Adhikarana 1 (1-2) · Śloka 2
अथात उन्मादचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इदानीमुपोद्घातितं राजयक्ष्मचिकित्सितमभिधाय क्रमप्राप्तमुन्मादचिकित्सितं ब्रूते| अयं क्रमश्चरकसंस्कृतां पञ्चाध्यायीमर्शोऽतीसारवीसर्पमदात्ययद्विव्रणीयरूपां परित्यज्य ज्ञेयः||१-२||
Adhikarana 2 (3) · Śloka 3
बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृतां शरण्यः|
उन्मादहेत्वाकृतिभेषजानि कालेऽग्निवेशाय शशंस पृष्टः||३||
बुद्धिः ऊहापोहवती, स्मृतिः अतीतार्थविषयज्ञानं, तपः चान्द्रायणादि, तेषां निवास आश्रय इत्यर्थः| उन्मादहेत्वदीत्यादौ हेतुग्रहणेनात्र वक्तव्याः सम्प्राप्तिस्थितिरूपकाला उन्मादगम्यहेतुविषयतया गृह्यन्ते| आकृतिग्रहणेनाभिधेयस्योन्मादस्वरूपस्य ग्रहणं ज्ञेयम्||३||
Adhikarana 3 (4) · Śloka 4
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्|
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः||४||
सम्प्रत्युन्मादहेतुमाह- विरुद्धेत्यादि| विरुद्धं पयःसंयुक्तमत्स्यादि, दुष्टं गरादि अत्यर्थदोषजनकं च, अशुचि अपवित्रम्| भयहर्षपूर्वो मनोऽभिघात इति अत्र पूर्वशब्दः कारणवाची, तेन भयहर्षकारणको मनोऽभिघात इत्यर्थः| एतद्विरुद्धाहारादि यथासम्भवं कारणं ज्ञेयम्| भयहर्षावुपलक्षणौ, तेन क्रोधादयोऽपि मनोभिघातका अत्र ज्ञेयाः| क्रोधादिना प्रत्याहते मनसि भयहर्षपूर्वक एवोन्मादो भवति||४||
Adhikarana 4 (5) · Śloka 5
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य|
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः||५||
तैरित्यादिना सम्प्राप्तिमाह| अल्पसत्त्वस्य अल्पसत्त्वगुणस्य| हृदयं यद्यपि बुद्धिनिवासत्वेनार्थेदशमहामूलीयादौ प्रतिपादितमेव; तथाऽपि बुद्धिनिवासत्वोपदर्शनमिह कृतं, हृदयोपघाताद्बुद्ध्युपघातो वक्ष्यमाणो युक्त एव; आश्रयोपघातेनाश्रितस्योपघातः सिद्ध एव| स्रोतांसि च मनोवहानीत्यनेन हृदयदेशसम्बन्धिधमन्यो विशेषेण मनोवहा दर्शयति; किंवा केवलमेव शरीरं मनोऽभ्यनुस्यूतं जग्राह| उक्तं हि- “केवलमेवास्य मनसः शरीरमधिष्ठानभूतं” (वि.अ.५) इति| चेत इति मनः||५||
Adhikarana 5 (6-7) · Śloka 7
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च|
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्||६||
स मूढचेता न सुखं न दुःखं नाचारधर्मौ कुत एव शान्तिम्|
विन्दत्यपास्तस्मृतिबुद्धिसञ्ज्ञो भ्रमत्ययं चेत इतस्ततश्च||७||
धीविभ्रम इत्यादिना सामान्यमुन्मादपूर्वरूपमाहेत्येके| धीविभ्रमादि त्विह सामान्यमुन्मादलिङ्गमेवोक्तम्| कुत एव शान्तिमिति कुतोऽपि शान्तिं निवृत्तिं न विन्दति| सञ्ज्ञा नामोल्लेखेन ज्ञानम्| भ्रमत्ययं चेत इति अश्वान् रथिरिव भ्रामयति; अत्र णिजर्थोऽन्तर्भूतः||६-७||
Adhikarana 6 (8) · Śloka 8
समुद्भ्रमं बुद्धिमनःस्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः|८|
उन्मादसञ्ज्ञाव्युत्पत्तिमाह- समुद्भ्रममित्यादि| समुद्भ्रम उन्माद इत्येकोऽर्थः| मनोविभ्रमोऽचिन्त्यार्थचिन्तनादिना ज्ञेयः| निदानोक्तसञ्ज्ञादिविभ्रमोऽपि मनोविभ्रम एवान्तर्भावनीय इह, सञ्ज्ञादिविभ्रमस्यापि मनोविभ्रमजन्यत्वात्||८ ||
Adhikarana 7 (8-10) · Śloka 10
तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितं च||८||
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः|
चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम्||९||
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि|
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम्||१०||
तस्योद्भवमित्यादौ यद्यपि पञ्चानां मध्येऽसाध्यस्य सान्निपातिकस्य चिकित्सितं न वक्तव्यं, तथाऽपि छत्रिणो गच्छन्तीति न्यायेन बाहुल्यमाश्रित्य चिकित्सितं वक्ष्यामीत्युक्तम्| चिन्तेत्यादि चिन्ता आदिः येषां ते, तेन कामक्रोधादयो गृह्यन्ते; आदिशब्दोऽत्र प्रकारवाची| अस्थाने अविषये हासदीन्यस्थानहासस्मितादीनि||८-१०||
Adhikarana 8 (11-12) · Śloka 12
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्|
उन्मादमत्युग्रमनात्मकस्य हृदि श्रितं पूर्ववदाशु कुर्यात्||११||
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्रवणौष्ण्यरोषाः |
प्रच्छायशीतान्नजलाभिलाषाः पीता च भाः पित्तकृतस्य लिङ्गम्||१२||
अजीर्णेत्यादिना पित्तोन्मादमाह| चितमित्यनेन चयपूर्वकत्वेन पित्तस्य महान्तं कोपं दर्शयति, चयपूर्वको हि दोषकोपो बलवत्त्वान्महान्भवति| अन्ये त्विह चितशब्देन प्रकोपमिच्छन्ति| अत्युग्रमिति तीव्रवेगम्| पूर्ववदित्यनेन वातोन्मादवच्चिन्तादिजुष्टमित्यादिग्रन्थोक्तां सम्प्राप्तिमतिदिशति| अमर्षः अक्षान्तिः, संरम्भ आरभटी, विनग्रभावः अवस्त्रत्वम्| अतिद्रवणं त्वरितगमनम्| प्रच्छायः प्रवृद्धच्छायो देशः||११-१२||
Adhikarana 9 (13-14) · Śloka 14
सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि सम्प्रवृद्धः|
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् सञ्जनयेद्विकारम्||१३||
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा|
छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्ल्यं च कफात्मकस्य||१४||
सम्पूरणैरित्यादिना कफोन्मादमाह| सोष्मा कफ इति सह ऊष्मणा कफ उन्मादं करोति न केवल इति, उन्मादकरणे कफस्य ऊष्मसहितत्वरूपं स्वभावं दर्शयति; किंवोष्मशब्देन वीर्यं शक्तिरूपमुच्यते, तेन सोष्मा कफ इति उत्क्लिष्टशक्तिकः कफ इत्यर्थः| मर्मणीति हृदये| नारीविविक्तयोः प्रियता नारीविविक्तप्रियता; विविक्तं विजनम्||१३-१४||
Adhikarana 10 (15) · Śloka 15
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्|
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः||१५||
य इत्यादिना सान्निपातिकमाह| सर्वैरित्युक्ते प्रत्येकमपि सर्वहेतूनां जनकत्वं स्यादत आह- समस्तैरिति| विरुद्धभैषज्यविधित्वाद्विवर्ज्यः| केचिदत्र तादृक्शब्देन य एव समस्तहेतुजः सर्वलक्षणश्च स एव वर्ज्यो न त्वल्पहेतुलक्षण इति वदन्ति||१५||
Adhikarana 11 (16) · Śloka 16
देवर्षिगन्धर्वपिशाचयक्षरक्षःपितॄणामभिधर्षणानि|
आगन्तुहेतुर्नियमव्रतादि मिथ्याकृतं कर्म च पूर्वदेहे||१६||
देवर्षीत्यादिनाऽऽगन्तून्मादमाह| इह येऽसुरादयःसुश्रुतोक्तास्तेऽनाविष्कृततमा विज्ञेयाः| वक्ष्यति च- “इत्यपरिसङ्ख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याता” इति| अत्र च रक्षःशब्देन राक्षसब्रह्मराक्षसयोर्ग्रहणं, तेन विवरणे ब्रह्मराक्षसोन्मत्तोऽप्युक्तः| अभिधर्षणम् आवेशः| नियमेत्यादिना ऐहिकं कर्म देवाद्यावेशकारणं ब्रूते; मिथ्याकृतं कर्म चेत्यनेन पूर्वजन्मकृतं कर्म आह||१६||
Adhikarana 12 (17) · Śloka 17
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः|
उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम्||१७||
अमर्त्येत्यादिनाऽऽगन्तूनां सामान्यलिङ्गान्याह| अमर्त्यैः अमानुषैर्वागादिभिर्लक्षितं भूतोत्थमुदाहरेत्| अनियत इति वातिकादिवन्न आहारजीर्णादिकालनियतः; ये तु ‘नियत’ इति पठन्ति, तेषां वक्ष्यमाणनियततिथ्यादीनां ग्रहणमभिप्रेतम्||१७||
Adhikarana 13 (18) · Śloka 18
अदूषयन्तः पुरुषस्य देहं देवादयः स्वैस्तु गुणप्रभावैः|
विशन्त्यदृश्यास्तरसा यथैव च्छायातपौ दर्पणसूर्यकान्तौ||१८||
अदूषयन्त ईषद्दूषयन्तः| गुणप्रभावैरिति अणिमादिगुणप्रभावैः| तरसा अतिवेगेन| दृष्टान्तद्वयमाह- छायेत्यादि| छाया यथा दर्पणम्, आतपः सूर्यकान्तम, अदूषयन्नेवादृश्यमानगुणप्रभावेणाविशति, तथा देवादयोऽपि देहं विशन्तीत्यर्थः||१८||
Adhikarana 14 (19) · Śloka 19
आघातकालो हि स पूर्वरूपः प्रोक्तो निदानेऽथ सुरादिभिश्च|
उन्मादरूपाणि पृथङ्निबोध कालं च गम्यान् पुरुषांश्च तेषाम्||१९||
आघातकाल इति आवेशावकाशः; स च निदाने “तद्यथा- पापस्य कर्मणः समारम्भे” (नि.अ.७) इत्यादिनोक्तः| कालं तिथिरूपम्||१९||
Adhikarana 15 (20) · Śloka 20
तद्यथा- सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवातं शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्; गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात्; अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं च पितृभिरुन्मत्तं विद्यात्; (चण्डं साहसिकं तीक्ष्णं गम्भीरमधृष्यं) मुखवाद्यनृत्यगीतान्नपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियं शुभगन्धं च गन्धर्वोन्मत्तं विद्यात्; असकृत्स्वप्नरोदनहास्यं नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिं रक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं च यक्षोन्मत्तं विद्यात्; नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं सन्तर्जकं च राक्षसोन्मत्तं विद्यात्; प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः स्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्मपीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात्; अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं बद्धाबद्धप्रलापिनं सङ्करकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरूक्षस्वरं नग्नं विधावन्तं नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं च पिशाचोन्मत्तं विद्यात्||२०||
स्वप्नभोजनाभिलाषी न भवतीति अस्वप्नभोजनभिलाषी| देवादिशब्देनेह सुश्रुतमताद्देवाद्यनुकारिणस्तदनुचरा ज्ञेयाः| उक्तं हि सुश्रुतेन- “न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति| ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः|| तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसङ्ख्याः|| असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति” (सु.उ.अ.६०) इति| ऋषिसधर्मतया गुर्वादीनामसूत्रितानामप्युदाहरणम्| गुर्वाद्यभिशापादयो यादृशेनाभिप्रायेण भवन्ति तदनुरूपचेष्टादयोऽपि तैरुन्मत्तस्य भवन्तीति गुर्वादिग्रन्थार्थः| अनन्नाभिलाषः अन्नाप्रार्थना, अरोचकस्तु प्रार्थितेऽप्युपयोगसमयेऽनभिलाषः| चण्डमिति मारणात्मकम्| स्तुतिः स्तावको ग्रन्थः| उदाहरणमिति पठनं स्तुत्यादीनामेव| स्थानमलभमानमिति स्थानमेव नास्तीति भाषमाणम्| बद्धाबद्धत्वं सम्बद्धासम्बद्धत्वम्| सङ्करः तृणादिचय इत्यर्थः||२०||
Adhikarana 16 (21) · Śloka 21
तत्र चौक्षाचारं तपःस्वाध्यायकोविदं नरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां च छिद्रमवेक्ष्याभिधर्षयन्ति देवाः, स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्रायः षष्ठ्यां नवम्यां चर्षयः, मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायां च पितरः, गन्धर्वाः स्तुतिगीतवादित्ररतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां च, सत्त्वबलरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्तम्यां च यक्षाः, स्वाध्यायतपोनियमोपवासब्रह्मचर्यदेवयतिगुरुपूजाऽरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्म्णवादिनं शूरमानिनं देवागारसलिलक्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसाः, रक्षःपिशाचास्तु हीनसत्त्वं पिशुनं स्त्रैणं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु; इत्यपरिसङ्ख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याताः||२१||
तत्र चौक्षाचारमित्यादिनाऽभिगमनीयपुरुषान् कालं च पृथगाह| चौक्षः शुचिः आचारो यस्य स चौक्षाचारः| चौक्षाचारादिशुभकर्मयुक्ताः शुभकर्मतया यद्यपि उन्मादानर्हास्तथाऽपि प्राक्तनकर्मवशात्ते देवादिभिरुन्माद्यन्त इति ज्ञेयम्| अतिवाक्करणमिति अतिभाषमाणम्| छिद्रमिति उच्छिष्टावस्थानादिरूपमपचारम्| सम्प्रति भूतविद्याधिकारत्वाद्भौतिकोन्मादस्य लेशकथनमिहाशून्यतार्थं, तेनापरेऽप्युन्मादकभूताः सन्तीति दर्शयन्नाह- अपरिसङ्ख्येयानामित्यादि||२१||
Adhikarana 17 (22) · Śloka 22
सर्वेष्वपि तु खल्वेषु यो हस्तावुद्यम्य रोषसंरम्भान्निःशङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो ज्ञेयः; तथा यः साश्रुनेत्रो मेढ्रप्रवृत्तरक्तः क्षतजिह्वः प्रस्रुतनासिकश्छिद्यमानचर्माऽप्रतिहन्यमानवाणिः सततं विकूजन् दुर्वर्णस्तृषार्तः पूतिगन्धश्च स हिंसार्थिनोन्मत्तो ज्ञेयः; तं परिवर्जयेत्||२२||
असाध्यभूतजोन्मादमाह- सर्वेष्वित्यादि| हिंसार्थी मारात्मकः| अप्रतिहन्यमानवाणिरिति नित्यवागित्यर्थः| त्रिविधो भूतो भवति रत्यर्चनहिंसाभेदेन| तत्र हिंसार्थिना गृहीतोऽसाध्यो भवति, अत एवासाध्यभूतोन्मादे उक्तं- हिंसार्थिनोन्मत इति||२२||
Adhikarana 18 (23) · Śloka 23
रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण|
मन्त्रभैषज्यविधिनोपक्रमेत्||२३||
रत्यर्चनार्थिभूतगृहीतचिकित्सामाह- रत्यर्चनेत्यादि| रतिकामोऽर्चनाकामश्च रत्यर्चनाकामौ, ताभ्यामुन्मादितौ रत्यर्चनाकामोन्मादितौ| अभिप्रायाचाराभ्यां बुद्ध्वेति अभिप्रायेण यः काम्यमर्थमिच्छति स रतिकामः, यस्तु पूजामिच्छति स अर्चनाकामः; एवमाचारेण यः काम्यार्थप्राप्त्यर्थं चेष्टते स रतिकामः, योऽर्चनार्थं पुष्पधूपादिकमन्विष्यति सोऽर्चनाकामः, इति बुद्ध्वा तदङ्गरत्युपहारादि कर्तव्यं; तस्या रतेरर्चनायाश्च यदङ्गसाधनं तत्तद्वर्तनेन तत्तदङ्गोपहाररूपबलिना भैषज्यमन्त्रविधिना चोपचारः कर्तव्य इति वाक्यार्थः||२३||
Adhikarana 19 (24-32) · Śloka 33
तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः||२४||
उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्|
कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्||२५||
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्|
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः||२६||
निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्|
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्||२७||
हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः|
मनःप्रसादमाप्नोति स्मृतिं सञ्ज्ञां च विन्दति||२८||
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्|
ताडनं च मनोबुद्धिदेहसंवेजनं हितम्||२९||
यः सक्तोऽविनये पट्टैः संयम्य सुदृढैः सुखैः|
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे||३०||
तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्|
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः||३१||
प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः|
प्रयोक्तव्यं मनोबुद्धिस्मृतिसञ्ज्ञाप्रबोधनम्||३२||
सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः|३३|
तत्रेत्यादिना भेषजविधानमाह | विशेषविदिति वातस्य निरावरणरूपं विशेषं जानन् स्नेहपानं वातजे दद्यादिति दर्शयति, सावरणे तु तन्निषिद्धमेव; यदुक्तं- “मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् करोति| स्नेहं नियुञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्” (सि.अ.१) इति| इहावृतमार्गे कुर्यादित्यादिना विशेषमाह| सस्नेहमिति ईषत्स्नेहम्| कफपित्तोद्भवे इति कफोद्भवे पित्तोद्भवे च; तत्र कफोद्भवे वमनं, पित्तोद्भवे विरेचनम्| तेषामिति बस्त्यादीनाम्| भूयस्त्वं पुनः पुनः प्रयोगमाचरेत्; यथादोषमित्यनेन दोषभूयस्त्वे सति पुनः पुनरपि प्रयोगं कुर्यात्| शोधनफलमाह- हृदित्यादि| हृदयादिशुद्ध्या च मनःप्रसादाद्यपि भवत्येव; तथा चोक्तं- “शरीरमपि सत्त्वमनुविधीयते” (शा.अ.५) इत्यादि| संवेजनमिति उद्वेजनम्| अविनये इति परिजनमारणादावविनये| पट्टैरित्यनेन पट्टबन्धनं न व्रणकारी भवतीति दर्शयति| संयम्येति यथा निःसर्तुं न शक्नोति तथा स्थापनीयः| लोहाद्यपनयनं तमोगृहे आत्मवधनिषेधार्थं; तमोगृहं च शून्यगृहतयोन्मादनिदानोक्तमपि रोगमहिम्नाऽवस्थायां हितं भवति| तर्जनं वाचा, त्रासनं राजपुरुषादिभिः| विस्मृतेर्हेतोरिति उन्मादहेतुभयहर्षादिविस्मारकतया प्रभावान्मनः प्रकृष्टं स्वभावं नयति; यथा- विषमज्वरे ज्वरकालास्मरणं ज्वरहरणम्|२४-३२||-
Adhikarana 20 (33-41) · Śloka 41
अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान्||३३||
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्|
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्||३४||
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्|
स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका||३५||
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्|
तालीशपत्रं बृहती मालत्याः कुसुमं नवम्||३६||
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ|
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः||३७||
चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत्|
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये||३८||
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके|
छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च||३९||
कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च|
भूतोपहतचित्तानां गद्गदानामचेसाम्||४०||
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम्|
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम्||४१||
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च|
इति कल्याणकं घृतम्|
विशालेत्यादावष्टाविंशतिकत्वं कल्कद्रव्याणां पाठादेव सिद्धं, तत् किमुच्यतेऽष्टाविंशतिभिः कल्कैरिति? उच्यते- अत्र यद्यपि त्रिफलायाः प्रत्येकमेको भागो गृह्यते उत्सर्गतः, तथाऽपि त्रिफलायाः प्रत्येकभागग्रहणदार्ढ्यार्थमष्टाविंशतिभिरित्युक्तम्| सुश्रुते- “हरीतक्यामलकबिभीतकानि त्रिफला” (सु.सू.अ.३८) इति परिभाषया त्रिफलाशब्देन हरीतक्यादय उच्यन्ते, तथाऽत्रापि “जरणान्तेऽभयामेकां प्राग्भुक्ताद्द्वे बिभीतके| भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च|| प्रयोजयेत् समामेकां त्रिफलाया रसायनम्” (चि.अ.१) इति वचनाद्धरीतक्यादिषु त्रिफलासञ्ज्ञा दर्शिता; तेन त्रिफलाशब्देन द्रव्यत्रयमुच्यते; यथा दशमूलशब्देन दश भेषजानि, पञ्चमूलशब्देन पञ्च, यथा वा “नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्” इति पदेन षड्द्रव्याण्युच्यन्ते| मानं चोपदिश्यमानं प्रत्येकद्रव्यापेक्षयेह भवति; यथा गुल्मचिकित्सिते- “नीलिनीं त्रिफलां” इत्यादि यावत् “व्याघ्रीं पलिकानि जलाढके” (चि.अ.५) इति; तथाऽगस्त्यहरीतक्यां दशमूल्यादीनां द्विपलं प्रत्येकमेव भवति, यतो द्रव्यप्राधान्येनोपदिश्यमानं भगमानं प्रयोगेषु प्रतिद्रव्येष्वेव भवति न समुदाये| यदा तु मानप्राधान्येन निर्देशस्तदा समुचितस्यैव द्रव्यस्य मानग्रहणं; यथा- “लशुनस्याविनिष्टस्य तुलार्धं निस्तुषीकृतम्| तदर्धं दशमूलस्य द्व्याढके पाचयेदपाम्” इत्यत्र षष्ठ्यन्तत्वाद्दशमूलस्याप्राधान्यं, यथा- ‘राज्ञः पुरुषः’ इत्यत्राप्रधान्यं; तेनेह लशुनस्य विशेष्यतया प्रधानं मानं तद्विशेषणभूतं च दशमूलमप्रधानम्, अप्रधानत्वाच्च न प्रत्येकं नियतभागाः; तेन लशुनार्धमानत्वमेव दशमूलस्य भवति| यथा वा “द्विपञ्चमूलतुलार्धरसेन” इत्यत्रापि द्विपञ्चमूलस्य समुदितस्यैव तुलार्धविशेषणीभूतस्य क्वाथार्थं तुलार्धभागो गृह्यते, एवं “त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च” (चि.अ.१६) इत्यत्रापि समुदितादेव त्रयो भागा नतु प्रत्येकं, तथा हि नवभागाः स्युः| तथा “त्र्यूषणत्रिफलाकल्के बिल्वमात्रे” (चि.अ.१५) इत्यत्र तु कल्कविशेषणीभूतत्वेन त्र्यूषणत्रिफलाकल्कस्यैव बिल्वमानत्वं, न प्रत्येकं शुण्ठ्यादीनां हरीतक्यादीनां च कल्कीकृतानां बिल्वमानत्वम्| एवमन्यत्रापि समुदायभागप्रमाणे आचार्याभिप्रायविशेष उन्नेयः| द्रव्यप्रधाननिर्देशे तु प्रत्येकद्रव्याणि गणो वा पठ्यतां तथाऽपि प्रत्येकमेव भागो भवति, अवयवप्रधानत्वान्निर्देशस्य| यदा समुदायप्रधाननिर्देशो विशेषाल्लिख्यते, तदा प्रत्येकनिर्दिष्टलिङ्गानामपि समुदायस्य भागो भवति; “पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्” (चि.अ.१पा.१) इत्यत्र चतुर्भ्योऽप्येकमेव पलं गृह्यते न प्रत्येकम्| तथा “तैलसर्पिषोः| पलद्वादशके भृष्ट्वा” (चि.अ.१पा.१) इत्यत्र तैलसर्पिषोर्मिलितयोरेव द्वादशपलं न प्रत्येकमिति प्रत्येकं द्रव्यप्रमाणानि तथा मानपूर्वनिर्देशं व्युत्पादयता सङ्क्षेपेण दर्शितमेव | एवं व्यवस्थितेऽपि महानीलोक्तपृथक्शब्देन सिद्धस्यापि त्रिफलापृथग्भागं दर्शयति| यथा “पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक्पृथक्| भागान् त्रिपलिकान् कृत्वा” इत्यत्र पृथक्पृथगिति त्रिपलं करोति; तथा परिभाषासिद्धस्यापि स्नेहपादिककल्कभागस्याभिधानं तत्र तत्र तैले घृते च करोति| त्रिफलाशब्देन यद्यपि द्राक्षाकश्मर्यपरूषकाणि चोच्यन्ते; यदुक्तमन्यत्र- “पथ्यामलकधात्रीभिस्त्रिफला महती स्मृता| चक्षुष्या सर्वदोषघ्नी स्रंसनी बृंहणी च सा|| ह्रस्वा काश्मर्यमृद्वीकापरूषकफलैर्भवेत्” इति, तथाऽपीह हरीतक्यादित्रिफलाया एव प्रधानतयोत्सर्गतो ग्रहणं भवति| अन्ये तु तालीशपत्रमित्यत्र तालीशं च पत्रं चेती द्रव्यद्वयग्रहणशङ्का स्यात्, तेनष्टाविंशतिपदेन सा न भवत्वेतदर्थमष्टाविंशतिभिरिति कृतं, त्रिफलायाः प्रत्येकं ग्रहणं न्यायसिद्धमेवेति वदन्ति| अन्ये त्वष्टाविंशत्यौषधमिष्यत इत्यादावष्टाविंशत्यौषधसञ्ज्ञया व्यवहारोऽस्य भवतीत्येतदर्थमष्टाविंशतिभिरिति कृतम्| चतुर्गुणवचनमिह परिभाषया शुद्धजलाच्चतुर्गुणदानार्थम्||३३-४१||-
Adhikarana 21 (42-44) · Śloka 44
एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम्||४२||
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे|
वीरार्द्रमाषकाकोलीस्वयङ्गुप्तर्षभर्धिभिः||४३||
मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत्|
बृंहणीयं विशेषेण सन्निपातहरं परम्||४४||
इति महाकल्याणकं घृतम्|
स्थिरादीनीत्युक्ते विदारीगन्धादिपञ्चमूलमपि स्यादत आह- एकविंशतिमिति| तेन कल्याणोक्ता एकविंशतिर्गृह्यते| गृष्टिरेकवारप्रसूता गौः| अत्र क्षीरेणैव चातुर्गुण्ये प्राप्तेऽयं कषायः “एकेनापि चातुर्गुण्यम्” इत्यादिपरिभाषाया अविषयत्वेन चातुर्गुण्यपरिभाषया क्षीरमानसाहचर्याद्वा चतुर्गुणो ज्ञेयः| केचित्त्वेकविंशतिपदेनैकविंशतिवारान् सर्पिस्तयैव विधया पक्तव्यमिति वदन्ति| तन्न, यतो जतूकर्णे- “क्वाथे कृमिहरान्तानां चतुःषष्टिपले पयसि च पचेत् सर्पिः” इत्यनेन उत्सर्गत एक एवास्य पाक उक्तः| विडङ्गान्तशब्देन च कल्याणोक्तैविंशतिस्थिरादिद्रव्यग्रहणमेव भवति| आर्द्रमाषः अशुष्कमाषः; ‘द्विमाष’ इति वा पाठः, तत्र माषराजमाषयोर्ग्रहणम्||४२-४४||
Adhikarana 22 (45-48) · Śloka 48
जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्|
त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम्||४५||
वयःस्थां शूकरीं छत्रामतिच्छत्रां पलङ्कषाम्|
महापुरुषदन्तां च कायस्थां नाकुलीद्वयम्||४६||
कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम्|
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम्||४७||
महापैशाचिकं नाम घृतमेतद्यथाऽमृतम्|
बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम्||४८||
इति महापैशाचिकं घृतम्|
जटिलामित्यादि| जटिला मांसी| पूतना हरीतकी| केशी भूतकेशी| चारटी कुम्भी, ‘ब्रह्मयष्टिका’ इत्यन्ये| मर्कटी शूकशिम्बी| जया जयन्ती| वीरा क्षीरकाकोली, ‘शालपर्णी’ इत्यपरे| चोरकः चण्डालकः| वयःस्था ब्राह्मी गुडूची वा| शूकरी ‘वाराहीकन्द’ इति ख्याता| छत्रा मधुरिका, अतिच्छत्रा शतपुष्पा; किंवा छत्रातिच्छत्रे द्रोणपुष्पीद्वयम्| पलङ्कषा गुग्गुलुः| महापुरुषदन्ता शतावरी| (अन्ये तु विष्णुक्रान्तां वदन्ति, जटिलां शतावरीमाहुः )| कायस्था सूक्ष्मैला| नाकुलीद्वयं रास्नाद्वयम्| कटम्भरा कटभी| वृश्चिकाली ‘वृश्चिकपत्री’ इति ख्याता| अल्पपैशाचिकस्याभावान्महापैशाचिकमित्यत्र महच्छब्दः पूजावचनः||४५-४८||
Adhikarana 23 (49-56) · Śloka 56
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्|
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः||४९||
पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्|
हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम्||५०||
तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान्|
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः||५१||
इति लशुनाद्यं घृतम्|
लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्|
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत्||५२||
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा|
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः||५३||
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः|
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः||५४||
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः|
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्||५५||
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्|
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति||५६||
इत्यपरं लशुनाद्यं घृतम्|
लशुनानां शतमित्यत्र लशुनकन्दानां शतपलमानम्| तदर्धं दशमूलस्येति पञ्चविंशति पलानि| त्र्यूषणात् पलमित्यत्र समुदितात् पलम्| मधुमाणिकामिति द्रवत्वाद् द्वैगुण्येन माणिकाया द्विकुडवरूपायाः षोडशपलं भवति| लशुनरसादीनां प्रत्येकं प्रस्थमानत्वं ज्ञेयम्||४९-५६||
Adhikarana 24 (57-62) · Śloka 63
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया|
सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७||
केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्|
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८||
विशेषतः पुराणं च घृतं तं पाययेद्भिषक्|
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९||
गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्|
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०||
लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्|
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१||
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्|
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२||
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३|
हिङ्गुना हिङ्गुपर्ण्या चेत्येकं घृतम्| सकायस्थवयःस्थयेति द्वितीयम्| वयःस्थेत्यादिना तृतीयम्| हिङ्गुपर्णी वंशपत्रिका, अन्येतु ‘हिङ्गुपर्णी’ इति ख्यातामाहुः| वयःस्था ब्राह्मी| कायस्था सूक्ष्मैला| उग्रगन्धमित्यादिकं केचिदनार्षं वदन्ति| केवलम् एतद्घृतमसाधितम्| एतैरिति अनन्तरोक्तघृतसाधनद्रव्यैः||५७-६२||-
Adhikarana 25 (63-75) · Śloka 76
एतानौषधयोगान् वा विधेयत्वमगच्छति||६३||
अञ्जनोत्सादनालेपनावनादिषु योजयेत्|
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४||
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्|
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५||
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्|
पिष्ट्वा तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६||
वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः|
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७||
भूतार्तानमरार्तांश्च नरांश्चैव दृगामये|
मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८||
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः|
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च||६९||
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्|
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०||
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्|
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१||
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः|
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते||७२||
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्|
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३||
वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः|
शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४||
मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च|
सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्||७५||
वातश्लेष्मात्मके प्रायः ...|७६|
एतानिति वक्ष्यमाणान् शिरीषादीन्| नावनं चाञ्जनं चेति नावनाञ्जनम्| हिङ्ग्वालमिति अत्रालं हरितालम्| अमरार्तांश्चेति देवगृहीतान्| दोषेण भूतेन वा हता स्मृतिर्यस्य स दोषभूतहतस्मृतिः| अगद इति विषहरः| कृत्या अभिचारः| राजद्वारे च शस्यत इति वशीकरणत्वात्| गन्धैरिति अगुर्वाद्यैस्तगरवर्जितैः, उक्तं हि सूत्रस्थाने धूमविधौ- “गन्धाश्चागुरुपत्राद्याः” (सू.अ.५) इति| श्वेताद्यैरिति “श्वेता ज्योतिष्मती चैव हरितालं मनःशिला” (सू.अ.५) इति सूत्रस्थान एवोक्तैः| शल्लकादीनां यथासम्भवं मूत्रादीनि ग्राह्यणि||६३-७५||-
Adhikarana 26 (76-77) · Śloka 77
... पैत्तिके तु प्रशस्यते|
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः||७६||
शीतानि चान्नपानानि मधुराणि मृदूनि च|
शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्|
उन्मादे विषमे चैव ज्वरेऽपस्मार एव च||७७||
तिक्तकं महातिक्तकम्| जीवनीयं सर्पिर्वातरक्ते वक्ष्यते| मिश्रकः स्नेहः गुल्मचिकित्सितोक्तः| शङ्खेन केशान्तेन च समं सन्धिः शङ्खकेशान्तसन्धिः; तत्र च प्रत्यासन्नमर्मपरित्यागेन सुश्रुतोक्तं सिराविभागमवलोक्य सिराव्यधः कर्तव्यः||७६-७७||
Adhikarana 27 (78) · Śloka 78
घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्|
त्यक्त्वा मतिस्मृतिभ्रंशं सञ्ज्ञां लब्ध्वा प्रमुच्यते ||७८||
मांसं च यद्यपि “निवृत्तामिषमद्यो यः” इत्यादिनोन्मादे निषिद्धं, तथाऽप्येवंविधप्रयोगेण मांसस्य यौगिकत्वमाह| यथा- भयहर्षयोरुन्मादकारणत्वेऽपि तौ पुनरुन्मादे विधेयत्वेनोच्येते, “सान्त्वनं हर्षणं भयम्” इत्यादिना| अन्ये तु निवृत्तमांसत्वमागन्तून्मादप्रशमनमिति व्याख्यानयन्ति; तेनेह निजे मांसविधाने भिन्नविषयतया न विरोध इति वर्णयन्ति | किन्तु निदानोक्तस्यापि मांसस्य यत् स्वजन्यव्याधिप्रशमकत्वं तदप्यतिदृष्टत्वादविरुद्धमेव, तेन पूर्वमेव समाधानमत्र समीचीनमिति पश्यामः||७८||
Adhikarana 28 (79-84) · Śloka 84
आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितैः|
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा||७९||
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे|
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्||८०||
कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे|
रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम्||८१||
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्|
त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शत्रुभिस्तथा||८२||
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्|
त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया||८३||
देहदुःखभयेभ्यो हि परं प्राणभयं स्मृतम्|
तेन याति शमं तस्य सर्वतो विप्लुतं मनः||८४||
ब्रूयादिष्टविनाशमित्यादिनोद्भ्रान्तचित्तस्य पुनश्चिन्ताकारणैः स्वदेशानयनमेवाह, दृश्यते च घट्टनचलितस्य पुनर्घट्टनेनैव सम्यक्स्थापनं, तद्वदिहापि ज्ञेयम्| सिंहैरिति व्याघ्रैः| दान्तैरिति शिक्षितैः| बहिरिति ग्रामाद्बहिः| देहदुःखभयेभ्य इति कपिकच्छुलेपनताडनादिभ्यो देहदुःखकारणेभ्यः||७९-८४||
Adhikarana 29 (85-86) · Śloka 86
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते|
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्||८५||
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्|
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्||८६||
इष्टद्रव्येत्यादिना पूर्वमसूत्रितोऽप्यमुन्मादः प्रकरणाच्चिकित्स्यते; यथा तृष्णाध्याये पञ्च तृष्णाः प्रतिपाद्य गुर्वन्नजाया अधिकायाश्चिकित्सोच्यत इत्याहुः; किन्तु चिन्तादिदुष्टहृदय इत्यादिनोक्तसामान्योन्मादेन गृहीत एवायमर्थोऽत्र चिकित्सिते इति पश्यामः| पञ्चोन्मादव्यवस्थायामस्य वातिके एवावरोध उचितः, इष्टद्रव्यविनाशस्य वातप्रकोपकारित्वात्| एवं कामादिभवेष्वपि वाच्यम्||८५-८६||
Adhikarana 30 (87-95) · Śloka 95
बुद्ध्वा देशं वयः सात्म्यं दोषं कालं बलाबले|
चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे||८७||
देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान्|
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म च||८८||
सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत्|
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा||८९||
शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि च|
वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्||९०||
भूतानामधिपं देवमीश्वरं जगतः प्रभुम्|
पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम्||९१||
रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये|
तेषां पूजां च कुर्वाण उन्मादेभ्यः प्रमुच्यते||९२||
बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणैः|
सत्याचारतपोज्ञानप्रदाननियमव्रतैः||९३||
देवगोब्रह्मणानां च गुरूणां पूजनेन च|
आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा||९४||
यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते|
उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः||९५||
क्रूरकर्मेति ताडनादिकम्| शान्तिकर्मेत्यादिना दैवव्यपाश्रयचिकित्सामाह| सामान्याद्धेतुदूष्योरिति उन्मादेनापस्मारेण च समो हेतुर्मनोभिघातादिः, दूष्यं च हृदयं समानमित्यर्थः||८७-९५||
Adhikarana 31 (96) · Śloka 96
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः|
निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते||९६||
निवृत्तामिष इत्यादिर्व्याख्यात एव पूर्वम्||९६||
Adhikarana 32 (97) · Śloka 97
प्रसादश्चेन्द्रियार्थनां बुद्ध्यात्ममनसां तथा|
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||९७||
क्रियमाणोन्मादचिकित्सायाः कशाताडनादिरूपत्वेनातिकष्टायाः स्फोटनार्थं विगतोन्मादलक्षणमाह- प्रसाद इत्यादि||९७||
Adhikarana 33 (98) · Śloka 98
तत्र श्लोकः- उन्मादानां समुत्थानं लक्षणं सचिकित्सितम्|
निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः||९८||
उन्मादानामित्यादिः सङ्ग्रहः||९८||
Adhikarana puShpikA · Śloka 9
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने उन्मादचिकित्सितं नाम नवमोऽध्यायः||९||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने उन्मादचिकित्सितं नाम नवमोऽध्यायः||९||