Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

26. chardicikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातश्छर्दिचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

शरीरे मार्गद्वयं प्रधानम्- अधो गुदम्, ऊर्ध्वं च मुखं; तदधोमार्गातिप्रवृत्तदोषमतीसारमभिधाय, ऊर्ध्वातिदोषप्रवृत्तिरूपा छर्दिरुच्यते, इति छर्द्यध्यायसम्बन्धः||१-२||

Adhikarana 2 (3) · Śloka 3

यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्| पुनर्वसुं भूतहिते निविष्टं पप्रच्छ शिष्योऽत्रिजमग्निवेशः||३||

🔊 Audio coming soon

ब्रह्मणः तत्त्वज्ञानस्य तपसश्च द्युती ब्रह्मतपोद्युती, ताभ्यां ज्वलन्तम्||३||

Adhikarana 3 (4-5) · Śloka 5

याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ!| तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम्||४|| तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद| याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबोध||५||

🔊 Audio coming soon

रोगाधिकारे इति अष्टोदरीये (सू.अ.१९)||४-५||

Adhikarana 4 (6) · Śloka 6

दोषैः पृथक्त्रिप्रभवाश्चतस्रो द्बिष्टार्थयोगादपि पञ्चमी स्यात्|६|

🔊 Audio coming soon

पृथक् वातादिषु त्रिषु मिलितेषु च प्रभव उत्पत्तिर्यासां ताः पृथक्त्रिप्रभवाश्चतस्रः| द्विष्टार्थयोगादपीत्यत्र द्विष्टशब्देन प्रतीपाशुचिपूत्यादयोऽपि द्वेष्यतया गृह्यन्ते| द्विष्टप्रतीपेत्यादौ वक्ष्यमाणद्विष्टार्थच्छर्दिनिदाने द्विष्टशब्देन गोबलीवर्दन्यायात् प्रतिपुरुषनियतद्विष्टत्वमुच्यते, तेनेहोक्तार्थशब्देन प्रतिपादिता छर्दिरुच्यते|६|

Adhikarana 5 (6) · Śloka 6

तासां हृदुत्क्लेशकफप्रसेकौ द्वेषोऽशने चैव हि पूर्वरूपम्||६||

🔊 Audio coming soon

यद्यपि हेत्वभिधानपूर्वकं पूर्वरूपाभिधानं युज्यते, हेतूत्तरकालभावित्वादेव पूर्वरूपस्य; तथाऽप्यल्पवक्तव्यत्वात् तासामित्यादिना पूर्वरूपमाह| पूर्वरूपं लिङ्गाल्पत्वादुच्यते, एवमन्यत्रापि साक्षात्सूचितपूर्वरूपाभिधाने ज्ञेयम्||६||

Adhikarana 6 (7-9) · Śloka 9

व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य| वायुर्महास्रोतसि सम्प्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन्||७|| आमाशयोत्क्लेशकृतां च मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु| हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः||८|| उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्| कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम्||९||

🔊 Audio coming soon

व्यायामेत्यादिना वातजाया हेतुलक्षणे प्राह| महास्रोतसीति कोष्ठे| दोषानिति बहुवचनं बहूनामुत्क्लेशनीयानां विद्यमानत्वात् तथा रक्तादेरपि छर्द्यादौ दोषशब्देनाभिधानात्| ऊर्ध्वक्षेपणमामाशयोत्क्लेशेनोदीरितो वायुरेव करोति| किंवा आमाशयोद्वेगकृतानिति द्वितीयाबहुवचनं दोषानित्यस्य विशेषणम्| मर्मेति हृदयम्| कषायमिति कषायरसं कषायवर्णं वा||७-९||

Adhikarana 7 (10-11) · Śloka 11

अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्| रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति||१०|| मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः| पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम्||११||

🔊 Audio coming soon

अजीर्णेत्यादिना पित्तजाया हेतुलक्षणे ब्रूते| अजीर्णेति अजीर्णे भोजनम्| रसायनीभिरिति स्रोतोभिः| मूर्धेत्यादि सन्तापेन सम्बध्यते| धूम्रं धूम्रवर्णम्||१०-११||

Adhikarana 8 (12-13) · Śloka 13

स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफोऽतिवृद्धः| उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति||१२|| तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्तः| स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षोऽल्परुजं वमेत्तु||१३||

🔊 Audio coming soon

स्निग्धेत्यादिना कफजामाह| सन्तोषोऽत्र तृप्तिः, अन्ये तु सन्तोषो मानस एवात्र व्याधिप्रभावाद्भवति| अल्परुजमिति क्रियाविशेषणम्||१२-१३||

Adhikarana 9 (14-15) · Śloka 15

समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च| सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः||१४|| शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्| छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्||१५||

🔊 Audio coming soon

समश्नत इत्यादिना त्रिदोषजामाह| समश्नतः सर्वरसानिति पथ्यापथ्यमेलकरूपतया भजतः, उक्तं हि- “पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्” (चि.अ.१५) इत्यत्र; न तु सर्वरसान् भुञ्जानस्येत्यर्थः; सर्वरसभोजनं हि पथ्यमेव, तेनेह तस्य त्रिदोषकर्तृत्वं न स्यात्| प्रसक्तमिति निरन्तरम्| आमस्य प्रदोषः आमप्रदोषः||१४-१५||

Adhikarana 10 (16-17) · Śloka 17

विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति| उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्||१६|| विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्| प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति||१७||

🔊 Audio coming soon

विट्स्वेदेत्यादिना उपद्रवयुक्तां छर्दिमुपद्रवादसाध्यामाह| विण्मूत्रयोस्तत्समगन्धवर्णं छर्दयतीति वायुना विण्मूत्रस्रोतसां दूषितत्वाज्ज्ञेयम्||१६-१७||

Adhikarana 11 (18) · Śloka 18

द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च| यच्छर्दयेत्तप्तमना मनोध्नैर्द्विष्टार्थसंयोगभवा मता सा||१८||

🔊 Audio coming soon

द्विष्टेत्यादिना द्विष्टार्थजामाह| द्विष्टादयो गन्धेनाशनेन दर्शनेन च यथायोग्यतया सम्बध्यन्ते| अशनं भक्षणम्| द्विष्टं प्रतिपुरुषाप्रीतिजनकं, प्रतीपं वचादि, केचित् प्रतीपं वातमाहुः, अशुचि उच्छिष्टादि, अमेध्यं मलिनं, बीभत्सं जुगुप्सितम्| मनोघ्नैरित्यनेन द्विष्टादीनां मध्ये यत्किञ्चित् अशुच्यादि यं पुरुषं प्राप्य मनोघ्नं न भवति तं प्रति तच्छर्दिकारकं न भवति, मनोऽनुपघातकत्वादिति सूचयति||१८||

Adhikarana 12 (19) · Śloka 19

क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता| सचन्द्रिकां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां च||१९||

🔊 Audio coming soon

असाध्यलक्षणयुक्तां छर्दिं परित्यागार्थमाह- क्षीणस्येत्यादि| अतिप्रवृद्धेति सदाऽनुबद्धा| सोपद्रवेत्यत्र विट्स्वेदेत्यादिना रोगोपद्रवा ज्ञेयाः| सचन्द्रिकामिति धातुस्नेहमण्डलाकारयुक्ताम् ||१९||

Adhikarana 13 (20-22) · Śloka 22

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्| प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि||२०|| चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि| मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्||२१|| वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्| रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः||२२||

🔊 Audio coming soon

आमाशयेत्यादिना साध्यानां चिकित्सामाह| यस्मादामाशयोत्क्लेशात् सर्वाश्छर्दयो भवन्ति, आमाशयोत्थे च रोगे लङ्घनादि कफहरं भेषजं युक्तं, तस्माल्लङ्घनमेव कर्तव्यमिति भावः| लङ्घनमल्पदोषविषयं, शोधनं च बहुदोषविषयमिति व्यवस्था| संशोधनशब्देन चेह विरेचनवमने अपि गृह्येते; अन्ये त्वत्र संशोधनशब्देन प्रतिमार्गहरणतया अत्यर्थहितं विरेचनमेव वर्णयन्ति| संशोधनयोगानाह- चूर्णानीत्यादि| फलाद्यैरिति फलानि जीमूतेक्ष्वाकुप्रभृतीनि फलमात्रासिद्धि (सि.अ.११) पठितानि, तैः| शमनैरिति दोषनिबर्हणं विना दोषसाम्यकरैः; उक्तं हि पुष्कलावते- “न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति विषमांस्तत् संशमनमुच्यते” इति||२०-२२||

Adhikarana 14 (23-25) · Śloka 25

सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्| छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः||२३|| वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्धृतं तु| सिद्धं तथा धान्यकनागराभ्यां दध्ना च तोयेन च दाडिमस्य||२४|| व्योषेण युक्तां लवणैस्त्रिभिश्च घृतस्य मात्रामथवा विदध्यात्| स्निग्धानि हृद्यानि च भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः||२५||

🔊 Audio coming soon

सुसंस्कृता इत्यादिना वैशेषिकी वातजाचिकित्सोच्यते| हृदयद्रव इति परिश्रान्तस्येव हृदयक्षोभः| सैन्धववदिति सैन्धवप्रक्षेपं; केचित् सैन्धववत् सिद्धमिति योजयन्ति| तोयेन च दाडिमस्येति दाडिमरसेन| व्योषेणेत्यादौ व्योषादीनां पेयघृतमात्रायां प्रक्षेप्यत्वम्||२३-२५||

Adhikarana 15 (26-33) · Śloka 33

पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्| कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव||२६|| शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्| प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा||२७|| सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्| खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्||२८|| स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां च| कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा||२९|| द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा| जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा||३०|| निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा| गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा||३१|| सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन| धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि||३२|| कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्| शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन||३३||

🔊 Audio coming soon

कफाशयस्थमिति कफस्थानमामाशयोर्ध्वभागो वक्षः, तत्स्थम्| हरेदूर्ध्वमेवेति वमनेनैव हरेत्| यदि वाऽपि पेयामिति मन्दाग्निं प्रत्त पेया ज्ञेया| कुल्माषा उत्सिन्नयवपिष्टकृता भक्ष्याः; पारियात्रास्तु मुद्गान्मसूरानुत्स्विन्नमृदितान् कुल्माषानाहुः| गृञ्जः समण्डो यवौदनः| खर्जूरमांसानीति खर्जूरफलसस्यानि | खर्जूरेत्यादौ लिह्यादित्यत्र ‘सितोपलामाक्षिकपिप्पलीभिः’ इत्यनुवर्तनीयम्| स्रोतोज स्रोतोञ्जनम्| कोलमज्जा कोलाभ्यन्तरम्| अभयां वेत्यत्रापि ‘मधुना लिह्यात्’ इति सम्बध्यते| कोलास्थीत्यादावपि ‘मधुना लिह्यात्’ इत्यनुवर्तते| मृद्भृष्टलोष्टप्रभवं जलं वेति मृन्मयलोष्टनिर्वापणभवं जलमित्यर्थः| समुद्गकृष्णं पिप्पलीमुद्गसहितम्| निशि स्थितमित्यादौ सोषीरधान्यमिति द्वितीयः, चणकोदकं वेति तृतीयो योगः| तथा गवेधुकादियोगद्वयेऽपि शीतकषायविधिर्ज्ञेयः| काञ्चनगैरिकमिति गैरिकं दाक्षिणात्यप्रसिद्धं काञ्चनवर्णम्| सबालकं तण्डुलधावनेनेति विधानं ‘सेव्यं पिबेत्’ इत्यनेन तथा ‘काञ्चनगैरिकं वा’ इत्यनेन च द्वितीययोगेन सम्बध्यते| द्राक्षोत्तमा गोस्तनी द्राक्षेत्यर्थः| उत्तमचन्दनं धवलचन्दनम्||२६-३३||

Adhikarana 16 (34-39) · Śloka 39

कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः| पिण्डीतकैः सैन्धवसम्प्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्||३४|| गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्| व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्||३५|| रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्| रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च||३६|| मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्| लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो वा||३७|| सजाम्बवं वा बदराम्लचूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्| दुरालभां वा मधुसम्प्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्||३८|| मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्| क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्||३९||

🔊 Audio coming soon

समाक्षिकाणीति पश्चादुक्तयोगत्रयद्रव्याणि समाक्षिकाणि कर्तव्यानि| पिण्डीतकैरिति मदनैः| कफस्यामाशयस्य च शोधनार्थं कफामाशयशोधनार्थम्| यद्यपि गोधूमयवौ मधुरत्वयोगात् कफकरौ, तथाऽपि पुराणतया न कफकराविति कृत्वा कफच्छर्द्यां विहितौ| उक्तं हि- “प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाच्च शालियवगोधूमात्” (सू.अ.२७) इति| रागाः कपित्थादिद्रव्यकृताः| मनःशिलायाश्चूर्णं मरिचैश्च युक्तं क्षौद्रेण युतं फलपूरकरसैर्लिहन्, तथा कपित्थस्य रसैः पिप्पलीनां चूर्णं मरिचैश्च युक्तं क्षौद्रेण युतं लिहन्निति योज्यम्||३४-३९||

Adhikarana 17 (40) · Śloka 40

यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेऽपि समस्य बुद्ध्या| दोषर्तुरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः||४०||

🔊 Audio coming soon

यैषेत्यादिना सान्निपातिक्याश्चिकित्सोध्यते| समस्येति एकीकृत्य| दोषर्तुरोगाग्निबलान्यवेक्ष्येति दोषादीनां बलं वीक्ष्य यद्बलवत् तत्प्रधाना चिकित्सा कर्तव्या| रोगः छर्दिरेव||४०||

Adhikarana 18 (41-44) · Śloka 44

मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि| लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः||४१|| गन्धा विचित्रा मनसोऽनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्| शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः||४२|| यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः| फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति||४३|| गन्धं रसं स्पर्शमथापि शब्दं रूपं च यद्यत् प्रियमप्यसात्म्यम्| तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम्||४४||

🔊 Audio coming soon

मनोभिधाते इति मनोविघातजच्छर्द्याम्| लोकप्रसिद्धाः श्रुतय इति लौकिकार्थानुगता आख्यायिकेतिहासाः| विहाराः क्रीडाः| लेहा इति व्यञ्जनरूपा लेहाः| रागादीनां लक्षणमसकृदुक्तम्| गन्धवर्णरसैरुपेतानीति प्रशस्तगन्धादियुतानि| गन्धमित्यादिना आत्ययिकच्छर्दिप्रशमार्थमसात्म्यदानमप्यभिधत्ते| प्रशमे हि तस्या इति गन्धादीनां प्रियाणामुपयोगेन छर्द्याः प्रशमे सति, तज्जो हि रोग इति गन्धादीनामसात्म्यजनितरोगो जेतुं सुख एव सुखोपाय एव भवति, मूलव्याधेर्महात्ययस्य जितत्वादित्यभिप्रायः| ‘सुखमेव जेतुम्’ इति पाठे सुखं यथा भवति तथा जेतुं ‘पार्यते’ इति शेषः||४१-४४||

Adhikarana 19 (45) · Śloka 45

छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्| अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम्||४५||

🔊 Audio coming soon

अतिप्रवृत्तास्वित्यादि| अतिप्रवृत्तासु छर्दिषु विरेचनस्यातियोगे यत्कर्म विहितं संशोधनव्यापत्तिसिद्धौ (सि.अ.६) तदिह विधेयमित्यर्थः||४५||

Adhikarana 20 (46-47) · Śloka 47

वमिप्रसङ्गात् पवनोऽप्यवश्यं धातुक्षयाद्धृद्धिमुपैति तस्मात्| चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि||४६|| सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि| वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां च वमिं जयन्ति||४७||

🔊 Audio coming soon

वमिप्रसङ्गात् छर्द्यनुबन्धात् पवनस्य वृद्धिर्भवति; तत्रोपस्तम्भनं छर्दीनां पवनस्य वा, बृंहणं धातूनाम्| लेहाः च्यवनप्राशादयः||४६-४७||

Adhikarana 21 (48) · Śloka 48

तत्र श्लोकः- हेतुं सङ्ख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च| छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः||४८||

🔊 Audio coming soon

हेतुमित्यादिना सङ्ग्रहः| उपद्रवानिति विट्स्वेदेत्यादिनोक्तानुपद्रवान्| मुनिवर्य इति मुनिश्रेष्ठः||४८||

Adhikarana puShpikA · Śloka 20

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशोऽध्यायः||२०||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशोऽध्यायः||२०||