Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. apasmāracikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

आद्युत्पत्तावुन्मादेन सहोत्पन्नत्वादुन्मादमनु अपस्मारचिकित्सितमुच्यते||१-२||

Adhikarana 2 (3) · Śloka 3

स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः| तमःप्रवेशं बीभत्सचेष्टं धीसत्त्वसम्प्लवात्||३||

🔊 Audio coming soon

स्मृतेरपगम इत्यादिनाऽपस्मारसञ्ज्ञां व्युत्पादयन्नपस्मारस्वरूपमाह| स्मृतेरपगममेव विशिनष्टि- तमःप्रवेशमिति| बीभत्सचेष्टमिति तमःप्रवेशेन ज्ञानाभावत्वाद्बीभत्सचेष्टा फेनवमनाङ्गविक्षेपणादिका यस्मिन्नुपगते तं बीभत्सचेष्टम्| बीभत्सचेष्टे स्मृत्यपगमादौ च हेतुमाह- धीसत्त्वसम्प्लवादिति| सम्प्लवः विभ्रमः, स्वरूपान्यथात्वमिति यावत्||३||

Adhikarana 3 (4-5) · Śloka 5

विभ्रान्तबहुदोषाणामहिताशुचिभोजनात् | रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि||४|| चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा| मनस्यभिहते नॄणामपस्मारः प्रवर्तते||५||

🔊 Audio coming soon

यादृशानामपस्मारो भवति तानाह- विभ्रान्तेत्यादि| विभ्रान्ता उन्मार्गगामिनो बहवश्च दोषा येषां तेषां विभ्रान्तबहुदोषाणाम्| विहते सत्त्वे इति सत्त्वाख्यगुणे विहते; नतु सत्त्वशब्देन मन उच्यते, तस्य ‘मनस्यभिहते’ इत्यनेन ग्रहणं करिष्यति||४-५||

Adhikarana 4 (6-7) · Śloka 8

धमनीभिः श्रिता दोषा हृदयं पीडयन्ति हि| सम्पीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा||६|| पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि| जिह्वाक्षिभ्रूः स्रवल्लालो हस्तौ पादौ च विक्षिपन्||७|| दोषवेगे च विगते सुप्तवत् प्रतिबुद्ध्यते|८|

🔊 Audio coming soon

धमनीभिरिति यद्यपि सामान्येनोक्तं, तथाऽपि हृदयपीडायोग्यतया हृदयाश्रिता एव धमन्यो विशेषेण गृह्यन्ते| अत्र च वातादीनां प्रकोपे पृथक् पृथक् हेतुर्नोक्तः, तस्योन्मादसाधारणत्वेन लब्धत्वात्| उक्तं हि- “यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते| उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः” (चि.अ.९) इति| यस्त्वपस्मारस्य विशिष्टो हेतुरुन्मादात् स “अहिताशुभोजनात्” इत्यादिनोक्त एव||६-७||-

Adhikarana 5 (8-13) · Śloka 13

पृथग्दोषैः समस्तैश्च वक्ष्यते स चतुर्विधः||८|| कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि| परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्||९|| पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः| सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः||१०|| शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः| पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्||११|| सर्वैरेतैः समस्तैस्तु लिङ्गैर्ज्ञेयस्त्रिदोषजः| अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः||१२|| पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः| अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम्||१३||

🔊 Audio coming soon

पृथगित्यादिना चतुर्विधापस्मारलक्षणमाह| पीतासृग्रूपदर्शन इति पीतलोहितरूपदर्शी| सतृष्णोष्णेत्यादि सतृष्णोष्णश्चासावनलव्याप्तलोकदर्शी चेति समासः| शुक्लेत्यादिना श्लैष्मिक उच्यते| हृष्टाङ्गजः हृष्टरोमा| चिरादिति वचनेन वातपित्तयोरचिरेण मोक्षं सूचयति| क्षीणस्यानवश्च यः स एकदोषजोऽप्यसाध्य इति भावः| पक्षाद्वेत्यादौ व्युत्क्रम्य वेगकालनिर्देशेन उक्तकालादूर्ध्वमर्वागपि चापस्मारवेगो भवतीति सूचयति| किञ्चिदथान्तरमिति किञ्चित्कालान्तरं वेगं कुर्वन्ति, स्तोककालान्तरमिति यावत्||८-१३||

Adhikarana 6 (14-15) · Śloka 15

तैरावृतानां हृत्स्रोतोमनसां सम्प्रबोधनम्| तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः||१४|| वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः| श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्||१५||

🔊 Audio coming soon

तैरित्यादिना चिकित्सामाह| प्रबोधनमिति दोषविरहितत्वेन सम्यक्स्वव्यापारकरम्| प्राय इत्यादौ प्रायःशब्दो विशेषार्थः; तेनान्याऽपि भवति सूचिता||१४-१५||

Adhikarana 7 (16-17) · Śloka 17

सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च| अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु||१६|| गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्| सिद्धं पिबेदपस्मारकामलाज्वरनाशनम्||१७|| इति पञ्चगव्यं घृतम्|

🔊 Audio coming soon

आश्वासितस्येति आप्यायितबलस्य| गोशकृदित्यादौ दध्यादिभिरपि गोशब्दो योज्यः; तेन पञ्चगव्यमिदमल्पं भवति| साम्यं चात्र गोशकृद्रसादीनां परिभाषासिद्धमपि स्पष्टार्थमुच्यते||१६-१७||

Adhikarana 8 (18-24) · Śloka 24

द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम्| सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्||१८|| शम्पाकं फल्गुमूलं च पौष्करं सदुरालभम्| द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते||१९|| भार्गीं पाठां त्रिकटुकं त्रिवृतां निचुलानि च| श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ||२०|| द्वे सारिवे रोहिषं च भूतीकं मदयन्तिकाम्| क्षिपेत्पिष्ट्वाऽक्षमात्राणि तेन प्रस्थं घृतात् पचेत्||२१|| गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः| पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम्||२२|| अपस्मारे तथोन्मादे श्वयथावुदरेषु च| गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके||२३|| शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने| अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम्||२४|| इति महापञ्चगव्यं घृतम्|

🔊 Audio coming soon

द्वे पञ्चमूल्यावित्यादौ निर्दिष्टं पञ्चमूलद्वयं दशमूलाख्यं ग्राह्यम्| नीलिनी नीलिका| शम्पाक आरग्वधः| फल्गुः काष्ठोदुम्बरिका| द्विपलत्वं यथा प्रत्येकं दशमूल्यादीनां तत्प्रतिपादितमेवोन्मादे| निचुलो हिज्जलः| श्रेयसी हस्तिपिप्पली| द्वे सारिवे इति श्यामलताऽनन्तमूली च||१८-२४||

Adhikarana 9 (25-27) · Śloka 27

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च| पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत्||२५|| घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे| मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम्||२६|| वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः| सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम्||२७||

🔊 Audio coming soon

ब्राह्मीत्यादौ पुराणमिति घृतविशेषणं, तेन पुराणं घृतमत्र साध्यं भवति| वार्षे बास्ते इति वृषच्छागभवे मूत्रे| अत्र च यद्यपि “स्त्रीणां तीक्ष्णं गवां मूत्रं न तु पुंसां तथाविधम्| पित्तांशिकास्त्रियो यस्मात् सौम्यास्तु पुरुषा स्मृता” इत्यनेन स्त्रिया मूत्रं प्रशस्तमुक्तं, तथाऽपीह विशेषपरिग्रहात् पुंल्लिङ्गयोरेव मूत्रं यौगिकमिति| कैटर्यः पार्वतो निम्बः| वयःस्था गुडूची| वातश्लेष्मातके इति द्वन्द्वापस्मारानिर्देशाद्वातात्मके श्लेष्मात्मके चेति ज्ञेयम्; अन्ये तु गुल्मवदनुक्तमपि प्रकृतिसमसमवायारब्धद्वन्द्वजं ‘वातश्लेष्मात्मके’ इत्यनेन सूचितमपस्मारं वदन्ति||२५-२७||

Adhikarana 10 (28-31) · Śloka 31

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः| क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम्||२८|| कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे| कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत्||२९|| वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति| तद्वत् काशविदारीक्षुकुशक्वाथशृतं घृतम्||३०|| मधुकद्विपले कल्के द्रोणे चामलकीरसात्| तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्||३१||

🔊 Audio coming soon

तैलप्रस्थमित्यादौ पलोन्मितैः कल्कैरिति भवति, द्रवस्थाने क्षीरस्यैव विद्यमानत्वात्| कंसे इति आढके| काश्मर्ये इति गम्भारीभवे| रसे इति क्वाथे| तद्वदित्यनेन पूर्वयोगफलश्रुतिं दर्शयति| तद्वत्सिद्धो घृतप्रस्थः इत्यनेन पूर्वयोगोक्तं ‘क्षिप्रं’ इत्याकर्षति, तेन क्षिप्रं पित्तापस्मारभेषजं भवतीति फलति||२८-३१||

Adhikarana 11 (32-33) · Śloka 33

अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे| सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव च||३२|| कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे| सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते||३३||

🔊 Audio coming soon

अभ्यङ्ग इत्यादिनाऽकल्कमेव तैलं पक्तव्यम्| गोशकृदित्यादौ गोशकृतोत्सादनं, गोमूत्रेण च योग्यतया स्नानम्| कटभीत्यादौ कटभ्यादीनां चतुर्णामपि त्वचं गृहीत्वा क्वाथः स्नेहत्रिगुणः कर्तव्यः, चतुर्थस्तु मूत्रभागेनैव स्नेहसमेन पूर्यते||३२-३३||

Adhikarana 12 (34-36) · Śloka 36

पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः| जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः||३४|| लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्| मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे||३५|| सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्| एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम्||३६||

🔊 Audio coming soon

पलङ्कषेत्यादौ पूतनापूर्वा या केशी पूतनाकेशी गोलोमीत्यर्थः| तथा हि जतूकर्णे पूतनाकेशीत्यत्र गोलोमी पठ्यते| उक्तं हि- “वृश्चिकालीपथ्यागोलोमीनाकुलीलसुनकुष्ठैः, सर्षपजटिलाचोरकहिङ्गुवचामधुकचित्रकार्कैः, मांसादपक्षिपुरीषैर्बस्तमूत्रे शृतैरेतदभ्यङ्गे” इति| अतिरसा जलजं यष्टीमधु||३४-३६||

Adhikarana 13 (37-38) · Śloka 38

पिप्पलीं लवणं चित्रां हिङ्गु हिङ्गुशिवाटिकाम्| काकोलीं सर्षपान् काकनासां कैटर्यचन्दने||३७|| शुनःस्कन्धास्थिनखरान् पर्शुकां चेति पेषयेत्| बस्तमूत्रेण पुष्यर्क्षे प्रदेहः स्यात् सधूपनः||३८||

🔊 Audio coming soon

चित्रा दन्ती| हिङ्गुशिवाटिका वंशपत्रिका| स्कन्धास्थीति स्कन्धस्यास्थि| पुष्यर्क्षपेषणेन नक्षत्रयोगकृतं संस्कारमुपदिशति||३७-३८||

Adhikarana 14 (39-40) · Śloka 40

अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः| उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम्||३९|| जलौकःशकृता तद्वद्दग्धैर्वा बस्तरोमभिः| खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः||४०||

🔊 Audio coming soon

अपेतराक्षसीस्वरसः| जलौकःशकृतेत्यादौ तद्वदिति उत्सादनम्||३९-४०||

Adhikarana 15 (41-45) · Śloka 45

कपिलानां गवां मूत्रं नावनं परमं हितम्| श्वशृगालबिडालानां सिंहादीनां च शस्यते||४१|| भार्गी वचा नागदन्ती श्वेता श्वेता विषाणिका| ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२|| योगास्त्रयोऽतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्| त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३|| श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे| साधितं नावनं तैलमपस्मारविनाशनम्||४४|| पिप्पली वृश्चिकाली च कुष्ठं च लवणानि च| भार्गी च चूर्णितं नस्तः कार्यं प्रधमनं परम्||४५||

🔊 Audio coming soon

कपिलानां गवां मूत्रे विशेषकरी शक्तिर्भवतीति आप्तवचनादुन्नीयते| सिंहादीनां च शस्यते इत्यत्र मूत्रमिति योज्यम्| भार्गीत्यादौ नागदन्ती काष्ठपाटला| श्वेता श्वेतापराजिता श्वेतस्यन्दा| श्वेता विषाणिका शतावरी| त्रिफलेत्यादौ पीतद्रु देवदारु| लवणानि सैन्धवादीनि पञ्च, किंवा लवणवर्गोक्तानि सर्वाण्येव यथालाभं ग्राह्याणि||४१-४५||

Adhikarana 16 (46-49) · Śloka 49

कायस्थां शारदान्मुद्गान्मुस्तोशीरयवांस्तथा| सव्योषान् बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत्||४६|| अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते| विषपीते जलमृते चैताः स्युरमृतोपमाः||४७|| मुस्तं वयःस्थां त्रिफलां कायस्थां हिङ्गु शाद्वलम्| व्योषं माषान् यवान्मूत्रैर्बास्तमैषार्षभैस्त्रिभिः||४८|| पिष्ट्वा कृत्वा च तां वर्तिमपस्मारे प्रयोजयेत्| किलासे च तथोन्मादे ज्वरेषु विषमेषु च||४९||

🔊 Audio coming soon

कायस्थामित्यादौ शारदान्मुद्गानिति हरितमुद्गान्, ते हि प्रायः शरदि भवन्ति| वर्तिः नेत्राञ्जनवर्तिः| विषपीते इति पीतविषे| जलमज्जनेन मृत इव इति जलमृतः, तस्य लक्षणं- “विष्टब्धपायुमूर्धाक्षमाध्मातोदरमेहनम्| विद्याज्जलमृतं जन्तुं शीतपादकराननम्” इति| बास्तमैषार्षभैरिति छागमेषवृषभसम्भवैः||४६-४९||

Adhikarana 17 (50-52) · Śloka 52

पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्| तदेव सर्पिषा युक्तं धूपनं परमं मतम्||५०|| नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः| तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक्||५१|| आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रबुध्यते| स्रोतांसि चापि शुध्यन्ति ततः सञ्ज्ञां स विन्दति||५२||

🔊 Audio coming soon

पुष्योद्धृतमिति पुष्यनक्षत्रे गृहीतम्| कीटः वृश्चिकादिः||५०-५२||

Adhikarana 18 (53) · Śloka 53

यस्यानुबन्धस्त्वागन्तुर्दोषलिङ्गाधिकाकृतिः| दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम्||५३||

🔊 Audio coming soon

सम्प्रत्यपस्मारे सूत्रेणानुबन्धलिङ्गचिकित्सामाह- यस्येत्यादि| दोषलिङ्गाधिकाकृतिरिति अपस्मारोक्तदोषलिङ्गेभ्योऽधिकाऽऽगन्तून्मादसदृशी आकृतिर्यस्य स तथा; तेनागन्तुलिङ्गं दोषजेषु भवति, नच दोषलिङ्गं विनाऽऽगन्तुलिङ्गता सम्भवति; ततश्चागन्त्वपस्मारः पृथङ् न भवति, किन्तु दोषजस्यानुबन्धरूपः पश्चात्कालीनः स आगन्तुः; तेन “चत्वारोऽपस्माराः” (सू.अ.१९) इति यदुक्तं तस्यागन्तुरनुबन्धो भवत्येव कदाचिदिति| अनेनानुबन्धरूपतैव भूतापस्मारे दर्शिता; न तून्मादवत् स्वातन्त्र्येण कर्तव्यं भूतानाम्| अन्यत्राप्युक्तम्- “अपस्मारो महाव्याधिः स स्याद्दोषत एव तु” इति| अन्ये तु भीमदन्तादयः स्वतन्त्रागन्त्वपस्मारलक्षणचिकित्सानिर्देशार्थमत्र ग्रन्थं वर्णयन्ति; न सङ्ख्यानियमश्च दोषजापस्माराणामेवं भवति||५३||

Adhikarana 19 (54-63) · Śloka 63

अनन्तरमुवाचेदमग्निवेशः कृताञ्जलिः| भगवन्! प्राक् समुद्दिष्टः श्लोकस्थाने महागदः||५४|| अतत्त्वाभिनिवेशो यस्तद्धेत्वाकृतिभेषजम्| तत्र नोक्तमतः श्रोतुमिच्छामि तदिहोच्यताम्||५५|| शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनर्वसुः| महागदं सौम्य! शृणु सहेत्वाकृतिभेषजम्||५६|| मलिनाहारशीलस्य वेगान् प्राप्तान्निगृह्णतः| शीतोष्णस्निग्धरूक्षाद्यैर्हेतुभिश्चातिसेवितैः||५७|| हृदयं समुपाश्रित्य मनोबुद्धिवहाः सिराः| दोषाः सन्दूष्य तिष्ठन्ति रजोमोहावृतात्मनः||५८|| रजस्तमोभ्यां वृद्धाभ्यां बुद्धौ मनसि चावृते| हृदये व्याकुले दोषैरथ मूढोऽल्पचेतनः ||५९|| विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते| अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम्||६०|| स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः| कृतसंसर्जनं मेध्यैरन्नपानैरुपाचरेत्||६१|| ब्राह्मीस्वरसयुक्तं यत् पञ्चगव्यमुदाहृतम्| तत् सेव्यं शङ्खपुष्पी च यच्च मेध्यं रसायनम्||६२|| सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः| संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः ||६३||

🔊 Audio coming soon

अस्मिन् प्रदेशे सैन्धवाः काश्मीराश्च ‘भगवन्’ इत्यादिनाऽतत्त्वाभिनिवेशस्य लक्षणचिकित्साग्रन्थं पठन्ति; स चानार्ष इति वृद्धाः||५४-६३||

Adhikarana 20 (64-65) · Śloka 65

प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्| ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||६४|| दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः | तस्माद्रसायनैरेनं प्रायशः समुपाचरेत्||६५||

🔊 Audio coming soon

तैललशुनादयः पञ्च योगाः| अनेन चिरकारिणीं चिकित्सां दर्शयति||६४-६५||

Adhikarana 21 (66) · Śloka 66

जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा| रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते||६६||

🔊 Audio coming soon

जलाग्नीत्यादिना जलादिसान्निध्ये यदि वेगो भवत्यपस्मारस्य तदा मरणमेव भवतीति दर्शयति||६६||

Adhikarana 22 (67-68) · Śloka 68

तत्र श्लोकौ- हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा| सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां च भेषजम्||६७|| महागदसमुत्थानं लिङ्गं चोवाच सौषधम्| मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते ||६८||

🔊 Audio coming soon

सङ्ग्रहे कुर्वन्तीत्यादिना सम्प्राप्तिं गृह्णाति||६७-६८||

Adhikarana puShpikA · Śloka 10

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थानेऽपस्मारचिकित्सितं नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थानेऽपस्मारचिकित्सितं नाम दशमोऽध्यायः||१०||