Adhikarana atha vartmarogavij~jAnIyo nAmaikAdasho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो वर्त्मरोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
निजहेतुत्वादुक्तशिष्टत्वात् कायचिकित्साङबूतत्वाच्चोर्ध्वाङ्गचिकित्साया अवसरस्तत्रापि चक्षुषः प्राधान्यात्तस्यैव वर्त्मसन्धिसितासितदृष्टिक्रमेण निर्णयः क्रियते| तत्र तावद्वर्त्मरोगाणां हेत्वादिप्रदर्शनाध्याय आरभ्यते| वर्त्म नेत्रपुटम्||१||
Adhikarana netrarogANAM sAmAnyo hetuH samprAptishca (2) · Śloka 2
सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः|
अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः|
सिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः|
वर्त्म सन्धिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा|
रोगान् कुर्युः ...................................||२||
सर्वरोगेत्यादिनासामान्येनाक्षिरोगाणां निदानं सम्प्रप्तिश्छोच्यते| सर्वरोगनिदाने यान्यहितान्युक्तानि तैर्विशेषेण चाचक्षुष्यैर्मला वातादयः कुपिताः सिराभिश्छ यथास्वं कोष्ठादूर्ध्वं शिरःप्रसृता वर्त्मादिकं च नेत्रस्यावयवं सर्वमेव वा नेत्रमाश्रिता रोगान् नानाविधान् कुर्युः| किम्भूता आह| प्रायो बाहुल्येन दोषाः पित्तानुसारिणः पित्तप्रधानाः| प्रायो नेत्रयो रोगकरा इत्यर्थः||२||
Adhikarana kRucCronmIlam (3) · Śloka 3
.................. चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः|
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम्|
पांसुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च|
विमर्दनात्स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तम्||३||
तत्रैवंस्थिते चलो वायुः प्रधानो वर्त्माश्रयाः सिराः प्राप्य सुप्तोत्थितस्य तत्कालत्यक्तनिद्रस्य पुंसो वर्त्मस्तम्भादिकं कुरुते| तस्य च रोगस्य विमर्दनाच्छमः स्यात्| तं रोगविशेषमाचार्या नाम्ना कृच्छ्रोन्मीलमिति वदन्ति||३||
Adhikarana nimeShaH (4) · Śloka 4
चालयन्वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः|
करोत्यरुङ्निमेषोऽसौ ....................||४||
वायुः क्रुद्धो वर्त्मनी चालयन् मुहुर्निमिषोन्मेषणं करोति| अरुगिति विना रुजम्| असौ रोगो निमेषाख्यः||४||
Adhikarana vAtahatavartma (5) · Śloka 5
......................... वर्त्म यत्तु निमील्यते|
विमुक्तसन्धि निश्छेष्टं हीनं वातहतं हि तत्||५||
यत्तु वर्त्म वायुना निमील्यते न कदाचिदुन्मील्यते तद्वर्त्म नाम्ना वातहतमुच्यते| किम्भूतं वर्त्माह| विमुक्तसन्धि विस्रस्तबन्धनम्| निश्छेष्टं हीनं च||५||
Adhikarana kumBikAH (6) · Śloka 6
कृष्णाः पित्तेन बह्व्योऽन्तवर्त्म कुम्भीकबीजवत्|
आध्मायन्ते पुनर्भिन्नाः पिटिकाः कुम्भिसंज्ञकाः||६||
अन्तर्वत्म वर्त्मनोऽन्तर्भागे पित्तेन कृष्णाः पिटिका भवन्ति| या भिन्नाः कुम्भीकबीजवत् कुमुदतण्डुलवत् पुनराध्मायन्ते परिपूर्वन्ते| ताः पिटकाः कुम्भिनाम्न्यः||६||
Adhikarana pittotkliShTavartma (7) · Śloka 7
सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम्|
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत्||७||
पित्तेन सदाहादिगुणं वर्त्म जायते भवति| तद्वर्त्म नाम्ना पित्तोत्क्लिष्टमुशन्ति||७||
Adhikarana pakShmashAtam (8) · Śloka 8
करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमाश्रितम्|
पक्ष्मणां शतनं चानु पक्ष्मशातं वदन्ति तम्||८||
पक्ष्मान्तमाश्रितं पित्तं कण्डूवादिकं करोति तं रोगमाचार्या नाम्ना पक्ष्मशातमिति वदन्ति||८||
Adhikarana pothakI (9) · Śloka 9
पोथक्यः पिटकाः श्वेताः सर्षपाभा घनाः कफात्|
शोफोपदेहरुक्कण्डूपिच्छिलास्रसमन्विताः||९||
श्वेता आकृत्या च सर्षपसदृशा घनाः संहताः शोफादिसमन्विताश्छ पिटकाः कफाद्भेतोर्भवन्ति| ताश्छ पिटाकाः कफाद्भेतोर्भवन्ति| ता नाम्ना पोथक्य इत्युच्यन्ते||९||
Adhikarana kaPotkliShTavartma (10) · Śloka 10
कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत्||१०||
स्तम्भादिमद्वर्त्म भवेत् कफादिति प्रकरणात्| तद्वर्त्म नाम्ना कफोत्क्लिष्टमित्युच्यते||१०||
Adhikarana lagaNaH (11) · Śloka 11
ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान् कठिनः कफात्|
कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथवा||११||
कफोद्भेतोः कोलमात्रो बदरमात्रस्ततो वा कोलात् किञ्चिदल्पः पाण्ड्वादिगुणो ग्रन्थिर्नाम्ना लगण इत्युच्यते||११||
Adhikarana utsa~ggA (12) · Śloka 12
रक्ता रक्तेन पिटका तत्तुल्यपिटकाचिता|
उत्सङ्गाख्या ........................||१२||
रक्तेन वातादिदुष्टेन रक्ता लोहितवद्रक्तवर्णा पिटका भवति| तत्तुल्याभिः प्रधानसदृशाभिरन्याभिः पिटकाभिराचिता कृतसञ्चया सा पिटका नाम्नोत्सङ्गेत्युच्यते ||१२||
Adhikarana utkliShTaM vartma (13) · Śloka 13
.........तथोक्लिष्टं राजिमत् स्पर्शनाक्षमम्||१३||
तथेति रक्तेनोत्क्लिष्टन्नाम वर्त्म तत्तद्राजिमत् स्पर्शनाक्षमञ्च||१३||
Adhikarana arshovartma (14) · Śloka 14
अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्|
रक्तं रक्तेन तत्स्राविच्छिन्नं छिन्नं च वर्धते||१४||
रक्तेनासृजा वर्त्मान्तर्वर्त्मनोऽन्तभागे रक्तं लोहितमधिमांसं भवति स्तब्धादिगुणकमित्यधिमांसमर्म इति नाम्नोच्यते||१४||
Adhikarana a~jjananAmikA (15) · Śloka 15
मध्ये वा वर्त्मनोऽन्ते वा कण्डूषारुग्वती स्थिरा|
मुद्गमात्रासृजा ताम्रा पिटकाञ्जननामिका||१५||
असृजा रक्तेन वर्त्मनोऽन्ते वा मध्ये वा कण्डूवादिमती स्थिरा मुद्गप्रमाणा ताम्रवर्ण च या पिटका भवति सा नाम्ना अञ्जननामिकेत्युच्यते ||१५||
Adhikarana bisavartma (16) · Śloka 16
दोषैर्वत्म बहिः शूनं यदन्तः सूक्ष्मकाचितम्|
सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत्||१६||
दोषैस्त्रिभिर्यद्वर्त्म बहिः शूनमन्तः सूक्ष्मच्छिद्रं सस्रावमन्तरुदकं यस्मिन् बिसे तत्सदृशं भवति तद्वर्त्म नाम्ना बिसवर्त्म इत्युच्यते||१६||
Adhikarana utkliShTavartma (17) · Śloka 17
यद्वर्त्मोक्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्|
रक्तदोषत्रयोत्क्लेशाद्भवत्युत्क्लिष्टवर्त्म तत्||१७||
रक्तस्य दोषत्रयस्य च मिश्रीभावेन तेषामुत्क्लेशाद्धेतोर्यद्वर्त्म पुनरुत्क्लिष्टं स्वयमेव पुनर्म्लानतामियात् किञ्चित्पारे शोषं गच्छति तद्वर्त्म नाम्नोत्क्लिष्टवर्त्मेत्युच्यते||१७||
Adhikarana shyAvavartma (18) · Śloka 18
श्याववर्त्म मलैः सास्रैः श्यावं रुक्लेदशोफवत्||१८||
सास्रैः सरक्तैर्मलैर्वातादिभिस्त्रिभिर्मिश्रीभूतैः श्यावं वर्णेन रुगादियुक्तं च यद्वर्त्म भवति तन्नाम्ना श्याववर्त्मोच्यते||१८||
Adhikarana shliShTavartma (19) · Śloka 19
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी||१९||
सास्रैरेव च मलैर्वर्त्मनी द्वे कण्डूवादित्रययुक्ते परस्परश्लिष्टे च भवतः तद्वर्त्म श्लिष्टाख्यमुच्यते||१९||
Adhikarana sikatAvartma (20) · Śloka 20
वर्त्मन्तःपिटका रूक्षाः कर्कशाः सिकतोपमाः|
सिकतावर्त्म ...................................||२०||
वर्त्मनोऽन्तर्भागे रूक्षत्वादिगुणाः पिटका भवन्ति तद्वर्त्म नाम्ना सिकतावर्त्मोच्यते||२०||
Adhikarana kardamavartma (21) · Śloka 21
...............कृष्णं तु कर्दमं कर्दमोपमम्||२१||
कृष्णं कर्दमसदृशं मार्दवेन यद्वर्त्म तन्नाम्ना कर्दममुच्यते||२१||
Adhikarana vahalavartma (22) · Śloka 22
बहलं बहलैर्मांसैः सवर्णैश्छीयते समैः||२२||
यद्वर्त्म समैर्वहलैर्घनैर्मांसैश्छीयते तन्नाम्ना वहलमित्युच्यते||२२||
Adhikarana kukUNakaH (23) · Śloka 23
कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः|
स्यत्तेन शिशुरिच्छूनताम्राक्षो वीक्षणाक्षमः|
सवर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्दनः||२३||
दन्तोद्भवतो यो वर्त्मरोगः शिशोरेव भवति स नाम्ना कुकूणकः तेनोच्छोओनादिरूपाक्षः शिशुः स्यात्|| २३||
Adhikarana pakShmoparodhaH (24) · Śloka 24
पक्ष्मोपरोधे सङ्कोचो वर्त्मनोर्जायते ततः|
खरतान्तर्मुखत्वं च रोम्णामन्यानि वा पुनः|
कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते|
ऊष्यते चानिलादिद्विडल्पाहं शान्तिरुद्धृतैः||२४||
पक्ष्मोपरोधनाम्नि रोगे वर्त्मनोः सङ्कोचो जायते तथा रोम्णामपि वर्त्मभवानां सङ्कोचः खरतान्तर्मुखत्वञ्च जायते| अन्यानि वा रोमाणि जायन्ते| तैश्छ रोमभिस्तीक्ष्णाग्रैः कण्टकसदृषैर्घृष्टं सदक्षि शूयते| ऊष्यते सदाहं भवति अनिलादिस्पर्शं च द्वेष्टि| तैश्छ रोमभिरुद्धृतैरपनीतैरल्पाहं स्तोकानि दिनानि रुजश्शान्तिर्भवति पुनस्तथैव भवति||२४||
Adhikarana alajI (25) · Śloka 25
कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः|
ताम्रः पक्वोस्रपूयस्रुदलज्याध्मायते मुहुः||२५||
कनीनके नासानिकटे नेत्रान्ते बहिर्वर्त्मनो बहिर्भागे कठिनत्वादिगुणो ग्रन्थिर्भवति मुहुराध्मायतेऽर्थान्मुहुः स्रवति स ग्रन्थिर्नाम्ना अलजीत्युच्यते||२५||
Adhikarana vartmArbudam (26) · Śloka 26
वर्त्मान्तमांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः|
सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्छलः||२६||
सास्रैः रक्तमिश्रैर्वातादिभिर्मांसपिण्डसदृशः श्वयथुः स्यात्| स च यदान्तर्वर्त्म भवति तदा ग्रथितः कठिनोऽरुजश्छ भवति| यदा तु बहिर्वर्त्म तदा चलो भवति| स उभयोरपि श्वयथुरर्बुद इति नाम्नोच्यते||२६||
Adhikarana vartmarogasa~gkhyA (27) · Śloka 27
चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः||२७||
एते अनन्तरोक्ता वर्त्माश्रया व्याधयः कृच्छ्रोन्मील, निमेष, वातहत, कुम्भि, पित्तोत्क्लिष्ट, पक्ष्मशात, पोथकी, कफोत्क्लिष्ट, लगण, उत्सङ्ग, रक्तोत्क्लिष्ट, अर्श, अञ्जननामिका, बिसवर्त्म, उत्क्लिष्टवर्त्म, श्याववर्त्म, सिकता, कर्दम, बहल, कुकूणक, पक्ष्मोपरोध, अलजी, अर्बुदाख्याश्छतुर्विंशतिरीत्युक्ताः||२७||
Adhikarana sAdhyAsAdhyatA (28) · Śloka 28
अद्योऽत्र भेषजैः साध्यो द्वौ ततोऽर्शश्छ वर्जयेत्|
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रौषधैर्जयेत्||२८||
अत्र चतुर्विंशतावाद्यः कृच्छ्रोन्मीलाख्यो भेषजैर्वक्ष्यमाणैः साध्यः तदनन्तरो निमिषवातहताख्यावर्शआख्यश्छ त्रय इति वर्जयेत्| पक्ष्मोपरोधो याप्यः| शेषाननुक्तान् शस्त्रैरोषधैश्छ यथायोग्यं जयेत्||२८||
Adhikarana cikitsAsUtranirdeshaH (29-30) · Śloka 30
कुट्टयेत् पक्ष्मशतनं छिन्द्यात्तेष्वपि चार्बुदम्|
भिन्द्याल्लगणकुम्भीकाविसोत्सङ्गाञ्जनालजीः|
पोत्थकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम्|
सकर्दमं सबहलं विलिखेत् सकुकूणकम्||२९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे वर्त्मरोग विज्ञानीयो नामैकादशोऽध्यायः||३०||
अत्रैवेषां चिकित्सा सूत्र्यते सुखावबोधाय-कुट्टयेदित्यादि| तेष्पवि शेषेषु पक्ष्मशतनं वक्ष्यमाणाप्रकारेण कुट्टयेत्| अर्बुदं छिन्द्यात्| अलज्यन्तं भिन्द्यात्| पोत्थक्यादिकं विलिखेदिति| इति श्रीमन्महामहोपाध्ययेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे एकादशोऽध्यायः