Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

21. grahaṇīdōṣacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

अर्शःकार्यत्वाद्ग्रहणीदोषस्य अर्शश्चिकित्सितमनु ग्रहणीचिकित्सितं ब्रूते| ग्रहणीमाश्रितोऽग्निदोषो ग्रहणीदोषः, एवं चाश्रयाश्रयिणोरभेदोपचाराद् ग्रहणीदोषशब्देन ग्रहण्याश्रितोऽग्निदोषोऽपि गृह्यते||१-२||

Adhikarana 2 (3-4) · Śloka 4

आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा| ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः||३|| शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः| रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते||४||

🔊 Audio coming soon

तत्र ग्रहणीदोषनिर्दिष्टाग्निदोषे वक्तव्ये प्रकृतिज्ञानानन्तरत्वाद्विकृतिज्ञानस्य प्रथमं तावदविकृतस्याग्ने रूपमाह- आयुरित्यादि| आयुः चेतनानुवृत्तिः| वर्णः गौरादिः| बलं शक्तिः व्यायामाद्यनुमेया| स्वास्थ्यशब्देनैव वर्णादिग्रहणं यद्यपि लभ्यते, तथाऽपि “स्वस्थस्यौजस्करं यत्तु तद्वृष्यं तद्रसायनम्” (चि.अ.१,पा.१) इति ; तेन वर्णादीनामविकारत्वं नावश्यं स्वस्थे भवतीति वर्णादीनां पृथगुपादानं कृतम्| उत्साहः दुष्करेष्वपि कार्येष्वध्यवसायः, उपचयः देहपुष्टिः| ओजः हृदयस्थं सर्वधातुसाररूपम्| तेजः देहोष्मा शुक्रं वा; यदुक्तं शालाक्ये- “दृष्टिस्तेजोमयी प्रोक्ता शुक्रं तेजश्च केवलम्| तस्माद्दृष्टिबलापेक्षी तेजोवृद्धिं समाचरेत्” इति| अग्नय इति भूताग्नयः पञ्च, धात्वग्नयः सप्त, इति द्वादशाग्नयः| प्राणा इति प्राणापानोपलक्षिताः पञ्चापि वायवः; किंवा प्राणवायुरेव ‘प्राणाः’ इति शब्देन नित्यं बहुवचनान्तेनोच्यते; यथा- अप्सरस्शब्देन एकाऽपि विद्याधरी कीर्त्यते| देहाग्निहेतुका इति देहपोषकप्रधानजाठराग्निकारणकाः| शान्ते इत्युत्सन्ने| युक्ते इति समे| विकृते इति मन्दे विषमे तीक्ष्णे वा| मूलमग्निस्तस्मादिति तस्मात् प्राशस्त्यादन्वयव्यतिरेकविधानादायुर्वर्णादीनामग्निर्मूलं प्रधानं कारणमित्यर्थः| निरुच्यते इति निश्चयेनोच्यते||३-४||

Adhikarana 3 (5) · Śloka 5

यदन्नं देहधात्वोजोबलवर्णादिपोषकम्| तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||५||

🔊 Audio coming soon

सामान्यकारणमुक्त्वा, अग्नेः साक्षात्कारणत्वं व्युत्पादयन्नाह- यदन्नमित्यादि| बाह्या अपि गैरिकादयो धातुशब्देनोच्यन्ते इति तद्व्यवच्छेदार्थं धातोर्देहविशेषणम्| अथाहोरात्रजन्येषु देहधात्वादिषु कथमग्नेः कारणत्वमित्याह- आहारादिति- एतेनाहारमप्यपेक्ष्यैव रसादीञ्जनयति| आदिग्रहणेन रक्तादीनि सङ्गृह्यन्ते||५||

Adhikarana 4 (6-8) · Śloka 8

अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति| तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्||६|| समानेनावधूतोऽग्निरुदर्यः पवनोद्वहः| काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये||७|| एवं रसमलायान्नमाशयस्थमधः स्थितः| पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्||८||

🔊 Audio coming soon

सम्प्रति सम्प्राप्तस्यान्नस्याग्निना यथा पाको भवति, यथा च पच्यमानमन्नं देहधात्वादिरूपतामापद्यते, तदाह- अन्नमित्यादि| मुखप्रवेशादारभ्यान्नस्य व्यापार इहोच्यते| आदानमाहारप्रणयनं कर्म यस्य स तथा, प्रकर्षतीति नयति| द्रवैरिति पानीयादिभिः | भिन्नसङ्घातमिति अवयवशैथिल्यमापन्नम्| काले इति बुभुक्षाकाले| भुक्तं सममिति मात्राप्रकृत्यादिसमम्| समानेनावधूत इति अग्निपार्श्वस्थितेन समानेन सन्धुक्षितः, अयं च समानः प्राकृतत्वाद् बाह्यो वायुरिव अग्नेः सन्धुक्षणो भवति न वैषम्यकरः, विकृतस्तु वैषम्यं करोति; तेन वातेन विषमोऽग्निर्भवतीति चोपपन्नं भवति| एते च द्रवादयः पाचकस्याग्नेः सहाया भवन्तीत्यनेन ग्रन्थेनोच्यते; “आहारपरिणामकरास्त्विमे भावा भवन्ति; तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्च” (शा.अ.६) इति| उदर्यः पाचक इत्यर्थः| ‘पवनोद्वह’ इत्यग्निविशेषणं केचित् पठन्ति| सम्यगिति भुक्तविशेषणं केचित् पठन्ति; तदा सम्यगित्यनेन मात्रासाम्यमुच्यते| सम्यग्ग्रहणेन तु प्रकृत्यादिसम्पदुच्यते| आयुर्विवृद्धये इति शरीरेन्द्रियसत्त्वात्मसंयोगानुवर्तनाय तद्विवृद्धये च| रसमलायेति तादर्थ्ये चतुर्थी| आशयस्थमिति आमाशयस्थम्| अधःस्थित इत्यनेन अग्नेरूर्ध्वज्वलनस्वभावतया ऊर्ध्वस्थान्नपाके सामर्थ्यं सूचयति| अत्रार्थे यथेत्यादिना दृष्टान्तमाह||६-८||

Adhikarana 5 (9-11) · Śloka 11

अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः| मधुराद्यात् कफो भावात् फेनभूत उदीर्यते||९|| परं तु पच्यमानस्य विदग्धस्याम्लभावतः| आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते||१०|| पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना| परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः||११||

🔊 Audio coming soon

एवं स्थूलपाकक्रममभिधाय, अवान्तरमणुपाकक्रममाह- अन्नस्येत्यादि| भुक्तमात्रस्येति भुक्तानन्तरमेव| षड्रसस्येति प्राशस्त्येनाभिधानं, किंवा षड्रसस्यापि प्रथमं मधुरता निरुक्ता भवतीति दर्शयति| प्रपाकत इति प्रथमपाकतः; प्रशब्द आदिकर्मणि| मधुरश्चासौ आद्यश्चेति मधुराद्यः; किंवा ‘मधुरात् प्राक् कफो भावात्’ इति पाठः| फेनभूत इति फेनसदृशोऽघन इत्यर्थः| परमिति आद्यमधुरपाकानन्तरम्| विदग्धस्येति पक्वापक्वस्य| अम्लभावा इति जाताम्लस्वरूपतः| आशयात् आमाशयात्| च्यवमानस्य अधोभागं वायुना नीयमानस्य, अनेन च पित्तस्थानसम्बन्धं विदग्धाहारस्य दर्शयति| अच्छमिति अघनम्| उदीर्यते इति पित्तमुत्पद्यते; अम्लं च पित्तमम्लभावादाहारस्य उत्पद्यत इति युक्तमेव| पक्वाशयं तु प्राप्तस्येति मलरूपतया पक्वाशयं गतस्य| शोष्यमाणस्य वह्निनेति यद्यप्यूर्ध्वदाहक्षमो वह्निः, तथाऽप्यस्याधोगतस्य वह्निना शोष्यमाणत्वं पक्वाशयगतस्याप्युपपन्नम्| यतश्चाधोगमने सम्यग्वह्निव्यापारो नास्ति, अतः ‘पच्यमानस्य’ इति पदं परित्यज्य ‘शोष्यमाणस्य’ इति कृतम्| परिपिण्डितपक्वस्येति परिपिण्डितरूपतया मलरूपतया पक्वस्य| वायुः स्यात् कटुभावत इति परिपिण्डितावस्थोद्भूतकटुता वायोरुत्पद्यते| एवमीदृशः षड्रसाहारस्यावस्थापाको भवति| ननु यद्यत्रावस्थापाकवशात् षण्णामेव रसानां कफादिकर्तृत्वमुच्यते, तदा “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः” (सू.अ.२६) इत्यादिना यो विपाक उच्यते स विरुध्यते, अवस्थापाकेनैव बाधितत्वात्; मैवं, नह्यवस्थापाकोऽयं रसस्वभावं निष्ठापाकं बाधते, किन्त्ववस्थायां स्वकार्यं करोति; तेन रसादयोऽपि स्वकार्यं कुर्वन्ति, अवस्थापाकोऽपि स्वकीयं कार्यं करोति; यथा- मधुरतिक्तादिषड्रसेऽन्ने उपयुक्ते मधुरोऽपि स्वकार्यं करोति, तिक्तादयश्च स्वकार्यं कुर्वन्ति; अयं तु विशेषः- यन्मधुराख्यस्यावस्थापाकस्य मधुरादयः श्लेष्मजनका रसा अनुगुणा भवन्ति तदा स बहुश्लेष्माणं जनयति, यदा त्ववस्थापाको विपरीतकटुकादिपरिगृहीतो भवति तदा स्तोकमात्रं कफं जनयति; एवं पित्तजनकेऽवस्थापाकेऽपि वाच्यम्| “कटुतिक्तकषायाणां” (सू.अ.२६) इत्यादिनोक्तस्त्रिधा विपाकस्तु रसमलविवेकसमकालो भिन्नकाल एवावस्थापाकैः सममिति न विरोधः| स च भिन्नकालोऽप्यवस्थापाककार्यदोषानुगुणतयाऽननुगुणतया वा अवस्थापाकाहितदोषाणां वर्धनं क्षपणं वा करोतीति तस्याभिधानं शास्त्रे प्रयोजनवदेव| यद्यपि सर्वमन्नमवस्थायां विदह्यते, तथाऽपि येऽत्यर्थं विदाहिनस्त एव ‘विदाहिनः’ इत्युच्यन्ते, विशेषविदाहकर्तृत्वात्| अन्ये त्वाहुः- न षड्रसादप्यन्नात् सामान्येनावस्थापाके कफाद्युत्पत्तिः, किन्तु षड्रसादप्यन्नात् प्रथमे पाके मधुरोऽयमुद्भूतो रसः स कफं जनयति, तथा पित्तं विदाहावस्थायामुद्भूतादम्लरसादुत्पद्यते, एवं वायुरपि आहारकटुतावस्थायां भवतीति| अन्ये त्वाहुः- यत्- नान्नस्याग्निसंयोगान्मधुराद्यावस्थिकं भवति, किन्तु कफादिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति, ते चान्नं स्वस्वभावं नीत्वा कफादीञ्जनयन्ति| उक्तं हि तन्त्रान्तरे- “मधुरो हृदयादूर्ध्वं रसः कोष्ठे व्यवस्थितः| ततः संवर्धते श्लेष्मा शरीरबलवर्धनः|| नाभीहृदयमध्ये च रसस्त्वम्लो व्यवस्थितः| स्वभावेन मनुष्याणां ततः पित्तं विवर्धते|| अधो नाभ्यास्तु खल्वेकः कटुकोऽवस्थितो रसः| प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्धतेऽनिलः|| तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः” इति| इह तु तत्रेत्यादिग्रन्थार्थालोचनया यथोक्त एव ग्रन्थार्थो न्याय्यः| तन्त्रान्तरे तु श्लेष्मपित्तगतमधुराम्लरसौ वर्णयन्ति, ते कफाद्यधिगता रसा अस्माकमपि पाकसहकारितया अनुमता एव| यत्तु श्लेष्मजनकांशस्यैवावस्थापाके श्लेष्मकर्तृत्वमित्युक्तं, तदनुमतमेव; एवं यः श्लेष्मजनकोंऽश आहारगतः स स्थानमहिम्ना तदाहारस्य मधुरतामापाद्य श्लेष्माणं विशेषेण जनयतीति ब्रूमः| यत्तु, अनेनावस्थापाकेन कफपित्तयोरीरणमात्रं क्रियते नतु वृद्धिः, वृद्धिः निष्ठापाके एव भवतीति वदन्ति, तदुपपत्तिशून्यं भाति; किञ्च, अवस्थापाकात् कफपित्तयोर्वृद्धिः, तथा निष्ठापाकाच्च मलरूपतया उत्पाद इति युक्तं पश्यामः||९-११||

Adhikarana 6 (12) · Śloka 12

अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्| देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च||१२||

🔊 Audio coming soon

कर्मान्तरेणाप्यन्नस्य पाकः सम्पद्यते, तमाह- अन्नमित्यादि| अन्नमिष्टं ह्युपहितमिति हिशब्दोऽवधारणे; इष्टशब्देनेह प्रियं हितं चोच्यते न प्रियमात्रम्, अहितस्य प्रियमात्रस्य न देहव्यवस्थितिः गन्धादितर्पकत्वं च भवति; उपहितमिति उपयुक्तम्| इष्टैरिति प्रियहितैः गन्धरसरूपस्पर्शशब्दैः| अत्र यद्यपि हितत्वमेव गन्धादीनामाहारगतानां देहगतगन्धादिपोषणे प्रधानं, तथाऽपि प्रियत्वमप्याहारगतगन्धादीनां तदात्वोपकारकतया ग्रहीतुं प्रियत्वहितत्वयोर्द्वयोरप्युपादानं कृतम्| देहे प्रीणाति गन्धादीनिति देहश्रितान् गन्धादीन् पोषयति| तथा घ्राणादीनि च घ्राणदर्शनरसनस्पर्शनश्रोत्राणि इष्टैर्गन्धादिभिः प्रीणाति तर्पयति, पोषयतीति यावत्| इन्द्रियाण्यपि हि पाञ्चभौतिकान्यस्मद्दर्शने; तानि च प्रतिक्षणं क्षीयमाणानि||१२||

Adhikarana 7 (13) · Śloka 13

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः| पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि||१३||

🔊 Audio coming soon

भौतिकवह्निव्यापारमाह- भौमेत्यादि| भौमादयः पञ्चोष्माणः पार्थिवादिद्रव्यव्यवस्थिता जाठराग्निसन्धुक्षितबला अन्तरीयं द्रव्यं पचन्तः स्वान् स्वान् पार्थिवादीन् पूर्वपार्थिवगन्धत्वाद्यविलक्षणान् गुणान् निर्वर्तयन्ति| एतदेव “विविधमशितपीतलीढखादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं” (सू.अ.२८) इत्यादिना सूत्रास्थानेऽप्युक्तम्| यद्यपि भूताग्निना पार्थिवादिद्रव्यं पच्यते, तथाऽपि पार्थिवादिद्रव्याणां पाकेनैतदेव जननं यद्विशिष्टगुणयुक्तत्वं, तेन पाकेन जन्यमानेऽपि द्रव्ये गुणा एव जन्यन्त इत्यभिप्रायेण पार्थिवादीनाहारगुणाञ्जनयन्तीत्युच्यते| अनेन गुणजननमेवाग्निनोच्यते; न द्रव्यजननम्| किंवा आहाराश्च गुणाश्चेति विग्रहादाहारशब्देन आहाराधिकरणरूपं द्रव्यमपि गृह्यते| पार्थिवादीनिति पार्थिवाप्यतैजसवायवीयनाभसान्| तत्र जाठराग्निः सर्वानेवाहाररसमलविपाकान् पचति, भौतिकास्त्वग्नयः स्वान् स्वान् गुणाञ्जनयन्ति| उक्तं च- “जाठरेणाग्निना पूर्वं कृते सङ्घातभेदे पश्चाद्भूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति” इति| अयं च भूताग्निव्यापारो धातुष्वप्यस्ति, यतो धातुष्वपि पञ्चभूतानि सन्ति, तत्रापि धात्वग्निव्यापारो भूताग्निव्यापारश्च जाठराग्निक्रमेणैवोक्तो ज्ञेयः||१३||

Adhikarana 8 (14) · Śloka 14

यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्| पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः||१४||

🔊 Audio coming soon

अग्निपक्वानाहारगुणानाह- यथास्वमित्यादि| यथास्वमिति यद्यस्यात्मीयं; सजातीया द्रव्यगुणा सजातीयान् द्रव्यगुणान् पुष्णन्ति| तेन द्रव्याणि पार्थिवादिद्रव्यरूपाणि देहधातुदोषमलाख्यानि पुष्णन्ति, गुणास्तु पाकस्थितगन्धस्नेहौष्ण्यगौरवादयः देहगन्धस्नेहौष्ण्यगौरवादीन् पुष्णन्ति| यथास्वमित्यादिशब्दार्थं स्फोरयति- पार्थिवा इत्यादि| पार्थिवा आहारद्रव्यगुणा देहगतान् पार्थिवानेव द्रव्यगुणान् पुष्णन्ति| आहारद्रव्यगुणा इत्यत्र द्रव्यगतगुणा एव उच्यन्ते| द्रव्यपोषणं तु गुणपोषणेन लभ्यते, गुणपोषणं द्रव्यपोषणमन्तरा कर्तुमशक्यत्वात्||१४||

Adhikarana 9 (15) · Śloka 15

सप्तभिर्देहधातारो धातवो द्विविधं पुनः| यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ||१५||

🔊 Audio coming soon

भूताग्निव्यापारं दर्शयित्वा धात्वग्निव्यापारं दर्शयन्नाह- सप्तभिरित्यादि| देहधातार इति विशेषेण देहधारकाः| द्विविधमिति द्विप्रकारं पाकम्| तदेव प्रकारद्वयमाह- किट्टप्रसादवदिति; किट्टप्रसादरूपमित्यर्थः| शुक्रस्य यद्यपि किट्टवान् पाको न भवति, तथाऽपि बहूनां किट्टवत्त्वाद् द्विविधमिति निर्देशश्छत्रिणो गच्छन्तीति न्यायाज्ज्ञेयः| पुनरिति जाठराग्निपाकानन्तरम्||१५||

Adhikarana 10 (16) · Śloka 16

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः||१६||

🔊 Audio coming soon

पाकजन्यानां रसादीनामुत्पादं क्रमेणाह- रसादित्यादि| रसाद्रक्तं प्रसादजं, ततो रक्तान्मांसं प्रसादजं, मांसान्मेदः प्रसादजमित्यादि यावच्छुक्राद्गर्भः प्रसादज इति| प्रसादजशब्देन रसादिभ्यः प्रसादांशजन्या रक्तादयः, किट्टांशजन्यास्तु वक्ष्यमाणाः कफादय इति| शुक्रात्तु निर्मलतया प्रसादज एव गर्भो भवति, नतु मलजन्यं किञ्चित्| केचित्तु शुक्रमलतया श्मश्रूणि वदन्ति; तन्न, तन्त्रेऽनभिधानात्| तथा शुक्रमलं यदि श्मश्रूणि स्युस्तदा स्त्रीणामपि सशुक्रतया श्मश्रूणि भवेयुः; स्त्रियश्च सशुक्रा एव, परं तासां शुक्रं गर्भारम्भकं न भवतीत्यादि प्रतिपादितं प्राक्| अन्ये तु गर्भप्रसादजशब्देन नपुंसकेन ओजोऽभिदधति| प्रसादज इत्यत्र जातशब्दः पोषण एव वर्तते, नापूर्वोत्पादे; रक्तादयो हि गर्भात्प्रभृत्येवोत्पन्ना रसादिभिः पोष्यन्ते; रक्तादयो हि गर्भप्रभृत्येव पोष्यन्ते| तत्र च त्रिधातूत्पादे व्याख्यातारो वर्णयन्ति- तत्र रसः स्वाग्निपच्यमानो रक्ततां याति, रक्तं मांसतामित्यादि पूर्वपूर्वधातुपरिणामादुत्तरोत्तरधातूत्पादः; यथा क्षीराद्दधि भवति, दध्नो नवनीतं, नवनीताद्घृतं, घृताद् घृतमण्डः, इत्येकः पक्षः| किंवा रस एव रक्तं प्रथमं प्लावयति, तत्र च रक्तस्थानसम्बन्धाद्रक्तसादृश्यमनुभवति, रक्तं च रक्तसमानेनांशेन पोषयति; ततो रक्तमाप्लाव्य मांसमाप्लावयति, तत्रापि मांसपोषणं करोति, मांससादृश्यतामनुभवति; एवं उत्तरोत्तरधातून् रस एवाप्लावयति वर्धयति च; यथा केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां केदारीं तर्पयित्वा क्रमेण केदारिकान्तराणि आप्लावयति| किंवा आहाररसस्य उत्पन्नो भिन्नैरेव मार्गै रसरुधिरादीनि समानेनांशेन तर्पयति, तत्र च यः प्रत्यासन्नो धातुस्तत्पोषको धातुभागस्तं शीघ्रं पुष्णाति, यस्तु विदूरो धातुस्तस्य विदूरमार्गतया चिरेण पोषणं भवति, एवं भिन्नैरेव मार्गैर्धातूनां पोषणं भवति; यथा खले उत्पतितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासन्नविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण च गमनं भवति, तद्वत्| इति क्षीरदधिन्याय-केदारीकुल्यान्याय-खलेकपोतन्यायात्त्रेधा धातुपोषणक्रमः| तत्रेह शब्दार्थपर्यालोचनया केदारीकुल्यान्यायः क्षीरदधिन्यायो वा सङ्गत एवः, खलेकपोतन्यायस्तु मनाग्दुर्घटः| तस्मिन् हि पक्षे रसाद्रक्तं प्रसादजमित्यर्थव्युत्पादनं दुःशकं, प्रपञ्चितं चैतद्विविधाशितपीतीये, तत्रैवानुसरणीयः प्रपञ्चः| ननु, विविधाशितपीतीये आहाररसाद्रसादिपुष्टिरुक्ता “पुष्यन्ति त्वाहाररसाद्रसरुधिर” (सू.अ.२८) इत्यादिना; तत्र रसद्वयं स्वीकृतम्, इह त्वेक एव रक्तपोषको रस इति कथं न विरोधः? मैवं, तत्रापि आहाररसशब्देन आहारजः प्रसादोऽभिधीयते, स च रसग्रहणगृहीत एव| यतो द्विविधो रसः- स्थायी, पोषकश्चेति; तेन तत्र धातुपोषकपोष्यरसांशयोर्भेदविवक्षया भेद उक्तः; इह स्थायीपोषकरसांशावप्येकतया निर्दिष्टौ, स्थायिरसपोषकरसभागयोः स्थानभेदाद्यभावादेकत्वम्; एवं कृत्वा सप्तधातुकं शरीरमुच्यते| एतदपि विविधाशितपीतीये एव प्रपञ्चितम्||१६||

Adhikarana 11 (17) · Śloka 17

रसात् स्तन्यं ततो रक्तमसृजः कण्डराः सिराः| मांसाद्वसा त्वचः षट् च मेदसः स्नायुसम्भवः ||१७||

🔊 Audio coming soon

धातूनां पोषणमभिधायोपधातुपोषणमाह- रसात् स्तन्यमित्यादि| रसात् स्तन्यं प्रसादजं, तथा रक्तमपि रजःसञ्ज्ञं रसादेव प्रसादभागजन्यम्; उक्तं च सुश्रुते- “रसादेव स्त्रिया रक्तं रजःसञ्ज्ञं प्रवर्तते” (सु.सू.अ.१४) इति| एतच्च रजो रसजन्यमपि सूक्ष्मतया चिरेणैव जायते; यदुक्तं सुश्रुते- “एवं मासेन रसः शुक्रभवति, स्त्रीणां चार्तवम्” (सु.सू.अ.१४) इति| अस्रजः कण्डराः स्थूल स्नायवः, मेदसस्तु सूक्ष्मस्नायुपोषणं ‘मेदसः स्नायुसम्भवः’ इत्यनेन वक्तव्यम्| इह हि कण्डराशब्देन स्थूलस्नायुरुच्यते, सुश्रुते तु स्थूलसिरा| ते च स्तन्यादयो धात्वन्तरापोषणाच्छरीरपोषका अप्युपधातुशब्देनोच्यन्ते, रसादयस्तु शरीरधारकतया धात्वन्तरपोषकतया च धातुशब्देनोच्यन्ते; उक्तं च भोजे- “सिरास्नायुरजःस्तन्यत्वचो गतिविवर्जिताः| धातुभ्यश्चोपजायन्ते तस्मात्त उपधातवः” इति| अत्रापि हि ‘धातुभ्यश्चोपजायन्ते’ इत्यनेन जायन्त एव, परं न जनयन्तीत्युक्तम्| शुक्रं तु ओजोजनकत्वाद् धात्वन्तर्गतमेव| ओजस्तु इह न धातुषु नाप्युपधातुषु पठितं, तस्य सप्तधातुसाररूपतया सप्तधात्वन्तरगतत्वादेव, अत एव तस्याग्निरपि पृथङ्नोक्तः||१७||

Adhikarana 12 (18-19) · Śloka 20

किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः| पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः||१८|| स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्| प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः ||१९|| परस्परोपसंस्तब्धा धातुस्नेहपरम्परा |२०|

🔊 Audio coming soon

प्रसादभागोत्पादमभिधाय मलभागोत्पादमाह- किट्टमित्यादि| रसस्य कफ इति रसे पच्यमाने किट्टं कफो भवति, प्रसादश्च रक्तं; एवं रक्तादिमलेऽपि ज्ञेयम्| मांसस्य खमला इति कर्णाक्षिनासास्यप्रजननमलाः| मलः स्वेदस्तु मेदस इति स्वेदो यद्यपि उदकविशेष एव उक्तस्तथाऽपि तस्य मेदोमलत्वेनैवोत्पतिः; किंवा, उदकादपि स्वेदो भवति मेदोमलतया च भवति, यथा- कफोऽवस्थापाकाद् रसमलतया च भवति| अस्थिमलं नखोऽपि सुश्रुतप्रामाण्यादुन्नेयः| तत्र हि “नखलोम च” (सु.सू.अ.४६) इत्यनेनास्थिमलत्वं नखस्योक्तम्| उक्तं च विविधाशितपीतीये- “किट्टात् केशनखादयः पुष्यन्ति” (सू.अ.२८) इति; किन्तु शारीरेऽस्थिगणनायां “विंशतिर्नखा” (शा.अ.७) इत्यनेनास्थित्वेन प्रोक्ताः| एवमुक्तेन क्रमेण प्रसादकिट्टे द्विधा ऋच्छतो भवत इत्यर्थः| सम्प्रति पोष्येणापि रक्तेन रसस्याप्यायनं क्रियते, तथा मांसेनापि रक्तस्येत्यादि परस्परं धातूनामुत्पादकत्वमाह- परस्परेत्यादि| धातुस्नेहपरम्परा परस्परोपसंस्तब्धेति अन्योन्यमुपस्नेहेन संस्तब्धत्वात् सन्तर्पितेति यावत्||१८-१९||-

Adhikarana 13 (20-35) · Śloka 35

वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि||२०|| षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्| सन्तत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत्||२१|| (इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत्| रसाद्रक्तं विसदृशात् कथं देहेऽभिजायते||२२|| रसस्य च न रागोऽस्ति स कथं याति रक्तताम्| द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम्||२३|| द्रवधातोः स्थिरान्मांसान्मेदसः सम्भवः कथम्| श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु||२४|| खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा| मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते||२५|| सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः| तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम्||२६|| छिद्रं न दृश्यतेऽस्थ्नां च तन्निःसरति वा कथम्| एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्||२७|| तेजो रसानां सर्वेषां मनुजानां यदुच्यते| पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति||२८|| वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्| स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत् ||२९|| स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते| पृथिव्यग्न्यनिलादीनां सङ्घातः स्वोष्मणा कृतः||३०|| खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्| करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः||३१|| मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः| तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं सञ्जायते ततः||३२|| वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु| तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम्||३३|| स्रोतोभिः स्यन्दते देहात् समन्ताच्छुक्रवाहिभिः | हर्षेणोदीरितं वेगात् सङ्कल्पाच्च मनोभवात्||३४|| विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्| बस्तौ सम्भृत्य निर्याति स्थलान्निम्नादिवोदकम्)||३५||

🔊 Audio coming soon

वृष्यादिद्रव्याणां धातुपरम्पराक्रमेण शुक्रजननादिकार्यं निषेधयन्नाह- वृष्यादीनामित्यादि| आदिशब्देन बल्यभेदनादीनि ग्राहयति| वृष्यादीनां क्षीरादिद्रव्याणां प्रभावो बलं शीघ्रं पुष्णाति, ततस्ते क्षीरादयः प्रभाववर्धितबलाः शीघ्रमेवान्नकार्यं शुक्रजननादि कुर्वन्ति, न यथोक्तधातुक्रमेणेत्यर्थः| किंवा वृष्यादीनां क्षीरादिद्रव्याणां यः प्रभावः स आशु बलं पुष्णाति स्वजन्यानां शुक्रादीनामित्यर्थः; हिशब्दोऽवधारणे; एवं वृष्यादीनां प्रभावाच्छुक्राद्युत्पत्तिः शीघ्रं भवति| अथोत्सर्गतः कियता कालेन धातुपरिवृत्तिर्भवतीत्याह- षड्भिरित्यादि| षड्भिरहोरात्रै रसस्य शुक्ररूपतया परिवर्तनं भवतीति केचिदिच्छन्ति| तत्रोत्पन्नो रसो रक्तमेकेनाहोरात्रेण याति, एवं रसोत्पत्तिदिनं परित्यज्य षडहेन शुक्रता भवति; यदा तु रसोत्पत्तिदिनमपि प्रक्षिप्यते तदा षड्भिर्दिनैरतिक्रान्तैः सप्तमे शुक्रभावतया परिवर्तनं भवतीति ज्ञेयम्| उक्तं हि पराशरे- “आहारोऽद्यतनः श्वो हि रसत्वं गच्छति नृणाम्| शोणितत्वं तृतीयेऽह्नि, चतुर्थे मांसतामपि|| मेदस्त्वं पञ्चमे, षष्ठे त्वस्थित्वं, सप्तमे त्वियात्| मज्जतां, शुक्रतां याति नियमादष्टमे नृणाम्” इति| एवदप्युपयोगदिनं सम्पूर्णं परित्यज्यैव व्याख्यातव्यमित्याहुः| किञ्च रसधातोः रक्तधातुरूपतया च परिणमनं यत्तदपि षष्ठदिननिर्वर्त्यमेवेति| यदुक्तं सुश्रुते- “स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासह स्राण्यवतिष्ठति दश च कलाः, एवं मासेन रसः शुक्रीभवति” (सु.सू.अ.१४) इति| तेनैतत्पक्षद्वयमपि केचिदित्यादिना दर्शयति| स्वमतमाह- सन्तत्येत्यादि| भोज्ये उपयुक्ते सति धातूनां रसादीनां चक्रवत् परिवृत्तिर्भवति अविश्रान्ता समुत्पत्तिर्धातूनां भवति| चक्रदृष्टान्तेन तु परिवृत्तिकालानियमं दर्शयति; यथा चक्रं पानीयोद्धारणार्थं नियुक्तं बाह्यमानं बाहुबलप्रकर्षात् कदाचिदाश्वेव परिवर्तते, कदाचिद् बाहुबलमान्द्याच्चिरेण; एवं धातवोऽपि अग्न्यादिसौष्ठवाच्छीघ्रमेव परिवर्तन्ते, अग्न्यादिवैगुण्ये चिरेण परिवर्तन्ते इति; एवं सुश्रुतेनापि “शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येव शरीरं केवलम्” (सु.सू.अ.१४) इत्यत्र दृष्टान्तत्रयेण रसपरिणामोऽपि अग्न्यादिभेदेन प्रकृष्टाप्रकृष्टकालज उक्त एव| तत्र हि जलसन्तानदृष्टान्तेन चिरेण मासपर्यन्तेन शुक्रतापत्ती रसस्योक्ता, शब्दसन्तानदृष्टान्तेन तु नातिशीघ्रं नातिचिराच्च शुक्रोत्पत्तिरुक्ता, अर्चिःसन्तानदृष्टान्तेन त्वतिशीघ्रं शुक्रोत्पत्तिरुक्ता| तथाऽन्यत्राप्युक्तं- “केचिदाहुरहोरात्रात्, षड्रात्रादपरे, परे| मासेन याति शुक्रत्वमन्नं पाकक्रमादिति”| तदेतत् सकलं चक्रदृष्टान्तेन गृहीतं ज्ञेयम्||२०-३५||

Adhikarana 14 (36-37) · Śloka 38

व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा| युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा||३६|| क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः| करोति विकृतिं तत्र खे वर्षमिव तोयदः||३७|| दोषाणामपि चैवं स्यादेकदेशप्रकोपणम् |३८|

🔊 Audio coming soon

अथ कोऽन्नरसं रक्तादिधातुपोषकं प्रेरयति; येन तत्र तत्र रसः सर्पतीत्याह- व्यानेनेत्यादि| रसरूपो धातुः, किंवा रसतीति रसो द्रवधातुरुच्यते, तेन रुधिरादीनामपि द्रवाणां ग्रहणं भवति; विक्षेपः उचितं प्राकृतं कर्म यस्य स विक्षेपोचितकर्मा; तेन व्यानेन, युगपदिति एककालं, सर्वत इति सर्वस्मिन् देहे, विक्षिप्यते इति नीयते, अजस्रमिति अविश्रान्तं विक्षिप्यते, सदेति सर्वकालम्| नन्वेवं सर्वत्र रसविक्षेपे कथमेकदेशे रसादौ विकाराश्रयो दृश्यत इत्याह- क्षिप्यमाण इत्यादि| खवैगुण्यादिति स्रोतोवैगुण्यात्| सज्जतीति तिष्ठति| विकारं कुरुते इति रसाश्रयिविकारं कुरुते; रसोऽपि हि विकारकरणे आश्रयतया व्याप्रियते, तेनेह तस्य कर्तृत्वं युक्तम्| खे वर्षमिव तोयद इति यथा चण्डेन वायुना नीयमानो मेघो यत्र सक्तो भवति तत्रैव वर्षं करोति, तथा रसोऽपीत्यर्थः| यथा रस एकदेशे विकारं करोति, एवं दोषा अप्येकदेशविकारं कुर्वन्तीत्याह- दोषाणामित्यादि| सुश्रुतोऽप्याह- “कुपितानां हि दोषाणां शरीरे परिधावताम्| यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते” (सु.सू.अ.२४) इति||३६-३७||-

Adhikarana 15 (38-41) · Śloka 41

इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम्||३८|| अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः| तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः||३९|| तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः| पालयेत् प्रयतस्तस्य स्थितौ ह्ययुर्बलस्थितिः||४०|| यो हि भुङ्क्ते विधिं त्याक्त्वा ग्रहणीदोषजान् गदान्| स लौल्याल्लभते शीघ्रं, वक्ष्यन्तेऽतः परं तु ते||४१||

🔊 Audio coming soon

उक्तमग्नीनां कर्म उपसंहरति- इति भौतिकेत्यादि| भौतिकाः पञ्च, धात्वग्नयः सप्त, अन्नपक्तैकः| अत्र च यान्यग्न्यन्तराणि उपधातुमलादिगतानि तान्यप्यवरुद्धानि भूताग्निष्वेव; किंवा, अप्राधान्यादन्यान्यकिञ्चित्कराणि नोक्तानि| सर्वाग्निषु जाठराग्नेः प्राधान्यमाह- अन्नस्येत्यादि| प्राधान्ये हेतुमाह- तन्मूला इत्यादि| तन्मूलत्वे हेतुगर्भविशेषणमाह- तद्वृद्धीत्यादि| तस्य जाठराग्नेः वृद्ध्या वृद्ध्यात्मकाः क्षयेण च क्षयात्मका यस्मादिहाग्नयस्तस्मादन्वयव्यतिरेकार्थविधायित्वात्तन्मूला इत्यर्थः| यतश्चायमन्तरग्निर्मूलं सर्वत्र तस्मात्तं पालयेदिति योज्यम्| विधिवद्युक्तैरित्यत्र आहारविधियोगादुपयुक्तैः| आयुर्बलस्थितिरिति अन्नपाचकाग्निस्थितौ आयुर्बलस्थित्या अन्येऽप्यतिप्रेया वर्णादयो लक्षणीयाः| विपर्यये दोषमाह- यो हीत्यादि| ग्रहणीदोषजानिति ग्रहण्याश्रितदोषजान्| एतेन वक्ष्यमाणलक्षणाश्चत्वारो ग्रहणीविकारा विशेषेण ग्रहणीदोषशब्दवाच्या गृह्यन्ते, तथाऽग्निमान्द्याजीर्णादयश्च ग्रहण्याश्रिता रोगा गृह्यन्ते| अग्निमान्द्याजीर्णादयस्तु यद्यपि ग्रहण्याश्रितत्वेन ग्रहणीरोगा एव, तथाऽपीह ग्रहणीरूपनाडीव्यापारवैपरीत्येन ये जायन्ते त एव मुख्यग्रहणीशब्दवाच्याश्चत्वारो रोगाः| यतो ‘अधस्तु पक्वमामं वा’ इत्यादिना ग्रहणीगदसामान्यलक्षणविशिष्टमेव ग्रहणीगदं ग्रहणीप्राकृतव्यापारोपमर्देन जायमानं वक्ष्यति| वक्ष्यति च ग्रहण्या दुष्टमदुष्टं च रूपं “अपक्वं धारयत्यन्नं पक्वं सृजति पार्श्वतः| सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति” इति| न चेयं पक्वान्नविमोक्षलक्षणा दुष्टिरग्निदोषे आमाद्यजीर्णे वा| अनेन विशेषाभिधेयग्रहणीशब्दत्वं ग्रहण्याश्रितदोषजन्यग्रहणीगदस्यैवेहोच्यते; अग्निदोषाणां न विशेषाद्ग्रहणीगदत्वम्; अतिसारे यद्यपि पक्वान्नमुञ्चनमस्ति, तथाऽपि तस्य भिन्नसम्प्राप्तिकत्वात् तथा चिकित्साभेदाद् ग्रहणीदोषादन्यत्वमुक्तम्||३८-४१||

Adhikarana 16 (42-44) · Śloka 44

अभोजनादजीर्णातिभोजनाद्विषमाशनात्| असात्म्यगुरुशीतातिरूक्षसन्दुष्टभोजनात्||४२|| विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्| देशकालर्तुवैषम्याद्वेगानां च विधारणात्||४३|| दुष्यत्यग्निः, स दुष्टोऽन्नं न तत् पचति लघ्वपि| अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम् ||४४||

🔊 Audio coming soon

एवं व्यवस्थिते सामान्येन ग्रहणीदोषविकारणां हेत्वादीन्याह- अभोजनादित्यादि| कालशब्देन च संवत्सरात्मकः काल उच्यते| देशवैषम्यं देशव्यापत्; सा च जनपदोद्ध्वंसनीये प्रोक्ता| ऋतुशब्देन तु शिशिराद्यृतुः| कालवैषम्येण सर्वेषामृतूनां वैषम्यं गृह्यते, ऋतुवैषम्येण द्व्येकर्तुवैषम्यमिति विशेषः| शुक्तत्वमिति अम्लताम्| विषरूपतामिति यथा विषं बहुविकारकारि भवति तथा तद्रूपताम्, अनेन सर्व एवाजीर्णभेदा अवरुद्धा ज्ञेयाः, ये तन्त्रान्तरे “आमं विदग्धं विष्टब्धं कफपित्तानिलैः क्रमात्| अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः” (सु.सू.अ.४६) इत्यनेनोक्ताः||४२-४४||

Adhikarana 17 (45-49) · Śloka 49

तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा| शिरसो रुक् च मूर्च्छा च भ्रमः पृष्ठकटिग्रहः||४५|| जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरश्छर्दिः प्रवाहणम्| अरोचकोऽविपाकश्च, घोरमन्नविषं च तत्||४६|| संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान्| जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान्||४७|| यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्| करोति वातसंसृष्टं वातजांश्च गदान् बहून्||४८|| मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्| रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्||४९||

🔊 Audio coming soon

तस्येति सामान्याजीर्णस्य लक्षणम्| विष्टम्भ इति विष्टम्भोऽप्रचलनरूपतयाऽवस्थानम्| घोरमन्नविषं च तत् पित्तेन संसृज्यमानमित्यादिना पित्तादिदुष्टस्याजीर्णस्य लक्षणमाह| एतच्च पित्तादिसंसर्गकृतं लक्षणम्, अजीर्णस्य कोष्ठमात्रगतत्वेन यक्ष्मादिविकारकरणेऽसामर्थ्योपलब्धेः| अम्लपित्तं चेति अम्लगुणोद्रिक्तं पित्तम्| अस्य तन्त्रान्तरे लक्षणमुक्तं- “अविपाकक्लमोत्क्लेदतिक्ताम्लोद्गारगौरवैः| हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं विनिर्दिशेत्” इति| यक्ष्मणस्त्रिदोषजत्वेऽपि स्रोतोऽवरोधे कफव्यापारप्राधान्यादिह कफजत्वमुक्तम्| किट्टधातुयोगेन रसशेषान्नस्य गदानाह- मूत्ररोगांश्चेत्यादि| रसादिजानित्यत्र ये रसादिजा अरुच्यादय उक्तास्ते भवन्तीति ज्ञेयम्||४५-४९||

Adhikarana 18 (50) · Śloka 50

विषमो धातुवैषम्यं करोति विषमं पचन्| तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः||५०||

🔊 Audio coming soon

अजीर्णलक्षणमभिधाय अग्निदोषलक्षणमाह- विषम इत्यादि| तीक्ष्णाग्निकार्यमाह- तीक्ष्णमित्यादि| अत्र मन्देन्धन इत्यनेन तीक्ष्णोऽपि यदि शुचीन्धनो भवति तदा धातुपोषणं भवतीति दर्शयति||५०||

Adhikarana 19 (51) · Śloka 51

युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्|५१|

🔊 Audio coming soon

अग्निप्रसङ्गात् समाग्नेः कार्यमाह- युक्तमित्यादि| युक्त इति समः| युक्तमन्नं पचन् धातुसाम्यं करोतीत्यर्थः| समशब्देन समानो वायुरग्निसहायो गृह्यते| किंवा युक्तवायुतया धातुसाम्यं करोति, युक्तशब्देन च कफपित्तसाम्यमग्नौ गृह्यते| यतः “समः समैः” (वा.सू.अ.१) इति वचनेन दोषाणां समत्वेनैव समाग्नित्वमुक्तम्|५१|

Adhikarana 20 (51-54) · Śloka 54

दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा||५१|| अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः| उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते||५२|| अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते| तृष्णारोचकवैरस्यप्रसेकतमकान्वितः||५३|| शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः| लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते||५४||

🔊 Audio coming soon

मन्दाग्निव्यापारमाह- दुर्बल इत्यादि| उक्तविकारेषु प्रधानत्वेन अध्यायप्रकृतं ग्रहणीदोषविकारं निर्धारयन्नाह- अधस्त्वित्यादि| पक्वमामं वेति वाशब्दः समुच्चये; तेन किञ्चित्पक्वं किञ्चिदपक्वं च| कुतः पक्वापक्वं सृजतीत्याह- सर्वमेवान्नं प्रयो ह्यस्य विदह्यते इति; पक्वापक्वं भवति| अतिसृष्टमिति विमुक्तम्| तम एव तमकः||५१-५४||

Adhikarana 21 (55) · Śloka 55

पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः| विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम्||५५||

🔊 Audio coming soon

पूर्वरूपे विदाहोऽन्नस्येति विशिष्टो दाहो विदाहः||५५||

Adhikarana 22 (56-57) · Śloka 57

अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता| नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता ||५६|| अपक्वं धारत्यन्नं पक्वं सृजति पार्श्वतः| दुर्बलाग्निबला दुष्टा त्वाममेव विमुञ्चति||५७||

🔊 Audio coming soon

सम्प्रति ग्रहणीदोषस्य सुखप्रतिपत्त्यर्थं ग्रहण्याः स्वरूपं प्राकृतं कर्म चाह- अग्न्यधिष्ठानमित्यादि| अग्न्यधिष्ठानम् अग्नेराश्रय इत्यर्थः| ग्रहणीसञ्ज्ञानिमित्तमाह- अन्नस्येत्यादि| ग्रहणादिति धारणात्, नाभेरुपर्यन्नस्य धारणादित्यर्थः| किंवा नाभेरुपरि अग्नेरूर्ध्वज्वलनेन बलेनोपस्तम्भिता उपबृंहिता च सति अपक्वमन्नं धारयति, पक्वं च पार्श्वतः सृजतीति वामपार्श्वतः सृजति; यतः ग्रहणीगुदौ वामपार्श्वाश्रयौ, तेन वामे पार्श्वे पक्वं सृजतीति युक्तम्| उपस्तम्भिता इति अग्निना पित्तव्यापारकरणेन अनुकूलिता, उपबृंहितेति अग्निना बृंहणव्यापारकरणेन सशक्तीकृता; किंवा उपस्तम्भत्वेन उपबृंहिता, अत्र पक्षे उपस्तम्भसाधारण्यं ग्रहण्या आह| ग्रहण्याः प्राकृतं कर्माभिधाय वैकृतं कर्माह- दुर्बलेत्यादि| दुर्बलाग्निश्च अबला चेति, किंवा दुर्बलमग्निबलं यस्याः सा दुर्बलाग्निबला| दुष्टा इति दोषदुष्टा| आमं विमुञ्चतीति अपक्वमेवान्नं विमुञ्चति| पूर्वरूपे पक्वमामं वा विमुञ्चतीत्यनेन विदग्धरूपमाममेवोक्तम्, इह त्वामं नियमेन विमुञ्चतीति न विरोधः||५६-५७||

Adhikarana 23 (58-72) · Śloka 72

वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च| हेतुं लिङ्गं रूपभेदाञ् शृणु तस्य पृथक् पृथक्||५८|| कटुतिक्तकषायातिरूक्षशीतलभोजनैः| प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः||५९|| करोति कुपितो मन्दमग्निं सञ्छाद्य मारुतः | तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता||६०|| कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः| पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका||६१|| हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका| गृद्धिः सर्वरसानां च मनसः सदनं तथा||६२|| जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च| स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः||६३|| चिरादुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्| पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्||६४|| कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्| अग्निमाप्लावयद्धन्ति जलं तप्तमिवानलम्||६५|| सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्| पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः||६६|| गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्| भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः||६७|| तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः| आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः||६८|| हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु| दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्||६९|| भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्| अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके||७०|| यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः| तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे||७१|| पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे| त्रिदोषं निर्दिशेत्तेषां भेषजं शृण्वतः परम्||७२||

🔊 Audio coming soon

वातपित्तकफसन्निपातजान् ग्रहणीभेदान् तेषां पृथग्घेत्वादींश्चाह- वातादित्यादि| त्रिभ्य इति सन्निपातात्| रूपभेदानिति ग्रहणीदोषलिङ्गत्वेन वक्ष्यमाणान्| शुक्तमिवान्नस्य पाकः शुक्तपाकः| गृद्धिः सर्वरसानामिति सप्तम्यर्थे षष्ठी| जीर्णे जीर्यति ‘अन्ने’ इति शेषः| गुल्मादिशङ्कित्वं गुल्मादिसदृशपीडायुक्तत्वेन भवति| पैत्तिकग्रहण्यां पित्तस्याग्निसमानतया वर्धनमेव युक्तमित्याशङ्क्य पित्तस्य द्रवत्वेनाग्निहननं क्रियते इति दर्शयन्नाह- आप्लावयद्धन्त्यनलमिति; आप्लावनं द्रवेणार्द्रीकरणम्| उष्णस्यापि द्रवतया अग्निनिर्वापणे दृष्टान्तमाह- जलं तप्तमित्यादि| दौर्बल्यं बलहानिः| यश्चाग्निरित्यादिश्लोकं केचिद्वैशेषिकग्रहणीदोषव्यतिरिक्ताग्निदोषत्रयस्य ग्रहणीरोगान्तर्निवेशनमसङ्गतमिति कृत्वाऽनार्षं वदन्ति, किन्तु तं चापीतिपदेनाऽग्निमान्द्यादीनां प्राकृतानां सामान्यग्रहणीदोषाबाधे सति न किञ्चिद्विरोधं पश्यामः; सामान्यग्रहणीदोषेऽपि अग्निमान्द्यादय उक्ता एवेति दर्शितमेव| समवर्जमिति समप्रकृतिपुरुषगतत्वेनोक्ताग्निवर्जम्||५८-७२||

Adhikarana 24 (73-81) · Śloka 81

ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्| सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः||७३|| आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्| फलानां वा कषायेण पिप्पलीसर्षपैस्तथा||७४|| लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः| शरीरानुगते सामे रसे लङ्घनपाचनम्||७५|| विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्| दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्||७६|| ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्| दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्||७७|| किञ्चित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्| द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्||७८|| तत एरण्डतैलेन सर्पिषा तैल्वकेन वा| सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्||७९|| शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्| दीपनीयाम्लवातघ्नसिद्धातैलेन मात्रया||८०|| निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्| लघ्वन्नं प्रतिसम्भुक्तं सर्पिरभ्यासयेत् पुनः||८१||

🔊 Audio coming soon

ग्रहणीमाश्रितमित्यादौ दोषमिति सामान्यवचनाद्वातादीनां त्रयाणामपि ग्रहणम्| आमस्यापक्वस्य लिङ्गैरन्वितमिति आमलिङ्गान्वितम्| उद्धरेदिति वमेत्| फलानामिति मदनफलानाम्| लीनमिति अनुत्क्लिष्टम्| पक्वाशयस्थमिति अधोगतत्वेन पक्वाशयसमीपगतम्| स्राव्यमिति विरेचनीयम्| सदीपनैरिति दीपनद्रव्यसंयुक्तैर्विरेचनप्रयोगैः| शरीरानुगते इति शरीरव्यापके| सामे रसे इति अपक्वे रसे; आमश्चात्रापक्वरसरूप एवेष्टः, आहाररसस्य रससम्बन्धेन शरीरव्यापकतया दुर्घटत्वात्| लङ्घनम् अनशनं, पाचनं यवाग्वादि| विशुद्धामाशये इत्यत्र विशुद्धिर्हि विरेचनलङ्घनैर्यथायोग्यतया ज्ञेया| दीपनीययुतमिति षड्विरेचनशताश्रितीयोक्तदीपनीयगणसाधितम्| स्विन्नाभ्यक्तमिति स्विन्नं चाभ्यक्तं चेति स्विन्नाभ्यक्तम्| स्रस्तदोषमिति निरूहेण स्रस्तदोषम्||७३-८१||

Adhikarana 25 (82-86) · Śloka 86

द्वे पञ्चमूले सरलं देवदारु सनागरम्| पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||८२|| शणबीजं यवान् कोलन् कुलत्थान् सुषवीं तथा | पाचयेदारनालेन दध्ना सौवीरकेण वा||८३|| चतुर्भागावशेषेण पचेत्तेन घृताढकम्| स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः||८४|| सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च| ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्||८५|| विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः| करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्||८६|| इति दशमूलाद्यं घृतम्|

🔊 Audio coming soon

द्वे पञ्चमूले इत्यादौ सुषवीस्वरसो जलस्थानीयः, आरनालादि क्वाथ्यं च मिलित्वा द्रोणं मानं ग्राह्यम्| क्षारौ दत्त्वा च युक्तित इत्यनेन क्षारयोरल्पमानत्वमुच्यते, किन्तु प्रक्षेप्यान्यतमलवणमानेन पृथक् क्षारौ देयौ; युक्तित इत्यनेन तु योग्ये काले क्षारयोगमाह, स च योग्यकालोऽत्र घृतावतारणकाल एव| यदाह जतूकर्णः- “दशमूलं पञ्चकोलं कुलत्थं सुरभिं यवम्| देवदारुं च सरलं शणबीजं च साधयेत्|| दध्ना सौवीरकेणैव तेन पक्वे घृताढके| द्वौ क्षारौ सप्तलवणान्यावपेद् द्विपलानि तु” इति| औद्भिदम् उत्कारिकालवणम्| रोमकं रुमाहृद्भवम्| पाक्यं पाकजम्||८२-८६||

Adhikarana 26 (87) · Śloka 87

त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले| सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्||८७|| इति त्र्यूषणाद्यं घृतम्|

🔊 Audio coming soon

बिल्वमात्रे इति पलमाने कल्के, अष्टपलमानमेवात्र सर्पिः पक्तव्यं महर्षिवचनेन फलदायित्वात्||८७||

Adhikarana 27 (88-93) · Śloka 93

पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः| रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्||८८|| शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च| शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च||८९|| तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः| काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्||९०|| शूलगुल्मोदरश्वासकासानिलकफापहम्| सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्||९१|| सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्| एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना||९२|| वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते| दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्||९३|| इति पञ्चमूलाद्यं घृतं चूर्णं च|

🔊 Audio coming soon

पञ्चमूलाद्ये शुक्तादित्रयोदशद्रवाणां प्रत्येकं स्नेहसमत्वम्| सबीजपूरकरसमित्यत्रापि पञ्चमूल्यादीनि कल्कत्वेनेच्छन्ति; किंवा पूर्वमेव घृतं बीजपुररससंयुक्तं पेयमित्यर्थः| तैलमित्यादौ एतैः पञ्चमूल्यादिभिः सिद्धं तैलमभ्यङ्गार्थं योज्यं, तथा एतेषामेव कल्कोक्तानां पञ्चमूल्यादीनां चूर्णं सुखाम्बुना पेयम्| चूर्णविषयमाह- वाते इत्यादि| वातश्लेष्मावृते ग्रहणीगदे तथा सामे ग्रहणीगदे; केचित् “सामे पुरीषे” इति वदन्ति; आमं चानेकविधमाहुः, यदुच्यते- “आममन्नरसं केचित् केचित्तु मलसञ्चयम्| प्रथमां दोषदुष्टिं च केचिदामं प्रचक्षते” इति| भोजोऽप्याह- “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आम इति सञ्ज्ञितः” इति| ईश्वरसेनोऽप्याह- “एवमामाशयेऽप्यन्नं बहु सम्यङ्न जीर्यति| चीयमानं तदेवान्नं कालेनामत्वमाप्नुयात्” इत्यादि| तदिहापि तद्वचनप्रामाण्यादामव्यवस्था कर्तव्या||८८-९३||

Adhikarana 28 (94-95) · Śloka 95

मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले| विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्||९४|| परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्| विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा||९५||

🔊 Audio coming soon

सामनिरामग्रहणीगदज्ञानार्थं सामनिरामविड्लक्षणमाह- मज्जतीत्यादि| आमेति आमाश्रिता| गुरुत्वादिति आमाहितगुरुत्वात्| पक्वेति निरामा; उपसंहरिष्यत्यामपक्वलक्षणान्ते ‘परीक्ष्यैवं पुरा सामं निरामं वा’ इति| द्वयोरपि आमपक्वलक्षणयोरपवादमाह- विनाऽतिद्रवेत्यादि| अतिद्रवत्वादामाऽपि प्लवते, अतिसंहता तु पक्वाऽपि अतिसङ्घातादेव मज्जति, शैत्यश्लेष्मप्रदूषणाच्च कफयोगाहितगौरवा पक्वाऽपि मज्जति गुरुत्वादेव न प्लवते| ननु सविष्टम्भप्रसेकार्तीत्यादिनैव सामस्योक्तत्वात् किमनेन सामतालक्षणेन पुनरुक्तेन? उच्यते- वातकफाधिकारात्तदुक्तम्, इदं तु विडामताज्ञानार्थमुक्तमिति विशेषः| परीक्ष्येत्यादौ निरामं चामदोषिणमिति कथं, यावता न निरामतायामामदोषत्वमस्ति? न, आमदोषशब्देन ग्रहणीदोषिणोऽभिप्रेतत्वात्| इतरेणेति ग्रहणीदोषशमनेन||९४-९५||

Adhikarana 29 (96-97) · Śloka 97

चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च| व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्||९६|| गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा| कृता विपाचयत्यामं दीपयत्याशु चालनम्||९७|| इति चित्रकाद्या गुटिका|

🔊 Audio coming soon

चित्रकेत्यादौ लवणानि चेत्यत्र कपिञ्जलाधिकरणन्यायेन लवणत्रयमिच्छन्ति; किन्त्वनियते स न्यायो भवति, इह तु पञ्चलवणानां प्राधान्येन दीर्घञ्जीवितीये निर्दिष्टत्वात् पञ्चलवणस्य च शक्योपादानत्वात् पञ्चैव लवणानि ग्राह्याणि||९६-९७||

Adhikarana 30 (98-110) · Śloka 110

नागरातिविषामुस्तक्वाथः स्यादामपाचनः| मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा||९८|| देवदारुवचामुस्तनागरातिविषाभयाः| वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्||९९|| वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना| विडेन लवणं पिष्टं बिल्वं चित्रकनागरम्||१००|| सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्| कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः||१०१|| छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा| पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्||१०२|| अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्| पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्||१०३|| पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा| पित्तश्लेष्माभिभृतायां ग्रहण्यां शूलनुद्धितम्||१०४|| सामे सातिविषं व्योषं लवणक्षारहिङ्गु च| निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा||१०५|| पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्| चित्रकं कौटजं बीजं लवणान्यथ पञ्च च||१०६|| तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः| पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७|| मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्| पलानि दश चाम्लस्य वेतसस्य पलार्धिकम्||१०८|| सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः| शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका||१०९|| तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्| हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा||११०|| इति मरिचाद्यं चूर्णम्|

🔊 Audio coming soon

मुस्तान्तकल्क इति पश्चादुक्तनागरादिकल्क इत्यर्थः| अर्शोग्रन्थिः अर्शोऽनुग्रथितवर्चस्त्वम्| मरिचसंयुतमिति पर्यन्तं ‘चूर्णं कृत्वा पिबेत्’ इत्यनुवर्तते| सामे दोषे सति पिप्पलीमूलादिषु अतिविषादि प्रक्षिप्य चूर्णं कर्तव्यमित्यर्थः| सुरादिभिरित्यत्रादिशब्देन काञ्जिकसौवीरादिग्रहणम्||९८-११०||

Adhikarana 31 (111) · Śloka 112

चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्| लवणानां च चत्वारि शर्करायाः पलाष्टकम्| सञ्चूर्ण्य शाकसूपान्नरागादिष्ववचारयेत्||१११|| कासाजीर्णारुचिश्वासाहृत्पाण्ड्वामयशूलनुत्|११२|

🔊 Audio coming soon

चतुर्णां प्रस्थमम्लानामित्यत्र चतुरम्लं हृद्यवर्गे प्रथमोक्तं वृक्षाम्लाम्लवेतसदाडिमबदररूपमाहुः; अन्ये तु चव्यत्वगित्यादिप्रयोगवक्ष्यमाणकपित्थचुक्रिकावृक्षाम्लदाडिमानां ग्रहणमाहुः| तन्त्रान्तरे तु “वृक्षाम्लमातुलुङ्गाम्लबदराम्लाम्लवेतसैः| चतुरम्लमिदं प्रोक्तं पञ्चाम्लं तु सदाडिमम्” इत्युक्तम्| त्र्यूषणाच्च पलत्रयमिति मिलितात् पलत्रयम्| रागः कपित्थादिद्रव्यकृतो व्यञ्जनविशेषः||१११||-

Adhikarana 32 (112-116) · Śloka 117

चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान्||११२|| कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्| शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसम्मितम्||११३|| परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्| रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च||११४|| सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी| पञ्चकोलकयूषश्च मूलकानां च सोषणः||११५|| स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः| क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः||११६|| तक्रारनालमद्यानि पानायारिष्ट एव च|११७|

🔊 Audio coming soon

चव्येत्यादौ शाल्मलं शाल्मलीवेष्टकम्| शिलोद्भवं शैलजम्| चुक्रिका चाङ्गेरी| सोषण इति समरिचः||११२-११६||-

Adhikarana 33 (118-121) · Śloka 121

तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात्||११७|| श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत्| कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्||११८|| वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्| तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम्||११९|| विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्| यवान्यामलके पथ्या मरिचं त्रिपलंशिकम्||१२०|| लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्| तक्रे तदासुतं जातं तक्रारिष्टं पिबेन्नरः| दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम्||१२१|| इति तक्रारिष्टः|

🔊 Audio coming soon

तक्रमित्यादिना तक्रगुणाभिधानम्| मधुरपाकित्वान्न च पित्तप्रकोपणम्; अम्लत्वात् पित्तप्रकोपणे प्राप्ते मधुरपाकितया पित्तं न प्रकोपयति, नापि पित्तं प्रशमयतीत्याहुः| सद्यस्कमविदाहीति सद्यो मथितमेव तक्रं पच्यमानावस्थायां विदाहकृन्न भवति, किञ्चित्कालस्थितं तु विदाही भवत्येव| यवानीत्यादौ तक्रे तदासुतमिति तक्राढके आसुतम्| जातमिति अम्लरसतया जातम्||११८-१२१||

Adhikarana 34 (122-124) · Śloka 124

स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्| पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा||१२२|| अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः| जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि||१२३|| दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः| तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः||१२४||

🔊 Audio coming soon

वमनेन वेत्यूर्ध्वगपित्तापेक्षया ज्ञेयम्| सर्पिर्भिश्चापि तिक्तकैरित्यत्र जात्याख्यायां बहुवचनं; किंवा कुष्ठोक्तं तिक्तघृतद्वयमन्यच्च तिक्तसाधितं घृतमिति बहुवचनं साधु||१२२-१२४||

Adhikarana 35 (125-128) · Śloka 128

चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्| षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्||१२५|| पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्| कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम्||१२६|| द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्| किराततिक्तेन्द्रयववीरामागधिकोत्पलैः||१२७|| कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे| तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत्||१२८|| इति चन्दनाद्यं घृतम्|

🔊 Audio coming soon

कुटन्नटं कैवर्तमुस्तकम्| षड्ग्रन्था वचा| आस्फोता ‘अस्फुरमल्लिका’ इति लोके ख्याता| कपीतनः ‘गन्धमुण्ड’ इति ख्यातः||१२५-१२८||

Adhikarana 36 (129-131) · Śloka 131

नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्| वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्||१२९|| पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना| पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते||१३०|| अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्| नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्||१३१|| इति नागराद्यं चूर्णम्|

🔊 Audio coming soon

नागराद्ये सक्षौद्रमिति मधुप्रक्षेपयुक्तम्| तण्डुलाम्बुनेति तण्डुलधावनाम्बुना; अन्ये तु तण्डुलाद्द्विगुणमम्लं तण्डुलेन समं चिरं स्थितं तत्तण्डुलाम्बु वदन्ति| कृष्णात्रेयेण पूजितत्वोपदर्शनादस्य सिद्धयोगत्वं दर्श्यते; कृष्णात्रेयः पुनर्वसोरभिन्न एवेति वृद्धाः||१२९-१३१||

Adhikarana 37 (132-133) · Śloka 133

भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्| द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्||१३२|| गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्| कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्||१३३|| इति भूनिम्बाद्यं चूर्णम्|

🔊 Audio coming soon

भूनिम्बाद्ये गुडयुतं शीताम्बु गुडशीताम्बु; गुडश्चात्र गुडवर्णतामाधुर्यापत्तिमात्रो देयः||१३२-१३३||

Adhikarana 38 (134-140) · Śloka 140

वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्| स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः||१३४|| दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्| पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्||१३५|| जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च| तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्||१३६|| किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्| चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी||१३७|| कुटजत्वक्फलं मुस्तं यवानी देवदारु च| पटोलनिम्बपत्रैलासौराष्ट्रयतिविषात्वचः||१३८|| मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा| तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा||१३९|| हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्| कामलां सन्निपातं च मुखरोगांश्च नाशयेत्||१४०|| इति किराताद्यं चूर्णम्|

🔊 Audio coming soon

वचामित्यादौ स्योनाककट्वङ्गशब्दाभ्यां द्वावपि पृथुशिम्बाल्पशिम्बौ स्योनाकौ गृह्येते| तद्रोगशममन्विच्छन्निति भूनिम्बाद्युक्तग्रहणीदोषादिरोगशान्तिं काङ्क्षन्| भूनिम्बाद्येनेति भूनिम्बाद्युक्तद्रव्यगणेन यथोक्तमानेन योजयद् वचादीन्; अपरे तु भूनिम्बाद्येनेति वचनेनात्र भूनिम्बाद्युक्तगुडशीताम्बुपेयतामस्याप्यतिदिशतीति वदन्ति||१३४-१४०||

Adhikarana 39 (141-145) · Śloka 145

ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि| कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्||१४१|| पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्| पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम्||१४२|| कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्| पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत्||१४३|| शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः| कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत्||१४४|| अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा| मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा||१४५||

🔊 Audio coming soon

पानीयार्थं पानाय| कट्वम्लक्षारपटुनेति कट्वादियोगात् पटुना इन्द्रियोत्तेजकेनेत्यर्थः| कफग्रहण्यां सद्यस्कमेव यद्यपि कषायत्वात्तक्रमुचितं, तथाऽपि अग्निदीपनतया अम्लमेव तक्रं ‘अम्लं चानुपिबेत्’ इत्यनेनैवोक्तम्| निगदं सीधुमिति निर्दोषं सीधुम्||१४१-१४५||

Adhikarana 40 (146-151) · Śloka 151

द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धतः| चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम्||१४६|| मञ्जिष्ठाष्टपलं चैव त्रिद्रोणेऽपां विपाचयेत्| द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम्||१४७|| एलामृणालागुरुभिश्चन्दनेन च रूषिते| कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्||१४८|| ग्रहणीं दीपयत्येव बृंहणः कफपित्तजित्| शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत्||१४९|| इति मधूकासवः| मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्| क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत्||१५०|| तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः| तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत्||१५१||

🔊 Audio coming soon

अर्धक्षयीकृतमिति पाकादर्धावशिष्टं कृतम्| पूर्ववत्सन्निधापयेदिति एलादिलिप्ते कुम्भे संस्थापयेत्||१४६-१५१||

Adhikarana 41 (152-159) · Śloka 159

प्रस्थौ दुरालभाया द्वौ पस्थमामलकस्य च| दन्तीचित्रकमुष्टी द्वे प्रत्यग्रं चाभयाशतम्||१५२|| चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्| सगुडद्विशतं पूतं मधुनः कुडवायुतम्||१५३|| तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः| कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्||१५४|| ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्| स्वरवर्णकरश्चैष रक्तपित्तकफापहः||१५५|| इति दुरालभासवः| हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम्| एषां पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्||१५६|| द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्| चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान्||१५७|| प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्| लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम्||१५८|| एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्| आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत्||१५९|| इति मूलासवः|

🔊 Audio coming soon

दन्तीचित्रकमुष्टी द्वे इति चित्रकदन्त्योर्मिलित्वा द्विपलम्| तद्वदिति एलादिना लिप्तबृहत्कुम्भस्थम्||१५२-१५९||

Adhikarana 42 (160-162) · Śloka 162

प्रास्थिकं पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात्| उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत्||१६०|| तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्| पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः||१६१|| स्वस्थोऽप्येनं पिबेन्मासं नरः स्निग्धरसाशनः | इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिताः||१६२|| इति पिण्डासवः|

🔊 Audio coming soon

प्रास्थिकमित्यादौ पिप्पलीगुडबिभीतकमज्जानः प्रत्येकं प्रस्थमानाः| स्निग्धरसाशन इति स्नेहवन्मांसरसभोजनः||१६०-१६२||

Adhikarana 43 (163-167) · Śloka 167

नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते| मध्वाढकं जलसमं चूर्णानीमानि दापयेत्||१६३|| कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा| चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च||१६४|| त्वगेलापत्रकशटीक्रमुकातिविषाघनान्| हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्||१६५|| कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्| मन्दं सन्दपयत्यग्निं करोति विषमं समम्||१६६|| हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्| वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति||१६७|| इति मध्वरिष्टः|

🔊 Audio coming soon

नवे इत्यादौ त्वगेलादीनां कार्षिकत्वम्||१६३-१६७||

Adhikarana 44 (168-170) · Śloka 170

समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च| मातुलुङ्गाभयारास्नाशटीमरिचनागरम्||१६८|| कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना| श्लेष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम्||१६९|| एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते| गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत्||१७०||

🔊 Audio coming soon

समूलां पिप्पलीमिति पिप्पलीं पिप्पलीमूलं च| भल्लातकघृतं च गुल्मोक्तमिति ज्ञेयम्||१६८-१७०||

Adhikarana 45 (171-178) · Śloka 178

बिडं कालोत्थलवणं सर्जिकायवशूकजम्| सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत्||१७१|| सप्तकृत्वः स्रुतस्यास्य क्षारस्य द्व्याढकेन तु| आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम्||१७२|| इति क्षारघृतम्| समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्| चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम्||१७३|| वचां च कार्षिकं पञ्चलवणानां पलानि च| दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये||१७४|| खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे| अन्तर्धूमं ततो दग्धवा चूर्णं कृत्वा घृताप्लुतम्||१७५|| पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः| वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः||१७६|| भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्| अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्||१७७|| स क्षारः सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णितः| हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत्||१७८||

🔊 Audio coming soon

बिडं कालोत्थलवणमिति बिडं बिडलवणं, काललवणं तु सौवर्चललवणमित्यर्थः| खण्डीकृतानीति खण्डं खण्डं कृतानि| अनुगते रसे इति निपीते द्रवे| पाणितलमिति कर्षः| मधुराशनत्वमिह क्षारप्रयोगाभिच्छेदकत्वहन्तृतया यौगिकत्वाज्ज्ञेयम्||१७१-१७८||

Adhikarana 46 (179-180) · Śloka 180

दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्| षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा||१७९|| गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्| दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम्||१८०||

🔊 Audio coming soon

गोमूत्रेण समांशानीति गोमूत्रेण मिलितं चूर्णं तुल्यम्| अस्य च पानं पूर्वक्षारवत् सर्पिषा ज्ञेयम्||१७९-१८०||

Adhikarana 47 (181-182) · Śloka 182

भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्| दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धनः||१८१|| द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी| मुस्तं च बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धनः||१८२||

🔊 Audio coming soon

माहिषमूत्रेणेत्यादौ चूर्णसमत्वं माहिषमूत्रस्य, पूर्वप्रयोगदृष्टत्वात्||१८१-१८२||

Adhikarana 48 (183-187) · Śloka 187

चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्| वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले||१८३|| दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः| भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः||१८४|| विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः| इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता||१८५|| इति क्षारगुडिका| वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्| चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्||१८६|| आयसे भाजने सान्द्रात्तस्मात् कोलं सुखाम्बुना| मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्||१८७|| इति चतुर्थक्षारः|

🔊 Audio coming soon

चतुष्पलमित्यादौ, ‘चतुष्पलं सुधाकाण्डात्त्रिफलालवणानि च’ इति ये पठन्ति, ते त्रिफलालवणैर्मिलित्वा चतुष्पलं वदन्ति| दग्धानि वार्ताकुरसे इति क्षारीभूतानि पुनर्वार्ताकुरसे गुटिकाः कर्तव्याः||१८३-१८७||

Adhikarana 49 (188-193) · Śloka 193

त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः| रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८|| मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्| विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ||१८९|| मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च| कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्||१९०|| भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्| अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्||१९१|| सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्| प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्||१९२|| शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्| हन्यात् सर्वविषं चैव क्षारोऽग्निजननो वरः||१९३|| जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वा| इति पञ्चमक्षारः|

🔊 Audio coming soon

त्रिफलामित्यादौ मुष्ककं घण्टापाटलकम्| घृततैलेनेत्यत्र दधिसाहचर्याद्घृततैलस्यापि मिलितस्य कुडवत्रयम्||१८८-१९३||-

Adhikarana 50 (194-195) · Śloka 196

त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्||१९४|| घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्| क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति||१९५|| व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्|१९६|

🔊 Audio coming soon

त्रिदोषे पञ्चकर्माणीत्यत्र शिरोविरेचनस्यायौगिकत्वेऽप्यत्र भूयसां कर्मणां यौगिकत्वात् पञ्चकर्माणीति कृतं, किंवा शिरोरोगादिसद्भावे शिरोविरेचनमप्यत्र देयमेव| व्यत्यासात्तां समस्तां चेति उक्तवातादिक्रियां व्यत्यासादेकैकदोषक्रियापरिवर्तनेन कुर्यात्, किंवा मिलितैरपि क्रिया एककालं कर्तव्या; क्रियामेलनं च वातादिद्रव्यमेलनादेव भवति||१९४-१९५||-

Adhikarana 51 (196-197) · Śloka 198

स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत्||१९६|| चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः| विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम्||१९७|| ग्रहणीरोगिभिः सेव्याः, ...|१९८|

🔊 Audio coming soon

स्नेहनमित्यादिना ग्रहणीदोषभेषजं सङ्कलय्याह||१९६-१९७||-

Adhikarana 52 (198-200) · Śloka 201

... क्रियां चावस्थिकीं शृणु| ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम्||१९८|| सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्| परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम्||१९९|| दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्| बहुवातस्य तु स्नेहलवणाम्लयुतं हितम्||२००|| सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः|२०१|

🔊 Audio coming soon

क्रियां चावस्थिकीमिति ग्रहणीदोष एव अवस्थाविशेषे कर्तव्यां क्रियां शृणु| सकृद्रूक्षं सकृत्स्निग्धं कृश इति यदि रूक्षमेव क्रियते तदा कृशस्य बलहानिः स्यात्, अथ स्निग्धमेव क्रियते तदा बहुकफे कफवृद्धिः स्यात्, तेनोभयापेक्षया अन्तरा रूक्षमन्तरा च स्निग्धं कर्तव्यमित्यर्थः| स्नेहलवणाम्लयुतमिति दीपनमित्यर्थः| सन्धुक्षति विधिवदिन्धनैरिति यथाविधानदीपित इत्यर्थः||१९८-२००||-

Adhikarana 53 (201-205) · Śloka 205

स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्||२०१|| नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि| मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते||२०२|| दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः| तया समानः पवनः प्रसन्नो मार्गमास्थितः||२०३|| अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्| काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः||२०४|| सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्| रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम्||२०५||

🔊 Audio coming soon

उक्तानुक्तस्नेहफलमवधारयन्नाह- स्नेहमेवेत्यादि| परमिति श्रेष्ठम्| स्नेहस्य दीपनश्रेष्ठत्वे हेतुमाह- नालमित्यादिना| नालमिति न समर्थम्| स्नेहसमिद्धस्येति स्नेहदीप्तस्य| स्नेहशब्देनात्र सामान्यवाचिना सर्पिरेवोच्यते, सर्पिष एवात्राधिकारात्| मन्दाग्निरित्यादौ अविपक्वमिति पुरीषविशेषणं; तेनाविपक्वशब्देनेह रसामस्य ग्रहणं न भवति, रसामे “जठरामगरार्दिताः” (सू.अ.१३) इत्यत्र स्नेहो निषिद्धः, स्नेहापक्वपुरीषं प्रति स्नेहप्रयोगो विरुद्ध एव; किञ्च दीपनीयौषधसंस्कारादपि स्नेहस्य संस्कारगुणाविघातादेव अपक्वपुरीषं प्रति हितत्वं भवति; स्नेहांशस्तु वातप्रगुणताकरणत्वेन सहायतया उपादीयते, अत एवोक्तं- तया समान इत्यादि| प्रसन्न इति दुष्टिविरहतः| मार्गमास्थित इति स्वाभाविकमार्गमापन्नः| समीपचारित्वादिति प्रसन्नत्वादिगुणयोगे सति अग्निपार्श्वस्थितत्वाद्बलमेव वह्नेः करोति न वैषम्यम्, अग्निदीप्तिकरत्वस्वभावादित्यर्थः| अन्नावग्रहमिति अन्नेनावग्रहोऽस्येति अन्नावग्रहः; अन्नमध्यप्रयुक्तमित्यर्थः||२०१-२०५||

Adhikarana 54 (206-210) · Śloka 211

अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः| भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः||२०६|| उदावर्तात्तु मन्देऽग्नौ निरूहाः स्नेहबस्तयः| दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत्||२०७|| व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्| उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद्घृतम्||२०८|| अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्| दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्||२०९|| प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्| लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम्||२१०|| मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणाः|२११|

🔊 Audio coming soon

अतिस्नेहान्मन्देऽग्नौ सति चूर्णारिष्टादीनि योज्यानि| भिन्ने इति विशिष्टगुदोपलेपादग्नौ मन्दे, तैलसुरासवा देया इति वाक्यार्थः| दोषविधिं चरेदिति अग्निमान्द्यकारकदोषौषधविधिं कुर्यात्| अन्नावपीडितं यथा भवति तथा यवागूभिर्घृतं पिबेत्; अन्नावपीडितं च मध्यभोजनपीतं घृतं भवति| दीर्घकालेत्यादौ क्षामो व्यवसायशून्यः , क्षीणो दुर्बलः, कृशो हीनमांसः| प्रसहानां द्वैविध्यान्मांसाशिनामिति विशेषणं, तेन तृणादप्रसहानां गवादीनां निषेधः| ननु प्रसहाः “गुरूष्णस्निग्धमधुरा” (सू.अ.२७) इत्यन्नपाने उक्तं, इह तु लघुतीक्ष्णेत्यादिना कथं लाघवमुच्यते तेषां? मैवं, भोजयेल्लघ्विति योजनात्; तेन प्रसहानां मध्ये ये लघवस्तेषां रसेनात्र लघ्वन्नं भोजयेत्| तीक्ष्णेत्यादिना प्रसहगुणाभिधानम्| अन्ये तु प्रसहान्तरापेक्षया ये प्रसहा लघवस्तेषमिह लघुशब्देनोपादानम्, तथाऽन्ये अम्लादियोगात् संस्कारेणेह लाघवं साधयन्ति; एतेन राजयक्ष्मचिकित्सितेऽपि प्रसहगुणास्तीक्ष्णोष्णलघुत्वादय उक्तास्ते न्याय्या एव||२०६-२१०||-

Adhikarana 55 (211-216) · Śloka 217

नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्||२११|| यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः| स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः ||२१२|| सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते| यथा हि सारदार्वग्निः स्थिरः सन्तिष्ठते चिरम्||२१३|| स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः| हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते||२१४|| अवैषम्येण धातूनामग्निवृद्धौ यतेत ना| समैर्दोषैः समो मध्ये देहस्योष्माऽग्निसंस्थितः||२१५|| पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये| दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान्||२१६|| वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते|२१७|

🔊 Audio coming soon

नाभोजनेनेत्यादिना अभोजनातिभोजननिरासं कृत्वाऽन्नसम्यक्प्रयोगस्याग्निजनकतामाह| अभोजनेनेत्यनेनाभोजनमल्पभोजनं च गृह्यते| अल्पो वा अतीन्धनावृतो वा न दीप्यते इति योजना| सारदार्वग्निरिति सारदार्वाश्रयोऽग्निः सारदार्वग्निः| स्नेहवदन्नं स्नेहान्नम्| मितमिति मात्रावत्, यद्यपि च हितमिताशिनोऽपि कालविपर्ययादिना रोगा भवन्त्येव, तथाऽपि हितमिताशिनां नाहारजरोगोत्पत्तिर्भवतीति दर्शयति| चिरमारोग्यमश्नुते इति आहारजरोगं न प्राप्नोतीति भावः| अवैषम्येण धातूनामिति धातुसाम्येन क्रियमाणायामग्निवृद्धौ यतेत; एतेन दोषवैषम्येण पित्तोद्रेकरूपेण याऽग्निवृद्धिरत्यग्निरूपा, तां निषेधयति| समैरित्यादिनाऽग्निभेदान् समाग्निपरिपालनार्थमाह| मध्ये इति नातिसमीपे| अग्निसञ्ज्ञित इति भाषया ऊष्मारूपे जाठराग्नौ बाह्याग्निना साम्यं निषेधयति| दोषैरिति सामान्योक्तेऽपि योग्यतया कफपित्तवातैर्यथाक्रममेव मन्दतीक्ष्णविषमत्वानि ज्ञेयानि| वाच्यमिति प्रतिक्रियार्थं वचनीयं चिकित्सितमिति यावत्||२११-२१६||-

Adhikarana 56 (217-234) · Śloka 235

नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्||२१७|| स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति| तदा लब्धबलो देहे विरूक्षे सानिलोऽनलः||२१८|| परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः| पक्त्वाऽन्नं स ततो धातूञ्छोणितादीन् पचत्यपि||२१९|| ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्| भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति||२२०|| तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः| तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः||२२१|| अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः| मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्||२२२|| निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्| पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्||२२३|| अद्यात्तथौदकानूपपिशितानि भृतानि च| मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा||२२४|| आविकं च भृतं मांसमद्यादत्यग्निनाशनम् | यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्||२२५|| गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्| पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्||२२६|| फलानां तैलयोनीनामुत्क्रुञ्चाश्च सशर्कराः| मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा||२२७|| पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्| गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः||२२८|| आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्| पयसा सम्मितं चापि घनं त्रिस्नेहसंयुतम्||२२९|| नारिस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्| ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये||२३०|| श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्| असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्||२३१|| प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्| यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्||२३२|| सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा| मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः समश्नुते||२३३|| न तन्निमित्तं व्यसनं लभते पुष्टिमेव च| कफे वृद्धे जिते पित्ते मारुते चानलः समः||२३४|| समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये|२३५|

🔊 Audio coming soon

पित्तं पावकस्थाने कुपितमिति सम्बन्धः| तच्च पित्तं मारुतानुगतत्वादत्यग्निकरं भवति; एवं धर्मभेदाद्विरुद्धकार्यकरं ज्ञेयम्| पित्तोष्मरूपस्यापि च बह्नेः प्रादेशिकपित्तोष्मणो हानिजनकत्वं जन्यजनकयोर्भेदत्वादुपपन्नमेव ज्ञेयम्| स्थिरतोयचरानित्यनेन स्थिरतोयचारिणां निष्क्रियतया गौरवातिशयं दर्शयति| तिलवातामादीनां दृषदि पिष्टानामुष्णोदकमृदिता पिण्डा उत्क्रुञ्चा उच्यन्ते, ‘उत्कारिका’ इत्यन्ये| घनं त्रिस्नेहसंयुतमित्यत्र घनशब्देन दध्युच्यते| पायसेन प्रतिभोजनं यस्मिन् पित्तहरणे तत् पायसप्रतिभोजनम्| मेद्यमिति मेदुरं मेदोजनकं वा| अप्रतान्त इति अबुभुक्षितः| व्यसनं मरणमित्यर्थः | पुष्टिमेव च लभते इति योज्यम्||२१७-२३४||-

Adhikarana 57 (235-243) · Śloka 243

भवन्ति चात्र- पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्||२३५|| विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः| भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्||२३६|| त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा| प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति||२३७|| दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्| तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः||२३८|| व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः| न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः||२३९|| अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति| अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्||२४०|| नैव दूष्यति तेनैव समं सम्पद्यते यथा| रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च| यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः||२४१|| क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति| विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्||२४२|| नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्| तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी||२४३||

🔊 Audio coming soon

सम्प्रति प्रागुक्तसमशनादिलक्षणमाह- पथ्यापथ्यमित्यादि| पथ्यापथ्यं किञ्चिदेकत्र मिलितं, यथा- रक्तशाल्यन्नं यवकान्नं च मिलितम्| बहुभुक्तमल्पभुक्तं वा तथाऽप्राप्तमतीतकालं च भुक्तं विषममुच्यते| पूर्वान्नेत्यादि दिवा भुक्तस्योपरि तदहरेव पुनर्भुज्यते तदध्यशनं; तन्निषेधयन्नाह- प्रातराशे इत्यादि| अशनमाशो भोजनमित्यर्थः| कस्मान्न दूष्यतीत्याह- दिवेत्यादि| स्फुटत्वमिति विवृतत्वं, विवृतत्वाच्च स्रोतसां स्रोतोभिर्वहनेन रसोऽव्याहतगतिर्भवति, ततश्च न क्लेदं स्रोतांसि यान्ति; तथा व्यायामादिभिश्च शोष्यमाणानि न क्लेदमुपयान्ति स्रोतांसि| व्यायामो गमनादिः, विहारः अङ्गक्षेपणादिका चेष्टा| स्रोतोऽक्लेदे किं भवतीत्याह- अक्लिन्नेष्वित्यादि| आसिक्तमिति प्रक्षिप्तम्| अविदग्धे इत्यादिनाऽत्र दृष्टान्तमाह| म्लाने इति सङ्कुचिते| अपक्वेष्विति अन्येषु| उपसंहरति- नैशेष्वित्यादिना| नान्यत् समश्नीयादिति योजना||२३५-२४३||

Adhikarana 58 (244-249) · Śloka 249

तत्र श्लोकाः- अन्तरग्निगुणा देहं यथा धारयते च सः| यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४|| येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्| रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५|| वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः| रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६|| प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि| ग्रहणी या यथा यच्च ग्रहणीदोषलक्षणम्||२४७|| पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्| चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८|| जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्| उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||

🔊 Audio coming soon

अन्तरग्निरित्यादिना अध्यायसङ्ग्रहं ब्रूते| येऽग्नय इति ‘भौमाप्याग्नेय ...’ इत्यादिनोक्ताः| यांश्चेति ‘पञ्चाहारगुणान्’ इत्याद्युक्तमर्थं सङ्गृह्णाति| पुष्यन्ति यावन्त इति ‘यथास्वं स्वं’ इत्याद्युक्तं सङ्गृह्णाति| ये पचन्ति यानिति ‘सप्तभिर्देहधातारः’ इत्याद्युक्तसङ्ग्रहः| आशुकारित्वेन हेतुना आशुकृद्धेतुः| शेषं व्यक्तम्||२४४-२४९||

Adhikarana puShpikA · Śloka 15

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपकायां चिकित्सास्थाने ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||