललशुनं पयसा वा शतावरीम्| ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||३१||

🔊 Audio coming soon

शीलयेदित्यादि सुबोधम्| तैललशुनादीनां शीलनमभ्यासः||३१||

Adhikarana rasAyanaprayogaucityam (32) · Śloka 32

समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः| यज्जायते यतश्चैष महामर्मसमाश्रयः| तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेत्| तदार्त्तं चाग्नितोयादेर्विषमात् पालयेत्सदा||३२||

🔊 Audio coming soon

एष चापस्मारो दुश्चिकित्स्यस्वभावो यद्यस्माच्छारीरैर्मानसैश्च दोषैः सममेककालं क्रुद्धैर्जायते| एष चापस्मारो यतो महामर्मसमाश्रयो हृदयाश्रयस्तस्मादेनं दुश्चिकित्स्यं रसायनैः सदोपचरेत्| तदित्यपस्मारपरामर्शः| सुबोधम्||३२||

Adhikarana visheShaM pathyam (33) · Śloka 33

मुक्तं मनोविकारेण त्वमित्थं कृतवानिति| न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत्||३३||

🔊 Audio coming soon

मनोविकारेण चोन्मादभूतादिकानां मुक्तं निवृत्तमनोविकारं नरं त्वमित्थं कृतवानिति न ब्रूयादावेशे भवतेदं कृतमिति न स्मारयेत्| अस्य तून्मादादिनः क्लिष्टं चेतो मन इष्टैर्विषयैः शब्दादिभिर्बृंहयेत्||३३||

Adhikarana mahAsnehaprashaMsA (10) · Śloka 10

ग्रहोपश्लिष्टदेहानां विभ्रान्तस्मृतिचेतसाम्| महास्नेहं प्रशंसन्ति पानाभ्यञ्जनबस्तिषु||३४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे अपस्मार प्रतिषेधो नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

प्रसङ्गेनोच्यते| ग्रहैः उपरिलष्टदेहानामाचार्याः पानादिषु महास्नेहं स्नेहचतुष्टयं प्रशंसन्तीति|| ३४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे दशमोऽध्यायः||१०||