Adhikarana 1 (1-2) · Śloka 2
अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
उदरार्शसोस्त्रिदोषजत्वसामान्याद् बद्धगुदोदरकारणत्वाच्चानन्तरमर्शसां चिकित्सितमुच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
उदरार्शसोस्त्रिदोषजत्वसामान्याद् बद्धगुदोदरकारणत्वाच्चानन्तरमर्शसां चिकित्सितमुच्यते||१-२||
Adhikarana 2 (3) · Śloka 3
आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्| पृष्टवानर्शसां युक्तमग्निवेशः पुनर्वसुम्||३||
🔊 Audio coming soon
आसीनमित्यादि| कृतक्षणमिति कृतावसरम्| युक्तमुचितं प्रकोपहेत्वादिं पप्रच्छेति योजना; किंवा युक्तमिति व्याख्यानोद्युक्तमिति भावः||३||
Adhikarana 3 (4) · Śloka 4
प्रकोपहेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्| साध्यासाध्यविभागं च तस्मै तन्मुनिरब्रवीत्||४||
🔊 Audio coming soon
प्रकोपस्य रोगोत्पादस्य हेतुः; तथाह्यत्र प्रकोपशब्देन रोगोत्पादं वक्ष्यति; यथा- ‘पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्’ इति; संस्थानम् आकारः, संस्थानं यद्यपि लिङ्गे एव प्रविशति, तथाऽपीह बहुप्रपञ्चवक्तव्यत्वात् संस्थानं पृथगुक्तम्||४||
Adhikarana 4 (5) · Śloka 5
इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि| तत्र बीजं गुदवलिबीजोपतप्तमायतनमर्शसां सहजानाम्| तत्र द्विविधो बीजोपतप्तौ हेतुः- मातापित्रोरपचारः, पूर्वकृतं च कर्म; तथाऽन्येषामपि सहजानां विकाराणाम्| तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||५||
🔊 Audio coming soon
इहेत्यादिना द्विविधान्यर्शांसि प्रतिपाद्य सहजानि हेत्वादिना प्राह- तत्र बीजमित्यादि| बीजमिह शुक्रशोणितम्| तच्च गुदवल्यारम्भकेण बीजेनोपतप्तं सत् सहजानां कारणं भवति| गुदवल्यारम्भकेण च दुष्टेन बीजेन शरीरारम्भकस्य बीजस्यायमेवोपतापो यत् स्वयमदुष्टस्य दुष्टेन सम्बन्धः| ततश्च गुदवलीबीजदोषाद् गुदवलीष्वेवार्शोजन्म भवति, शेषावयवारम्भकं बीजमदुष्टत्वान्न विकारं जनयति| न बीजदुष्टेः सर्वथाऽनारम्भकत्वं, सर्वथा बीजानुपघातात्; उक्तं च “यस्य यस्य ह्यङ्गावयवस्य बीजे बीजभाग उपतप्तो भवति तस्य तस्य ह्यङ्गावयवस्य विकृतिरुपजायते” (शा.अ.४) इत्यादि| अन्ये तु आहिताग्निपाठात् पूर्वनिपातानियमेन उपतप्तं गुदवलीबीजं यस्मिन् तद्गुदवलीबीजोपतप्तमितिपदं कृतमित्याहुः| अपचार इति अनुचिताहारविहाररूपः शुक्रशोणितभागविशेषदूषकः| पूर्वकृतं च कर्मेति जायमानस्य सहजार्शोऽभिनिर्वर्तकं जन्मान्तरीयं कर्म| तच्च कर्म दुर्बलं सन्मातापित्रपचारसहितं बीजदूषकं भवति, बलवत्तु विनाऽपचारजनकमेव भवतीति ज्ञेयम्| यथोक्तहेतुद्वयमन्यत्रापि सहजे गदेऽतिदिशति- तथेत्यादिना| तत्रेत्यादिना सहजशब्दार्थं व्याकरोति| अर्शःशब्दाभिधेयमाह- अर्शांसीत्यादि| अधिमांसविकारा इति अधिमांशविशेषाः||५||
Adhikarana 5 (6) · Śloka 6
सर्वेषां चार्शसां क्षेत्रं- गुदस्यार्धपञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति; केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसां- शिश्नमपत्यपथं गलतालुमुखनासिकाकर्णाक्षिवर्त्मानि त्वक् चेति| तदस्त्यधिमांसदेशतया, गुदवलिजानां त्वर्शांसीति सञ्ज्ञा तन्त्रेऽस्मिन्| सर्वेषां चार्शसामधिष्ठानं- मेदो मांसं त्वक् च||६||
🔊 Audio coming soon
त्रिभागान्तरा इति अर्धपञ्चाङ्गुलस्य सार्धाङ्गुलरूपतृतीयभागावकाशाः| गुदवलय इति गुदस्य मांसवलयः| अस्मिंश्च विभागेऽर्धपञ्चाङ्गुले गुदे गुदौष्ठेन गृहीतमर्धाङ्गुलं बाह्यवल्या परिगृह्यते| क्षेत्रं देश; अर्शःप्ररोहप्रदेश इत्यर्थः| केचिदित्यनेन तन्त्रान्तरेऽपत्यपथादिगतानामपि अधिमांसानां ‘अर्शांसि’ इति सञ्ज्ञा भण्यते इति सूचयति | अधिष्ठानमिति दूष्यम्||६||
Adhikarana 6 (7) · Śloka 7
तत्र सहजान्यर्शांसि कानिचिदणूनि, कानिचिन्महान्ति, कानिचिद्दीर्घाणि, कानिचिद्ध्रस्वानि, कानिचिद्वृत्तानि, कानिचिद्विषमविसृतानि, कानिचिदन्तःकुटिलानि, कानिचिद्बहिःकुटिलानि, कानिचिज्जटिलानि, कानिचिदन्तर्मुखानि, यथास्वं दोषानुबन्धवर्णानि||७||
🔊 Audio coming soon
तत्र सहजानीत्यादिना संस्थानलिङ्गे प्राह| जटिलानीति तृणाङ्कुराकाराणि| दोषानुबन्धवर्णानीति दोषानुरूपवर्णानि||७||
Adhikarana 7 (8) · Śloka 8
तैरुपहतो जन्मप्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषः शर्कराश्मरीमान्, तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रपिच्छिलकुणपगन्ध्यामपुरीषोपवेशी, नाभिबस्तिवङ्क्षणोद्देशे प्रचुरपरिकर्तिकान्वितः, सगुदशूलप्रवाहिकापरिहर्षप्रमेहप्रसक्तविष्टम्भान्त्रकूजोदावर्तहृदयेन्द्रियोपलेपः प्रचुरविबद्धतिक्ताम्लोद्गारः, सुदुर्बलः, सुदुर्बलाग्निः, अल्पशुक्रः, क्रोधनो, दुःखोपचारशीलः, कासश्वासतमकतृष्णाहृल्लासच्छर्द्यरोचकाविपाकपीनसक्षवथुपरीतः, तैमिरिकः, शिरःशूली, क्षामभिन्नसन्नसक्तजर्जरस्वरः, कर्णरोगी, शूनपाणिपादवदनाक्षिकूटः, सज्वरः, साङ्गमर्दः, सर्वपर्वास्थिशूली च, अन्तराऽन्तरा पार्श्वकुक्षिबस्तिहृदयपृष्ठत्रिकग्रहोपतप्तः, प्रध्यानपरः, परमालसश्चेति; जन्मप्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति, एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति; इत्युक्तानि सहजान्यर्शांसि||८||
🔊 Audio coming soon
अनियतत्वं विबद्धमुक्तत्वादिविरुद्धधर्मयुग्मत्रये ज्ञेयम्| अन्तराऽन्तरेति कदाचित्, न सर्वदा| प्रचुरो विबद्धत्वादिगुणयुक्त उद्गारो यस्य स तथा| दुःखोपचारशील इति दुःखोपचारहेतुरित्यर्थः| प्रध्यानं घूर्णनम्| कस्मात् पुनरयं सहजार्शोयुक्त ईदृग्व्याधिपरिगृहीतो भवतीत्याह- जन्मेत्यादि| प्रत्यारोहन्निति ऊर्ध्वं गच्छन्| अत्र क्रमेण पञ्चवातप्रकोपो भवति| सर्वथा वायुर्विगुणो भवति; तेन सर्वत्र वातविकाराः प्रायो भवन्ति; पित्तश्लेष्मप्रकोपाच्च तद्विकारा अपि भवन्तीति युक्तमेव| अर्शसमिति अर्शोयुक्तं पुरुषम्||८||
Adhikarana 8 (9) · Śloka 9
अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः- गुरुमधुरशीताभिष्यन्दिविदाहिविरुद्धाजीर्णप्रमिताशनासात्म्यभोजनाद्गव्यमात्स्यवाराहमाहिषाजाविकपिशितभक्षणात् कृशशुष्कपूतिमांसपैष्टिकपरमान्नक्षीरदधिमण्डतिलगुडविकृतिसेवनान्माषयूषेक्षुरसपिण्याकपिण्डालुकशुष्कशाक- शुक्तलशुनकिलाटतक्रपिण्डकबिसमृणालशालूकक्रौञ्चादनकशेरुकशृङ्गाटकतरूटविरूढनवशूकशमी- धान्याममूलकोपयोगाद्गुरुफलशाकरागहरितकमर्दकवसाशिरस्पदपर्युषितपूतिशीतसङ्कीर्णान्नाभ्यवहारान्मन्द- कातिक्रान्तमद्यपानाद्व्यापन्नगुरुसलिलपानादतिस्नेहपानादसंशोधनाद्बस्तिकर्मविभ्रमादव्यायामादव्यवायाद्दिवास्वप्नात् सुखशयनासनस्थानसेवनाच्चोपहताग्नेर्मलोपचयो भवत्यतिमात्रं, तथोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रयानादतिव्यवायाद्बस्तिनेत्रासम्यक्प्रणिधानाद्गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चेललोष्टतृणादिघर्षणात् प्रततातिनिर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्णवेगविनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते, ततस्तास्वर्शांसि प्रादुर्भवन्ति||९||
🔊 Audio coming soon
गुरुशीतेत्यादौ प्रमितम् अल्पम्| कृशं दुर्बलप्राणिभवम्| परमान्नं पायसः| पिण्याकं तिलकल्कः, किलाटो नष्टक्षीरपिण्डः, तक्रपिण्डस्तु तक्रजो घनभागः, विसं स्थूलं, मृणालं तनु, तरूटं निष्कारकः, क्रौञ्चादनं घेञ्चुलिकेति ख्यातः| सङ्कीर्णं मांसभक्तादि मिश्रप्रकृतिकमन्नम्| अतिक्रान्तमद्यं व्यापन्नमद्यम्| अव्यवायः अधिव्यवायः(?), स चेहाव्यवायविषमव्यवायादिर्ज्ञेयः| प्रततातिनिर्वाहणाद् दीर्घातिमात्रप्रवाहणात्||९||
Adhikarana 9 (10) · Śloka 10
सर्षपमसूरमाषमुद्गमकुष्ठकयवकलायपिण्डिटिण्टिकेरकेबुकतिन्दुककर्कन्धुकाकणन्तिकाबिम्बीबदरकरीरोदुम्बर- खर्जूरजाम्बवगोस्तनाङ्गुष्ठकशेरुशृङ्गाटकशृङ्गीदक्षशिखिशुकतुण्डजिह्वापद्ममुकुलकर्णिकासंस्थानानि सामान्याद्वातपित्तकफप्रबलानि||१०||
🔊 Audio coming soon
टिण्टिकेरं करीरफलं, दक्षः कुक्कुटः| सामान्याद् वातपित्तकफप्रबलानीत्यनेन सर्वैर्दोषैरर्शसां नानाकृतिं दर्शयति||१०||
Adhikarana 10 (11-13) · Śloka 13
तेषामयं विशेषः- शुष्कम्लानकठिनपरुषरूक्षश्यावानि, तीक्ष्णाग्राणि, वक्राणि, स्फुटितमुखानि, विषमविसृतानि, शूलाक्षेपतोदस्फुरणचिमिचिमासंहर्षपरीतानि, स्निग्धोष्णोपशयानि, प्रवाहिकाध्मानशिश्नवृषणबस्तिवङ्क्षणहृद्ग्रहाङ्गमर्दहृदयद्रवप्रबलानि, प्रततविबद्धवातमूत्रवर्चांसि, ऊरुकटीपृष्ठत्रिकपार्श्वकुक्षिबस्तिशूलशिरोऽभितापक्षवथूद्गारप्रतिश्यायकासोदावर्तायामशोषशोथ- मूर्च्छारोचकमुखवैरस्यतैमिर्यकण्डूनासाकर्णशङ्खशूलस्वरोपघातकराणि, श्यावारुणपरुषनखनयनवदनत्वङ्मूत्रपुरीषस्य वातोल्बणान्यर्शांसीति विद्यात्||११|| भवतश्चात्र- कषायकटुतिक्तानि रूक्षशीतलघूनि च| प्रमिताल्पाशनं तीक्ष्णमद्यमैथुनसेवनम्||१२|| लङ्घनं देशकालौ च शीतौ व्यायामकर्म च| शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः||१३||
🔊 Audio coming soon
लिङ्गादिसामान्ये वातजादीनां किं विशेषनिश्चायकमित्याह- तेषामयं विशेष इति| अयमिति वक्ष्यमाणलिङ्गहेतुभेदरूपो विशेषो वातजादिव्यवच्छेदक इत्यर्थः| यद्यपि विशेषाभिधाने हेतुरेवाग्रेऽभिधातुं युज्यते, तथाऽपि संस्थानरूपलिङ्गाभिधानानुषङ्गात् प्रतिलोमव्याख्यानाद्वा लिङ्गमेवाग्रेऽभिधीयते- शुष्कम्लानेत्यादिना, तदनु कषायेत्यादिना हेतुं वक्ष्यति; एवं पित्तकफजयोरपि व्यतिक्रमेण हेतुलिङ्गाभिधानं ज्ञेयम्| प्रमिताशनमत्र अत्यल्पाशनम्| आतपस्पर्शो यद्यप्युष्णस्तथाऽपि रूक्षतया वातजनकः; उक्तं हि- “आतपः कटुको रूक्षः” इत्यादि||११-१३||
Adhikarana 11 (14-16) · Śloka 16
मृदुशिथिलसुकुमाराण्यस्पर्शसहानि, रक्तपीतनीलकृष्णानि, स्वेदोपक्लेदबहुलानि, विस्रगन्धितनुपीतरक्तस्रावीणि , रुधिरवहानि, दाहकण्डूशूलनिस्तोदपाकवन्ति, शीतोपशयानि, सम्भिन्नपीतहरितवर्चांसि, पीतविस्रगन्धिप्रचुरविण्मूत्राणि, पिपासाज्वरतमकसम्मोहभोजनद्वेषकराणि पीतनखनयनत्वङ्मूत्रपुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात्||१४|| भवतश्चात्र- कटूष्णलवणक्षारव्यायामाग्न्यातपप्रभाः | देशकालावशिशिरौ क्रोधो मद्यमसूयनम्||१५|| विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्| पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम्||१६||
🔊 Audio coming soon
मृद्वित्यादिना पित्तजं प्राह| शिथिलानि कोमलानि| सुकुमाराणि अकर्कशानि| रक्तपीतस्रावीणीति अत्र रक्तशब्देन लोहितवर्ण उच्यते| रुधिरवहानीति पदेन रक्तस्रुतिरेवोच्यते| प्रथमं विस्रगन्धीति रक्तविशेषणं, द्वितीयं विस्रगन्धीति विण्मूत्रविशेषणम्| प्रथमं पीताभिधानं वर्चसो हरितपीतोपदेशार्थं, द्वितीयं तु विस्रगन्धेन सह पीतवर्णतोपदेशार्थं, तृतीयं तु पीतनखेत्यादौ केवलं पीतवर्णतोपदर्शनार्थम्| कटूष्णेत्यादौ प्रथममुष्णपदमुष्णस्पर्शोपदेशार्थं, द्वितीयमुष्णपदमुष्णवीर्योपदर्शनार्थम्| ‘कट्वम्ललवणक्षार’ इति वा पाठः||१४-१६||
Adhikarana 12 (17-19) · Śloka 19
तत्र यानि प्रमाणवन्ति, उपचितानि, श्लक्ष्णानि, स्पर्शसहानि , स्निग्धश्वेतपाण्डुपिच्छिलानि, स्तब्धानि, गुरूणि, स्तिमितानि, सुप्तसुप्तानि, स्थिरश्वयथूनि, कण्डूबहुलानि, बहुप्रततपिञ्जरश्वेतरक्तपिच्छास्रावीणि, गुरुपिच्छिलश्वेतमूत्रपुरीषाणि, रूक्षोष्णोपशयानि, प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति, परिकर्तिकाहृल्लासनिष्ठीविकाकासारोचकप्रतिश्यायगौरवच्छर्दिमूत्रकृच्छ्रशोषशोथ- पाण्डुरोगशीतज्वराश्मरीशर्कराहृदयेन्द्रियोपलेपास्यमाधुर्यप्रमेहकराणि, दीर्घकालानुबन्धीनि , अतिमात्रमग्निमार्दवक्लैब्यकराणि, आमविकारप्रबलानि, शुक्लनखनयनवदनत्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात्||१७|| भवतश्चात्र- मधुरस्निग्धशीतानि लवणाम्लगुरूणि च| अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः||१८|| प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्| श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम्||१९||
🔊 Audio coming soon
तत्र यानीत्यादिना कफजमाह| प्रमाणवन्तीति महाप्रमाणानि| सुप्तसुप्तानीति अत्यर्थं निश्चेतनानि| दीर्घकालानुशयामीति दीर्घकालानुबन्धीनि||१७-१९||
Adhikarana 13 (20) · Śloka 20
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वोल्बणानि च| सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम्||२०||
🔊 Audio coming soon
हेतुलक्षणेत्यादौ उल्बणपदेन द्वन्द्वजे तृतीयोऽपि दोषो जनकोऽस्त्येव, परं सोल्बणो न भवतीति दर्शयति| सर्वो हेतुरिति यथोक्तसर्वहेतुः, सहजः लक्षणैः सह सर्वो हेतुस्त्रिदोषाणां भवति; तेन त्रिदोषे सर्वहेतुत्वात् सहजानि लक्षणानि भवन्तीत्यर्थः||२०||
Adhikarana 14 (21-22) · Śloka 22
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च| कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता||२१|| ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च| पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये||२२||
🔊 Audio coming soon
विष्टम्भः अप्रचलत्वम्| आटोपः गुडगुडाशब्दः||२१-२२||
Adhikarana 15 (23) · Śloka 23
अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः| दोषैर्दोषविशेषात्तु विशेषः कल्प्यतेऽर्शसाम्||२३||
🔊 Audio coming soon
अर्शसां त्रिदोषजन्यत्वेऽपि एकदोषजत्वादिव्यपदेशमाह- अर्शांसीत्यादि| यद्यपि सन्निपतितैरित्युक्ते त्रयाणां मेलको लभ्यते, तथाऽपि त्रिभिरिति पदं त्रयाणामप्यत्रानुबन्ध्यत्वस्योपदर्शनार्थम्| दोषविशेषादिति उल्बणरूपवातादिविशेषात्| विशेष इति वातजोऽयं, पित्तजोऽयमित्यादिको विशेषः||२३||
Adhikarana 16 (24-25) · Śloka 25
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्| सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे||२४|| तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च| सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च||२५||
🔊 Audio coming soon
पञ्चात्मेति प्राणापानव्यानोदानसमानरूपः||२४-२५||
Adhikarana 17 (26-32) · Śloka 32
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा| शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः||२६|| हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग् ज्वरः| तृष्णा गुदस्य पाकश्च निहन्यर्गुदजातुरम्||२७|| सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम्| जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्||२८|| शोषत्वादायुषस्तानि चतुष्पादसमन्विते| याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा||२९|| द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च| कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||३०|| बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च| अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च||३१|| तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः| तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्||३२||
🔊 Audio coming soon
हस्तेत्यादिना साध्यासाध्यविभागमाह| अङ्गस्य रुगिति सर्वाङ्गरुक्| शेषत्वादायुष इति आयुषः शेषत्वे सतीत्यर्थः| समन्वित इति भावे क्तः; तेन चतुःपादसमन्वये सतीत्यर्थः||२६-३२||
Adhikarana 18 (33-37) · Śloka 37
तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्| दाहं क्षारेण चाप्येके, दाहमेके तथाऽग्निना||३३|| अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा| क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः||३४|| पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः| आध्मानं दारुणं शूलं व्यथा रक्तातिवर्तनम्||३५|| पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य च| मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रमात्||३६|| यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्| तदर्शसां प्रवक्ष्यामि समूलानां विवृत्तये||३७||
🔊 Audio coming soon
तत्रेत्यादिना चिकित्सामाह| कर्तनं छेदनम्| भूरि तन्त्राणि अधीतानि येन स भूरितन्त्रः| अयं प्रकरणार्थः- शिक्षितेनैव शस्त्रकर्म विधानतः कर्तव्यम्| पुनर्विरोहः पुनरुत्पत्तिः; रूढानां रूढव्रणानाम्||३३-३७||
Adhikarana 19 (38-61) · Śloka 61
वातश्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः| प्रस्रावीणि तथाऽऽर्द्राणि रक्तपित्तोल्बणानि च||३८|| तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्| स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि च||३९|| चित्रकक्षारबिल्वानां तैलेनाभ्यज्य बुद्धिमान्| यवमाषकुलत्थानां पुलाकानां च पोट्टलैः||४०|| गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा| वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः||४१|| शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा| शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः||४२|| रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि| इष्टकस्य खराह्वायाः शाकैर्गृञ्जनकस्य वा||४३|| अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः| वृषार्कैरण्डबिल्वानां पत्रोत्क्वाथैश्च सेचयेत्||४४|| मूलकत्रिफलार्काणां वेणूनां वरुणस्य च| अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य च||४५|| जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्| कोलोत्क्वाथेऽथवा कोष्णे सौवीरकतुषोदके||४६|| बिल्वक्वाथेऽथवा तक्रे दधिमण्डाम्लकाञ्जिके| गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत्||४७|| कृष्णसर्पवराहोष्ट्रजतुकावृषदंशजाम्| वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम्||४८|| नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म च| अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम्||४९|| तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्| बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम्||५०|| वराहवृषविट् चैव धूपनं सक्तवो घृतम्| कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा||५१|| हरिद्राचूर्णसंयुक्तं सुधाक्षीरं प्रलेपनम्| गोपित्तपिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम्||५२|| शिरीषबीजं कुष्ठं च पिप्पल्यः सैन्धवं गुडः| अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम्||५३|| पिप्पल्यश्चित्रकः श्यामा किण्वं मदनतण्डुलाः| प्रलेपः कुक्कुटशकृद्धरिद्रागुडसंयुतः||५४|| दन्ती श्यामाऽमृतासङ्गः पारावतशकृद्गुडः| प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च||५५|| प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्| शूलश्वयथुहृद्युक्तं चुलूकीवसयाऽथवा||५६|| आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः| करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्||५७|| अभ्यङ्गाद्याः प्रदेहान्ता य एते परिकीर्तिताः| स्तम्भश्वयथुकण्ड्वर्तिशमनास्तेऽर्शसां मताः||५८|| प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि| सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखी||५९|| शीतोष्णास्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति| रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्||६०|| जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः| अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत्||६१||
🔊 Audio coming soon
वातश्लेष्मोल्बणानीत्यत्र यद्यपि कफजे स्राव उक्तः, तथाऽपि स पिच्छारूपानुबन्धः न तु रक्तस्रावः, तेन शुष्कार्शोग्रहणं; पिच्छास्रावस्तु शुष्कार्द्रकारणमेलकेऽपि भवति| चित्रकक्षारबिल्वानां तैलेनेति चित्रकादिसिद्धेन तैलेन| पुलाकं तुच्छधान्यम्| कार्ष्णगन्धिकैरिति शोभाञ्जनकृतैः| खराह्वाया अजमोदायाः| कुष्ठतैलेनेति कुष्ठसिद्धतैलेन| जतुका चर्मचटिका| वृषदंशः बिडालः| अक्षता इति अखण्डिता यवाः| घृतपादान्ताश्चत्वारो धूपाः; हस्तिमलसर्जरसाभ्यां च पञ्चमो धूपः| किण्वं सुराबीजम्| मदनतण्डुला मदनफलशस्यम्| दन्ती निकुम्भा| अमृतासङ्गः मयूरतुत्थम्| अलं हरितालम्| वासन्तकवसा उष्ट्रवसा| कटुकालाबुः तिक्तकालाबुः| जलौकोभिरित्यादौ अवर्तमानं रुधिरं प्रवाहयेदिति योज्यम्| बिल्वपेशिका बिल्वमध्यम्||३८-६१||
Adhikarana 20 (62-71) · Śloka 71
गुदश्वयथुशूलार्तं मन्दाग्निं पाययेत्तु तम्| त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम्||६२|| सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्| बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम्||६३|| तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा| तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते||६४|| पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके| सगुडामभयां वाऽपि प्राशयेत् पौर्वभक्तिकीम्||६५|| पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्| हृते गुदाश्रये दोषे गच्छन्त्यर्शांसि सङ्क्षयम्||६६|| गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम्| हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत्||६७|| सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्| दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम्||६८|| सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्| दधित्थबिल्वसंयुक्तं युक्तं वा चव्यचित्रकैः||६९|| भल्लातकयुतं वाऽपि प्रदद्यात्तक्रतर्पणम्| बिल्वनागरयुक्तं वा यवान्या चित्रकेण च||७०|| चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्| पञ्चकोलयुतं वाऽपि तक्रमस्मै प्रदापयेत्||७१||
🔊 Audio coming soon
गोमूत्राध्युषितामिति रात्रौ गोमूत्रस्थापिताम्| भल्लातकयुतमित्यत्र भल्लातकचूर्णस्य सक्त्वपेक्षया दशमो भागः| उक्तं हि- “चूर्णं तर्पणभागैर्नवभिः संयोजितं देयम्” इति; अन्ये तु तर्पणभल्लातकचूर्णयोः समानयोः स्तोकस्य प्रयोगमाहुः||६२-७१||
Adhikarana 21 (72-75) · Śloka 75
हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्| पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||७२|| यवानीं चाजमोदां च चूर्णितं तक्रसंयुतम्| मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने||७३|| व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्| प्रपिबेन्मात्रया कालेष्वन्नस्य तृषितस्त्रिषु||७४|| दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्| गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम्||७५|| इति तक्रारिष्टः|
🔊 Audio coming soon
तक्रारिष्टे तु ग्रहणीचिकित्सायां “यवान्यामलकं पथ्या मरीचं त्रिपलांशिकम्| लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्|| तक्रे तदासुतं जातं तक्रारिष्टं पिबेन्नरः” (चि.अ.१५) इत्युक्ततक्रारिष्टानुसारेणेहापि तक्रचूर्णमानव्यवस्था| एतदनुसारप्रक्षिप्तेनैव चात्र हपुषादिचूर्णेन मन्दाम्लकटुकं भवतीत्युक्तं; मन्दाम्लकटुकं स्थापयेत्, व्यक्ताम्लकटुकमिति जातलक्षणं; व्यक्ताम्लं कटु चेति व्यक्ताम्लकटुकं; न तु कटुत्वमपि व्यक्तमत्र, सन्धानेन व्यक्तकटुतानुत्पादात्| अन्नस्य त्रिषु कालेष्विति भोजनादिमध्यान्तेषु| सस्नेहं तक्रं वाते, कफे रूक्षम्||७२-७५||
Adhikarana 22 (76-88) · Śloka 88
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्| तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्||७६|| वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्| तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा||७७|| सप्ताहं वा दशाहं वा पक्षं मासमथापि वा| बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत्||७८|| अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्| सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम्||७९|| जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्| तक्रानुपानं सस्नेहं तक्रौदनमतः परम्||८०|| यूषैर्मांसरसैर्वाऽपि भोजयेत्तक्रसंयुतैः| यूषै रसेन वाऽप्यूर्ध्वं तक्रसिद्धेन भोजयेत्||८१|| कालक्रमज्ञः सहसा न च तक्रं निवर्तयेत्| तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः||८२|| अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते| शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य च||८३|| बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः| रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्||८४|| तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्| हतानि न विरोहन्ति तक्रेण गुदजानि तु||८५|| भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्| किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः||८६|| स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः| तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते||८७|| वातश्लेष्मविकाराणां शतं चापि निवर्तते| नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे||८८||
🔊 Audio coming soon
तक्रप्रयोगः- पूर्वाह्णे तक्रमेव केवलं पेयं, तत्रात्यर्थं मृद्वग्निना सायमपि तक्रमेव सेव्यम्, एतत् ‘अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्’ इत्यनेनोक्तम्| किञ्चित्प्रवृद्धेऽग्नौ प्रातस्तक्रमेव पेयं, सायं तु लाजसक्तूनां तक्रयुक्ताऽवलेहिका देया| ततस्तु क्रमेणाग्नौ वृद्धे तक्रपेया तक्रौदनं तक्रसंस्कृतयूषादिभोजनानि सायं देयानि, प्रातस्तु तक्रमेव, सप्ताहादिस्तक्रकालो ज्ञेयः| अत्र जतूकर्णः- “प्रातस्तक्रप्रयोगः, क्रमेणोत्कर्षापकर्षौ, जीर्णे च सैन्धवान्विततक्रेणौदनं वा, अतिमन्दाग्नेस्तक्रमेव” इति| सहसेति एकदा| मासान्ते इति मासे नातिक्रामति| अपकर्षो यथोत्कर्ष इति येन क्रमेण तक्रं वृद्धं तेनैव मात्राक्रमेण तक्रमपकृष्यत इति| तक्रप्रयोगह्रासे सति अन्नसमुदायाद्ध्रासो न कर्तव्यः, योंऽशस्तक्रस्यापकृष्टः स अन्नान्तरेण पूरणीय इत्यर्थः| कस्मादयं तक्रप्रयोगक्रम इत्याह- शक्तीत्यादि| रूक्षमित्यादिनोक्तं त्रिविधं तक्रं कफपित्तवातेषु दोषेषु, मन्दतम-मन्दतर-मन्देष्वग्निषु, बलेषु चाधममध्यमोत्तमेषु, यथासङ्ख्यं ज्ञेयम्| भूमावपीत्यादि केचित् पठन्ति| शतमिति विंशतिः श्लेष्मविकाराः, अशीतिर्वातविकारा इति मिलित्वा विकाराणां शतम्||७६-८८||
Adhikarana 23 (89-95) · Śloka 96
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्| शृङ्गवेरमजाजीं च कारवीं धान्यतुम्बुरु||८९|| बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्| फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम्||९०|| एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्| एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये||९१|| शटीपलाशसिद्धां वा पिप्पल्या नागरेण वा| दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम्||९२|| शुष्कमूलकयूषं वा यूषं कौलत्थमेव वा| दधित्थबिल्वयूषं वा सकुलत्थमकुष्ठकम्||९३|| छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्| लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम्||९४|| रक्तशालिर्महाशालिः कलमो लाङ्गलः सितः| शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम्||९५|| इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः|९६|
🔊 Audio coming soon
बिल्वं बालबिल्वम्| फलाम्लमिति फलैर्दाडिमादिभिरम्लाम्| ग्राहिभिर्युतमिति वर्चोग्राहिदशसंस्कृतम्| रक्तशाल्यादयोऽन्नपानव्याकृताः||८९-९५||-
Adhikarana 24 (96-102) · Śloka 102
येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम्||९६|| सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणीकृताम्| दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम्||९७|| गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्| गुडं घृतयवक्षारयुक्तं वाऽपि प्रयोजयेत्||९८|| यवानीं नागरं पाठां दाडिमस्य रसं गुडम्| सतक्रलवणं दद्याद्वातवर्चोऽनुलोमनम्||९९|| दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा| एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्||१००|| प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्| करञ्जपल्लवान् दद्याद्वातर्चोऽनुलोमनान्||१०१|| मदिरां वा सलवणां सीधुं सौवीरकं तथा| गुडनागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम्||१०२||
🔊 Audio coming soon
यवानीनागरमित्यादौ यवान्यादीनि समानि तक्रेण पेयानि; लवणं तावद्यावल्लवणरसता भवति||९६-१०२||
Adhikarana 25 (103-118) · Śloka 118
पिप्पलीनागरक्षारकारवीधान्यजीरकैः| फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम्||१०३|| पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली| शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम्||१०४|| चव्यचित्रकसिद्धं वा गुडक्षारसमन्वितम्| पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम् ||१०५|| पिप्पलीपिप्पलीमूलदधिदाडिमधान्यकैः | सिद्धं सर्पिर्विधातव्यं वातवर्चोविबन्धनुत्||१०६|| चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च| यवानीं पिप्पलीमूलमुभे च विडसैन्धवे||१०७|| चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्| शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे||१०८|| प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्| गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति||१०९|| नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली| श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका||११०|| चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्| चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्||१११|| अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्| गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति||११२|| पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक् पृथक्| भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत्||११३|| गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम्| पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक्||११४|| पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्| चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम्||११५|| मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्| तदाहारे विधातव्यं पाने प्रायोगिके विधौ||११६|| ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्| शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम्||११७|| कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्| बलपुष्टिकरं वर्ण्यमग्निसन्दीपनं परम्||११८||
🔊 Audio coming soon
पिप्पलीनागरेत्यादौ अपक्वमेव केचिद्घृतमिच्छन्ति| गुडक्षारसमन्वितमित्यत्र घृते सिद्धे गुडादीनां प्रक्षेप्यत्वं ज्ञेयम्| पिप्पलीपिप्पलीमूलेत्यादौ दधि द्रवं, शेषाणां कल्कः| जाते दध्नीति सुजाते| नागरमित्यादिके घृते चाङ्गेरीस्वरसस्यापि चतुर्गुणेन दध्ना चेति चकाराच्चातुर्गुण्यम्| पिप्पलीमित्यादौ भूरिमानसान्निध्ये क्वाथस्यानुक्तमानत्वात् स्नेहसमत्वमेव; तेन द्वादशपलेऽपि क्वाथ्यद्रव्ये त्रिप्रस्थं पानीयं दत्त्वा चत्वारिंशत्पलानि स्थाप्यानि| गण्डीरमित्यादिना कल्कद्रव्याण्याह||१०३-११८||
Adhikarana 26 (119-126) · Śloka 127
सगुडां पिप्पलीयुक्तां घृतभृष्टां हरीतकीम्| त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकीम्||११९|| विड्वातकफपित्तानामानुलोम्येऽथ निर्वृते| गुदेऽर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते||१२०|| बर्हितित्तिरिलावानां रसानम्लान् सुसंस्कृतान्| दक्षाणां वर्तकानां च दद्याद्विड्वातसङ्ग्रहे||१२१|| त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च| यमके भर्जितं दद्याच्छाकं दधिसमन्वितम्||१२२|| उपोदिकां तण्डुलीयं वीरां वास्तुकपल्लवान्| सुवर्चलां सलोणीकां यवशाकमवल्गुजम्||१२३|| काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्| जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च||१२४|| दधिदाडिमसिद्धानि यमके भर्जितानि च| धान्यनागरयुक्तानि शाकान्येतानि दापयेत्||१२५|| गोधालोपाकमार्जारश्वाविदुष्ट्रगवामपि| कूर्मशल्लकयोश्चैव साधयेच्छाकवद्रसान्||१२६|| रक्तशाल्योदनं दद्याद्रसैस्तैर्वातशान्तये|१२७|
🔊 Audio coming soon
आनुलोमिकानि शाकान्याह- उपोदिकामित्यादि| सुवर्चला सूर्यावर्ता| रुहापत्रम् उदग्रशाकम्| महापत्रः श्योनाकः| दधिदाडिमादि संस्कारद्रव्यम्||११९-१२६||-
Adhikarana 27 (127-129) · Śloka 129
ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम्||१२७|| मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्| अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम्||१२८|| कण्टकार्या शृतं वाऽपि शृतं नागरधान्यकैः| अनुपानं भिषग्दद्याद्वातवर्चोऽनुलोमनम्||१२९||
🔊 Audio coming soon
शार्करमिति शर्कराकृतम्| अरिष्टं वक्ष्यमाणम्||१२७-१२९||
Adhikarana 28 (130-134) · Śloka 134
उदावर्तपरीता ये ये चात्यर्थं विरूक्षिताः| विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्||१३०|| पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्| कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च||१३१|| पिष्ट्वा तैलं विपक्तव्यं पयसा द्विगुणेन च| अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्||१३२|| गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्| कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्||१३३|| पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्| उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्||१३४||
🔊 Audio coming soon
पिप्पल्याद्ये तैले केचित् तन्त्रान्तरदर्शनात्तोयमपि चतुर्गुणं वदन्ति; तन्न, तन्त्रान्तरोक्तं योगान्तरमेव पश्यामः||१३०-१३४||
Adhikarana 29 (135-136) · Śloka 136
आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः| दार्वन्तैः स्तब्धशूलानि गुदजानि प्रलेपयेत्||१३५|| दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्मपिच्छां सशोणिताम्| कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते||१३६||
🔊 Audio coming soon
आनुवासनिकैरिति अनुवासनतैलसाधनार्थमुक्तैः पिप्पल्यादिभिः| षड्विरेचनाशताश्रितीयोक्तानुवासनोपदर्शककषायग्रहणप्रतिषेधार्थं दार्वन्तैरिति विशेषणं; तेन दार्वन्तेनोक्तान्येव गृह्यन्ते||१३५-१३६||
Adhikarana 30 (137) · Śloka 137
निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्| समूत्रस्नेहलवणं कल्कैर्युक्तं फलादिभिः||१३७||
🔊 Audio coming soon
दाशमूलिकमिति दशमूलकषाययुतम्| फलादिभिरिति मदनफलादिभिरास्थापनयौगिकैः||१३७||
Adhikarana 31 (138-169) · Śloka 169
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च| स्यात् कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी||१३८|| विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्| द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्||१३९|| द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्| गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने||१४०|| पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्| अस्याभ्यासादरिष्टस्य गुदजा यान्ति सङ्क्षयम्||१४१|| ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः| कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः||१४२|| सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः| कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत्||१४३|| इत्यभयारिष्टः| दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः| भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्||१४४|| त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्| रसे चतुर्थशेषे तु पूते शीते समावपेत्||१४५|| तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने| तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते||१४६|| ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम्| दीपनं चारुचिघ्नं च दन्त्यरिष्टमिमं विदुः||१४७|| इति दन्त्यरिष्टः| हरीतकीफलप्रस्थं प्रस्थमामलकस्य च| विशालाया दधित्थस्य पाठाचित्रकमूलयोः||१४८|| द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्| पादावशेषे पूते च रसे तस्मिन् प्रदापयेत्||१४९|| गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने| पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान्||१५०|| हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्| वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम्||१५१|| कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति| अग्निसन्दीपनो ह्येष कृष्णात्रेयेण भाषितः||१५२|| इति फलारिष्टः| दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य च| पथ्यामलकयोश्चैव पाठाया नागरस्य च||१५३|| दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्| पादावशेषे पूते च सुशीते शर्कराशतम्||१५४|| प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते| प्रलिप्ते पिप्पलीचव्यप्रियङ्गुक्षौद्रसर्पिषा||१५५|| तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्| अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम्||१५६|| शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम्| हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत्||१५७|| इति द्वितीयफलारिष्टः | नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्| कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा||१५८|| पाठां च पिप्पलीमूलं क्रमुकं चव्यचित्रकौ| मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत्||१५९|| कुष्ठं दारुहरिद्रां च सुराह्वं सारिवाद्वयम्| इन्द्राह्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम्||१६०|| चत्वारि नागपुष्पस्य पलान्यभिनवस्य च| द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वाऽवतारयेत्||१६१|| पादावशेषे पूते च शीते तस्मिन् प्रदापयेत्| मृद्वीकाद्व्याढकरसं शीतं निर्यूहसम्मितम्||१६२|| शर्करायाश्च भिन्नाया दद्याद्द्विगुणितां तुलाम्| कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च||१६३|| त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्| चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत्||१६४|| तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने| प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते||१६५|| पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः| पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः||१६६|| अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्| हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम्||१६७|| कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति| वलीपलितखालित्यं दोषजं च व्यपोहति||१६८|| इति कनकारिष्टः| पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वाऽम्भसा| इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम्||१६९||
🔊 Audio coming soon
हरीतकीनामित्यादिना अभयारिष्टादयः पञ्चारिष्टा उच्यन्ते| त्रिफलाया इति मिलितत्रिफलाया एव पलत्रयं, निर्देशस्य मानप्रधानत्वात्| हरीतकीत्यादौ फलशब्देन निरस्थिहरीतकीं ग्राहयति, तेन हरीतकीप्रस्थार्धं; किन्तु जतूकर्णेऽयं योगो द्विगुणमानेन पठितः; यथा “हरीतकीफलप्रस्थः, द्विगुणा ह्यामलककपित्थपाठेन्द्राः सचित्रकाः, गुडस्य च शतद्वयम्” इति| क्रमुकं पूगः पट्टिकालोध्रो वा| सुराह्वा गोरक्षकर्कटिका| अत्र यद्यपि आमलकादिद्रव्यद्व्याढकमानं भवति, तत्र च सामान्यपरिभाषयैव द्विद्रोणजलदानमर्धद्रोणावस्थानं च लभ्यते, तथाऽपि स्पष्टार्थं जलक्वाथाभिधानं ज्ञेयम्| मृद्वीकाद्व्याढकरसमिति वचनेन मृद्वीकाया आढकद्वये द्रोणद्वयं जलं दत्त्वा क्वाथ्यसमं जलं स्थाप्यमिति दर्शयति; अन्ये तु द्राक्षास्वरसद्रवौ तुल्याविति व्याख्यानं कृतवन्तः| उक्तं हि जतूकर्णे- “धात्री तुला, कौडविकं पिप्पली मरिचं कृमिघ्नं च, इन्द्राह्वं सारिवाद्वयं दारुनिशा सुरदारु घनं कुष्ठं चार्धपलिकं, पलिकं मञ्जिष्ठापाठातिल्वकग्रन्थिकैल्वालुकचव्यक्रमुकबिल्वं साग्निकं पाक्यं, द्राक्षाद्वयं च पृथक्पृथक् क्वाथौ विमिश्रितौ द्वौ, सितातुले द्वे, मधु द्विकुडवं च” इत्यादि| अत्रापि च सामान्यपरिभाषा चरकोक्तमानसमाना एव| भिन्नाया इति चूर्णीकृतायाः| कुसुमस्वरसो मधु||१३८-१६९||
Adhikarana 32 (170-184) · Śloka 184
चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम् | तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च||१७०|| विट् श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते| तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्||१७१|| कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम्| तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्||१७२|| शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम्| यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्||१७३|| गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्| श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः||१७४|| स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे| चिकित्सितमिदं तस्मात् सम्प्रधार्य प्रयोजयेत्||१७५|| पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्| स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्||१७६|| प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्| शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७|| रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्| कामलां श्वयथुं शूलं गुदवङ्क्षणसंश्रयम्||१७८|| कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्| वातमूत्रपुरीषाणां विबन्धं शिरसो रुजम्||१७९|| स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्| तस्मात् स्रुते दुष्टरक्ते रक्तसङ्ग्रहणं हितम्||१८०|| हेतुलक्षणकालज्ञो बलशोणितवर्णवित्| कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात्||१८१|| अग्निसन्दीपनार्थं च रक्तसङ्ग्रहणाय च| दोषाणां पाचनार्थं च परं तिक्तैरुपाचरेत्||१८२|| यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च| वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः||१८३|| यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते| स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्||१८४||
🔊 Audio coming soon
सम्प्रति रक्तार्शसां वातकफानुबन्धं लक्षणं च दर्शयन् भिन्नां चिकित्सामाह- चिकित्सितमित्यादि| अत्र च तन्त्रे पित्तजस्येव रक्तजान्यर्शांसि दुष्टस्रावयुक्तानि स्रावीणीति ज्ञेयानि| विट् श्यावमिति निर्देशाद्विट्शब्दो नपुंसकलिङ्गोऽप्यस्तीत्युन्नीयते| मलिनमिति अत्यर्थदुष्टम्| हेत्वादिविशेषज्ञेन स्रावस्योपेक्षा कार्येति सूचयति| वर्तते इति प्रवर्तते| वातेऽनुबले स्नेहनं, कफेऽनुबले तूपेक्षणं लङ्घनादि वा कार्यमिति भावः||१७०-१८४||
Adhikarana 33 (185-192) · Śloka 192
कुटजत्वङ्निर्यूहः सनागरः स्निग्धरक्तसङ्ग्रहणः| त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च||१८५|| चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः| रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च||१८६|| सातिविषा कुटजत्वक् फलं च सरसाञ्जनं मधुयुतानि| रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन||१८७|| कुटजत्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन| यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः||१८८|| मोचरसः ससमङ्गः फलिनी च समांशिकैस्त्रिभिस्तैश्च | वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम्||१८९|| पूतोत्क्वथितः सान्द्रः स रसो दर्वीप्रलेपनो ग्राह्यः| मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम्||१९०|| छगलीपयसा पीता पेयामण्डेन वा यथाग्निबलम्| जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत||१९१|| रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु| बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् ||१९२|| इति कुटजादिरसक्रिया|
🔊 Audio coming soon
सनागर ईषन्नागरः| स्निग्धस्य रक्तस्य सङ्ग्रहणः स्निग्धरक्तसङ्ग्रहणः| तद्वदित्यनेन पूर्वयोगफलं विधिं च दर्शयति| कुटजत्वच इत्यादौ पलशतं तुला, जलद्रोणेन साध्यम्, अष्टभागावशेषः कषायो ग्राह्यः| तन्त्रान्तरेऽप्युक्तं- “द्रोणेऽम्भसः पलशतं कुटजत्वचोऽष्टभागशेषम्” इति| महेन्द्रसलिलम् आन्तरिक्षं जलम्| दर्वीप्रलेपनो ग्राह्य इति यस्यामवस्थायां दर्वीप्रलेपो भवति तस्यामवतारणीयः| उभयभागरक्तपित्तस्यासाध्यत्वादुभयभागशब्देन केवलोर्ध्वगं केवलाधोगं चेष्यते; तत्राप्यधोगस्य याप्यत्वात्तद्यापनमेवेह निहन्यादिति पदेनोच्यते||१८५-१९२||
Adhikarana 34 (193-198) · Śloka 198
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्| पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३|| छागलिपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च| धन्वविहङ्गमृगाणां रसो निरम्लः कदम्लो वा||१९४|| पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च| बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५|| दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्| रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम्||१९६|| कुटजफलवल्ककेशरनीलोत्पललोध्रधातकीकल्कैः| सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७|| सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु| रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||
🔊 Audio coming soon
कदम्ल ईषदम्लः| कुटजफलवल्कशब्देन इन्द्रयवाः कुटजत्वक् चोच्यते| सदाडिमरसमित्यत्र सिद्धं सर्पिः||१९३-१९८||
Adhikarana 35 (199-211) · Śloka 211
लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा| हन्त्याश्वस्रस्रावं तथा बलापृश्निपर्णीभ्याम्||१९९|| ह्रीवेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्| वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्||२००|| गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्| रक्तातिसारशूलप्रवाहिकाशोथनिग्रहणीम्||२०१|| काश्मर्यामलकानां सकर्बुदारान् फलाम्लांश्च| गृञ्जनकशाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च||२०२|| न्यग्रोधशुङ्गकानां खण्डांस्तथा कोविदारपुष्पाणाम्| दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति||२०३|| सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्| रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम्||२०४|| पयसा शृतेन यूषैर्मसूरमुद्गाढकीमकुष्ठानाम् | भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्||२०५|| शशहरिणलावमांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च| भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा||२०६|| दक्षशिखितित्तिरिरसैर्द्विककुदलोपाकजैश्च मधुराम्लैः| अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः||२०७|| रसखडयूषयवागूसंयोगतः केवलोऽथवा जयति| रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः||२०८|| छागान्तराधि तरुणं सरुधिरमुपसाधितं बहुपलाण्डु| व्यत्यासान्मधुराम्लं विट्शोणितसङ्क्षये देयम्||२०९|| नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात्| दधिसरमथिताभ्यासादर्शांस्यपयान्ति रक्तानि||२१०|| नवनीतघृतं छागं मांसं च सषष्टिकः शालिः| तरुणश्च सुरामण्डस्तरुणी च सुरा निहन्त्यस्रम्||२११||
🔊 Audio coming soon
गृञ्जनकेत्यादिना योगान्तरं, गृञ्जनकः पलाण्डुभेदः| कर्बुदारः काञ्चनभेदः| भोजनमित्यादौ भोजनमद्यादिति योज्यम्| द्विककुद् उष्ट्रः| अन्तराधि शरीरमध्यं, तच्च तरुणच्छागस्यैवाद्यात्| मधुराम्लं प्रथमं मधुरं, पश्चात्किञ्चिदम्लम्| दधिसरस्य मथितं दधिसरमथितम्| नवनीतघृतं सद्यस्कनवनीतघृतम्; अन्ये तु नवनीतं घृतं च छागं वदन्ति; यतो अजा रक्तस्तम्भनात्मिका प्रोक्ता||१९९-२११||
Adhikarana 36 (212-221) · Śloka 221
प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते| दुष्टेऽपि च कफपित्ते तस्मादनिलोऽधिको ज्ञेयः||२१२|| दृष्ट्वा तु रक्तपित्तं प्रबलं कफवातलिङ्गमल्पं च| शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते चान्या ||२१३|| मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्| परिषेचने विदध्याद्वृषककुमयवासनिम्बांश्च||२१४|| रक्तेऽतिवर्तमाने दाहे क्लेदेऽवगाहयेच्चापि| मधुकमृणालपद्मकचन्दनकुशकाशनिष्क्वाथे||२१५|| इक्षुरसमधुकवेतसनिर्यूहे शीतले पयसि वा तम्| अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन||२१६|| दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे च| शिशिरजलस्पर्शसुखा धारा प्रस्तम्भनी योज्या||२१७|| कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः| प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च||२१८|| दुर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः| व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु||२१९|| समङ्गामधुकाभ्यां तिलमधुकाभ्यां रसाञ्जनवृताभ्याम्| सर्जरसघृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा||२२०|| दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्| दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः||२२१||
🔊 Audio coming soon
यवासः दुरालभा| शिशिरेण तैलेनेति शीतलद्रव्यसाधितेन तैलेन| शिशिरेत्यादि शिशिरजला च सुखस्पर्शा च; तेन तीव्रशीतत्वं निवारयति||२१२-२२१||
Adhikarana 37 (222-223) · Śloka 223
आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति न रक्तम्| तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान्||२२२|| अवपीडकसर्पिर्भिः कोष्णैर्घृततैलिकैस्तथाऽभ्यङ्गैः| क्षीरघृततैलसेकैः कोष्णैस्तमुपाचरेदाशु||२२३||
🔊 Audio coming soon
अधुना अशक्यरक्तस्रुतौ क्षीणधातुतर्पणार्थं बृंहणमाह- आभिरित्यादि| अवपीडकसर्पिः भोजनस्योर्ध्वं यत् पीयते; किंवा भूरिमात्रं सर्पिरवपीडकमुच्यते| तमिति स्रवद्रक्तं पुरुषम्||२२२-२२३||
Adhikarana 38 (224-229) · Śloka 229
कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्| पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम्||२२४|| यवासकुशकाशानं मूलं पुष्पं च शाल्मलम्| न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२२५|| त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्| क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्||२२६|| कल्काः शाल्मलिनिर्याससमङ्गाचन्दनोत्पलम्| वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्||२२७|| पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः| प्रवाहिकागुदभ्रंशरक्तस्रावज्वरापहः||२२८|| प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्| पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९|| इति पिच्छाबस्तिः|
🔊 Audio coming soon
पिच्छाबस्तिमाह- यवासेत्यादि| यवासः दुरालभा| अत्र च कल्कादिमानं बस्तिवद्विज्ञेयम्||२२४-२२९||
Adhikarana 39 (230-233) · Śloka 233
ह्रीवेरमुत्पलं लोध्रं समङ्गाचव्यचन्दनम्| पाठा सातिविषा बिल्वं धातकी देवदारु च||२३०|| दार्वीत्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः| चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम्||२३१|| ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्| अर्शोतिसारग्रहणीपाण्डुरोगे ज्वरेऽरुचौ||२३२|| मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे| पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत्||२३३|| इति ह्रीवेरादिघृतम्|
🔊 Audio coming soon
यवाग्रजः क्षारः यवक्षारः| चाङ्गेरीस्वरसोऽत्र चतुर्गुणो ग्राह्यः, द्रवान्तरासान्निध्यात्||२३०-२३३||
Adhikarana 40 (234-242) · Śloka 242
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः| न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः||२३४|| कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी| पिप्पली पिप्पलीमूलं नागरं सुरदारु च||२३५|| कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् | कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः||२३६|| पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका| बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः||२३७|| चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्| त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः||२३८|| सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च| सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्||२३९|| एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे| प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च||२४०|| उत्थाने चातिबहुशः शोथशूले गुदाश्रये| मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि||२४१|| प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्| विविधेष्वन्नपानेषु केवलं वा निरत्ययम्||२४२|| इति सुनिषण्णकचाङ्गेरीघृतम्|
🔊 Audio coming soon
अवाक्पुष्पी अधःपुष्पी| अत्र क्वाथ्यद्रव्यं षोडशपलम्| यद्यप्यत्रोत्सर्गतश्चतुष्प्रस्थमेव जलं देयं, तथा शेषचतुर्भागः प्रस्थ एव भवति, तथाऽपि चतुर्गुणजलदानस्य चतुर्थभागशेषतया स्थाप्यकषायस्य उत्सर्गविधौ सूचनार्थमिदं चरकवचनम्| तथा ‘त्रिंशत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिकः’ इत्यपि वचनं परिभाषासिद्धार्थाभिधायकं विज्ञेयम्| अत एव दृढबलसंस्कारेऽपि द्रवद्वैगुण्याभिधानं भविष्यति| त्रिंशत्पलविशेषणतया द्विपलाधिकानीति निर्देशे प्राप्ते प्रस्थविवक्षया पुंल्लिङ्गैकवचननिर्देशो ज्ञेयः||२३४-२४२||
Adhikarana 41 (243) · Śloka 243
भवन्ति चात्र- व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्| नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्||२४३||
🔊 Audio coming soon
व्यत्यासात् परस्परपरिवर्तनेन मधुराम्लयोः शीतोष्णयोश्च योजना||२४३||
Adhikarana 42 (244-246) · Śloka 246
त्रयो विकाराः प्रायेण ये परस्परहेतवः| अर्शांसि चातिसारश्च ग्रहणीदोष एव च||२४४|| एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः| तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः||२४५|| भृष्टैः शाकैर्यवागूभिर्यूषैर्मांसरसैः खडैः| क्षीरतक्रप्रयोगैश्च विविधैर्गुदजाञ्जयेत्||२४६||
🔊 Audio coming soon
अर्शःसु अग्निरक्षामभिधातुमन्यत्रापि यत्राग्निरक्षा विशेषेण कर्तव्या तानाह- त्रय इत्यादि| वृद्धे परिक्षयः अग्निबले वृद्धे विनाशः| त्रिषु विशेषत इत्यनेनान्यत्राप्यग्निरक्षणं कार्यमिति दर्शयति||२४४-२४६||
Adhikarana 43 (247-248) · Śloka 248
यद्वायोरानुलोम्याय यदग्निबलवृद्धये| अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः||२४७|| यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्| गुदजाभिपरीतेन तत् सेव्यं न कदाचन||२४८||
🔊 Audio coming soon
यद्वायोरित्यादिना पूर्वोक्तचिकित्सां सारोद्धारेणाह||२४७-२४८||
Adhikarana 44 (249-255) · Śloka 255
तत्र श्लोकाः- अर्शसां द्विविधं जन्म पृथगायतनानि च| स्थानसंस्थानलिङ्गानि साध्यासाध्यविनिश्चयः||२४९|| अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः| शोणितस्यावसेकश्च योगा दीपनपाचनाः||२५०|| पानान्नविधिरग्र्यश्च वातवर्चोऽनुलोमनः| योगाः संशमनीयाश्च सर्पींषि विविधानि च||२५१|| बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः| शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च||२५२|| द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्| रक्तसङ्ग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः||२५३|| स्नेहाहारविधिश्चाग्र्यो योगाश्च प्रतिसारणाः| प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च||२५४|| अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्| तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते||२५५||
🔊 Audio coming soon
अर्शसां द्विविधमित्यादिना अध्यायार्थसङ्ग्रहः| अरिष्टग्रहणेनैव शार्करस्यापि ग्रहणे प्राप्ते शार्करस्य पृथगभिधानं गुडकृतेभ्यो भेदेन व्यवहारार्थं, तथाऽनुपानाभिधानार्थं पृथक्कृतम्||२४९-२५५||
Adhikarana puShpikA · Śloka 14
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽर्शश्चिकित्सितं नाम चतुर्दशोऽध्यायः||१४||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थानेऽर्शश्चिकित्सितं नाम चतुर्दशोऽध्यायः||१४||