Adhikarana atha guhyarogapratiShedho nAmaikonacatvAriMsho~adhyAyaH, pratij~jA (1) · Śloka 1
अथातो गुह्यरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उक्तक्रमेणैव गुह्योरोगाणां प्रतिषेधं प्रदर्शयितुमध्याय आरभ्यते| अथेत्यादि पूर्ववत्| गुह्यरोगाणां प्रतिषेधं चिकित्सितम्|| १||
Adhikarana apadaMshAnAM cikitsAkramaH (2) · Śloka 2
अपदंशेषूत्पन्नमात्रेषु पाकपरिहारार्थं मेढ्रमध्ये सिरां विध्येत्|
उभयतश्चास्य विधिवद्दोषानपहरेद्विशेषतो विरेचनेन|
तद योग्यस्य त्वत्युच्छ्रितानास्थापनेन|
यथादोषं चालेपसेकादीनविरतं विदध्यात्|
एवं सद्य एव रुक्तोदशोफरागसंरम्भा निवर्तन्ते|
पक्वेषु तु शस्त्रमवचारयेत्|
सघृतक्षौद्रशर्करेण तिल कल्केनालेपयेत्||२||
तत्र पूर्वमपदंशानां सामान्यचिकित्सामाह-अपदंशेष्विति| बहुवचनं विशेषानपेक्षया साधारणचिकित्साप्रदर्शनार्थम्| सुबोधम्| उभयत ऊर्ध्वमधश्च| तदयोग्यस्याल्पाग्न्यादेः| अत्युच्छ्रितानित्युपदंशविशेषणम्| (उत्पन्नमात्रेष्वचितकालजनितेष्पदंशाख्येषु गुह्यरोगेषु पाकपरिहारार्थं मेढ्रमध्ये मेढ्रस्य मध्यभागे न तु मूलेऽग्रे वा उपर्यवेध्यसिरासङ्करेण वेध्यसिराया दुर्ज्ञेयत्वादधोभागे सीवनीं वर्जयित्वा तत्पार्श्वत इति च मन्तव्यम्| पूर्वं सिरावेधे निवृत्तापदंशशुक्रव्यापत्सु मेढ्र इत्येतावन्मात्रकथनेन स्थानविशेषस्यानिर्देशादत्र मध्य इत्युक्तम्| उत्पन्नमात्रेष्वित्युक्त्या चिरोत्थितेऽप्यतिप्रवृद्धेन शोफेन सिरान्तर्धानादवेध्यतया अनपायिभिर्जलौकोभिर्दुष्टास्रविस्रावणं कार्यमिति च द्योत्यते| सौश्रुतेऽप्युक्तम् उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः| मेढ्रमध्ये सिरां विध्येत् पातयेद्वा जलौकसः|| इति)| यथादोषमित्युच्छ्रितदोषानतिक्रमेण| (प्राप्तपाकस्य क्रियामाह शस्त्रमवचारयेद्यथायोग्यं पाटनादिकं कर्तुम्| (पक्वेषु पाकं प्राप्तेषु सत्सु तुशब्देनाशु शस्त्रावचार्यताऽस्य दुष्करत्वं च द्योत्यते| उक्तं च शास्त्रान्तरे शस्त्रेणोपाचरेच्चापि पाकमागतमाशु वै|| इति)|| २||
Adhikarana apadaMsheShu sAmAnyacikitsA (3) · Śloka 3
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान्|
सल्लकीबदीबिल्वपलाशतिनिशोद्भवाः|
त्वचः क्षीरिद्रुमाणाञ्च त्रिफलां च पचेज्जले|
स क्वाथः क्षालनं तेन पक्वं तैलञ्च रोपणम्|
गोजीविडङ्गमधुकसर्वगन्धैश्च पेषितैः|
तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः|
हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः|
लेपः क्षौद्रद्रुतैः सूक्ष्मैरपदंशव्रणापहः|
दार्वीत्वक्शङ्खतार्क्ष्योत्थलाक्षागोक्षीरविड्रसः|
सक्षौद्रतैलसर्पिर्भिर्लेपः श्रेष्ठो व्रणेऽथवा|
लाक्षाद्राक्षातसीक्षौद्रः क्षौद्रशैलेयतार्क्ष्यजैः|
कपाले त्रिफलाऽदग्धा सघृता रोपणी परम्|
सामान्यं साधनमिदं...........................||३||
क्षालनार्थं तैलपचनार्थं च क्वाथमाह-जम्ब्वाद्यङ्कुरान् सल्लक्यादीनां क्षीरिद्रुमाणां च त्वचः त्रिफलां च जले पचेत्| स क्वाथः क्षालनं तेनैव च क्वाथेन गोज्यादिभिश्च पेषितैः पक्वं तैलं रोपणम्| नीपो भूमिकदम्बः| श्वेतकाम्बोजिकाख्यः श्वेतपाकी शिखण्डिका च| सल्लक्याद्युद्भवास्त्वचः क्षीरिद्रुमाणाञ्च वटादीनां त्वच एव| (चतुर्गुणे जले पचेत्| द्वादशांशावशिष्टः स क्वाथः क्षालनं व्रणप्रक्षालनाय हितमित्यर्थः| तेन कषायेण पक्वं पाचितं तैलं व्रणरोपणं च) गोजी गोजिह्वा| तुत्थादिभिः सूक्ष्मपिष्टैः क्षौद्रद्रुतैर्लेपोऽपदंशव्रणापहः| (क्षौद्रद्रुतैः क्षौद्रेण द्रवत्वमापादितैः सूक्ष्मैः सूक्ष्मरजीकृतैः तुत्थादिभिर्हरेवण्वादिभिश्च प्रलेप अपदंशव्रणरोपणः| 'सौराष्ट्री तुवरमृत्तिका| पुष्पं पुष्पाञ्जनम्' इति प्रबन्धसंग्रहे)| दार्वीत्वगादिभिर्लेपो व्रणे श्रेष्ठः| तार्क्ष्योत्थं रसाञ्जनम्, गोः क्षीरम्, विड्रसं च तस्या एव| अथवा लाक्षादिभिः क्षौद्रान्तैर्लेपः| अथवा क्षौद्रादिभिर्द्रव्यजातैः| रोपणद्रव्यविशेषमाह-त्रिफलायाः कपाल एव दाहो विवक्षितः| (अदग्धा अन्तर्धूमं विपाचिता सघृता घृतोपेता त्रिफला परमतिशयेन रोपणं प्रलेपाद् व्रणरोपणम्| रोपणं परमिति पाठः)| इदं सर्वापदंशानामविशेषेण साधनं चिकित्सितम्| (इदमनन्तरोक्तं सर्वं कर्मसामान्यं साधनं सर्वेषामपदंशानां सामान्यं चिकित्सितम्)|| ३||
Adhikarana vAtikApadaMshaicikitsA (4) · Śloka 4
............................वातिकं तु प्रलेपयेत्|
अपक्वं कुष्ठयष्ट्याह्वसुरदारुपुनर्नवैः|
स्निग्धोष्णैर्लोहसरलरास्नापुण्ड्राह्वसंयुतैः|
अथवा निचुलैरण्डबीजगोधूमचिक्कसैः||४||
वातिकं त्वपदंशमपक्वं कुष्ठादिभिर्लोहादियुतैः स्निग्धोष्णैः प्रलेपयेत्| अथवा निचुलादिभिः| (लोहमगरुः| चिक्कसं यवचूर्णम्)|| ४||
Adhikarana paittikApadaMshacikitsA (5) · Śloka 5
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः|
सचन्दनोत्पलैः शीतैर्घृताढ्यैः पित्तसम्भवम्|
पद्मोत्पलमृणालैर्वा ससर्जार्जुनवेतसैः|
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः||५||
पित्तसम्भवं त्वपदंशमपक्वमिति प्रकरणात्| गैरिकादिभिरुत्पलान्तैः शीतैर्घृताढ्यैः प्रलेपयेदिति सम्बन्धः| अथवा पित्तसम्भवं पद्मादिभिर्वेतसान्तैः प्रलेपयेत् घृतादिभिश्च सेचयेत्| (अञ्जनं रसाञ्जनम्| मृणालं पद्मनालम्-इति निबन्धसंग्रहे)|| ५||
Adhikarana shlaiShmikApadaMshacikitsA (6) · Śloka 6
धवसालाश्वकर्णाजकर्णत्वग्भिः कफोत्थितम्|
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्|
रजन्यतिविषामुस्तसरलामरदारुभिः|
सपत्रपाठापत्तूरैरथवा श्लेष्मसम्भवम्||६||
कफोत्थितमपदंशं धवादित्वग्भिः सुरया पिष्टाभिरुष्णाभिस्तैलयुक्ताभिः प्रलेपयेत्| अथवा रजन्यादिभिः पत्तूरान्तैः श्लेष्मसम्भवं प्रलेपयेत्| (सुश्रुते तु वातजेऽपदंशे कुष्ठयष्ट्यादिकषायेण कफजे सुरसारग्वधादिकषायाभ्याञ्च सेचनमुक्तम्)|| ६||
Adhikarana pAkaprAptipariharaNam (7) · Śloka 7
न च याति यथा पाकं प्रयतेत तथा भृशम्|
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः||७||
सर्वश्चपदंशो यथा पाकं न याति तथा भृशं प्रयतेत| यतः पक्वैः स्नाय्वादिभिः ध्वजो मेढ्रः प्रायो नश्यति| (यथा येन प्रकारेण पाकं न प्राप्नोति तथा तथा तेन प्रकारेण भृशं प्रयतेत अतिशयेन यत्नमाचरेत्| वमनविरेचनासृङ्ह्मोक्षप्रलेपपरिषेकादिभिरनवरतमुपाचरेदित्यर्थः| पक्वैः प्राप्तपाकैः स्नाय्वादिभिः ध्वजो लिङ्गं प्रायो नश्यति नाशं प्राप्नोति| प्रायःशब्देन केषाञ्चिच्चिकित्सासाध्यत्वमपि सूचितम्)|| ७||
Adhikarana avashiShTApadaMshayoshcikitsA (8) · Śloka 8
अपदंशद्वये शिष्टे प्रत्याख्यायाचरेत् क्रियाम्||८||
शिष्टद्वयं रक्तजं सन्निपातजञ्च तत्र प्रत्याख्यानं कृत्वा न सिध्यतीत्युक्त्वा क्रियामाचरेत्| इत्यपदंशः|| ८||
Adhikarana arshasAM cikitsA (9) · Śloka 9
अर्शांसि यथायोगं शुद्धदेहस्य शस्त्रक्षाराग्निभिः साध येत्|
उपदंशोक्ता चात्र रसक्रिया लेपः||९||
अर्शसां सुबोधम्| अपदंशोक्ता रसक्रिया तुत्थादिका|| ९||
Adhikarana sarShapikAcikitsA (10) · Śloka 10
सर्षपिकां विलिख्य कषायैरवचूर्णयेत्|
तैरेव च तैलं व्रणरोपणं कुर्यात्||१०||
सर्षपिकायां प्रथमं शस्त्रेण विलेखनं ततः कायैर्लोध्रादिभिरवचूर्णनं तैरेव च कषायैस्तैलं व्रणरोपणं कुर्यात्साधयेत्|| १०||
Adhikarana avamanthacikitsA (11) · Śloka 11
अवमन्थे जलौकसो योजयेत्|
पक्वभिन्नं धवतिन्दुक सल्लकीपत्तङ्गसर्जकृतेन तैलेन रोपयेत्||११||
अवमन्थे सुबोधम्-स्वयं पक्वं ततश्च भिन्नं धवादिभिः कृतेन तैलेन रोपयेत्|| ११||
Adhikarana kumbhIkAcikitsA (12) · Śloka 12
तद्वत् कुम्भीकामुपचरेत्|
लोध्रतिन्दुकत्रिफलाकृतस्तु लेपस्तैलं च रोपणम्||१२||
कुम्भीकां तद्वदवमन्थवदुपाचरेत्| लोध्रादिको लेपः तैरेव च कृतं तैलं रोपणम्|| १२||
Adhikarana alajIcikitsA (13) · Śloka 13
अलजीं स्रुतरक्तां कषायैरवचूर्णयेत्|
तेष्वेव च तैलं व्रणरोपणार्थं कुर्वीत||१३||
अलज्यां सुबोधम्| तेष्वेव चेति कषायद्रव्येषु|| १३||
Adhikarana uttamAcikitsA (14) · Śloka 14
उत्तमां पिटकां शस्त्रेण च्छित्वा कषायचूर्णप्रदेहैर्मधु मद्भिरुपाचरेत्||१४||
उत्तमायां सुबोधम्| मधुमद्भिर्मधुयुक्तैः कषायरसद्रव्याणां चूर्णैः प्रदेहैश्चोपाचरेत्|| १४||
Adhikarana puShkarikAdInAM cikitsA (15) · Śloka 15
पुष्करिकासंव्यूढास्पर्शहानित्वक्पाकेषु पित्तविसर्पोक्तो विधिः||१५||
पुष्करिकादिषु चिकित्सितोक्तपित्तविसर्पविधिः|| १५||
Adhikarana mRuditacikitsA (16) · Śloka 16
मृदितं कोष्णेन बलातैलेन परिषेचयेत्|
मधुरद्रव्यकल्कै श्च सुखोष्णैर्घृतस्निग्धैरुपनाहयेत्||१६||
मृदितमिति मृदिताख्यम्| बलातैलं शारीरोक्तम्| मधुरद्रव्याणि सूत्रोक्तानि, तैः सुखोष्णादिगुणैरुपनाहयेत्|| १६||
Adhikarana aShThIlikAcikitsA (17) · Śloka 17
अष्ठीलिकां जलौकोभिर्ग्रहयेत्|
तथाऽनुपशमे श्लेष्म ग्रन्थिमिव शस्त्रेणोद्धरेत्||१७||
अष्ठीलिकायां सुबोधम्| श्लेष्मग्रन्थिर्ग्रन्थ्यादावुक्ता|| १७||
Adhikarana nivRuttacikitsA (18) · Śloka 18
निवृत्तं सर्पिषाभ्यज्य स्वेदयेत्|
स्विन्नमुपनाहयेत्त्रिरात्रं पञ्चरात्रं वा साल्वलेन|
ततो भूयः स्वेदयित्वा घृतेना भ्यज्य शनैः शनैश्चर्म समानयन् मणिमवपीडयेत्|
पीड यित्वा च पुनरुपनाहयेत्|
स्निग्धोष्णं चान्नपानम्||१८||
निवृत्ताख्ये सर्पिषाभ्यक्ते पश्चात् स्विन्ने सूत्रोक्तैः साल्वलादिभिस्त्रिरात्रं दोषाद्यपेक्षया पञ्चरात्रं वोपनाहयेत्| उपनाहो बन्धः| साल्वलः सुबोधः| समानयेद्यथाप्राप्तं सम्यगानयेत्|| १८||
Adhikarana avapATikAcikitsA (19) · Śloka 19
अवपाटिकायामप्ययं विधिः||१९||
अवपाटिकायामपि अयमेव निवृत्तोक्तो विधिः|| १९||
Adhikarana niruddhamaNicikitsA (20) · Śloka 20
निरुद्धमणौ सुवर्णादिकृतां दारुजां वा जतुसृतां नाडी मुभयतोद्वारं स्नेहाभ्यक्तां स्रोतसि प्रणिधाय सूकरशिं शुमारयोर्वसया मज्ज्ञा वा परिषेचयेत्|
चक्रतैलेन वा|
वातहरसिद्धेन वा त्रिवृतेन|
तृतीये तृतीये चाहनि नाडीं पीनतरां विदध्यात्|
एवमस्य स्रोतोद्वारं विवर्धयेत् स्निग्धं चाहारं भोजयेत्|
एवमनुपशान्तौ शस्त्रेण सेवनीं परिहृत्य दारयित्वा सद्यः क्षतवदुपाचरेत्||२०||
निरुद्धमणौ नाडीविधानम्| परिषेकश्च सुबोधः| शिंशुमारो मत्स्यविशेषः| वातहरैर्द्रव्यैः सिद्धेन त्रिवृतेन स्नेहत्रयेण| सुबोधम्| सद्यःक्षतवत्सद्योव्रणविधानतः|| २०||
Adhikarana grathitAdInAM cikitsA (21) · Śloka 21
ग्रथितं नाडीस्वेदेन स्वेदयित्वा स्निग्धोष्णैरुपनाहयेत्|
शतपोनकं लिखित्वा कषायर्चूर्णैः सक्षौर्द्रैर्लेपयेत्|
विदार्यादिसिद्धेन च तैलेन रोपयेत्|
शर्करार्बुदे रक्त विद्रधिवत् साधनम्||२१||
ग्रथितं ग्रथिताख्यम्| व्याख्यासमं शतपोनकमर्बुदञ्च|| २१||
Adhikarana sarvaiShvantaHshuddhicikitsA (22) · Śloka 22
सर्वेषु च यथास्वमन्तः शुद्धिं कषायलेपघृततैलरसक्रिया चूर्णशोधनरोपणान् विदध्यात्||२२||
सर्वेष्विति पुरुषगुह्यरोगेषु| यथास्वमिति दोषाद्यपेक्षया अन्तः-शुद्ध्यादीन् विदध्यात्| इत्युक्ता मेढ्रव्यापदः| (कषायरसद्रव्यकृतो लेपः कषायलेपः)|| २२||
Adhikarana vAtikIyonivyApaccikitsA (23) · Śloka 23
योनिव्यापदि तु वातिक्यां लवणतैलाक्तां योनिं पिण्ड नाडीकुम्भीप्रभृतिभिः स्वेदयेत्|
ततः सुखोष्णाम्बुपरिषि क्तसर्वगात्रां जाङ्गलरसैर्भोजयेत्|
बलाद्रोणद्वयनिर्यूहे पयस्यासालपर्णीमागधिकशता वरीकाकनासाश्रावणीशर्कराजीवनीयगर्भं क्षीरचतुर्गुणं घृततैलाढकं साधयेत् तत्पानात् सर्वान् वातपित्तविका रानपोहति गर्भजननं च|
शतावरीत्रिफलागुडूचीकाश्मर्यमृद्वीकाकासमर्दकपरूष कहरिद्राद्वयसहचरशुकनासापुनर्नवैः कार्षिकैर्घृतप्रस्थः सिद्धः पीतो वातजान् योनिरोगानपोहति गर्भजननश्च|
सैन्धववचोपकुञ्चिकापिप्पलीवृषकयवक्षाराजमोदाजाजी सितोपलाचित्रकचूर्णो मदिरालुलितः सर्पिषा संयावीकृत्य भक्षितो योनिपार्श्ववस्तिवेदनार्शोगुल्महृद्रोगहरः|
शूले वृषकरास्नागोक्षुरक शृतं पयः पिबेत्|
वृषक मातुलुङ्गमूलमदयन्तिकासैन्धवपिप्पलीकृष्णजीरककल्कं वा मद्येन|
तेनैव चार्जकमूलं बिल्वयुक्तं वा पिप्पली युक्तं वा|
सौवर्चलोपकुञ्चिका पिप्पलीर्वा मद्येनावन्ति सोमेन वा|
दन्तीत्रिफलागुडूचीक्वाथः सुखोष्णो योनेः परिषेकः|
कुष्ठतगरदेवदारुवार्ताकिनीसैन्धवैः साधितं तैलं पिचुना धारयेत्|
रास्नामालतीच्छिन्नरुहामधुकबलाव्याघ्रीदेवदारुचित्रकयू थिकामूलैः कर्षांशैस्तैलप्रस्थः समूत्रो द्विगुणपयसा विप क्वः पिचुना प्रणीतोऽनिलार्तिहरः|
बस्तिकर्म चाभीक्ष्णं स्वेदं च प्रयोजयेद्विशेषतो वातहरैः सुकुमारबलातैलशिरीषतैलैः शतपाकसहस्रपाकैश्चा नुवासनमुत्तरवस्तिञ्च|
एष क्रमो विशेषेण योनिर्वेदना कार्कश्यस्तम्भस्रंसस्पर्शहानिघ्नश्च||२३||
एवं पुंगुह्यरोगाणां चिकित्सामुक्त्वाऽनन्तरं स्त्रीगुह्यरोगचिकित्सामाह-वातिकाभिधानायां योनिव्यापदि योनिं लवणतैलेनाभ्यज्य पिण्डादिस्वेदैः स्वेदयेत्| सर्वगात्रामिति सम्भवात्स्त्रियम्| बलाकषाये पयस्यादिगर्भं घृततैलयोर्मिश्रीभूतयोराढकं साधयेत् पचेत्| द्रोणद्वयनिर्यूहो द्रोणद्वयक्वाथः| सुबोधम्| शतावर्यादिभिर्घृतप्रस्थः सुबोधः| (कार्षिकैः कर्षप्रमाणैः शतावर्यादिभिः सिद्धः पक्वो घृतप्रस्थः पीतो वातजनितान् योनिरोगानपोहति नाशयति)| सैन्धवादिचूर्णो मदिरादिलुलितः सर्पिषा संयावीकृत्य यवधान्यवत् साधयित्वा भाक्षितो योन्यादिवेदनादिहरः| (संयाव उत्कारिका इति जेज्जटः)| योनिशूले वृषकादिसिद्धं पयः पिबेत्| वृषको वासकः| वृषकमातुलुङ्गादिकं वा मद्येन पिबेत्| तेनैवेति मद्येनार्जकस्य सूक्ष्मकुठेरस्य मूलं बिल्वयुक्तं वा पिप्पलीयुक्तं वा अथवा सौवर्चलादिकं मद्येनावन्तिसोमेन वा| (अवन्तिसोमं काञ्जिकम्)| दन्त्यादिक्वाथेन योनेः परिषेकः| कुष्ठादिभिः साधितं तैलं पिचुना कार्पासचुलुकेन योनौ धारयेत्| वार्ताकिनी बृहती| रास्नादिविपक्वतैलपिचुप्रयोगः सुबोधः| व्याख्यासमम्| शतपाकसहस्रपाकौ वातव्याध्युक्तौ| एष इत्यनन्तरोक्तः सर्वः क्रमः|| २३||
Adhikarana aticaraNAdInAM cikitsAkramaH (24) · Śloka 24
अतिचरणादिषु सर्वास्वनिलजास्वयमेव क्रमः||२४||
अतिचरणादिषु दशसु महायोन्यन्तास्वयमेव वातिकीविहितः क्रमः|| २४||
Adhikarana aticaraNAyAM visheShaH (25) · Śloka 25
धारयेच्चातिचरणायां यवगोधूमकिण्वकुष्ठशतपुष्पा श्रयाह्वप्रियङ्गुबलाखुकर्णीकल्ककृतामुत्कारिकाम्||२५||
तत्र विशेष अतिचरणायां यवादिकृतामुत्कारिकां योनौ धारयेत्|| २५||
Adhikarana prAkcaraNAdiShu punaH kramavisheShaH (26) · Śloka 26
प्राक्चरणाशुष्काविप्लुताकर्णिनीषु तैलमुत्तरबस्तिं दद्यात्||२६||
प्राक्चरणादिषु चतुर्षु सुबोधम्|| २६||
Adhikarana viplutAyAM visheShaH (27) · Śloka 27
धारयेच्च विप्लुतायां गोमत्स्यान्यतरपित्तेनैकविंशति कृत्वो भावितान् क्षौमनक्तकान् किण्वं वा माक्षिक युक्तमेवमस्याः स्रोतांसि विशुद्ध्यन्ति कण्डूक्लेदशो फाश्च निवर्तन्ते||२७||
गोर्वा मत्स्यानां वा पित्तेनैकविंशतिवारान् भावितान् क्षौमनक्तकान् विप्लुतायां धारयेत्| सुबोधम्| अस्या विप्लुतायाः||२७||
Adhikarana karNinyAM visheShaH (28) · Śloka 28
कर्णिन्यां तु कुष्ठार्कपल्लवपिप्पलीसैन्धवैर्बस्तमूत्र पिष्टैर्वर्त्ति कृत्वा धारयेत्|
श्लेष्महरञ्च सर्वं कुर्यात्||२८||
कर्णिन्यां विशेषः कुष्ठादिभिर्वर्त्ति श्लेष्महरं वमनादिकम्||२८||
Adhikarana udAvRuttAyAM visheShaH (29) · Śloka 29
उदावृत्तायामानूपमांसरसाः क्षीरं स्वेदो दशमूलत्रिवृता क्वाथकल्कसिद्धश्च स्नेहः पानानुवासनोत्तरबस्तिषु|
योनिस्रंसे च महायोनिप्रभृतिष्वेष एवं विधिः||२९||
उदावृत्तायां सुबोधम्| महायोनिप्रभृतिषु योनिस्रंसे च एष एव उदावृत्ताविधिः|| २९||
Adhikarana jAtAghnyAdInAM cikitsA (30) · Śloka 30
जातघ्नीरक्तयोनिरक्तक्षयासु कुटजकाऱ्श्मर्यक्वाथ सिद्धं सर्पिरुत्तरबस्तौ दद्यात्|
अथवा मृगाजाविवरा हरुधिराम्लदधिमधुघृतानीति||३०||
जातघ्न्यादित्रये कुटजादिसिद्धघृतोत्तरबस्तिर्योनौ प्रणिधेयः| अथ वा मृगादिरुधिराण्यम्लदध्यादीनि च मिश्रीकृतान्युत्तरबस्तिः स्यात्|| ३०||
Adhikarana doShAnusAraM kramavisheShaH (31) · Śloka 31
भवति चात्र- स्नेहेन वेदबस्त्यादि वातलास्वनिलापहम्|
कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च|
श्लेष्मलासु च रूक्षोष्णं कर्म कुर्याद्यथायथम्|
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्||३१||
भवति चात्रेति तन्त्ररीतिः| वातलासु योनिव्यापत्सु स्नेहनादिकमनिलापहं सर्वं कर्म कारयेत्| पित्तकृतासु सर्वं रक्तपित्तघ्नं शीतञ्च| श्लेष्मलासु तु सर्वं कर्म रूक्षोष्णम्| यथायथमिति दोषाद्यपेक्षया विमिश्रं कर्म सन्निपाते संसृष्टासु च कारयेत्|| ३१||
Adhikarana sthApanApavRuttAyAH karma (32) · Śloka 32
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समाम्|
पाणिना नमयेत् जिह्यां संवृतां प्रथयेत् पुनः|
प्रवेशयेन्निस्सृतां च विवृतां परिवर्तयेत्|
स्थापनापवृता योनिर्हि शल्यभूता स्रियामता||३२||
सुबोधम्| समस्थापनादौ हेतुः स्थापनावृत्तेत्यादि (दोषवैपरीत्येनाभिधाय व्याधिवैपरीत्येन भेषजनिर्देशः| स्निग्धस्विन्नां दुःस्थितां स्थापयेद्यथापूर्वम्| पाणिना नमयेज्जिह्यां स्निग्धस्विन्नामित्यनुवर्तनीयम्| जिह्यां कुटिलमित्यर्थः| संवृतां व्यासयेत् पुनः क्रमेण विस्तारयेत्| अनेकार्थत्वाद्धातूनाम्| प्रवेशयेन्निसृतां तु विवृतां परिवर्तयेत्,तिर्यग्व्यवस्थितामित्यर्थः| यस्मात् स्थापनापवृत्या योनिः शल्यभूता स्रिया मता- इति जेज्जटः)| तथा तद्वत् दुःस्थितां स्थानभ्रंशाद्विषमां योनिं समां यथास्थानं स्थापयेत्| जिह्यां कुटिलां योन्यन्तर्गततुल्याग्रेण हस्तेन नमयेत्| अत्र नमनकथनेनोन्नमनस्याऽशक्यत्वादुन्नतप्रदेशस्य नमनेनैव निम्नस्यौन्नत्यजननं द्योत्यते| संवृतां संवरणादणूभूतां पुनः प्रथयेत् अङ्गुल्यग्रेण प्रसारयेत्| निस्सृतां बहिर्निर्गतां प्रवेशयेत् हस्ताग्रेण मन्दं मन्दं प्रपीड्यान्तरावेशयेत्| विवृतां विचित्रकर्मणोऽनिलस्य वैगुण्येन विवणाद्वेणुनाड्याकारेण स्थितां परिवर्तयेत् परितः शनैर्गृहीत्वा संवृणुयात्| चशब्दः समुच्चये| स्थानाद् भ्रष्टा योनिः स्त्रिया नार्याः शल्यभूता शल्यत्वं प्राप्ता मता| शल्यशब्देनैकावयवजत्वेऽप्येषामवयवानामकर्मण्यताकरत्वं द्योत्यते| हि प्रसिद्धौ) ||३२||
Adhikarana pa~jcakarmabhiH shodhanam (33) · Śloka 33
सर्वां व्यापन्नयोनिं च कर्मभिर्वमनादिभिः|
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्||३३||
सर्वां व्यापन्नयोनिं योनिव्यापद्युक्तां नारीं संस्नेह्य स्वेदयित्वा वमनादिभिः पञ्चभिः कर्मभिर्मृदुभिरेवोपचरेत्| मृदुभिरतीक्ष्णैर्वमनादिभिर्वमनविरेचनास्थापनास्रसावनस्यैः पञ्चभिः कर्मभिः||३३||
Adhikarana sthAnApavRuttAyAH karma (34) · Śloka 34
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते|
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्||३४||
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समाम्| कर्माणि यथोल्बणदोषप्रशमनाय विधीयन्ते द्वित्राणि सर्वाणि वा यथासम्भवम्| सर्वतः शुद्धानां यद्यत् कर्म वक्ष्यामाणं तत् सर्वं कार्मुकं सम्पद्यते यत आह सर्वतः सुविशुद्धायाः सम्यगूर्ध्वमधश्च शेषं कर्म विधीयते-इति जेज्जटः|| ३४||
Adhikarana doShAdyavasthAnusAraM yogavisheShAH (35) · Śloka 35
हिंस्राकल्कं समीरार्त्तौ कोष्णमभ्यज्य धारयेत्|
पञ्चवल्कस्य पित्तार्त्त्तौ श्यामादीनां कफातुरा|
वमिन्याप्लुतयोश्चैव स्वेदयित्वा प्रयोजयेत्|
तर्पणं स्नेहपिचुभिर्भोजनं चानिलापहम्|
सल्लकीजिङ्गिणीजम्बुधवत्वक्पञ्चवल्कलैः|
कषायैः साधितात्स्नेहात्पर्युपप्लुतयोः पिचुम्|
कुलीरसूकरवसा सर्पिर्भिर्मधुरैः शृतैः|
पूरयित्वा महायोनिं बध्नीयात् क्षौमनक्तकः|
प्रस्रस्तां सर्पिषाभ्यज्य क्षीरस्विन्नां प्रवेशयेत्|
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः||३५||
हिंस्रेत्यादिभिस्रयः कल्का वातार्त्यादिषु योनिधारणे| सुबोधम्| पञ्चवल्कलो न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसत्वचः| महायोनिं कुलीरादिवसासर्पिर्भिर्मधुरद्रव्यसिद्धैः पूरयित्वा क्षौमनक्तकैर्बध्नीयात्| प्रस्रस्तेत्यादि सुबोधम्| आमूत्रकालत इति वेगधारण्प्रतिषेधार्थम्|| ३५||
Adhikarana vAtavyAdhyuktaM karma (36) · Śloka 36
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्|
सर्वव्यापत्सु मतिमान् महायोन्यां विशेषतः|
न हि वातादृते योनिर्वनितानां प्रदुष्यति|
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्||३६||
यच्च चिकित्सिते वातविकाराणां कर्मोक्तं तत् सर्वं सर्वासु योनिव्यापत्स्वपि कारयेत्| तद्वातहरं कर्म महायोन्यां विशेषतः कारयेत्| यस्माद्वातादृते वनितानां योनिर्न दुष्यति अतो हेतोस्तं वातं जित्वाऽन्यस्य दोषस्य भेषजं कुर्यात्| (वनितानां स्त्रीणां योनिः वातादृते वातमन्तरेण न प्रदुष्यति दुष्टिं न प्राप्नोति| हिर्यस्मादर्थे अतोऽस्माद्धेतोस्तं वातं जित्वा अन्यस्य दोषस्य पित्तश्लेष्मादेर्भेषजं चिकित्सितं कुर्यात्|| ३६||
Adhikarana paittike yogavisheShAH (37) · Śloka 37
पित्तलानां तु योनिनां सेकाभ्यङ्गपिचुक्रियाः|
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च|
शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्|
रसेन क्षीरतुल्येन पाचयेत घृताढकम्|
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः|
पिष्टैः प्रियालैश्चाक्षांशैर्मधुकाऱ्द्धपलान्वितैः|
सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्|
शर्कराया दशपलं क्षिपेल्लिह्यात् पिचुं ततः|
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्|
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम्|
कामिलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्|
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्|
एवमेव पयस्सर्पिर्जीवनीयोपसाधितम्|
गर्भदं पित्तजानाञ्च रोगाणां परमं हितम्||३७||
पित्तलायां योनीनां सेकादयः शीताः पित्तजितश्च कार्याः| स्नेहनार्थं घृतान्येव कार्याणि| (पित्तलानाम् बहुपित्तानाम्| पित्तजानामिति वक्तव्ये पित्तलानामित्युक्तिर्न्न हि वातदृत इत्यादिपूर्वोक्तग्रन्थस्य विरोधनिरासार्थम्| योनीनां योनिव्यापदामित्यर्थः| शीताः स्पर्शवीर्ययोः शीताः पित्तजितः पित्तघ्नाः शीतशब्देनैव पित्तहरत्वे सिद्धे पुनरपि पित्तघ्नकथनं पित्तघ्नानां मन्दशीतगुर्वादीनां मध्येऽत्र शीतस्य विशेषोपयोज्यत्वद्योतनार्थम्| सेकाभ्यङ्गपिचुक्रियाः सेकः परिषेकः| अभ्यङ्गः स्नेहप्रलेपः| पिचुक्रिया पिचुनक्तकनिक्षेपणम्| क्रियाशब्दः प्रत्येकं सम्बध्यते| कार्याः कर्त्तव्याः| स्नेहनार्थं शोध्यविषये स्नेहयितुं घृतानि पित्तघ्नौषधैर्बहुधा सिद्धानि चशब्दात् कार्याणीत्यर्थः| शतावरीत्यादिना तान्येव घृतान्युच्यन्ते-शतावरीमूलानि परिपूर्णसाराण्यनुपहतानि च गृह्यन्ते| सुबोधम्| (द्वियष्टिमधुकैर्भिषगिति चरकपाठः| शतावरीघृते द्वियष्टिमधुकैरिति द्विग्रहणं भागाद्विगुणप्रतिपादनार्थम्| यष्टिमधुकद्वयप्रतिपादनार्थं वा| स्थलजं जलजं चेति मधुकं द्विविधं स्मृतमित्याम्नायात्| ब्राह्मणान् प्राशयेत्पूर्वमिति अदृष्टवृद्ध्यर्थमेषा परिभाषाऽन्यत्रापि द्रष्टव्या| इति जेज्जटः)| द्विबलामधुकान्वितैरिति हृदयपाठः| क्षुण्णपीडितान्| शतावरीमूलस्य तुलाचतुष्कात् क्षीरतुल्येन रसेन| एतावन्मात्रस्य शतावरीमूलस्य यावान् रसो जायते तत्तुल्येन पयसेत्यर्थः| अक्षांशैरक्षप्रमाणैः पिष्टैर्जीवनीयादिभिर्घृताढकं विपचेत्| सिद्धशीते चास्मिन् घृते मधुनः पिप्पलीचूर्णस्य च पलाष्टकं सिताया दशपलञ्च क्षिपेत् ततस्तस्मात् पिचुं कर्षप्रमाणं लिह्यादातुर इति शेषः| तद् घृतं योन्यसृक्शुक्रदोषघ्नं वृष्यं शुक्रवर्धनम्|| परमतिशयेन पुंसवनं गर्भदम्| क्षतादींश्च नाशयेत्| मृद्वीकादीनां बहुवचनोक्तिः छन्दोऽनुरोधात् )| एवमेवेति शतावरीविधानेन पयस्सर्पिःक्षीरोद्भवं घृतं जीवनीयोपसाधितं गर्भदत्वादिगुणम्| ('गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम्'-इति चरकपाठः| एवमेवेति क्षीरसर्पिः क्षीरादुत्थितं एवमेव पूर्वविधिमतिदिशति सिद्धशीते च मधुन इत्यादि यावत् ब्राह्मणान् प्राशयेत् पूर्वमित्यादि-इति जेज्जटः)||३७||
Adhikarana raktayonicikitsAkramaH (38) · Śloka 38
रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च|
यथादोषोदयं युञ्ज्याद्रक्तस्थापनमौषधम्||३८||
रक्तयोन्यामसृजो वर्णैः सिराव्यधोक्तप्रकारेण वातादीनामन्यतमस्य दोषस्यानुबन्धमवेक्ष्य दोषोदयानतिक्रमेण रक्तस्थापनं रक्तस्रावहरमौषधं युञ्ज्यात्| (रक्तयोन्यामसृग्वर्णैरनुबन्धं कृष्णारुणनीलपीतपाण्डूत्वादिभिर्वातादीनामाधिक्यमल्पत्वं च समीक्ष्य ततो यथादोषं यो यो दोषो यथादोषं रक्तस्थापनमौषधं कार्यमिति जेज्जटः)|| ३८||
Adhikarana vAtottarAsRugdaracikitsA (39) · Śloka 39
तिलचूर्णं दधिघृतं फाणितं सौकरी वसा|
क्षौद्रयुक्तं जयेत्पीतं वातोत्तरमसृग्दरम्|
वराहस्य रसो मेध्यः सकौलत्थश्च तद्गुणः|
पत्रकल्को घृते भृष्टो राजादनकपित्थयोः|
शर्कराक्षौद्रयष्ट्याह्वनागरैश्च युतं दधि||३९||
तिलादिकं क्षौद्रयुक्तं पीतं वातादिकं रक्तस्रावं जयेत्| उत्तरो बलवान्| वराहमांसरसः कौलत्थेन रसेन युक्तस्तद्गुणो वातोत्तरमसृग्दरं जयेदित्यर्थः| राजादनकपित्थयोस्तु बालपत्रकल्को घृते भृष्टस्तद्गुण एव| तथा शर्करादिभीर्युक्तं दधि|| ३९||
Adhikarana pittottarAsRugdaracikitsA (40) · Śloka 40
पयस्योत्पलशालूकबिसकालीयवारिजम्|
सपयश्शर्कराक्षौद्रं रक्ते पित्तोत्तरे पिबेत्|
तण्डुलीयकमूलं वा सक्षौद्रं तण्डुलाम्भसा|
सतार्क्ष्यशैलं लाक्षां वा छागेन पयसा पिबेत्|
वासाघृतं महातिक्तं रक्तपित्तहितञ्च यत्||४०||
पयस्यादिकं क्षौद्रान्तं पित्ताधिके रक्तेऽसृग्दरे पिबेत्| पयस्या क्षीरिका| शालूकं जलजकन्दम्| बिसं पद्मादिजम्| कालीयं पीतचन्दनम्| अथवा पित्तोत्तरे रक्ते तण्डुलीयकमूलं क्षौद्रयुक्तं ताऱ्क्ष्यशैलयुक्तञ्च तण्डुलाम्भसा पिबेत्| अथवा केवलामेव लाक्षां छागेन पयसा पिबेत्| वासाघृतञ्च रक्तपित्तोक्तं पिबेत्| तथा महातिक्त-मन्यच्च यत् किञ्चिद्रक्तपित्तहितं तत् सर्वमत्रेष्यते| (पैत्तिकेऽसृग्दरे पिबेदिति चरकपाठः| पयस्यादीनेकश एकैकशः पयःशर्कराक्षौद्रसहितं पैत्तिकेऽसृग्दरे पिबेदिति जेज्जटः)|| ४०||
Adhikarana kaphottarAsRugdaracikitsA (41) · Śloka 41
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु|
मद्यैर्निम्बगुडूच्यौ च कफजेऽसृग्दरे पिबेत्||४१||
कफासृग्दरे मधुकादिकं गुडूच्यन्तं मद्यैः पिबेत्|| ४१||
Adhikarana puShyAnugaM cUrNam (42) · Śloka 42
पाठां जम्ब्वाम्रयोरस्थिशिलोद्भेदं रसाञ्जनम्|
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्|
वाह्नीकबिल्वातिविषालोध्रतोयदगैरिकम्|
शुण्ठीमधुकमाचीकरक्तचन्दनकट्फलम्|
कट्वङ्गवत्सकानन्ता धातकीमधुकार्जुनम्|
पुष्ये गृहीत्वा सञ्च्चूर्ण्य सक्षौद्रं तण्डुलाम्बुना|
पिबेदर्शस्वतीसारे रक्तं यच्चोपवेश्यते|
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्|
योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्|
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्||४२||
पाठादिकमर्जुनान्तं पुष्ये गृहीत्वा संयोज्य पश्चाच्च सञ्चूर्ण्य क्षौद्रेण युक्तं तण्डुलोदकेनार्शःप्रभृतिषु पिबेत्| एतच्च बालानां येकृमिकृता दोषास्तान् योनिदोषं च श्यावाद्यन्यतमवर्णं रजोदोषं च नाशयेत्| एतच्चूर्णं नाम्ना पुष्यानुगम्| हितं पथ्यमात्रेयेण पुनर्वसूनां पूजितम्| जम्बूफलस्याम्रफलस्य चास्थि| शिलोद्भेदं शिलाजतु| अम्बष्ठा साहस्री, सैव बहुमूलिका| शाल्मल्याः सम्बन्धिनी पिच्छा| समङ्गा मञ्जिष्ठा| वाह्नीकं कुङ्कुमम्| तोयदो मुस्तः| माचीकं कुटजफलम्| कट्वङ्गः स्योनाकः| अनन्ता यवासकः| (पाठामित्यादि| शिलोद्भेदः पाषाणभेदकः| अम्बष्ठा दक्षिणापथे प्रसिद्धैव| द्वितीयां पाठामपरे शाल्मलीवेष्टंखपुरमित्यर्थः| माचीकमुत्तरापथे प्रसिद्धमेव| कट्वङ्गोरलुः| वत्सक इन्द्रयवोऽभिप्रेतः फलशब्दलोपात्| अनन्ता उत्पलसारिवा| मधुकं द्वियष्टिमधुकं स्थलजलजभेदेन द्विधेत्युक्तम्| पुष्ये गृहीत्वेत्यादृष्टानुग्रहार्थम्| योनिदोषं रजोदोषं रजोदोषा रजोविशेषाः श्वेतादयः प्रदरभेदाः योनिव्यापल्लिङ्गा एव| इति जेज्जटः)|| ४२||
Adhikarana garbhasrAvoktA cikitsA (43) · Śloka 43
सर्वेषु गर्भस्रावोक्तं प्रदरेषु प्रशस्यते||४३||
शारीरे यद्गर्भस्राव उक्तं चिकित्सितं तत्सर्वं प्रदरेऽपि शस्यते| प्रदरमसृग्दरमतिरज इति पर्यायाः|| ४३||
Adhikarana raktakShaye cikitsA (44) · Śloka 44
रक्तक्षयायां क्षीरञ्च जीवनीय शृतं पिबेत्||४४||
रक्तक्षयायां व्यापदि जीवनीयाख्यमहाकषायशृतं क्षीरं पिबेत्|| ४४||
Adhikarana shlaiShmike yonidoShe varttayaH (45) · Śloka 45
योन्यां बलासदुष्टायां वर्त्तिः संशोधने हिता|
वाराहे बहुशः पित्ते भावितैर्नक्तकैः कृताः|
भावितं पयसाऽर्कस्य माषचूर्णं ससैन्धवम्|
वर्त्तिः कृता क्षणं धार्या सेक्तव्यानुसुखाम्बुना|
पिप्पलीमाषमरिचशताह्वाकुष्ठसैन्धवैः|
प्रदेशिन्यङ्गुलीतुल्या वर्त्तिर्योनिविशोधनी||४५||
श्लेष्मयोन्याख्यायां वराहपित्तेन बहुशो भावितैर्नैक्तकैर्वस्रखण्डैः कृता वर्त्तिर्योनौ धार्या शोधनी परं हिता च| (योन्याः श्लेष्मप्रदुष्टाया वर्त्तिः संशोधनी हिता व्रणप्रतिषेधोक्ता| अथवा वाराहे बहुशः पित्त इत्यादि| ततोऽनन्तरं स्वेद्या सुखाम्बुना| इति जेज्जटः)| अर्कक्षीभावितं माषचूर्णं पश्चाच्च सैन्धवयोजितं तेन कृता वर्त्तिः श्लेष्मयोन्यां क्षणं धार्या| ततश्च श्लेष्मयोनिः सुखाम्बुना सेक्तव्या| पिप्पल्यादिभिरङ्गुष्ठनिकटाङ्गुलीतुल्या वर्तिर्योन्या विशोधनी||४५||
Adhikarana udumbarashalATusiddhaM tailam (46) · Śloka 46
उदुम्बरशलाटूनां द्रोणं द्रोणेऽम्भसः पचेत्|
सपञ्चवल्कतिलकमालतीनिम्बपल्लवे|
निशास्थिते जले तस्मिंस्तैलप्रस्थं विपाचयेत्|
पलाशशाल्मलीलाक्षाधवनिर्यासवल्कलैः|
पिष्टैर्युक्तं ततः स्नेहपिचुं योनौ निधापयेत्|
सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्|
पिच्छिला विवृता योनिश्चिरदुष्टा तु दारुणा|
सप्ताहाच्छुध्यति क्षिप्रमपत्यं च समश्नुते||४६||
उदुम्बरशलाटूनां सूक्ष्माणां फलानां द्रोणं द्वादशधिकानि पञ्चशतनि फलानि| द्रोणं जलस्य च तान्येव| शलाटूनां चार्द्राणामेव प्रयोगः न्याय्यः| किम्भूते अम्भसः द्रोणे, आह-सपञ्चवल्कलादिके| न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः| सर्वैरेकत्र सम्युक्तैः पञ्च वलक्लमुच्यते| पल्लवशब्दस्य तिलकादिभिः सम्बन्धः| तिलको मुचुलिन्दः (मयिवेलुं)| रात्रावुदुम्बरास्थिते प्रातः स्रुते तस्मिन् जले तैलप्रस्थं पलाशादीनां निर्यासैर्वल्कलैश्च पिष्टैर्युक्तं पचेत्| ततस्तैलात् स्नेहपिचुं योनौ निधापयेत्| कषायद्रव्यैः सेचनोपयोगिभिः सशर्करैः सेचनं कुर्वीत| अनेन स्नेहपिचुना सेचनान्ते सप्ताहं प्रयुक्तेन पिच्छिलादिगुणा योनिः क्षिप्रं शुष्यति अपत्यं च लभते| चिरदुष्टा चिरकालदुष्टा| पिच्छिलादित्वं कफादि-कृतम्| इति जेज्जटः)|| ४६||
Adhikarana udumbarasiddhatailam (47) · Śloka 47
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्|
तैलं क्वाथेन तस्यैव कार्यं धार्यं च पूर्ववत्||४७||
उदुम्बरस्रुतेषु क्षीरेषु षड्वारान् भवितात्तिलात् पीडितात्तैलं तस्यैवोदुम्बरस्यैव क्वाथेन कार्यमिति साध्यम्| धार्यं च पूर्ववदिति स्नेहपिचुं योनौ निधापयेत् कषायद्रव्यैः सेचनोपयोगिभिः सशर्करैः सेचनान्ते च स्नेहं पिचुना योनौ धार्यम्| (धार्यञ्च पूर्ववत्पिचुमित्यर्थः| इति जेज्जटः)|| ४७||
Adhikarana dhAtakyAditailam (48) · Śloka 48
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः|
जम्ब्वाम्रसारकासीसलोध्रकट्फलतिन्दुकैः|
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः|
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्|
तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्|
शूनोत्तानोन्नता स्तब्धा पिच्छिला स्राविणी तथा|
विप्लुतोपप्लुता योनिः सिध्येत्सस्फोटशूलिनी||४८||
धातकीपत्रादिभिस्तैलप्रस्थं पचेत्| तच्च तैलमभ्यङ्गादिषु योजयेत् तेन च शूनत्वादिगुणा योनिः सिध्येत्| (सौराष्ट्रिका तुवरमृत्तिका| शूना उन्नता इति अन्तर्मुखी सूचीमुखी चोच्यते| अथवा दोषारब्धं शूनोन्नतत्वम्| इति जेज्जटः| अक्षमात्रैरक्षप्रमाणैर्धातक्यादिभिरजामूत्रप्रस्थेन क्षीरद्विप्रस्थेन च सह तैलप्रस्थं पचेत्| तत्तैलमभ्यङ्गे पिचुनिक्षेपणे बस्तिकर्मणि च योजयेत्| तथा प्रयोजिते सति शूनत्वादियुक्ता योनिः सिध्येत् शमं प्राप्नोति)||४८||
Adhikarana dhAvanam (49) · Śloka 49
अर्कनिम्बाम्रकोशाम्रबिल्वबूकधवोद्भवैः|
करीरजिङ्गिणीजम्बूकरञ्जार्जुनशिग्रुजैः|
पलाशसिध्रकोत्थैश्च कषायैर्द्धावनं परम्|
शुक्तसीधुमधून्मिश्रैर्योनेः स्रावनिवारणम्|
कुर्यात् सतक्रगो मूत्रशुक्तैर्वा त्रिफलारसैः||४९||
अर्काद्युद्भवैर्यथालाभं कषायैस्तथा करीरादिजैस्तथा पलाशसिध्रकोत्थैश्च कषायैः सर्वैश्च शुक्तादिमिश्रैर्योनेर्द्धावनं क्षालनं परं श्रेष्ठं स्रावनिवारणम्| कोशाम्रः क्षुद्राम्रनामकः| जिङ्गिणी मञ्जिष्ठा| सिध्रकः सिन्दुवारकः| बूक ऊरुबूकः| अदिलोपात् एरण्डः| पुल्लास उत्तरापथे| शुक्तं चुक्रं| इति जेज्जटः)| अथवा त्रिफलारसैस्तक्रादियुक्तैर्धावनं कुर्यात्|| ४९||
Adhikarana yavAntAdishIlanam (50) · Śloka 50
यवान्नमभयारिष्टं शीधु तैलं च शीलयेत्|
पिप्पल्ययोरजः पथ्याप्रयोगांश्च समाक्षिकान्||५०||
योनिव्यापत्स्वनवरतशीलनीयान्याह-योनिव्यापत्सु यवान्नादिकं शीलयेत्| अभयारिष्टमर्शश्चिकित्सितोक्तम्| रसायनाद्युक्तांश्च पिपल्यादिप्रयोगान् समाक्षिकान् शीलयेत्| माक्षिकोपेतान् पिप्पलीप्रयोगानयोरजःप्रयोगान् पथ्यापथ्यप्रयोगांश्च शीलयेत् सर्वकालं भजेत्|| ५०||
Adhikarana pANDurAsRugdaracikitsA (51) · Śloka 51
रोहीतकजटाकल्कं पाण्डुरेऽसृग्दरे पिबेत्|
धात्रीमज्ज्ञोऽथवा कल्कं सितामाक्षिकसंयुतम्|
मधुनामलकीचूर्णं रसं वा प्राशयेत् सिते|
सलोध्रवल्केन वटत्वक्कषायेण धावयेत्|
आस्रावे क्षौमपट्टान् वा भावितांस्तेन धारयेत्|
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्|
योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा|
धार्या मधुकृता वर्त्तिः कषायाणाम् च भूरिशः|
स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः|
सरलागुग्गुलुयवैः सतैलैः कटुमत्स्यकैः||५१||
सुबोधम्| रोहीतकजटा कुशाल्मलीमूलम्| सिते शुक्लेऽसृग्दरे आमलकाच्चूर्णं वा रसं वा मधुना सह प्राशयेत्| आमलक एवामलकी| तत्रैवास्रावे वटत्वचः कषायेण सलोध्रवल्केन प्रक्षालनम्| अथवा तेनैव प्रक्षालनकषायेण भावितान् क्षौमनक्तकान् योनौ धारयेत्| अथवा स्नेहोनाभ्यक्तया योन्या प्लक्षत्वक्चूर्णेन मधुना कृतं पिण्डं लोध्रादिकस्य चूर्णेन मधुना कृतं पिण्डं वा धारयेत्| सुबोधम्| अथवा कटुमत्स्यकैः सतैलैर्धूपयेत्|| ५१||
Adhikarana paicchilye cUrNam (52) · Śloka 52
कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातकी|
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः||५२||
योनिव्यापत्प्रसङ्गान् बैभत्स्यजनकत्वेन तद्वत् पीडाकराणां पैच्छिल्यदौर्गन्ध्यादीनां चिकित्सामाह-कासीसादिभिर्धातक्यन्तैः कृतश्चूर्णः क्षौद्रेण युक्तो योनौ पैच्छिल्ये युक्तो वैशद्यकारकः| काङ्क्षी सौराष्ट्री| आम्रजम्बुनोः फलास्थि|| ५२||
Adhikarana daurgandhye cikitsA (53) · Śloka 53
पलाशधातकीजम्बूसमङ्गामोचसर्जजः|
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते|
आरग्वधादिवर्गस्य कषायः परिषेचनम्||५३||
दुर्गन्धादियुक्ते क्लेदे स्रवति पलाशादिजश्चूर्णः स्तम्भन इष्यते| तत्रैवाऽऽरग्वधादिवर्गस्य कषायः परिषेचनम्|| ५३||
Adhikarana stabdhakArkashyayoshcikitsA (54) · Śloka 54
स्तब्धानां कर्कशानाञ्च कार्यं मार्दवकारकम्|
धारणं वेशवारस्य कृसरा पायसस्य वा||५४||
स्तब्धानां योनीनां कर्कशानाञ्च मार्द्दवकारकं कर्म कार्यम्| किं तदित्याह वेशवारस्य कृसरायाः पायसस्य वा धारणम्| (स्तब्धानां पुंसङ्गमाद्यसमर्थानां कर्कशानां कठिनस्पर्शानाञ्च योनीनां वेशवारस्य कृसरायाः| 'कृसरा सा तु विज्ञेया या कृता तिलतण्डुलै'रित्युक्तलक्षणायाः| पायसस्य पयस्संस्कृतान्नस्य च धारणं कार्यम्|| ५४||
Adhikarana pUtigandhe cikitsA (55) · Śloka 55
दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा|
चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः||५५||
दुर्गन्धानां योनीनां सर्वगन्धद्रव्याणां कषायः पूतिगन्धापकर्षणः स्यात्| एतषामेव वा तैलमेतेषामेव वा कल्क एतेषामेव वा चूर्णः| (दुर्गन्धयुक्तानां प्रकरणवशाद्योनीनां सर्वगन्धानां सर्वेषां कुष्ठचन्दनोशीरादिगन्धद्रव्याणां कषायः तेन परिषेकप्रक्षालनादिकम्| तैलं सर्वगन्धानां कल्ककषायविपक्वं तेन सेकलेपादिकम्| वाशब्दो विकल्पार्थः| कल्कस्तेषां कल्केनैव प्रलेपो वा| चूर्णस्तेषामेव चूर्णेनावकिरणं पूतिगन्धस्य दुर्गन्धस्यापकर्षणो नाशनः स्यात्)|| ५५||
Adhikarana bastidravyANi (56) · Śloka 56
श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः|
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः|
सन्निपातसमुत्थायाः कर्म साधरणं हितम्||५६||
सर्वेषां सामान्येन बस्तिसाध्यत्वात्तद्द्रव्याण्याह-श्लेष्मलानां योनीनां कटुकद्रव्यप्रायाः समूत्रा बस्तयो हिताः| पित्ते मधुकक्षीरयुक्ता बस्तयः| वाते तैलेनाम्लैश्च मद्यादिभिः| सान्निपातिकी नाम या व्यापत् तस्याः सकलसाधारणं कर्म हितम्| (सन्निपातसमुत्थायाः कर्म साधरणं यद्वातकफपित्तजासु योनिव्यापत्सुतत्समस्य् सर्वम्-इति जेज्जटः| श्लेष्मलानामिति| बस्तयः उत्तरबस्तयः हिताः| एकस्मिन्नेव दिने द्वित्रिवारप्रयोक्त्व्यत्वात् बहुवचनोक्तिः| सन्निपातदुष्टायां योनौ साधारणं सममलघ्नं कर्म हितम्| 'न हि वातादृते योनिर्वनितानां प्रदुष्यती' त्यादिवचनाच्चानिलस्य योनिव्यापदि विशेषेण प्राबल्ये सिद्धेऽप्यत्र स्तम्भकार्कश्यक्लेदपैच्छिल्यदौर्गन्ध्यप्रस्तावानन्तरमुत्तरबस्तिद्रव्यस्य कफादिक्रमकथनेनैतेषु काठिन्यविस्रादिगुणयुक्तयोः कफपित्तयोर्विशेषकारणत्वं द्योत्यते बस्तिकर्मसाध्यत्वञ्च)|| ५६||
Adhikarana yonibIjayoH shuddhermahattvam (57) · Śloka 57
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः|
अदुष्टे प्राकृते बीजे बीजोपक्रमणे सति||५७||
एवमनन्तरोक्तेन प्रकारेण योनिषु शुद्धासु योषितो गर्भं विन्दन्ति| कदेत्याह-अदुष्ट इति प्राकृते बीजे अदुष्टे बीजस्य अदुष्टस्वभावे सति चात्मनि उपक्रम आचरति सति| (एवमनन्तरोक्तेनोपचरणेन योनिषु शुद्धासु रोगशान्त्या नीरोगासु प्राकृते नैसर्गिके बीजे आर्तवाख्ये अदुष्टे वाताद्यदूषिते बीजोपक्रमणे आर्त्तवसामर्थ्यकरैः पूर्वोक्तैस्तैलेन नारीं पित्तलैश्च मांसैरित्याद्युपक्रमैरुपक्रान्ते सति योषितो नार्यः गर्भं विन्दन्ति लभन्ते| अदुष्ट इत्युक्त्या प्रकृत्या दुष्टस्य तु क्रियाभिरसाध्यत्वं द्योत्यते| 'अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति' इति चरकपाठः| अदुष्टे बीजे प्रकृतिमापन्ने किमवश्यं गर्भसम्भव इत्युच्यते जीवोपक्रमेणे सति| बीजशब्देन द्वयमङ्गीकृतं शुक्रं शोणितञ्च| जीवश्चात्र कर्मपुरुष उक्तः शारीरेष्वस्ति च सत्त्वमौ-पपादिकं यज्जीवं स्पृक्शरीरेणाभिसम्बध्नातीत्यादि| ततश्च सामग्री जनकम्| न ह्येको वर्त्तते भावो वर्त्तते नाप्यहेतुक इत्याम्नायात्| इति जेज्जटः)|| ५७||
Adhikarana puruShendriyaparIkShaNam (58) · Śloka 58
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्|
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्||५८||
प्रसङ्गेनोच्यते| रजःशुद्धिर्योनिगर्भाशयशोधनादिना उक्ता| शुक्रशोधनायाह इति जेज्जटः| पुंबीजस्याप्यवश्यमुपक्रमणीयत्वमाह पञ्चकर्मविशुद्धस्य पुरुषस्यापीन्द्रियं शुक्रं दुष्टं दोषाणां वर्णैः सूत्रोक्तैः परीक्ष्य तद्घ्नैः पुरुषबीजदोषघ्नैरुपाचरेत्| (इन्द्रियशब्दोऽत्र शुक्रे वर्तते| शुक्रमपि दोषवर्णैः सूत्रोक्तैः परीक्ष्य दुष्टं तद्वातादिघ्नैरुपाचरेत्| ननु शुक्रदोषभेषजं प्राक्शारीरेऽभिहितं येन पुनस्तद्घ्नैरुपाचरेदिति नाऽप्यनुक्तमवधारयितुं शक्यं चिकित्सितुं वा प्राधानञ्चेदं कार्यमपत्यनिबन्धनत्वाद् उच्यते| उक्तमेव| परीक्ष्य वर्णैर्दोषाणामित्यनेनेन्द्रियस्य वेदनासंस्थानान्युक्तान्येव पञ्चकर्मोपदेशेन च सकलशरीरशुद्धिर्वाजीकरणानि च क्षीणदुष्टविशुष्कस्याप्यायनप्रसादनवर्द्धनान्युक्तान्येव| शारीरेषु च सूत्रमात्रेण दर्शित एव पन्थाः-इति जेज्जटः| पञ्चकर्मविशुद्धस्य पञ्चभिर्वमनविरेचनबस्तिनस्यासृङ्मोक्षैः कर्मभिर्विशुद्धस्य कृतविशोधनस्य पुरुषस्याऽपि न केवलं स्त्रिया एव इन्द्रियं शुक्राख्यं बीजं दोषाणां वर्णैरसितपीतपाण्डुत्वादिभिः परीक्ष्य यथावदवबुध्य तत्र दुष्टं वातादिदूशितं तद्घ्नैर्बीजदूषकदोषघ्नैरुपाचरेत् चिकित्सेत्|| ५८||
Adhikarana phalasarpiH (59-39) · Śloka 39
मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः|
द्वे निशे मधुकं मेदा दीप्यकः कटुरोहिणी|
पयस्या हिङ्गु काकोली वाजिगन्धा शतावरी|
पिष्ट्वाक्षांशं घृतप्रस्थं पचेत् क्षीरचतुर्गुणम्|
योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते|
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्|
फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्|
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्|
एतत्परं च बालानां ग्रहघ्नं देहवर्द्धनम्||५९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे गुह्यरोग प्रतिषेधो नामौकोनचत्वारिंशोऽध्यायः||३९||
मञ्जिष्ठेत्यादिना फलसर्पिः सुबोधम्| तत्सर्वेषु योनिशुक्रप्रदोषेषु प्रशस्यते| अयुष्यादिगुणं च| फलसर्पिरिति ख्यातम्| फलसर्पिरित्यस्य नाम्नो भङ्गयार्थ उच्यते| पुष्पे पीतं यत्फलाय प्रजाख्याय भवतीति| (मञ्जिष्ठादीन् प्रत्येकमक्षांशमक्षप्रमाणं पिष्ट्वा कल्कीकृत्य चतुर्गुणक्षीरोपेतं घृतस्य प्रस्थं पचेत्| तत्सर्पिर्मात्रयोपयुक्तं सर्वेषु योनिशुक्रप्रदोषेषु विंशतिवेधेषु योनिव्यापत्सु वातादिकुणपग्रन्थिपूयक्षीणमलाह्वयेषु शुक्रार्तवदोषेषु च प्रशस्यते| आयुष्यमायुष्करम्| पौष्टिकं देहपुष्टिकरम्| मेध्यं बुद्ध्युन्मेषकरम्| धन्यं भाग्यकरम्| पुंसवनं पुरुषप्रजाकरणसमर्थम्| फलसर्पिरिति प्रसिद्धं पुष्पे आर्त्तवकाले पीतं फलाय सत्पुत्रजननाय भवति यस्मात् फलसर्पिरिति संज्ञेत्यर्थः| म्रियमाणप्रजानां पुनः पुनर्मृतप्रजानां गर्भिणीनां सञ्जातगर्भाणां च पूजितं श्रेष्ठम्| एतत्फलसर्पिः बालानां ग्रहघ्नं ग्रहपीडाहरं परमतिशयेन देहपुष्टिजनकञ्च)| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे एकोनचत्वारिंशोऽध्यायः