Adhikarana 1 (1-2) · Śloka 2
अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अपस्माररोगेण विषमोच्चपतनादिभ्य उरःक्षतोऽपि भवति, ततः क्षतक्षीणो भवति, तत्सम्बन्धादपस्मारमनु क्षतक्षीणचिकित्सितमुच्यते| तत्र क्षतक्षीणरूपाद् वक्ष्यमाणस्त्रीसेवादिकारणकशुक्रौजःक्षयाच्च जातो व्याधिः प्रधानम् ‘उरो विरुज्यते’ इत्यादिना वक्ष्यमाणलक्षणकः कारणे कार्योपचारात् ‘उरःक्षत’ इत्युच्यते; यदा ‘क्षीणक्षत’ इति पाठस्तदाऽपि क्षीणशब्देन शुक्रौजःक्षययुक्तः पुरुष उच्यते; तथा क्षीणे च पुरुषे क्षतं भवतीति हेतोः ‘क्षतक्षीण’ इत्युच्यते| अन्ये तु क्षतश्च क्षयश्च इति क्षतक्षय इत्याहुः; तेन रोगद्वयमेतत्| तथा ‘उरोरुक् शोणितच्छर्दिः’ इत्यादिना क्षतस्य क्षीणस्य च लक्षणं करिष्यति; तस्मिन् पक्षे ‘अव्यक्तं लक्षणं तस्य’ इति, तथा ‘साध्यो बलवतो नवः’ इत्यादावेकवचननिर्देशोऽनुपपन्नः, तेनैकस्यैव क्षतक्षीणस्य हेतुकृतं लक्षणद्वैविध्यं; किंवा क्षतक्षयकारणयोः क्षतधातुक्षययोस्तद्विधलक्षणकारणाभिधानं पूर्वरूपावस्थायां व्याधिप्रतिक्रियार्थं ज्ञेयम्||१-२||
Adhikarana 2 (3) · Śloka 3
उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्|
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम्||३||
ब्रह्मर्षिरित्यनेन देवर्षित्वराजर्षित्वे आत्रेयस्य निषेधति| चिकित्सार्थमिति प्रतिक्रियार्थम्| चिकित्सितं चिकित्साभिधायकग्रन्थम्||३||
Adhikarana 3 (4-8) · Śloka 8
धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्|
पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः||४||
वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः|
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान्||५||
अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्|
महानदीं वा तरतो हयैर्वा सह धावतः||६||
सहसोत्पततो दूरं तूर्णं चातिप्रनृत्यतः|
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य च||७||
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते|
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः||८||
चिकित्सा च निदानादिना ज्ञातस्यैव व्याधेर्भवति, तेन क्षतनिदानमेव तावदाह- धनुषेत्यादि| आयस्यत इति शरीरमायास्यतः| बलिभिरिति स्वापेक्षया बलाधिकैः| निगृह्णत इति वारयतः| निर्घातः अस्त्रविशेषः, किंवा निर्घातः शिलादीनां प्रेरणविशेषोऽतिबलसम्पादितः| अभ्याहतस्य परैरभिहतस्य| व्याधिरिति वक्ष्यमाणलक्षणः क्षतक्षयाख्यो व्याधिः; अन्ये तु व्याधिशब्देन क्षतमेवाहुः, “दोषादिष्वपि व्याधिशब्दो वर्तते” इति वचनात्| न चास्मिन् राजयक्ष्मरूपता शङ्कनीया, यत उरःक्षतस्त्रिदोषजन्य एव, भिन्नसम्प्राप्तिश्च “अयथाबलमारम्भैर्जन्तोरुरसि विक्षते| वायुः प्रकुपितो दोषावुदीर्योभौ विधावति” (चि.अ.८) इत्यादिनोक्ता, लक्षणानि भिन्नान्येव “उरो विरुज्यते” इत्यादिना वक्ष्यमाणलक्षणेभ्य उक्तानि| अत एवेहानयोर्भेदं वक्ष्यति “उपेक्षिते भवेदस्मिन्ननुबन्धो हि यक्ष्मणः” इति| स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः बलवान् व्याधिः समुदीर्यत इति सम्बन्धः| प्रमिताशनम् एकरसाभ्यासः, किंवाऽतीतकालभोजनम्||४-८||
Adhikarana 4 (9-11) · Śloka 12
उरो विरुज्यते तस्य भिद्यतेऽथ विभज्यते|
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते||९||
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते|
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि||१०||
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः|
कासमानस्य च श्लेष्मा सरक्तः सम्प्रवर्तते||११||
स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्|१२|
क्षतक्षयलक्षणमाह- उर इत्यादिना| भिद्यत इति विदीर्यते| अग्निवधादपीति अत्राग्निवधं विना व्याधिमहिम्ना विड्भेदो भवतीति दर्शयति| अन्ये तु ‘विड्भेदोऽग्निवधस्तथा’ इति पठन्ति| दुष्टः व्यापन्नः| क्षीयत इति धातुक्षयवान् भवति; न केवलं क्षतादेव क्षीयते, किन्तु अतिस्त्रीसेवादिना कृताच्छुक्रौजः- क्षयादपि क्षीयते इतरधातुक्षयवान् भवति||९-११||-
Adhikarana 5 (12-13) · Śloka 13
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्||१२||
उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः क्षते|
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः||१३||
पूर्वरूपमाह- अव्यक्तमित्यादि| अव्यक्तमिति अल्पत्वेन यथोक्तलक्षणतोऽसम्पूर्णम्| उरोरुगित्यादिग्रन्थस्तु प्रायेण व्याकृतः| कासो वैशेषिक इति विशिष्टः, स च विशेषो ‘दुष्टः श्यावः’ इत्यादिना प्रोक्तो ज्ञेयः; किंवा वैशेषिकोऽधिको ज्ञेयः| क्षीणे इति शुक्रौजसी क्षीणे| अन्ये तु उरोरुगित्यादिनाऽवस्थाद्वयस्य लक्षणद्वयमेतद्वर्णयन्ति||१२-१३||
Adhikarana 6 (14) · Śloka 14
अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः|
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत्||१४||
चिकित्साप्रवृत्त्यर्थं साध्यादिविभागमाह- अल्पेत्यादि| परिसंवत्सरः वर्षातीतः||१४||
Adhikarana 7 (15-20) · Śloka 20
उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्|
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम्||१५||
पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्|
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||१६||
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्|
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत्||१७||
इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः|
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती||१८||
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्|
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्||१९||
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः|
कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः||२०||
ज्ञातरोगविशेषेण कर्तव्यां चिकित्सामाह- उरो मत्वेत्यादि| उरसः सद्यः क्षतं मत्वा लाक्षां पिबेदिति योजना| सशर्करमिति शर्करासहितमन्नम्| भिन्नविट्कः समुस्तातिविषापाठां लाक्षां पिबेत्| अत्र ये ‘द्विवत्सकाम्’ इति पठन्ति ते वत्सकभागद्वयं ग्राहयन्ति; किंवा वत्सकद्वयमेव द्विवत्सकशब्देन गृह्यते; तथा हि- “बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्| श्यामा चारुणपुष्पा स्त्री फलपुष्पैस्तथाऽणुभिः” (क.अ.५) इति कल्पे कुटजः स्त्रीपुरुषविभागेन द्विविध उक्तः| सन्धानार्थमिति क्षतोरःसन्धानार्थम्| मधूकशब्देनेह मधूकपुष्पं ग्राह्यम्||१५-२०||
Adhikarana 8 (21-24) · Śloka 24
एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा|
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः||२१||
सञ्चूर्ण्य मधुना युक्ता गुटिकाः सम्प्रकल्पयेत्|
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने||२२||
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्|
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम्||२३||
शोषप्लीहाढ्यवातांश्च स्वरभेदं क्षतं क्षयम्|
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत्||२४||
इत्येलादिगुटिका|
एलापत्रत्वच इत्यादिना एलादिगुटिकामाह| युक्त्येति यावता मधुना गुटिका भवन्ति तावन्मानं मधु देयम्||२१-२४||
Adhikarana 9 (25-26) · Śloka 26
रक्तेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्|
चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम्||२५||
चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्|
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः||२६||
दक्षः गोष्ठकुक्कुटः| छागजाङ्गलमिति छागभवं जाङ्गलहरिणादिभवं वा| चूर्णं पौनर्नवमित्यादौ सिद्धमिति साधितम्| चूर्णसाधनं द्राक्षारसादिद्रवेण अग्निसंयोगात् कर्तव्यम्| उक्तं हि जतूकर्णे- “पुनर्नवारक्तशालीद्राक्षासिताचूर्णं पयोघृतयुतं सिद्धम्” इति||२५-२६||
Adhikarana 10 (27-34) · Śloka 34
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्|
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्||२७||
क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनिले|
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम्||२८||
शर्करां यवगोधूमौ जीवकर्षभकौ मधु|
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः||२९||
क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः|
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्||३०||
न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः|
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः||३१||
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा|
शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः||३२||
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्|
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम्||३३||
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्|
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम्||३४||
मधूकेत्यादौ मधूकमधुककल्केन क्षीरेण समं साधितं तण्डुलीयकशाकम्| सबले इति बलवत्यनिले| क्रव्यादाः मांसभुजो मृगपक्षिणः| क्षीराज्जातेनेति क्षीरावस्थायामेव गृहीतेन| यष्ट्याह्वेत्यादौ समक्वाथक्षीराभ्यां घृताच्चातुर्गुण्यम्| वांशी वंशलोचना| कोलेत्यादौ तद्वदिति क्षते हितम्; अत्र कोललाक्षारसस्य च घृताच्चातुर्गुण्यं, क्षीरं चाष्टगुणं वदन्ति; किंवा कोललाक्षारसयोः समत्वमेव क्षीरेण; अयं च न्यायोऽपस्माराध्याये निर्दिष्टः||२७-३४||
Adhikarana 11 (35-43) · Śloka 43
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्|
ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६||
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्|
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्|
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्|
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९||
द्विकार्षिकाणि पत्रैलाहेमत्वङ्मरिचानि च|
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०||
अमृतप्राशमित्येतन्नराणाममृतं घृतम्|
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१||
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्|
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२||
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्|
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३||
इत्यमृतप्राशघृतम्|
द्वे निदिग्धिके इति वचनेन बृहती क्षुद्रा च ग्राह्या| पयस्या क्षीरविदारी| वातामाभिषुकाणि तु औत्तरापथिकानि फलानि| एवमादीनि एवम्प्रकाराण्यन्यानि वातपित्तहराणि| धात्रीरसानां च यद्यपि “पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ| तत्र स्नेहसमान्याहुः” इति वचनेन प्रस्थमानत्वं सिद्धं, तथाऽपि एतत्परिभाषार्थदार्ढ्यार्थमेवैतन्मानकथनं ज्ञेयम्| पलार्धकत्वमिह मरिचादीनां मिलितानां, समाहारप्रधानत्वान्निर्देशस्य; वृद्धास्तु प्रत्येकमेव पलार्धकत्वं वदन्ति| सुधा भौमी भोज्या, अमृतं तु देवभोज्यम्||३५-४३||
Adhikarana 12 (44-47) · Śloka 47
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्|
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्||४४||
पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे|
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||४५||
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः|
प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत्||४६||
मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः|
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||४७||
इति श्वदंष्ट्रादिघृतम्|
श्वदंष्ट्रेत्यादौ क्वाथ्यद्रव्यपरिमाणानुसारेण पादोनप्रस्थत्रयं जलं दत्त्वा चतुर्भागावशेषेण चतुश्चत्वारिंशत्क्वाथफलानि भवन्ति| क्षीरं चात्र चतुर्गुणं घृतात्; किंवा क्वाथचतुर्गुणं क्षीरम्||४४-४७||
Adhikarana 13 (48-49) · Śloka 49
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्|
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले||४८||
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्|
समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम्||४९||
मधुकेत्यादावपि क्वाथ्यमानानुसारेण क्वाथस्य सार्धप्रस्थो भवति| समसक्तु इति समसक्तुघृतम्||४८-४९||
Adhikarana 14 (50-55) · Śloka 55
धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्|
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक्||५०||
सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेच्च तत्|
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||५१||
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्|
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||५२||
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्|
आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च||५३||
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु|
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||५४||
सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्|
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||५५||
इति सर्पिर्गुडाः|
घृतं त्वित्यादिना लेहयोग्यानि यानि शर्करादियोगाद्घृतान्युक्तानि तानि पित्ते लेह्यतया कर्तव्यानि, यानि तु शर्करादिरहितत्वेन पानयोग्यानि तानि वाते कर्तव्यानीति दर्शयति; किंवा स्त्यानावस्थायोगीनि उपयोगाल्लेह्यतया पित्ते प्रयोक्तव्यानि, तान्येव विलीनावस्थामापन्नानि वायौ प्रयोक्तव्यानि| घृतलेहस्य घृतपानस्य च पृथक् फलमाह- निर्वापयेदित्यादि| अल्पत्वादिति लेहत्वेनैवाल्पत्वात्, लेहस्य कर्षमानत्वेनोक्तत्वात्| आक्रमतीति जयति| निरुणद्धीति प्रतिहन्ति; ‘न रुणद्धि’ इति केचित् पठन्ति| क्षामेत्यादौ क्षामः क्लान्तदेहः, क्षीणः दुर्बलः, कृशः हीनमांसः| त्वक्क्षीर्यादीनां तावन्मानं ज्ञेयं यावता घृतस्य स्त्यानत्वम्| समध्वंशानित्यनेन मधुनः त्वक्क्षीर्यादिसमानतामाह||५०-५५||
Adhikarana 15 (56-61) · Śloka 61
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा|
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि||५६||
एषां कषाये द्विक्षीरे विदार्याजरसांशिके|
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्||५७||
सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्|
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च||५८||
समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्|
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्||५९||
ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे|
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते||६०||
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते|
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः||६१||
इति द्वितीयसर्पिर्गुडाः|
बलेत्यादि| क्षीरिवृक्षा वटोदुम्बराश्वत्थप्लक्षकपीतनाः| उक्तं च शालाक्ये “उदुम्बरो वटोऽश्वत्थो मधूकः प्लक्ष एव च| पञ्चैते क्षीरिणो वृक्षा अस्मिंस्तन्त्रे प्रकीर्तिताः” इति| मुष्ट्यंशका इति पलमानाः| अत्र च बलादीनां त्रयोदशपलोपनीतानामष्टगुणे जले क्वाथश्चतुर्थांशावशेष इति षड्विंशतिक्वाथपलानि, एतत्कषायाद्विगुणं क्षीरं, विदारीरसश्छागमांसरसश्च कषायसमः; एवं त्रिंशत्पलाधिकं पलशतमिह घृताढके पक्तव्यं भवति| अन्ये तु क्वाथ्यात् षोडशगुणजलदानपरिभाषया साधिते क्वाथे द्विपञ्चाशत्क्वाथपलान्याहुः; एतदनुसारेण क्षीरादिमानमप्यधिकं भवतीत्याहुः| किन्तु क्वाथत्रयोदशपलेऽत्र पानीयं तथा पक्तव्यं यथा घृतसमः क्वाथो भवति| क्वाथो ह्यत्र चतुर्गुणद्रवसाध्ये घृते स्नेहसम एव भवति| एतत्क्वाथद्विगुणं क्षीरं समश्च विदारीरसश्छागमांसरसश्च देयः; किंवा विदार्याजमांसरसयोर्मिलित्वा द्व्याढकांशो देयः| उक्तं हि जतूकर्णे- “वृश्चीवं पञ्चमूलं बलां विदारीं वटादिशुङ्गांश्च| निष्क्वाथ्य द्विक्षीरे छागविदारीरसे च समे| जीवनीयगणकल्कैः पक्त्वा घृताढकं” इति| अत्र हि क्वाथ्यद्रव्यमानमनियतमिति विशेषः, क्वाथस्तु स्नेहसम एव| खजः मन्थानदण्डः, दशाङ्गुलो वा हस्तः| भूर्जपत्रवेष्टनं च शक्त्युत्कर्षार्थम्||५६-६१||
Adhikarana 16 (62-65) · Śloka 65
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः|
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभिः||६२||
खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः|
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत्||६३||
शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च|
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान्||६४||
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्|
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्||६५||
इति तृतीयाः सर्पिर्गुडाः|
त्वक्क्षीरीत्यादौ श्रावणी मुण्डितिका, वीरा विदारीकन्दः||६२-६५||
Adhikarana 17 (66-69) · Śloka 69
नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्|
शतावरीं विदारीं च समङ्गां पिप्पलीं तथा||६६||
पृथग्दशपलान् भागान् पलान्यष्टौ च नागरात्|
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च||६७||
क्षीरतैलघृतानां च त्र्याढके शर्कराशते|
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान्||६८||
कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः|
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति||६९||
इति चतुर्थसर्पिर्गुडाः|
द्राक्षामित्यादौ यष्ट्याह्वसौवर्चलयोर्मिलित्वा द्विपलम्| मरिचस्य ‘द्विपलं’ इति शेषः| उक्तं हि जतूकर्णे- “घृततैलपयस्त्र्याढके सितां च तुलां प्रपाच्य द्राक्षाविदारीवृश्चीवशतावरीकृष्णाशुण्ठीबलाधात्रीश्च दशपलिकाः प्रपाचयेत्, यष्ट्याह्वं रुचकं च पलिकम्” इत्यादि| क्वथित इति भाषया क्षीणे एव क्षीरे चूर्णप्रक्षेपं दर्शयति||६६-६९||
Adhikarana 18 (70-77) · Śloka 77
गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्|
विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात्||७०||
दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्|
मधूकपुष्पकुडवं प्रियालकुडवं तथा||७१||
कुडवार्धं तुगाक्षीर्याः खर्जूराणां च विंशतिम्|
पृथग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम्||७२||
त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च|
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत्||७३||
सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान्|
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्||७४||
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च|
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते||७५||
कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्|
योनिदोषकृतस्रावहतानां चापि योषिताम्||७६||
गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा|
धन्या बल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः||७७||
इति पञ्चमसर्पिर्मोदकाः|
गोक्षीरेत्यादौ गोक्षीरं कारणतयोच्यते न घृतपाकार्थं, तथाहि सति प्रक्षेप्यचूर्णेन मोदका न भवेयुः| चतुर्थिकां पलम्||७०-७७||
Adhikarana 19 (78-84) · Śloka 84
बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते|
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्||७८||
शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च|
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम्||७९||
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्|
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्||८०||
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्|
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः||८१||
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्|
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्||८२||
गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा|
यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः||८३||
दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः|
यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते||८४||
विकुर्वाणे इति शूलादिविकारं कुर्वाणे| शर्करेत्यादौ प्रक्षेपन्यायेन क्षीरे शर्करादिप्रक्षेपः| वस्त्रपूतानामिति वस्त्रान्तरालपतितानाम्| मन्देऽग्नौ यक्ष्मिणां यो विहितः भिन्ने शकृति च यो ग्राही स विधिरिष्यत इति ज्ञेयम्||७८-८४||
Adhikarana 20 (85-87) · Śloka 87
पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले|
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात्||८५||
एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके|
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्||८६||
कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्|
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्||८७||
इति सैन्धवादिचूर्णम्|
पलिकमिति पलमानम्||८५-८७||
Adhikarana 21 (88-90) · Śloka 90
एका षोडशिका धान्याद्द्वे द्वेऽजाज्यजमोदयोः|
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम्||८८||
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च|
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्||८९||
षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्|
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः||९०||
इति षाडवः|
षोडशिका पलम्| दाडिमवृक्षाम्लं द्विर्द्विरिति पूर्वद्विपलापेक्षया द्विगुणं प्रत्येकं चतुःपलमिति दर्शयति| पूर्ववदित्यनेन पूर्वयोगसमानफलमाह| अत्र जतूकर्णः- “पलिके धान्यकरुचके द्वौ जीरकदीप्यकौ शुण्ठ्याश्च पलं कपित्थदाडिमवृक्षाम्लानां कुडवम्” इत्यादि||८८-९०||
Adhikarana 22 (91-92) · Śloka 92
पिबेन्नागबलामूलमर्धकर्षविवर्धितम् |
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्||९१||
एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः|
मण्डूकपर्ण्याः कल्पोऽयं शुण्ठीमधुकयोस्तथा||९२||
नागबलेत्यादौ अर्धकर्षविवर्धितमिति अर्धकर्षेणैव वर्धितं पलं मासमेकं पेयं केवलं क्षीरवर्तिना| उक्तं हि जतूकर्णे- “नागबलामूलमर्धकर्षवृद्ध्या पलमानं मासं पेयं क्षीरमात्रवृत्तिना” इति||९१-९२||
Adhikarana 23 (93-94) · Śloka 94
यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु|
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३||
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्|
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||
शीतं चापि स्पर्शे शान्तिकारि विदाहि भवति, तदर्थमविदाहीत्युक्तम्||९३-९४||
Adhikarana 24 (95) · Śloka 95
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||
क्षतक्षीणस्य त्वरया प्रतिकर्तव्यतामाह- उपेक्षिते इत्यादि| तस्येति यक्ष्मणः||९५||
Adhikarana 25 (96-97) · Śloka 97
तत्र श्लोकौ- क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्|
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च||९६||
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते|
तत्त्वार्थविद्वीतरजस्तमोदोषः पुनर्वसुः||९७||
सङ्ग्रहे सामान्यपृथगाकृतिमिति क्षतोत्थस्य क्षयोत्थस्य च ‘उरो विरुज्यत’ इत्यादि पृथग्लक्षणं कृतम्||९६-९७||
Adhikarana puShpikA · Śloka 11
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||
इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां चिकित्सास्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||