Adhikarana atha vartmarogapratiShedho nAma dvAdasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो वर्त्मरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उक्तक्रमेणैव वर्त्मरोगप्रतिषेधाध्यायं व्याख्यातुमारभते||१||
Adhikarana kRucCronmIle auShadham (2) · Śloka 2
कृच्छ्रबोधे पुराणं घृतं द्राक्षाकल्कक्वाथसिद्धं शर्क रावचूर्णितं रात्रौ पाययेत्|
स्निग्धांश्च नस्यधूमाञ्जनतर्प णपुटपाकान् प्रयोजयेत् वातहरद्रव्यकल्पितांश्च वस्तीन् क्षीरस्विन्नैरेरण्डपल्लवैः स्वेदं च वर्त्मनाम्||२||
कृच्छ्रबोधाख्ये वर्त्मरोगे प्रराणं द्राक्षायाः क्वाथेन तस्या एव च कल्केन सिद्धं शक्ररयावचूर्णितं भिषगातुरं रात्रौ पाययेत्| अत्र च स्निग्धान् नस्यादीन् वातहरद्रव्यसिद्धान् बस्तीन् क्षीरस्विन्नैरेरण्डपल्लवैवर्त्मनां स्वेदञ्च प्रयोजयेत्||२||
Adhikarana kRucCronmIle dAhakarma (3) · Śloka 3
एवमशान्तौ मुद्गमात्रान्तरैः पदैरग्निना त्वग्दाहं बिन्दु भिराचरेत्||३||
एवं कृतेऽप्यशान्तौ सत्यामग्निना बिन्दुर्भिर्मुद्गमात्रान्तरैः पदैस्त्वग्दाहमाचरेत्| बिन्दुभिरिति त्वग्दाहकरणे शरादीनां मुखस्पर्शेन वर्त्मनोर्बिन्द्वाकृतिर्दाहो योज्यो मुद्गमात्रैर्व्यवहितैः पदैरिति प्रदर्शितम्||३||
Adhikarana kumBIkAcikitsA (4) · Śloka 4
कुम्भीकापिटकासु वर्त्म लिखित्वा सैन्धवेनानुप्रति सार्य पटोलामलकमधुकक्वाथेन सेचयेद् घृतेन च||४||
निमिषवातहतौ वर्जयेदित्युक्तम्| कुम्भीकाख्यासु पिटकासु वर्त्म लिखित्वा सूक्ष्माभी रेखाभिः समं विदार्य पश्चात्सैन्धवेन प्रतिसारणं पटोलादिक्वाथेन घृतेन च सेकं च||४||
Adhikarana pittaraktokliShTayoshcikitsA (5) · Śloka 5
पित्तरक्तोत्क्लिष्टयोर्मधुरौषधसिद्धेन सर्पिषा स्निग्धस्य सिरां विध्येत्|
विरेचयेच्चैनं त्रिवृत्क्वाथवता त्रिफला कल्केन|
त्रिफलाक्वाथयुक्तेन वा ब्राह्मीचूर्णेन|
चन्द नोशीरमधुकमृद्वीकापुनर्नवबृहतीमलसिद्धं तैलं नावयेत्|
लिखिते च वर्त्मनि स्रुतरक्ते यष्ट्याह्वनिर्यूहेण प्रक्षालनम्|
चन्दनशृतं पयः परिषेकः|
शीतस्निग्धाश्च शिरोवक्त्रलेपः||५||
पित्तोत्क्लिष्टे रक्तोत्क्लिष्टे च शिरोवक्त्रलेपान्तं यथायोगं कार्यम्| लाघवाय क्रमभङ्गः|| ५||
Adhikarana pakShmashAtacikitsA (6) · Śloka 6
पक्ष्मशाते रोमकूपान् सूच्यग्रेण कुट्टयोज्जलौकोभिर्वा ग्राहयेत्|
पयसेक्षुरसेन वा वमनम्|
स्वादुशीतस्कन्ध साधितं सर्पिर्नावनम्|
काकजङ्घां रोहितमत्स्यमांसं च काकशोणितभवितमन्तर्धूमं दग्धं चूर्णाञ्जनं कुर्यात्|
सञ्चूर्ण्य पुष्पकासीसं भावयेत् सुरसारसैः|
ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम्||६||
पक्ष्मशाते व्याख्यासमम्| सूच्यग्रं सूचिप्रान्तं तेनाघातैः कुट्टयत् च्युतानां रोम्णां सुषिराणि तुदेत्| पयसेक्षुरसेन वा वमनमित्यत्र वमनद्रव्ययुक्तेनेतयर्थात् गम्यते| स्वादुशीतस्कन्धः शतावरीजीवन्त्यादिः| (सञ्चूर्ण्येति| पुष्पकासीसं तत्संज्ञमौषधं सञ्चूर्ण्य चूर्णयित्वा सुरसारसैः सुरसायास्तुलस्याः स्वरसैः सह ताम्रे ताम्रभाजने दशाहं दश दिवसान् दशाहमित्यस्यात्यन्तसंयोगे द्वितीया| भवयेत् मर्दयेत्| पुष्पकासीसं पुत्रञ्चारीति भाषायाम्| तत् पक्ष्मशाते परमं श्रेष्ठमञ्जनम् ) ||६||
Adhikarana pothakIcikitsA (7) · Śloka 7
पोथकीर्विलिख्य शुण्ठीसैन्धवमागधिकाचूर्णैः प्रतिसार्य प्रक्षाल्य चोष्णाम्भसा खदिरसाराढकीशिग्रुपत्रक षायेण सेचयेत्|
ततश्चाम्रजम्बूप्रवालक्वाथेनाऽश्च्योतनम्|
त्रिफलाखदिरसारोदकेन वा मधुसंयुक्तेन|
विड ङ्गलाक्षादार्वीत्वग्गैरिकालमनोह्वाचूर्णः क्षौद्रान्वितोऽञ्जनम्||७||
पोथकीर्विलिख्येत्यादि| खदिरसारः खदिरकाष्ठं| आढकी तुवरी| आम्रः सहकारः| जम्बूः प्रसिद्धस्तयोः प्रवालानाम् क्वाथेन| मधुयुक्तेन त्रिफलादिक्वाथेन वाश्च्योतनम्| विडङ्गादिचूर्णः क्षौद्रान्वितोऽञ्जनम्||७||
Adhikarana pothakIcikitsAvisheShaH (8) · Śloka 8
एवमप्यनुपशमे जलौकसो योजयेत्|
पुनः पुनर्वा लेखयेत्|
परिषेकञ्च त्रिफलामधुकद्विहरिद्राकषायेण मधुयुक्तेन कुर्यात्|
मुस्तशर्कराकपित्थपत्राम्बुना वा||८||
एवं कृतेऽप्यनुपशमे अशान्तौ जलौकसौ योजयेत् ताभिर्दुष्टरक्तमहपरेदित्यर्थः| मधुयुक्तेन त्रिफलादिकषायेण परिषेकं कुर्यात्| द्विहरिद्रा पिण्डहरिद्रा दारुहरिद्रा च| मुस्ताद्यम्बुना वा परिषेकं कुर्यात्| कपित्थो दधित्थः||८||
Adhikarana kaPotkliShTavartmacikitsA (9) · Śloka 9
कफोत्क्लिष्टं वर्त्म लिखित्वा सैन्धवकासीसपिप्पलीम नश्शिलारसाञ्जनचूर्णैर्मधुमद्भिः प्रतिसारयेत्|
कफघ्नानि च वमनधूमनावनाञ्जनान्याहारविधिश्च वर्त्मोपक्लेदे कासीसलवणसुमनोमुकुलरसाञ्जनैर्वर्त्तिरञ्जनम्||९||
कफोत्क्लिष्टं इति चूर्णैरिति बहुवचनमविवक्षितम्| वर्त्मोपक्लेदः कफोत्क्लिष्ट एव विज्ञेयः||९||
Adhikarana lagaNacikitsA (10) · Śloka 10
लगणं कफोत्क्लिष्टवत् साधयेत्|
अशाम्यत्यग्निना दाहो वमनं विरेचनं च|
पिप्पलीमधुकनिम्बज्योतिष्मतीदेव दारुविडङ्गप्रियङ्गुत्रिफलाकुष्ठशताह्वासैन्धवैः सिद्धं तैलं नावयेत्|
तीक्ष्णावपीडाञ्जनकवलांश्च विदध्यादुष्णो पचारं च||१०||
लगणमिति| योतिष्मती कङ्गुणिका| अवपीडादिकं सूत्रोक्त लक्षणम्|| १०||
Adhikarana utsa~gginIcikitsA a~jjananAmikAcikitsA ca (11) · Śloka 2
उत्सङ्गपिटकामञ्जननामिकां च भित्वा निष्पीड्य चो ल्लिखितां तगरैलासैन्धवनोपालीचूर्णेन सक्षौद्रेण प्रतिसा रयेत्|
हरिद्रामधुकपटोललोध्रः समाक्षिकः परिषेकः||२||
उत्सङ्गपिटिकामित्यादि| भेदः काण्डवच्छस्त्रनिक्षेपः| नेपाली मनश्शिला| प्रतिसारयेल्लिम्पेत्| अर्शश्च वर्जयेदित्युक्तम्||११||
Adhikarana bisavartmAdiShu cikitsA (12) · Śloka 12
बिसवर्त्मादिषु बहलवर्त्मान्तेषु सैन्धवं प्रतिसारणम्|
बिसश्लिष्टवर्त्मनोस्तथानुपशमेऽग्निना क्षारेण वा दहनम्||१२||
बिसवर्त्मादिष्विति सप्तसु| तत्र विशेषो विसश्लिष्टयोः| तथेति सैन्धवप्रतिसारणेनानुपशमे अग्निक्षारयोरन्यतरेण दहनम्||१२||
Adhikarana kukUNakacikitsA (13) · Śloka 13
कुकूणके निम्बपत्रत्रिफलाखदिरमूलकल्कविपक्वं सर्पिर्धात्री पाययित्वा सैन्धवसर्षपोपकुल्यायष्ट्याह्वव तोष्णोम्भसा वामयेत्|
पिप्पलीद्राक्षाभायानिर्यूहेण विरेचयेत्|
स्तनौ चास्या मागधिकामुस्ताद्विरजनीकल्के नालिप्योद्वर्तयेत्|
धूपयेच्च सघृतैः सिद्धार्थकैः|
पाययेच्चैनां पटोलमुस्तमृद्वीकागुडूचीत्रिफलाकषायम्|
बालस्य वर्त्मनी लिखित्वा मधुसैन्धवरसाञ्जनैः प्रति सार्यामलक्यश्मन्तकजम्बूपल्लवक्वाथेन प्रक्षालयेत्|
जलौकोभिर्वा ग्राहयेत्|
वेदनायां तु कुष्ठगुडूचीकल्को दकेन सगुडक्षौद्रेण परिषेको मूर्धानं चास्य कटुतैले नाभ्यज्य पाठाकल्केन प्रलिप्यार्जुनबिल्वनिर्गुण्डीमार्क वतक्कारीसैर्यककार्पासीमालतीपत्रनिर्यूहेण सेचयेत्|
मरिचविडङ्गहरिद्राकल्कसिद्धं तैलं प्रतिमर्शः|
मूर्वाताम्ररजसी स्तन्यपिष्टे पिण्डाञ्जनम्|
शङ्खमनश्शिला सैन्धवरसाञनक्षौद्रैर्वा रसक्रिया|
लोहशिवाटिकामृदः कपालेऽनेकशः प्रतप्ताः स्तन्येन निर्वापिताः श्लक्ष्णचूर्णमञ्जनम्|
लाक्षावेल्लमनःशिलालगैरिकदार्वीत्वग्भिर्वा|
पुनः पुनश्च धात्रीं वमनविरेचनैरुपपादयेत्||१३||
कुकूणकनाम्नि रोगे बालस्य धात्र्या निम्बपत्रादिना सर्पिस्सैन्धवादियुक्तेनोष्णाम्भसा वमनं पिप्पल्यादि निर्यूहेण विरेचनं चोच्यमानं सुबोधम्| अस्याश्च धात्र्या स्तनौ मागधिकादिभिरालिप्योद्वर्तयेत्| सघृतैर्घृतसहितैः सिद्धार्थकैर्धूपयेच्च| सिद्धार्थकः सर्षपः| एनां धात्रिं पटोलादिकषायं च पाययेत्| इति धात्र्या बालोपकाराय क्रिया| बालस्येति| परं तु बालस्य वर्त्मलेखनप्रतिसारणप्रक्षालन जलौकसो योज्याः वेदनायां रुजायामर्थादितिमात्रायं तु बालस्य गुडक्षौद्रसहितेन कुष्ठादिकल्कोदकेन परिषेकः| अस्येति बालस्य मूर्धानंशिरः| सुबोधम्| कातुशब्देन सर्षपा उच्यन्ते| मरिचादीनां कल्केन सिद्धं तैलं प्रतिमर्शो नस्यम्| व्याख्यासमम्| पिण्डाञ्जनं वर्तिः| द्रवघृष्टा रसक्रिया| क्षौद्रे क्षिप्तश्चूर्णोद्रवाञ्जनम्| लोहमयः| शिवाटिका काकोदुम्बरिका| मृत् गैरिकम्||१३||
Adhikarana pakShmoparodhacikitsA (14) · Śloka 14
पक्ष्मोपरोधे समुपचितं वर्त्म लेखनेनोत्क्लिष्टं रक्तं विस्रावणेन सशोफं शिरोविरेककवलवमनैर्यापयेत्|
प्रवृद्धेषु तु रोमसु विशुद्धदेहस्य सहिष्णोर्भ्रुवोऽधस्ताद् द्वौ भागौ पक्ष्मान्ताद्भागमेकं समुत्सृज्य यवमात्रं तदाकृति तिर्यक् छेदयेदाऱ्द्रवाससा च रक्तं गृह्णीयात्|
ततस्तनुभूते रक्ते क्षौमसूत्रेण बालेन वा धनुर्वक्रया सूच्या मुद्गमात्रान्तरैः पदैः सीयेत्|
ततोऽस्य ललाटे पट्टं बद्ध्वा तन्सीवनसूत्रं तत्र सूचीपदैर्नातिगाढश्ल थमासज्जेत्|
शतधौतघृतेन चास्य सक्षौद्रेण कवलिकां दद्यात्|
न चैतद् बध्नीयात्|
व्रणवेदनायां वस्त्रबद्धेन यष्टी मधुकचूर्णेन संस्कृतं सर्पिः परिषेको वटादिकषायाश्च सक्षीराः|
पञ्चमे षष्ठे वाहनि स्थिरीभूतेषु शस्त्रपदेषु सीवनसूत्रमवलम्बकाच्छित्वाऽपनयेत्|
व्रणं च स्वर्ण गैरिकरजसाऽवचूर्णयेत्|
तीक्ष्णनस्याञ्जनानि चावचा रयेत्|
अत्युत्क्षिप्ते तु सूत्रे श्वयथुः स्यात्|
तत्र मृदुः स्वेदः स्नैहिकं च नस्यम्|
निर्भुज्य वा वर्त्मदोषोपहतां वली विलिख्य तम्बुरू वक्रकुशाभयावीजान्यतमकल्केन प्रतिसारयेत्|
क्षारेण वा दहेत्तप्तया वा शलाकया|
उपपक्ष्माणि तु लाक्षारसेन लक्षयित्वा सन्दंशेनोद्धृत्य तनुसूच्यग्रेणाग्निवर्णेन रोकूपान् दहेत्|
ततश्च पूर्ववत् परिषेको नावनं च||१४||
पक्ष्मोपरोधे समुपचितादिरूपे वर्त्मनि विशेषेण विलेखनादिक्रियाविशेषः| प्रवृद्धेषु तु रोमसु पक्ष्मोपरोधे पक्ष्मणामूर्ध्वगानां भ्रुवश्च यदन्तरं तन्त्रिभागैर्विकल्प्यम्| ततो द्वौ भागौ भ्रुवोऽधस्तात् त्यक्त्वा यवमात्रं यवा कृतिं च तिर्यक् छेदं शस्त्रेण दद्याद्रक्तं चार्द्रवाससा गृह्णीयात्| ततोऽनन्तरं तनुभूतेऽस्रो वहनेन स्वल्पीभवति| धनुर्वक्रा सूची शस्त्रविधावुक्ता| एवं स्यूते वर्त्मव्रणे यत्सीवनसूत्रं तच्छिरसि पृथग्बद्धं पट्टं सीवन्या नातिगाढश्लथमासञ्चेत्| चिरगृहीते च सूत्रे कवलिकां चैलखण्डिकां व्रणस्योपरि दद्यात्| एतिदिति प्रकृतं वर्त्म| वटादिकषायाश्च सक्षीराः परिषेका इति सम्बध्यते| सुबोधम्| अवलम्बकं शिरः पट्टकं यन्त्रतया सीवनसूत्रस्यासञ्जनार्थं पूर्वमुक्तम्| स्वर्णगैरिको गैरिकविशेषः| नातिगाढश्लथमासञ्जेदित्युक्तमतस्तदन्यथात्वे दोषमाह| सूत्रे त्वत्युत्क्षिप्ते सति गाढत्वाच्छ्वयथुः स्यात्| तत्रेति श्वयथौ| स्नैहिकं नस्यं नस्यविधावुक्तम्| निर्भुज्येत्यन्तः परिवर्त्य| दोषोपतप्ता वली श्वयथुकारणाधिष्ठितमांसराजिः| उपपक्ष्माणि यान्यन्यानि वेत्युक्तानि| पक्ष्मोपरोधे तानि लाक्षारसेन यावकेन लक्षयित्वा साभिज्ञानीकृत्य| पूर्ववदिति व्रणवत्||१४||
Adhikarana alajyarbudayoshcikitsA (15) · Śloka 15
बाह्यालजेर्भिन्नलिखितस्य क्षारेणाग्निना वा दाहो व्रणवच्चोपचारः|
अर्बुदस्य च स्विन्नस्यामूलच्छिन्नस्य लिखितप्रतिसारितस्य चेति|
भवन्ति चात्र निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः|
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा|
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम्|
न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः|
मण्डलाग्रेण तर्त्तिर्यक्कृत्वा शस्त्रपदाङ्कितम्|
लिखेत्तेनैव पत्रैर्वा शाकशोफालिकादिजैः|
फेनेन तोयशशोर्वा पिचुना प्रमृजन्नसृक्|
स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत्|
यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा|
घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा|
ऊर्ध्वाधः कर्णयोर्दत्वा पिण्डी च यवसक्तुभिः|
तृतीयेऽहनि मुक्तस्य परिषेकं यथायथम्|
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे||१५||
बाह्यालजेर्व्याख्यासमम्| अर्बुदस्य च स्विन्नच्छिन्नादिरूपस्य सतो व्रणवदुपचार इति सम्बध्यते| गतानुगतिका| निवात इत्यादिनाऽर्बुदस्य क्रमेण स्वेदादिबिधानम्| शुद्धस्य कृतवमनविरेचनस्य निवाते वातरहिते प्रदेशे आप्तैर्विश्वस्तपुरुषैरधिष्ठितस्यालम्बितस्य उत्तानशायिनः कृतोत्तानशयनस्यादावेव कोष्णाम्बुतप्तेन वाससा बहिर्वर्त्म संस्वेद्य रक्तविलायनार्थमेतत्| ततो वर्त्मान्तर्निर्भुज्य कुटिलीकृत्य वाह्यतो विकास्य वस्त्रान्तरिताभ्यां वामहस्माङ्गुष्ठाङ्गुलीभ्यां धृतं कुर्यादिति शेषः| एवं च धृतं वर्त्म हस्तान्न स्रंसते| न वा चलति| ततोऽनन्तरं तद्वर्त्म सर्वतः साकल्येन मण्डलाघ्रेण तत्संज्ञशस्त्रेण तिर्यग्वर्त्मायामवैपरीत्येन शस्त्रपदाङ्कितं किञ्चिद् व्रणितं कृत्वा तेन मण्डलाग्रेणैव लिखेत्| मण्डलाग्रं नाम शस्त्रमुक्तं शस्त्रविधौ| अथवा शाकाख्यस्य तरोः पत्रेण शोफालिकादिपरुषपत्रेण वा तोयराशोः समुद्रस्य फेनेन वा लिखेत्| पिचुना कार्पासचुलुकेनोत्पन्नमसृक् प्रमृजन्| (रक्तप्रवृत्त्या लेखितुमशक्यत्वे तदुपायमाह-पिचुनासृक् प्रमृजन्निति| वस्त्रखण्डेनान्तरान्तरा प्रकर्षेणासृजः शोधनं कुर्वन्)| सुलिखितं च रक्ते स्थिते रुद्धे सक्षौर्द्रैर्यथास्वमुक्तैः प्रयोगैर्दोषव्याध्याद्यनतिक्रमेणेति यथास्वशब्दार्थः| प्रतिसारयेत्| अनु पश्चादुष्णेन वारिणा प्रक्षाल्य क्षालयित्वा घृतेन सिक्तं मधुसहितसर्पिषा चाभ्यक्तं यवसक्तुभिः पिण्डी मधुसर्पिर्भ्यामेव वर्तितां दत्वा कर्णयोरूर्ध्वमधश्च यवपिण्ड्या सह वर्त्मव्रणबन्धः सुकरो भवति| तृतीयेऽह्नि मुक्तबन्धनस्य वर्त्मनो यथायथं दोषाद्यनतिक्रमेण परिषेकं कृत्वा पुनर्बध्नीयादित्येवकाराल्लभ्यते| (अनु प्रतिसारणादनन्तरमुष्णेन वारिणा सुखोष्णजलेन प्रक्षाल्य सम्यक् क्षालयित्वा घृतेन सर्पिषा सिक्तं कृतपरिषेकं पश्चान्मधुसर्पिषा मधुसहितेन सर्पिषाऽभ्यक्तं कृत्वा यवसक्तुभिः पिण्डी च दत्वा मधुसर्पिर्भ्यामेव वर्तितं यवसक्तुपिण्डं च निम्नताजनितशैर्थिल्यपरिहारार्थं वर्त्मनोर्बहिर्विन्यस्य| उक्तञ्च- यवानां सक्तुभिः सूक्ष्मैर्मधुसर्पिः परिप्लुतैः| वर्त्मप्रमाणं पिण्डीं च दत्वा बन्धनामाचरेत्|| इति| उभयोरपि कर्णयोरूर्ध्वाध ऊर्ध्वभागेऽधोभागे च ऊर्ध्वाऽधोभागगतेन द्विमुखेन चैलखण्डेन पृष्ठे बध्नीयादित्यर्थः| तृतीयेऽहनि बन्धनात्तृतीये दिवसे मुक्तस्य मुक्तबन्धनस्य वर्त्मनो यथायथं यथास्वं परिषेकं घृतक्षीरस्वरसकषायादिभिराश्च्योतनं कुर्यात्| चतुर्थे चतुर्थदिवसे नस्यादीन् कुर्यात्| नस्यमादिर्येषां आदिशब्देन धूमकवलगण्डूषपरिग्रहः| पञ्चमदिवसे मोक्षयेदेव| पुनर्न बध्नीयात्| अत्रैवशब्देन तृतीयेऽहनि मुक्तस्य परिषेकानन्तरं बन्धनं कार्यमिति च सूचितम्)|| १५||
Adhikarana sulikhitavartmalakShaNam (16) · Śloka 16
समं नखनिभं शोफकण्डूघर्षाद्यपीडितम्|
विद्यात् सुलिखितं वर्त्म ...................||१६||
सुलिखिते प्रतिसारणाद्युक्तं तच्च सुलिखितं न ज्ञायते ततस्तल्लक्षणमुच्यते| समत्वादिगुणं शोफाद्यपीडितं च वर्त्म सुलिखितं विद्यात्||१६||
Adhikarana asamyaglikhite kriyA ati lekhane upacArAshca (17) · Śloka 17
.............................. लिखेद्भूयो विपर्यये|
रुक्पक्ष्मवर्त्मशतनस्रंसनान्यतिलेखनात्|
स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः|
अभ्यज्य नवनीतेन श्वेतलोध्रं प्रलेपयेत्|
एरण्डमूलकल्केन पुटपाकं पचेत्ततः|
स्वित्रं प्रक्षालितं शुष्कं चूर्णितं पोट्टलीकृतम्|
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम्|
शालितण्डुलकल्केन लिप्तं तद्वत् परिष्कृतम्|
कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना|
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः||१७||
अस्य तु सुलिखितलक्षणस्य विपर्यये भूयो लिखेत्| न त्वति| अतोऽतिलिखितलक्षणमुच्यते| रुगादिकमतिलेखनाद्भवति| तत्रातिलेखनाद्रुगादिके स्नेहस्वेदादिर्वातहरः क्रम इष्टः| अभ्यज्येत्यादिना श्वेतलोध्रपुटपाकविधानम्| पोट्टली प्रसेविका तद्भावमापादितं पश्चाच्च क्षीरमृदितम्| तदेव च श्वेतलोध्रमेरण्डमूलकल्केन विना शालितण्डुलकल्केन लिप्तं तद्वदेव च परिष्कृतं नवनीताभ्यङ्गादिना पोट्टलीकरणान्तेन कृतसंस्कारमनु च दधिमस्तुना मृदितमतिलिखिते वर्त्मनि नेत्रसेचनं कुर्यात्| अथवा जाङ्गलाशिनः सतः केवलेनैव मस्तुना सेचनम्||१७||
Adhikarana BedanaM taduttarakarma ca (12) · Śloka 12
भेद्यांस्तु व्रीहिवक्त्रेण बिभिद्य कठिनोन्नतान्|
निष्पीडयेदनु विधिः शेषः स्यात्तत्र पूर्ववत्||१८||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे वर्त्मरोग प्रतिषेधो नाम द्वादशोऽध्यायः||१२||
भेद्यान् लगणादीनलज्यन्तान् कठिनानुन्नतांश्च व्रीहिवक्त्रेण बिभिद्य निष्पीडयेत्| अनु पश्चाच्छेषो विधिः प्रतिसारणादिः पूर्ववत्स्यादिति||१८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे द्वादशोऽध्यायः ||१२||