Adhikarana 1 (1-2) · Śloka 2
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अग्निबलहानिसामान्याद् ग्रहणीदोषचिकित्सितमनु अतीसारचिकित्सिते वक्तव्ये उपोद्घातायातैः पाण्डुरोगादिभिर्व्यवधानं कृतं, सम्प्रति तु यथोक्तोपोद्घातायातपाण्डुरोगादीनभिधाय प्रकृतमेवातीसारचिकित्सितमुच्यते||१-२||
Adhikarana 2 (3) · Śloka 3
भगवन्तं खल्वात्रेयं कृताह्निकं हुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्याभिवाद्य चाग्निवेश उवाच- भगवन्! अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि प्रजानुग्रहार्थमाख्यातुमर्हसीति||३||
प्रागुत्पत्तिरिति प्राक्कालोत्पत्तिः||३||
Adhikarana 3 (4) · Śloka 4
अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच- श्रूयतामग्निवेश! सर्वमेतदखिलेन व्याख्यायमानम्|
आदिकाले खलु यज्ञेषु पशवः समालभनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म|
ततो दक्षयज्ञं प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनां क्रतुषु पशूनामेवाभ्यनुज्ञानात् पशवः प्रोक्षणमवापुः|
अतश्च प्रत्यवरकालं पृषध्रेण दीर्घसत्रेण यजता पशूनामलाभाद्गवामालम्भः प्रवर्तितः|
तं दृष्ट्वा प्रव्यथिता भूतगणाः, तेषां चोपयोगादुपाकृतानां गवां गौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां चातीसारः पूर्वमुत्पन्नः पृषध्रयज्ञे||४||
आदिकाले इति कृतयुगे| समालभनीया इति मन्त्रेण अभिमन्त्र्यैव परित्याज्या बभूवुः; न आलम्भार्थं प्रक्रियन्ते स्म इति आलम्भाय मारणाय न प्रक्रियन्ते स्म न संस्क्रियन्ते स्म इत्यर्थः| नरिष्यन्नाभागादिमनुपुत्रेष्वेकमेव मनुपुत्रमुदाहार्य यद्यादिशब्दः क्रियते तदा तेषां क्वचिदन्यत्र समुदायेन पाठात् बुद्धिभ्रमः स्यात्, तेन साक्षाज्ज्ञानार्थं कतिपये पठिताः; अपठिताश्चादिशब्देन प्रकारवाचिना इतिहासज्ञानार्थं पुराणेषून्नेयाः| पशूनामभ्यनुज्ञानादिति पशूनामेव प्रेरणया; प्रेरणा चैषां विशिष्टापूर्वोत्पादार्थमेवोच्यते आगमेषु- ‘क्रत्वर्थहिंसायां वधकवध्ययोरुभयोरपि महत्पुण्यमुत्पद्यते’ इति; किंवा पशूनामेवाभ्यनुज्ञानादिति वेदे पशूनां वध्यत्वेनाभ्यनुज्ञानात्| प्रोक्षणमिति विधिपूर्वकं मारणम्| पृषध्रः राजविशेषः| दीर्घसत्रेणेति दीर्घकालनिर्वर्त्येन| व्यथिता इति अदृष्टपूर्वं गवां वधं दृष्ट्वा दुःखिताः सन्तः| उपाकृतानामिति अभिमन्त्र्य हतानाम्| उक्तं हि- “उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः” इति| अनेन च प्रागुत्पत्तिनिदर्शनेन मानसोपघातो गुर्वादिसेवा चातीसारकारणं भवतीत्युपदर्श्यते||४||
Adhikarana 4 (5) · Śloka 5
अथावरकालं वातलस्य वातातपव्यायामातिमात्रनिषेविणो रूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्च वेगान् वायुः प्रकोपमापद्यते, पक्ता चोपहन्यते; स वायुः कुपितोऽग्नावुपहते मूत्रस्वेदौ पुरीषाशयमुपहृत्य, ताभ्यां पुरीषं द्रवीकृत्य, अतीसाराय प्रकल्पते|
तस्य रूपाणि- विज्जलमामं विप्लुतमवसादि रूक्षं द्रवं सशूलमामगन्धमीषच्छब्दमशब्दं वा विबद्धमूत्रवातमतिसार्यते पुरीषं, वायुश्चान्तःकोष्ठे सशब्दशूलस्तिर्यक् चरति विबद्ध इत्यामातिसारो वातात्|
पक्वं वा विबद्धमल्पाल्पं सशब्दं सशूलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिःश्वसञ् शुष्कमुखः कट्यूरुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विग्रथितमुपवेश्यते पुरीषं वातात्; तमाहुरनुग्रथितमित्येके, वातानुग्रथितवर्चस्त्वात्||५||
अथेत्यादिना वातातीसारादीनां पृथङ्निमित्तलक्षणे ब्रूते| वातलस्येत्यनेन वातप्रकृतिं प्राप्य वातातपादीनां वातातीसारजनने सामर्थ्यातिशयो दर्श्यते; तेनान्यप्रकृतेरपि वातातपादयोऽतीसारस्य कारणं भवन्तीति ज्ञेयम्| एवं पित्तलश्लेष्मलशब्दयोरपि तात्पर्यं व्याख्येयम्| प्रमिताशनम् अतीतकालाशनम्| वेगानुदावर्तयत इति उद्वृत्तमावर्तयतो वेगानित्यर्थः| पुरीषाशयमुपहृत्येति पक्वाशयं नीत्वा| ताभ्यामिति मूत्रस्वेदाभ्याम्| तस्य रूपाणीत्यादिना आमवातातीसारलक्षणमाह| आममिति आमानुगतम् | विप्लुतमिति प्रसरणशीलम्| अवसादीति भूमौ पतितं लीनं भवति| पक्वं वेत्यादिना पक्ववातातिसारमाह| विनिःश्वसिन्निति शब्दं कुर्वन्| तमाहुरनुग्रथितमिति विग्रथितपुरीषातिसारावस्थां प्राप्तं वातातिसारम्| वातग्रथितवर्चस्त्वादित्यनेन यत्र पक्ववातातिसारेऽपि वातानुग्रथितवर्चस्त्वं न भवति नासावनुग्रथितसञ्ज्ञ इति दर्शयति||५||
Adhikarana 5 (6) · Śloka 6
पित्तलस्य पुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणः प्रतताग्निसूर्यसन्तापोष्णमारुतोपहतगात्रस्य क्रोधेर्ष्याबहुलस्य पित्तं प्रकोपमापद्यते|
तत् प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरीषाशयविसृतमौष्ण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा पुरीषमतिसाराय प्रकल्पते|
तस्य रूपाणि- हारिद्रं हरितं नीलं कृष्णं रक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते पुरीषं, तृष्णादाहस्वेदमूर्च्छाशूलब्रध्नसन्तापपाकपरीत इति पित्तातिसारः||६||
पित्तलस्येत्यादिना पित्तातिसारमाह| द्रवत्वादूष्माणमुपहत्येति यद्यपि पित्तमुष्णमग्नेः समानतया वर्धकं भवतीति युज्यते, तथाऽपि द्रवत्वादूष्माणमग्निरूपं हन्तीत्यर्थः| पुरीषाशयविसृतमिति पुरीषाशयगतं पित्तम्| ब्रध्नः गुदः||६||
Adhikarana 6 (7) · Śloka 7
श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः सम्पूरकस्याचिन्तयतो दिवास्वप्नपरस्यालसस्य श्लेष्मा प्रकोपमापद्यते|
स स्वभावाद् गुरुमधुरशीतस्निग्धः स्रस्तोऽग्निमुपहत्य सौम्यस्वभावात् पुरीषाशयमुपहत्योपक्लेद्य पुरीषमतिसाराय कल्पते|
तस्य रूपाणि- स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धं श्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यते सप्रवाहिकं, गुरूदरगुदबस्तिवङ्क्षणदेशः कृतेऽप्यकृतसञ्ज्ञः सलोमहर्षः सोत्क्लेशो निद्रालस्यपरीतः सदनोऽन्नद्वेषी चेति श्लेष्मातिसारः||७||
श्लेष्मलस्येत्यादिना श्लेष्मातिसारमाह| सम्पूरकस्येति अतिमात्राशनशीलस्य| श्लेष्मणोऽग्न्युपघाते हेतुमाह- सौम्यस्वभावादिति; सौम्यस्याग्नेर्विरुद्धत्वादुपघातं करोतीति युक्तमेवेति भावः| पुरीषाशयमुपहत्येति पुरीषाशयं गत्वा, हन्तेर्गतिहिंसार्थकत्वादत्र गत्यर्थता; किंवा पुरीषाशयशब्देन स्थानेन स्थानिन उपचारात् पुरीषमेवोच्यते, यथा- ‘मञ्चाः क्रोशन्ति’ इतिवत्, ततश्च पुरीषमुपहत्येति सम्बन्धः| कृतेऽप्यकृतसञ्ज्ञ इति कृतेऽपि वेगे न वेगं कृतं बुध्यत इत्यर्थः| अत्र च पित्तातिसारे श्लेष्मातिसारे च सामतालक्षणं यद्यपि नोक्तं, तथाऽपि सामवातातीसारसम्बन्धकृतविज्जलत्वामगन्धित्वप्रकारैर्लक्षणैस्तयोरप्यामातिसाररूपाऽवस्था ज्ञेयैव| तथाहि चिकित्सावसरे ‘पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयं विदित्वा’ इत्यादिनाऽऽमातिसारे पृथक् चिकित्सां वक्ष्यति, श्लेष्मातिसारे तु सामे निरामे च रूक्षोष्णादिरूपा चिकित्सा समानैवेति कृत्वा पृथगामश्लेष्मातीसारचिकित्सा नोक्ता; क्षारपाणिना सर्वातिसाराणामेव सामता पृथगुक्ता; वचनं हि- “वातातिसारः सामश्च सशूलः फेनिलस्तनुः| श्यावः सशब्दो दुर्गन्धो विबद्धोऽल्पाल्प एव च|| एवं पित्तकफे साममतीसारं विनिर्दिशेत्” इति| अत्रापि प्रासृतयोगिकायां सिद्धौ (सि.अ.८) सर्वदोषाणामेवामसम्बन्धात् पृथग्भेदा उक्ताः||७||
Adhikarana 7 (8) · Śloka 8
अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनादभोजनात् कालातीतभोजनाद् यत्किञ्चिदभ्यवहरणात् प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात् प्रतिकर्मणां विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनादस्वप्ना- दतिस्वप्नाद्वेगविधारणादृतुविपर्ययादयथाबलमारम्भाद्भयशोकचित्तोद्वेगातियोगात् कृमिशोषज्वरार्शोविकारातिकर्षणाद्वा व्यापन्नाग्नेस्त्रयो दोषाः प्रकुपिता भूय एवाग्निमुपहत्य पक्वाशयमनुप्रविश्यातीसारं सर्वदोषलिङ्गं जनयन्ति||८||
अतिशीतेत्यादिना त्रिदोषजातीसारमाह| अत्र च शीतादीनां यथासम्भवं वातादिकर्तृत्वं ज्ञेयं; किंवा सर्वेषामेव त्रिदोषकर्तृत्वं ज्ञेयम्| उक्तं हि- “शमप्रकोपौ सर्वेषां दोषाणामग्निसंश्रितौ” (चि.अ.५) इति| यत्किञ्चिदभ्यवहरणादिति पथ्यापथ्यभोजनात्| अनुपचारादिति प्रतिकर्मणामेवासम्यगुपचारादित्यर्थः| सलिलातिसेवनादित्यत्र अवगाहादिना बाह्यसेवनं सलिलस्योच्यते, अतिपानं तु प्रागेवोक्तम्| व्यापन्नाग्नेरिति वचनाद्यथोक्तहेतूनामग्निवधद्वारैव प्रायस्त्रिदोषकर्तृत्वं दर्शयति||८||
Adhikarana 8 (9) · Śloka 9
अपि च शोणितादीन् धातूनतिप्रकृष्टं दूषयन्तो धातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति|
तत्र शोणितादिषु धातुष्वतिप्रदुष्टेषु हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशं रक्तं कृष्णं श्वेतं वराहभेदःसदृशमनुबद्धवेदनमवेदनं वा समासव्यत्यासादुपवेश्यते शकृद् ग्रथितमामं सकृत्, सकृदपि पक्वमनतिक्षीणमांसशोणितबलो मन्दाग्निर्विहतमुखरसश्च; तादृशमातुरं कृच्छ्रसाध्यं विद्यात्|
एभिर्वर्णैरतिसार्यमाणं सोपद्रवमातुरमसाध्योऽयमिति प्रत्याचक्षीत; तद्यथा- पक्वशोणिताभं यकृत्खण्डोपमं मेदोमांसोदकसन्निकाशं दधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छं पुनर्मेचकाभमतिस्निग्धं हरितनीलकषायवर्णं कर्बुरमाविलं पिच्छिलं तन्तुमदामं चन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धि मक्षिकाकान्तं कुथितबहुधातुस्रावमल्पपुरीषमपुरीषं वाऽतिसार्यमाणं तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनं वा स्रस्तपक्वगुदं पतितगुदवलिं मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसम्मोहपरीतं सहसोपरतविकारमतिसारिणमचिकित्स्यं विद्यात्; इति सन्निपातातिसारः||९||
अपिचेत्यादिना विकृतिविषमसमवायारब्धत्रिदोषजलक्षणमाह| अतिप्रकृष्टं प्रदूषयन्त इति अतिप्रकृष्टं यथा भवति तथा प्रदूषयन्त इत्यर्थः| मांसधावनं मांसप्रक्षालनोदकम्| समासव्यत्यासादुपवेश्यत इति समासः यथोक्तलक्षणानां मेलकः, व्यत्यासः अमेलकः| सकृदिति कदाचित्| विगतरसं मुखं यस्य स विरसमुखः| एभिः वक्ष्यमाणैः| वेसवाराभं वेसवारसदृशं; तल्लक्षणं च “निरस्थि पिशितं पिष्टं” (सु.सू.अ.४६) इत्यादिनोक्तम्| मेचकाभमिति स्निग्धकृष्णम्| मक्षिकाकान्तमिति मक्षिकाप्रियं, ‘मक्षिकाक्रान्तं’ इति पाठे पक्षिकापरीतमित्यर्थः| तृष्णेत्यादिना सोपद्रवमित्यनेन सूचितानुपद्रवानाह| मुक्तनालमिति मुक्तगुदम्| सहसोपरतविकारत्वं यद्यपि रिष्टे संशयितमरणमुक्तं, तथाऽपीहातीसारं प्राप्य निश्चितमरणज्ञापकतयोच्यते||९||
Adhikarana 9 (10) · Śloka 10
तमसाध्यतामसम्प्राप्तं चिकित्सेद् यथाप्रधानोपक्रमेण हेतूपशयदोषविशेषपरीक्षया चेति||१०||
यथाप्रधानोपक्रमेणेति दोषत्रये यः प्रधानो भवति तस्योपक्रमेणेत्यर्थः| हेत्वादिपरीक्षा चेहोत्तरकालभाविनी, तेनात्र विशिष्टा चिकित्सैवोच्यते||१०||
Adhikarana 10 (11) · Śloka 11
आगन्तू द्वावतीसारौ मानसौ भयशोकजौ|
तत्तयोर्लक्षणं वायोर्यदतीसारलक्षणम्||११||
आगन्तू इत्यादिना भयशोकजावतीसारौ प्राह| आगन्तू इति आगन्तुहेतुजनितभयशोकजौ| मानसाविति मानसदोषभयशोकजनितौ| एतेन मानसत्वमागन्तुत्वं चानयोर्न विरोधि भवति| अनयोर्लक्षणमतिदेशेनाह- तत्तयोर्लक्षणमित्यादिना||११||
Adhikarana 11 (12-13) · Śloka 13
मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति|
तयोः क्रिया वातहरी हर्षणाश्वासनानि च||१२||
इत्युक्ताः षडतीसाराः, साध्यानां साधनं त्वतः|
प्रवक्ष्याम्यनुपूर्वेण यथावत्तन्निबोधत||१३||
कस्मात् पुनर्वातातिसारलक्षणमनयोर्भवतीत्याह- मारुत इत्यादि| यस्माद् भयशोकजनितोऽत्र मारुतः कारणं भवति, तस्माद्वातातीसारलक्षणानि भवन्तीति युक्तमित्यर्थः| न चानयोर्वातजन्यत्वेन वातजलक्षणयुक्तत्वेन वातजेनैव ग्रहणमस्त्विति वाच्यं; यतोऽनयोर्वातजाद्भिन्नाऽपि चिकित्सा भविष्यति हर्षणाश्वासनरूपा, चिकित्साभेदार्थमेव व्याधीनां भेदोऽभिधीयते| किञ्च, लक्षणभेदोऽप्यत्र ‘मारुतः शीघ्रं हि परिकुप्यति’ इत्यनेनोक्तः| यतो भयशोकजेऽतीसारे शीघ्रकारी वायुर्भवतीति शीघ्रं कुप्यतीति पदेनोच्यते; तेन निदानानन्तरं झटिति उत्पाद एवात्र विशिष्टमपि लक्षणम्| सन्निपातातिसारे भयशोकौ कारणत्वेनोक्तौ, तौ हि हेत्वन्तरसहितौ तत्र कारणं भवत इति नैककारणता त्रिदोषजभयशोकजानाम्| भयशोकजयोश्च यद्यपि तुल्यं लक्षणमिहोक्तं, तथाऽपि चिकित्साभेदात्तयोर्भेद उक्तः; तथाहि- भयजे आश्वासनं, शोकजे हर्षणमिति चिकित्साभेदः| सुश्रुते तु- “तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः” (सु.उ.त.अ.४०) इत्यादिना शोकजः प्रबन्धेनोक्तः, स इहोक्तशोकजादन्य एव विशिष्टहेतुजन्यः, इह त्वसौ सान्निपातिकेऽवरुद्धो ज्ञेयः| तथाहि- तत्र बाष्पोष्मणोऽपि कारणत्वमुक्तं, तेन शोकानशनतो वायुः बाष्पोष्मणा च पित्तकफावपि तत्र कारणत्वेन दर्शितौ, अत एव च तस्यासाध्यत्वमपि तत्रोक्तम्; अत्रापि च त्रिदोषजे शोकोऽपि कारणत्वेनोक्तः| यस्तु सुश्रुते “अन्नाजीर्णात् प्रद्रुताः” (सु.उ.त.अ.४०) इत्यादिनाऽजीर्णजः पृथगुक्तः, तस्येहोक्तत्रिदोषजेऽवरोधो व्यक्त एव; यतस्तत्रैव ‘दोषाः’ इति बहुवचनेन अन्नाजीर्णस्य त्रिदोषकारणत्वमुक्तं, इहापि च ‘व्यापन्नेऽग्नौ’ इत्यनेन अग्निमान्द्यजनिताजीर्णस्य त्रिदोषजातिसारे कारणत्वमुक्तमेव; तेन सुश्रुतोक्तसर्वातिसारावरोधोऽत्र ज्ञेयः||१२-१३||
Adhikarana 12 (14-19) · Śloka 19
दोषाः सन्निचिता यस्य विदग्धाहारमूर्च्छिताः|
अतीसाराय कल्पन्ते भूयस्तान् सम्प्रवर्तयेत्||१४||
न तु सङ्ग्रहणं देयं पूर्वमामातिसारिणे|
विबध्यमानाः प्राग्दोषा जनयन्त्यामयान् बहून्||१५||
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा|
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्||१६||
तस्मादुपेक्षेतोत्क्लिष्टान् वर्तमानान् स्वयं मलान्|
कृच्छ्रं वा वहतां दद्यादभयां सम्प्रवर्तिनीम्||१७||
तया प्रवाहिते दोषे प्रशाम्यत्युदरामयः|
जायते देहलघुता जठराग्निश्च वर्धते||१८||
प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम्|
लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम्||१९||
दोषाः सन्निचिता इत्यादिना चिकित्सामाह| विदग्धशब्देनात्रापक्वाहारवाचिना चतुर्विधमप्यामं, विदग्धं, विष्टब्धं, रसशेषं चाजीर्णं गृह्यते| सम्प्रवर्तयेदित्यनेन प्रवर्तमानस्योपेक्षया प्रवर्तनं, तथा स्तोकं वहतां विरेचनयोगात् प्रवर्तनं; यद्वक्ष्यति- ‘कृच्छ्रं वा वहतां दद्यादभयां सम्प्रवर्तिनीम्’ इति| न तु सङ्ग्रहणं पूर्वं देयमामातिसारिणे इत्यत्र पूर्वमिति विशेषणेनोत्तरकालं देयमामातीसारे सङ्ग्रहणं दर्शयति| प्रथमं चामातीसारस्योपेक्षया विरेचनदानेन प्रवर्तनमुक्तमिति विरोधे इयं व्यवस्था- यत् प्रवृद्धे आमे बलवति च पुरुषे प्रवर्तनमेव कर्तव्यं, यदा तु दुर्बलः पुमान् क्षीणश्चामस्तदा प्रथममुपेक्षया प्रवर्तनं कृत्वा सङ्ग्रहणं कर्तव्यं; तस्यां ह्यवस्थायामसङ्ग्रहणे आतुरस्य बलभ्रंशान्मरणमेव स्यात्| अन्ये तु पूर्वं सङ्ग्रहणं न देयमिति प्रधानमम्बष्ठाशाल्मलकुटजत्वगादिसङ्ग्रहणं न देयं, मुस्तोदीच्यादि तु पाचनसङ्ग्रहणं देयमिति वर्णयन्ति| इयं चामातिसारचिकित्सा सर्वामातिसाराणां साधारणी ज्ञेया| कृच्छ्रं वा वहतामिति सविबन्धं वहताम्| प्रमथ्यामिति पाचनदीपनीयं कषायं; प्रमथ्याशब्दो हि वृद्धपरम्परया पाचनदीपनकषाये वैद्यकशास्त्रे परिभाषितः श्रूयते; यथा- विडङ्गकषायः शैखरिककषायशब्देन वैद्यैरुच्यते| बहुदोषे प्रवर्तनं, तथा मध्यदोषे प्रमथ्योक्ता, अल्पदोषे च सामे प्रथमकर्तव्यमाह- लङ्घनमित्यादि||१४-१९||
Adhikarana 13 (20-22) · Śloka 22
पिप्पली नागरं धान्यं भूतीकमभया वचा|
ह्रीवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम्||२०||
पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका|
तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम्||२१||
वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा|
ह्रीवेरशृङ्गवेराभ्यां पक्वं वा पाययेज्जलम्||२२||
तिस्रः प्रमथ्या इति यथाक्रमं कफपित्तवातेषु विभज्य देया इति वदन्ति; तथा वचाप्रतिविषादिविहितानि त्रीण्यपि जलानि कफपित्तवातेषु यथाक्रमं वदन्ति| षडङ्गविधिनाऽत्र जलसाधनं ज्ञेयम्||२०-२२||
Adhikarana 14 (23-25) · Śloka 25
युक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्|
तथा स शीघ्रमाप्नोति रुचिमग्निबलं बलम्||२३||
तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा|
सुरया मधुना चादौ यथासात्म्यमुपाचरेत्||२४||
यवागूभिर्विलेपीभिः खडैर्यूषै रसौदनैः|
दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम्||२५||
युक्तेऽन्नकाले इति सम्यग्बुभुक्षाकाले| अवन्तिसोमं काञ्जिकम्| काञ्जिकतक्रदीनां च द्रवाणां तर्पणालोडनार्थमिहाभिधानम्| यवागूर्विरलद्रवा विलेपी बहुसिक्था च;| दीपनग्राहिगणौ षड्विरेचनशताश्रितीयोक्तौ| अतः परमिति यवाग्वाद्युपचारानन्तरम्||२३-२५||
Adhikarana 15 (26-29) · Śloka 29
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्|
बलां श्वदंष्ट्रां बिल्वानि पाठां नागरधान्यकम्||२६||
शटीं पलाशं हपुषां वचां जीरकपिप्पलीम्|
यवानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||२७||
वृक्षाम्लं दाडिमाम्लं च सहिङ्गु बिडसैन्धवम्|
प्रयोजयेदन्नपाने विधिना सूपकल्पितम्||२८||
वातश्लेष्महरो ह्येष गणो दीपनपाचनः|
ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम्||२९||
शालिपर्णीत्यादिना यवाग्वादिसंस्कारद्रव्याण्याह||२६-२९||
Adhikarana 16 (30-33) · Śloka 33
आमे परिणते यस्तु विबद्धमतिसार्यते|
सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम्||३०||
यूषेण मूलकानां तं बदराणामथापि वा|
उपोदिकायाः क्षीरिण्या यवान्या वास्तुकस्य वा||३१||
सुवर्चलायाश्चञ्चोर्वा शाकेनावल्गुजस्य वा|
शट्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा||३२||
लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः|
दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्||३३||
सप्रवाहिकमित्यत्र प्रवाहिकालक्षणं “वायुर्विवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य| प्रवाहतोऽल्पं बहुशो मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः” (सु.उ.तं.अ.४०) इत्यनेन सुश्रुतोक्तं ज्ञेयम्| क्षीरिणी दुग्धिका, सुवर्चला सूर्यभक्ता, चञ्चुः नाडीचः, कर्कारुः कूष्माण्डभेदः, चिर्भटः कर्कटी, लोणिका स्वनामख्याता; शुषा कासमर्दः, रूक्षदेशजं शाकमित्येके||३०-३३||
Adhikarana 17 (34-41) · Śloka 41
कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः|
दध्नः सरोऽम्लस्नेहाद्यः खडो हन्यात् प्रवाहिकाम्||३४||
यवानां मुद्गमाषाणां शालीनां च तिलस्य च|
कोलानां बालबिल्वानां धान्ययूषं प्रकल्पयेत्||३५||
ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम्|
वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्||३६||
दध्नः सरं वा यमके भृष्टं सगुडनागरम्|
सुरां वा यमके भृष्टां व्यञ्जनार्थे प्रदापयेत्||३७||
फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा|
लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा||३८||
बर्हितित्तिरिदक्षाणां वर्तकानां तथा रसाः|
स्निग्धाम्लाः शालयश्चाग्र्या वर्चःक्षयरुजापहाः||३९||
अन्तराधिरसं पूत्वा रक्तं मेषस्य चोभयम्|
पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्||४०||
ओदनं रक्तशालीनां तेनाद्यात् प्रपिबेच्च तत्|
तथा वर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते||४१||
कल्कः स्यादित्यादिना खडः| धान्ययूषमिति धान्यप्रधानं यूषं यथोक्तमेव| यमके इति घृततैले| दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम्| शालीनां यद्यपि बद्धवर्चस्त्वमुक्तं, तथाऽपीह खडयूषरसविशेषयुक्तानां संयोगशक्त्या वर्चःक्षये हितत्वं दर्शयन्नाह- स्निग्धाम्लाः शालयश्चाग्र्या वर्चःक्षयरुजापहा इति| तेनाद्यात् प्रपिबेच्च तमिति उक्तान्तराधिरसाधिकृतेन द्रवेण सन्धीयाद्यात् पृथक् च द्रवं पिबेत्| वर्चःक्षयकृतैः मुखशोषदौर्बल्योदावर्तादिभिः||३४-४१||
Adhikarana 18 (42-44) · Śloka 44
गुदनिःसरणे शूले पानमम्लस्य सर्पिषः|
प्रशस्यते निरामाणामथवाऽप्यनुवासनम्||४२||
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्|
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्||४३||
इति चाङ्गेरीघृतम्|
सचव्यपिप्पलीमूलं सव्योषविडदाडिमम्|
पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम्||४४||
इति गुदभ्रंशे चव्यादिघृतम्|
सूत्रितमम्लघृतमाह- चाङ्गेरीत्यादि| अत्र चाङ्गेरीरसकोलरसदध्नां द्रवत्वं, नागरक्षारयोश्च कल्कत्वम्| पेयमम्लं घृतमित्यत्र अम्लार्थमनन्तरोक्तमेव द्रवं चाङ्गेरीस्वरसादि देयं, चव्यादयश्च दश कल्काः; उक्तं च तन्त्रान्तरे- “पञ्चकोलविडाजाजीधान्यदाडिमवेतसैः| पचेदम्लं घृतं तद्वन्नागरक्षारसंयुतम्” इति||४२-४४||
Adhikarana 19 (45) · Śloka 45
दशमूलोपसिद्धं वा सबिल्वमनुवासनम्|
शटीशताह्वाबिल्वैर्वा वचया चित्रकेण वा||४५||
इति गुदभ्रंशेऽनुवासनम्|
दशमूलोपसिद्धमित्यादौ अनुवासनमिति अनुवासनस्नेहः| अत्रानुवासने स्नेहस्तु प्रायोदर्शनात्तैलमेव; अन्ये तु घृतस्य प्रक्रान्तत्वाद्धृतमेवाहुः| शटीत्यादिनाऽप्यनुवासनस्नेहत्रयमुच्यते||४५||
Adhikarana 20 (46) · Śloka 46
स्तब्धभ्रष्टगुदे पूर्वं स्नेहस्वेदौ प्रयोजयेत्|
सुस्विन्नं तं मृदूभूतं पिचुना सम्प्रवेशयेत्||४६||
पिचुना सम्प्रवेशयेदिति पिचुनाऽऽच्छादितं पीडयित्वा प्रवेशयेत्| पिचुः स्थूलकर्पटिका||४६||
Adhikarana 21 (47-49) · Śloka 49
विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः|
सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति||४७||
यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः|
शृतमेरण्डमूलेन बालबिल्वेन वा पयः ||४८||
एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति|
शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति||४९||
सौहित्यं तृप्तिः||४७-४९||
Adhikarana 22 (50) · Śloka 50
पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लङ्घनपाचनाभ्यामुपाचरेत्|
तृष्यतस्तु मुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः|
लङ्घितस्य चाहारकाले बलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिर्यूहसंयुक्तेन यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः|
मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वा लावकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वा क्रमशोऽग्निं सन्धुक्षयेत्|
अनुबन्धे त्वस्य दीपनीयपाचनीयोपशमनीयसङ्ग्रहणीयान् योगान् सम्प्रयोजयेदिति||५०||
आमान्वयमिति आमयुक्तम्| लङ्घनपाचनाभ्यामुपाचरेदित्यनेन यत् पूर्वमामातिसारे सामान्यविधानमुक्तं तदिह नानुमन्यते; पित्तं हि सरं, तत्र च प्रवर्तने क्रियमाणेऽतियोगभयं स्यादिति भावः| यत्तु विरेचनमिह वक्तव्यं तत् सामग्रीविशेषसम्पत्तावेव| लङ्घितस्य चेत्यादौ सूर्पपर्णी मुद्गमाषपर्ण्यौ| निर्व्यूहशब्देन च षडङ्गविधानसिद्धं जलमुच्यते, यवाग्वादिसाधने तस्यैवाधिकारात्| अनुबन्धे त्वस्येति पित्तातिसारानुबन्धे| इमानिति वक्ष्यमाणान्||५०||
Adhikarana 23 (51-56) · Śloka 56
सक्षौद्रातिविषं पिष्ट्वा वत्सकस्य फलत्वचम्|
पिबेत् पित्तातिसारघ्नं तण्डुलोदकसंयुतम्||५१||
किराततिक्तको मुस्तं वत्सकः सरसाञ्जनः|
बिल्वं दारुहरिद्रा त्वक् ह्रीबेरं सदुरालभम्||५२||
चन्दनं च मृणालं च नागरं लोध्रमुत्पलम्|
तिला मोचरसो लोध्रं समङ्गा कमलोत्पलम्||५३||
उत्पलं धातकीपुष्पं दाडिमत्वङ्महौषधम्|
कट्फलं नागरं पाठा जम्ब्वाम्रास्थिदुरालभाः||५४||
योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः|
पेयाः पित्तातिसारघ्नाः श्लोकार्धेन निदर्शिताः||५५||
जीर्णोषधानां शस्यन्ते यथायोगं प्रकल्पितैः|
रसैः साङ्ग्राहिकैर्युक्ताः पुराणा रक्तशालयः||५६||
फलत्वचमिति फलं च त्वक् चेति फलत्वचम्| मृणालम् उषीरम्| समङ्गा खादिरी; ‘वराहक्रान्ता’ इत्यन्ये||५१-५६||
Adhikarana 24 (57-62) · Śloka 62
पित्तातिसारो दीपाग्नेः क्षिप्रं समुपशाम्यति|
अजाक्षीरप्रयोगेण बलं वर्णश्च वर्धते||५७||
बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति|
पैत्तिको यद्यतीसारः पयसा तं विरेचयेत्||५८||
पलाशफलनिर्यूहं पयसा सह पाययेत्|
ततोऽनुपाययेत् कोष्णं क्षीरमेव यथाबलम्||५९||
प्रवाहिते तेन मले प्रशाम्यत्युदरामयः|
पलाशवत् प्रयोज्या वा त्रायमाणा विशोधिनी||६०||
सांसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते|
स्रुतदोषस्य तं शीघ्रं यथावदनुवासयेत्||६१||
शतपुष्पावरीभ्यां च पयसा मधुकेन च|
तैलपादं घृतं सिद्धं सबिल्वमनुवासनम्||६२||
न तिष्ठति न निवर्तते| पलाशवदिति उक्तपलाशफलविधानेन| सांसर्ग्यामिति पेयादिक्रमे| शतपुष्पेत्यादौ वरी शतावरी| अनुवासनं ‘दद्यात्’ इति शेषः||५७-६२||
Adhikarana 25 (63-68) · Śloka 68
कृतानुवासनस्यास्य कृतसंसर्जनस्य च|
वर्तते यद्यतीसारः पिच्छाबस्तिरतः परम्||६३||
परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः|
कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना||६४||
सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः|
शृते पयसि मृद्नीयादापोथ्योलूखले ततः||६५||
पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिषोः|
स्नेहितं मात्रया युक्तं कल्केन मधुकस्य च||६६||
बस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः|
स्नात्वा भुञ्जीत पयसा जाङ्गलानां रसेन वा||६७||
पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान्|
जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च बस्तिः ||६८||
परिवेष्ट्येत्यादिना पिच्छाबस्तिमाह| शृते पयसीत्यत्र पानीयमात्रेणैव पयः शृतं ज्ञेयम्| प्रस्थ इति शृते पयसीत्यस्य विशेषणम्| वृन्तानि शाल्मलेः उलूखले आपोथ्य तत आपोथितात् पिण्डं मुष्टिसमं शृते प्रस्थे पयसि मृद्नीयादिति योजना| मात्रयेति वचनात् तैलसर्पिषोरत्र तावती मात्रा यावत्या स्नेहनमात्रं भवति, तथा यष्टीमधुकल्कस्यापि तावती मात्रा यावत्या घनो बस्तिर्भवति||६३-६८||
Adhikarana 26 (69-70) · Śloka 70
पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते|
पित्तलान्यन्नपानानि तस्य पित्तं महाबलम्||६९||
कुर्याद्रक्तातिसारं तु रक्तमाशु प्रदूषयेत्|
तृष्णां शूलं विदाहं च गुदपाकं च दारुणम्||७०||
पित्तातिसारीत्यादिना पित्तातिसारस्यैव हेतुविशेषकृतावस्थाभेदरूपं रक्तातिसारं दर्शयति| अयं च रक्तातिसारो यद्यपि पित्तातिसारोत्तरकालभावितयेहोक्तः, तथाऽपि पित्तातिप्रकोपेण रक्तदुष्ट्या च प्रथममपि भवत्येवायं दृष्टत्वादिति ज्ञेयम्| तेनात्रोत्पत्तिक्रमाभिधानमतन्त्रतम् | यथा “पाण्डुरोगी तु योऽत्यर्थं” (चि.अ.१६) इत्यादिनोक्तकामलोत्पादे यथोक्तक्रमं विनाऽपि कामला भवति| एवमपि चास्य रक्तातीसारस्य पित्तजन्यत्वात् पैत्तिके एवावरोधः; तेन षट्सङ्ख्या न व्याहन्यते| अतीसारस्य यत् प्रसृतायां सिद्धौ आमरक्तशकृत्पित्तवातकफानतीसारकारकानभिधायोक्तं- “षण्णामेषां द्विसंसर्गात्त्रिंशद्भेदा भवन्ति ते| केवलैः सह षट्त्रिंशत्” (सि.अ.८) इति, तदप्यत्रैव षट्केऽन्तर्भावनीयं, तत्र सूक्ष्मभेदगणनया स भेदः कृत इत्यविरोधः||६९-७०||
Adhikarana 27 (71-76) · Śloka 76
तत्र च्छागं पयः शस्तं शीतं समधुशर्करम्|
पानार्थं भोजनार्थं च गुदप्रक्षालने तथा||७१||
ओदनं रक्तशालीनां पयसा तेन भोजयेत्|
रसैः पारावतादीनां घृतभृष्टैः सशर्करैः||७२||
शशपक्षिमृगाणां च शीतानां धन्वचारिणाम्|
रसैरनम्लैः सघृतैर्भोजयेत्तं सशर्करैः||७३||
रुधिरं मार्गमाजं वा घृतभृष्टं प्रशस्यते|
काश्मर्यफलयूषो वा किञ्चिदम्लः सशर्करः||७४||
नीलोत्पलं मोचरसं समङ्गा पद्मकेशरम्|
अजाक्षीरयुतं दद्याज्जीर्णे च पयसौदनम्||७५||
दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत्|
प्राग्भक्तं नवनीतं वा दद्यात् समधुशर्करम्||७६||
तत्र छागमित्यादौ व्यञ्जनार्थमिति भोज्योपकरणार्थम्| पयसा तेनेति छागेन पयसा| मृगस्येदं मार्गम्, अजस्येदमाजं, रुधिरमिति योजना||७१-७६||
Adhikarana 28 (77-79) · Śloka 79
प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः|
त्र्यहादारोग्यमाप्नोति पयसा क्षीरभुक् तथा||७७||
पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्|
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः||७८||
घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्|
पेयं तस्यानु पातव्या पेया रक्तोपशान्तये||७९||
प्राश्येत्यादौ क्षीरोत्थितं सर्पिः पयसा प्राश्येति सम्बन्धः| कपिञ्जलः गौरतित्तिरिः| क्षीरं भुङ्क्ते इति क्षीरभुक्| तयेति शतावर्या| यवागूमण्डेन पेयमिति सम्बन्धः||७७-७९||
Adhikarana 29 (80-81) · Śloka 81
त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च|
पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी||८०||
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्|
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्||८१||
षड्भिरेतैरितिपदं यथालाभनिषेधार्थम्||८०-८१||
Adhikarana 30 (82-84) · Śloka 84
कृष्णमृन्मधुकं शङ्खं रुधिरं तण्डुलोदकम्|
पीतमेकत्र सक्षौद्रं रक्तसङ्ग्रहणं परम्||८२||
पीतः प्रियङ्गुकाकल्कः सक्षौद्रस्तण्डुलाम्भसा|
रक्तस्रावं जयेच्छीघ्रं धन्वमांसरसाशिनः||८३||
कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः|
आजेन पयसा पीतः सद्यो रक्तं नियच्छति||८४||
कृष्णमृदित्यादौ रुधिरं शोणितं, केचित् कुङ्कुममाहुः| शर्करापञ्चभागिक इति अत्र शर्करायाः पञ्चमेन भागेन कृष्णतिलदानम्; उक्तं हि जतूकर्णे- “कृष्णतिलाञ् शर्करापादिकाञ्छागीपयसा” इति||८२-८४||
Adhikarana 31 (85-86) · Śloka 86
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्|
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्||८५||
पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा|
दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच्च मुच्यते||८६||
पलमित्यादौ रसमिति क्वाथम्| रसाशीति मांसरसेन भुञ्जानः||८५-८६||
Adhikarana 32 (87-88) · Śloka 88
गुदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते|
सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना||८७||
पञ्चवल्कमधूकानां रसैरिक्षुरसैर्घृतैः|
छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः||८८||
क्षौद्रसंयुतैरित्यन्तं सेचयेदित्यनुवर्तते||८७-८८||
Adhikarana 33 (89-92) · Śloka 93
प्रक्षालनानां कल्कैर्वा ससर्पिष्कैः प्रलेपयेत्|
एषां वा सुकृतैश्चूर्णैस्तं गुदं प्रतिसारयेत्||८९||
धातकीलोध्रचूर्णैर्वा समांशैः प्रतिसारयेत्|
तथा स्रवति नो रक्तं गुदं तैः प्रतिसारितम्||९०||
पक्वता प्रशमं याति वेदना चोपशाम्यति|
यथोक्तैः सेचनैः शीतैः शोणितेऽतिस्रवत्यपि||९१||
गुदवङ्क्षणकट्यूरु सेचयेद्घृतभावितम्|
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा||९२||
कार्पाससङ्गृहीतेन सेचयेद्गुदवङ्क्षणम्|९३|
प्रक्षालनानामिति प्रक्षालनार्थमुक्तानां पटोलमधुकादीनाम्| प्रतिसारयेत् अवचूर्णयेत्||८९-९२||-
Adhikarana 34 (93-95) · Śloka 96
अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते||९३||
यदा वायुर्विबद्धश्च कृच्छ्रं चरति वा न वा|
पिच्छाबस्तिं तदा तस्य यथोक्तमुपकल्पयेत्||९४||
प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासयेत्|
प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः||९५||
तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत्|९६|
पिच्छाबस्तिं तदा तस्य यथोक्तमिति अत्रैव ‘परिवेष्ट्य’ इत्यादिग्रन्थोक्तम्| गुदे स्नेहं प्रयोजयेदिति अत्र स्नेहभावितपिचुप्रणयनेन गुदे स्नेहप्रयोगमिच्छन्ति; अन्ये तु प्रकृतत्वादनुवासनेनैवात्र प्रयोगमाहुः||९३-९५||-
Adhikarana 35 (96-100) · Śloka 101
पवनोऽतिप्रवृत्तो हि स्वे स्थाने लभतेऽधिकम्||९६||
बलं तस्य सपित्तस्य जयार्थे बस्तिरुत्तमः|
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते||९७||
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्|
शर्करार्धांशिकं लीढं नवनीतं नवोद्धृतम्||९८||
क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः|
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्||९९||
अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्|
तदर्धशर्करायुक्तं लिह्यात् सक्षौद्रपादिकम्||१००||
अधो वा यदि वाऽप्यूर्ध्वं यस्य रक्तं प्रवर्तते|१०१|
स्वे स्थाने इति पक्वाशयकट्यादौ| बस्तिरिति सामान्यवचनादनुवासनं निरूहश्च ज्ञेयः| शतावरीघृतमिति “शतावरीमूलतुलाश्चतस्रः” (चि.अ.३०) इत्यादिना योनिव्यापदुक्तं शतावरीघृतम्| विकारमिति ‘रक्तं सविट्’ इत्यादिनोक्तम्||९६-१००||-
Adhikarana 36 (101) · Śloka 102
यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते||१०१||
दारुणं स वलीपाकं प्राप्य शीघ्रं विपद्यते|१०२|
वलीपाकमिति गुदवलीपाकम्||१०१||-
Adhikarana 37 (102-103) · Śloka 104
श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनम्||१०२||
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः|
लङ्घितस्यानुपूर्व्यां च कृतायां न निवर्तते||१०३||
कफजो यद्यतीसारः कफघ्नैस्तमुपाचरेत्|१०४|
दीपनो गण इति ‘शालिपर्णी पृश्निपर्णी’ इत्यादिनोक्तः||१०२-१०३||-
Adhikarana 38 (104-112) · Śloka 113
बिल्वं कर्कटिका मुस्तमभया विश्वभेषजम्||१०४||
वचा विडङ्गं भूतीकं धान्यकं देवदारु च|
कुष्ठं सातिविषा पाठा चव्यं कटुकरोहिणी||१०५||
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली|
योगाञ्छ्लोकार्धविहितांश्चतुरस्तान् प्रयोजयेत्||१०६||
शृताञ्छ्लेष्मातिसारेषु कायाग्निबलवर्धनान्|
अजाजीमसितां पाठां नागरं मरिचानि च||१०७||
धातकीद्विगुणं दद्यान्मातुलुङ्गरसाप्लुतम्|
रसाञ्जनं सातिविषं कुटजस्य फलानि च||१०८||
धातकीद्विगुणं दद्यात् पातुं सक्षौद्रनागरम्|
धातकी नागरं बिल्वं लोध्रं पद्मस्य केशरम्||१०९||
जम्बूत्वङ्नागरं धान्यं पाठा मोचरसो बला|
समङ्गा धातकी बिल्वमध्यं जम्ब्वाम्रयोस्त्वचः||११०||
कपित्थानि विडङ्गानि नागरं मरिचानि च|
चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान् कफोत्तरे||१११||
श्लोकार्धविहितान् दद्यात् सस्नेहलवणान् खडान्|
कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम्||११२||
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्|११३|
कफघ्नैस्तमुपाचरेदित्युक्तं, तेन कफघ्नान् बिल्वकर्कटकेत्यादिना योगानाह| धातकीद्विगुणमिति एकद्रव्यापेक्षया द्विगुणया धातक्या युक्तम्| अजाजीमित्यादौ असितामिति पिप्पलीम्| जतूकर्णे ह्ययं योगः “पाठाऽजाजीव्योषफलपूरं धातकीद्विगुणम्”| इत्युक्तः||१०४-११२||-
Adhikarana 39 (113-116) · Śloka 116
कणां मधुयुतां पीत्वा तक्रं पीत्वा सचित्रकम्||११३||
जग्ध्वा वा बालबिल्वानि मुच्यते जठरामयात्|
बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्|
लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः||११४||
भोज्यं मूलकषायेण वातघ्नैश्चोपसेवनैः|
वातातिसारविहितैर्यूषैर्मांसरसैः खडैः||११५||
पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम्|
पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्||११६||
कणां मधुयुतामित्यत्र कणा पिप्पली; अन्ये ‘कणान्’ इति पठन्ति, कणानित्यनेन च षष्टिकतण्डुलान् ग्राहयन्ति| वाते प्रतिहते इति बद्धे वाते| उपसेवनैरिति व्यञ्जनैः| पूर्वोक्तमम्लसर्पिरिति “चाङ्गेरीकोलदध्यम्लं” इत्यादिनोक्तम्||११३-११६||
Adhikarana 40 (117-120) · Śloka 120
वातश्लेष्मविबन्धे वा कफे वाऽतिस्रवत्यपि|
शूले प्रवाहिकायां वा पिच्छाबस्तिं प्रयोजयेत्||११७||
पिप्पलीबिल्वकुष्ठानां शताह्वावचयोरपि|
कल्कैः सलवणैर्युक्तं पूर्वोक्तं सन्निधापयेत्||११८||
प्रत्यागते सुखं स्नातं कृताहारं दिनात्यये|
बिल्वतैलेन मतिमान्सुखोष्णेनानुवासयेत्||११९||
वचान्तैरथवा कल्कैस्तैलं पक्त्वाऽनुवासयेत्|
बहुशः कफवातार्तस्तथा स लभते सुखम्||१२०||
पिच्छाबस्तिं प्रयोजयेदिति यदुक्तं तत्र पिच्छाबस्तेर्विशेषमाह- पिप्पलीत्यादि| पूर्वोक्तमिति अत्रैव पूर्वोक्तं पिच्छाबस्तिं पिप्पल्यादिकल्कैर्युक्तं, सन्निधापयेदिति दापयेत्| बिल्वतैलेनेति सिद्धौ “दशमूलं बला रास्ना” (सि.अ.४) इत्यादिना वक्ष्यमाणबिल्वतैलेन| वचान्तैरिति “पिप्पलीबिल्वकुष्ठानां शताह्वावचयोरपि” इत्यत्रोक्तैर्वचान्तैः||११७-१२०||
Adhikarana 41 (121) · Śloka 121
स्वे स्थाने मारुतोऽवश्यं वर्धते कफसङ्क्षये|
स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्||१२१||
सम्प्रति सर्वातिसारेषु पक्वाशयव्यापकत्वेन वायुरवश्यं वृद्धो भवति, स चाशुकारितया त्वरया जेतव्य इति दर्शयन्नाह- स्वे स्थाने इत्यादि| कफसङ्क्षयादित्यनेन कफसङ्क्षये रूक्षशरीरतया वायुः कुप्यति, श्लेष्मशोणिते वृद्धे तदुपस्नेहितशरीरे वायुर्निवृत्तप्रसरो भवतीति||१२१||
Adhikarana 42 (122) · Śloka 122
वातस्यानु जयेत् पित्तं, पित्तस्यानु जयेत् कफम्|
त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः||१२२||
पूर्वं ज्वराध्याये सन्निपातचिकित्साया “कफस्थानानुपूर्व्या वा” (चि.अ.३) इत्यनेन कफपित्तवातानां क्रमेण चिकित्सोक्ता अतीसारेऽपि त्रिदोषजे कदाचित् स्यादित्याशङ्क्यात्र विशिष्टं क्रममाह- वातस्यान्वित्यादि| अयं च क्रमो निरामसन्निपातातिसारे एव ज्ञेयः; सामे तु प्रथममामस्यैव चिकित्सितं कर्तव्यम्| समत्रिदोषातिसारचिकित्साक्रमभिधाय विषमत्रिदोषातिसारचिकित्साक्रममाह- त्रयाणामित्यादि||१२२||
Adhikarana 43 (123) · Śloka 123
तत्र श्लोकः- प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च|
क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम्||१२३||
प्रागुत्पत्तीत्यादिनाऽध्यायार्थसङ्ग्रहः||१२३||
Adhikarana puShpikA · Śloka 19
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽतिसारचिकित्सितं नामैकोनविंशोऽध्यायः||१९||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थानेऽतीसारचिकित्सितं नामैकोनविंशोऽध्यायः||१९||