Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

25. atisāracikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातोऽतीसारचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

भगवन्तं खल्वात्रेयं कृताह्निकं हुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्याभिवाद्य चाग्निवेश उवाच- भगवन्! अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि प्रजानुग्रहार्थमाख्यातुमर्हसीति||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच- श्रूयतामग्निवेश! सर्वमेतदखिलेन व्याख्यायमानम्| आदिकाले खलु यज्ञेषु पशवः समालभनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म| ततो दक्षयज्ञं प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनां क्रतुषु पशूनामेवाभ्यनुज्ञानात् पशवः प्रोक्षणमवापुः| अतश्च प्रत्यवरकालं पृषध्रेण दीर्घसत्रेण यजता पशूनामलाभाद्गवामालम्भः प्रवर्तितः| तं दृष्ट्वा प्रव्यथिता भूतगणाः, तेषां चोपयोगादुपाकृतानां गवां गौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां चातीसारः पूर्वमुत्पन्नः पृषध्रयज्ञे||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

अथावरकालं वातलस्य वातातपव्यायामातिमात्रनिषेविणो रूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्च वेगान् वायुः प्रकोपमापद्यते, पक्ता चोपहन्यते; स वायुः कुपितोऽग्नावुपहते मूत्रस्वेदौ पुरीषाशयमुपहृत्य, ताभ्यां पुरीषं द्रवीकृत्य, अतीसाराय प्रकल्पते| तस्य रूपाणि- विज्जलमामं विप्लुतमवसादि रूक्षं द्रवं सशूलमामगन्धमीषच्छब्दमशब्दं वा विबद्धमूत्रवातमतिसार्यते पुरीषं, वायुश्चान्तःकोष्ठे सशब्दशूलस्तिर्यक् चरति विबद्ध इत्यामातिसारो वातात्| पक्वं वा विबद्धमल्पाल्पं सशब्दं सशूलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिःश्वसञ् शुष्कमुखः कट्यूरुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विग्रथितमुपवेश्यते पुरीषं वातात्; तमाहुरनुग्रथितमित्येके, वातानुग्रथितवर्चस्त्वात्||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

पित्तलस्य पुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणः प्रतताग्निसूर्यसन्तापोष्णमारुतोपहतगात्रस्य क्रोधेर्ष्याबहुलस्य पित्तं प्रकोपमापद्यते| तत् प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरीषाशयविसृतमौष्ण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा पुरीषमतिसाराय प्रकल्पते| तस्य रूपाणि- हारिद्रं हरितं नीलं कृष्णं रक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते पुरीषं, तृष्णादाहस्वेदमूर्च्छाशूलब्रध्नसन्तापपाकपरीत इति पित्तातिसारः||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः सम्पूरकस्याचिन्तयतो दिवास्वप्नपरस्यालसस्य श्लेष्मा प्रकोपमापद्यते| स स्वभावाद् गुरुमधुरशीतस्निग्धः स्रस्तोऽग्निमुपहत्य सौम्यस्वभावात् पुरीषाशयमुपहत्योपक्लेद्य पुरीषमतिसाराय कल्पते| तस्य रूपाणि- स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धं श्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यते सप्रवाहिकं, गुरूदरगुदबस्तिवङ्क्षणदेशः कृतेऽप्यकृतसञ्ज्ञः सलोमहर्षः सोत्क्लेशो निद्रालस्यपरीतः सदनोऽन्नद्वेषी चेति श्लेष्मातिसारः||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनादभोजनात् कालातीतभोजनाद् यत्किञ्चिदभ्यवहरणात् प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात् प्रतिकर्मणां विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनादस्वप्ना- दतिस्वप्नाद्वेगविधारणादृतुविपर्ययादयथाबलमारम्भाद्भयशोकचित्तोद्वेगातियोगात् कृमिशोषज्वरार्शोविकारातिकर्षणाद्वा व्यापन्नाग्नेस्त्रयो दोषाः प्रकुपिता भूय एवाग्निमुपहत्य पक्वाशयमनुप्रविश्यातीसारं सर्वदोषलिङ्गं जनयन्ति||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

अपि च शोणितादीन् धातूनतिप्रकृष्टं दूषयन्तो धातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति| तत्र शोणितादिषु धातुष्वतिप्रदुष्टेषु हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशं रक्तं कृष्णं श्वेतं वराहभेदःसदृशमनुबद्धवेदनमवेदनं वा समासव्यत्यासादुपवेश्यते शकृद् ग्रथितमामं सकृत्, सकृदपि पक्वमनतिक्षीणमांसशोणितबलो मन्दाग्निर्विहतमुखरसश्च; तादृशमातुरं कृच्छ्रसाध्यं विद्यात्| एभिर्वर्णैरतिसार्यमाणं सोपद्रवमातुरमसाध्योऽयमिति प्रत्याचक्षीत; तद्यथा- पक्वशोणिताभं यकृत्खण्डोपमं मेदोमांसोदकसन्निकाशं दधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छं पुनर्मेचकाभमतिस्निग्धं हरितनीलकषायवर्णं कर्बुरमाविलं पिच्छिलं तन्तुमदामं चन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धि मक्षिकाकान्तं कुथितबहुधातुस्रावमल्पपुरीषमपुरीषं वाऽतिसार्यमाणं तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनं वा स्रस्तपक्वगुदं पतितगुदवलिं मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसम्मोहपरीतं सहसोपरतविकारमतिसारिणमचिकित्स्यं विद्यात्; इति सन्निपातातिसारः||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

तमसाध्यतामसम्प्राप्तं चिकित्सेद् यथाप्रधानोपक्रमेण हेतूपशयदोषविशेषपरीक्षया चेति||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

आगन्तू द्वावतीसारौ मानसौ भयशोकजौ| तत्तयोर्लक्षणं वायोर्यदतीसारलक्षणम्||११||

🔊 Audio coming soon

Adhikarana 11 (12-13) · Śloka 13

मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति| तयोः क्रिया वातहरी हर्षणाश्वासनानि च||१२|| इत्युक्ताः षडतीसाराः, साध्यानां साधनं त्वतः| प्रवक्ष्याम्यनुपूर्वेण यथावत्तन्निबोधत||१३||

🔊 Audio coming soon

Adhikarana 12 (14-19) · Śloka 19

दोषाः सन्निचिता यस्य विदग्धाहारमूर्च्छिताः| अतीसाराय कल्पन्ते भूयस्तान् सम्प्रवर्तयेत्||१४|| न तु सङ्ग्रहणं देयं पूर्वमामातिसारिणे| विबध्यमानाः प्राग्दोषा जनयन्त्यामयान् बहून्||१५|| दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा| शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्||१६|| तस्मादुपेक्षेतोत्क्लिष्टान् वर्तमानान् स्वयं मलान्| कृच्छ्रं वा वहतां दद्यादभयां सम्प्रवर्तिनीम्||१७|| तया प्रवाहिते दोषे प्रशाम्यत्युदरामयः| जायते देहलघुता जठराग्निश्च वर्धते||१८|| प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम्| लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम्||१९||

🔊 Audio coming soon

Adhikarana 13 (20-22) · Śloka 22

पिप्पली नागरं धान्यं भूतीकमभया वचा| ह्रीवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम्||२०|| पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका| तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम्||२१|| वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा| ह्रीवेरशृङ्गवेराभ्यां पक्वं वा पाययेज्जलम्||२२||

🔊 Audio coming soon

Adhikarana 14 (23-25) · Śloka 25

युक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्| तथा स शीघ्रमाप्नोति रुचिमग्निबलं बलम्||२३|| तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा| सुरया मधुना चादौ यथासात्म्यमुपाचरेत्||२४|| यवागूभिर्विलेपीभिः खडैर्यूषै रसौदनैः| दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम्||२५||

🔊 Audio coming soon

Adhikarana 15 (26-29) · Śloka 29

शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्| बलां श्वदंष्ट्रां बिल्वानि पाठां नागरधान्यकम्||२६|| शटीं पलाशं हपुषां वचां जीरकपिप्पलीम्| यवानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्||२७|| वृक्षाम्लं दाडिमाम्लं च सहिङ्गु बिडसैन्धवम्| प्रयोजयेदन्नपाने विधिना सूपकल्पितम्||२८|| वातश्लेष्महरो ह्येष गणो दीपनपाचनः| ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम्||२९||

🔊 Audio coming soon

Adhikarana 16 (30-33) · Śloka 33

आमे परिणते यस्तु विबद्धमतिसार्यते| सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम्||३०|| यूषेण मूलकानां तं बदराणामथापि वा| उपोदिकायाः क्षीरिण्या यवान्या वास्तुकस्य वा||३१|| सुवर्चलायाश्चञ्चोर्वा शाकेनावल्गुजस्य वा| शट्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा||३२|| लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः| दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्||३३||

🔊 Audio coming soon

Adhikarana 17 (34-41) · Śloka 41

कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः| दध्नः सरोऽम्लस्नेहाद्यः खडो हन्यात् प्रवाहिकाम्||३४|| यवानां मुद्गमाषाणां शालीनां च तिलस्य च| कोलानां बालबिल्वानां धान्ययूषं प्रकल्पयेत्||३५|| ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम्| वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्||३६|| दध्नः सरं वा यमके भृष्टं सगुडनागरम्| सुरां वा यमके भृष्टां व्यञ्जनार्थे प्रदापयेत्||३७|| फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा| लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा||३८|| बर्हितित्तिरिदक्षाणां वर्तकानां तथा रसाः| स्निग्धाम्लाः शालयश्चाग्र्या वर्चःक्षयरुजापहाः||३९|| अन्तराधिरसं पूत्वा रक्तं मेषस्य चोभयम्| पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्||४०|| ओदनं रक्तशालीनां तेनाद्यात् प्रपिबेच्च तत्| तथा वर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते||४१||

🔊 Audio coming soon

Adhikarana 18 (42-44) · Śloka 44

गुदनिःसरणे शूले पानमम्लस्य सर्पिषः| प्रशस्यते निरामाणामथवाऽप्यनुवासनम्||४२|| चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्| घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्||४३|| इति चाङ्गेरीघृतम्| सचव्यपिप्पलीमूलं सव्योषविडदाडिमम्| पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम्||४४|| इति गुदभ्रंशे चव्यादिघृतम्|

🔊 Audio coming soon

Adhikarana 19 (45) · Śloka 45

दशमूलोपसिद्धं वा सबिल्वमनुवासनम्| शटीशताह्वाबिल्वैर्वा वचया चित्रकेण वा||४५|| इति गुदभ्रंशेऽनुवासनम्|

🔊 Audio coming soon

Adhikarana 20 (46) · Śloka 46

स्तब्धभ्रष्टगुदे पूर्वं स्नेहस्वेदौ प्रयोजयेत्| सुस्विन्नं तं मृदूभूतं पिचुना सम्प्रवेशयेत्||४६||

🔊 Audio coming soon

Adhikarana 21 (47-49) · Śloka 49

विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः| सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति||४७|| यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः| शृतमेरण्डमूलेन बालबिल्वेन वा पयः ||४८|| एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति| शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति||४९||

🔊 Audio coming soon

Adhikarana 22 (50) · Śloka 50

पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लङ्घनपाचनाभ्यामुपाचरेत्| तृष्यतस्तु मुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः| लङ्घितस्य चाहारकाले बलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिर्यूहसंयुक्तेन यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः| मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वा लावकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वा क्रमशोऽग्निं सन्धुक्षयेत्| अनुबन्धे त्वस्य दीपनीयपाचनीयोपशमनीयसङ्ग्रहणीयान् योगान् सम्प्रयोजयेदिति||५०||

🔊 Audio coming soon

Adhikarana 23 (51-56) · Śloka 56

सक्षौद्रातिविषं पिष्ट्वा वत्सकस्य फलत्वचम्| पिबेत् पित्तातिसारघ्नं तण्डुलोदकसंयुतम्||५१|| किराततिक्तको मुस्तं वत्सकः सरसाञ्जनः| बिल्वं दारुहरिद्रा त्वक् ह्रीबेरं सदुरालभम्||५२|| चन्दनं च मृणालं च नागरं लोध्रमुत्पलम्| तिला मोचरसो लोध्रं समङ्गा कमलोत्पलम्||५३|| उत्पलं धातकीपुष्पं दाडिमत्वङ्महौषधम्| कट्फलं नागरं पाठा जम्ब्वाम्रास्थिदुरालभाः||५४|| योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः| पेयाः पित्तातिसारघ्नाः श्लोकार्धेन निदर्शिताः||५५|| जीर्णोषधानां शस्यन्ते यथायोगं प्रकल्पितैः| रसैः साङ्ग्राहिकैर्युक्ताः पुराणा रक्तशालयः||५६||

🔊 Audio coming soon

Adhikarana 24 (57-62) · Śloka 62

पित्तातिसारो दीपाग्नेः क्षिप्रं समुपशाम्यति| अजाक्षीरप्रयोगेण बलं वर्णश्च वर्धते||५७|| बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति| पैत्तिको यद्यतीसारः पयसा तं विरेचयेत्||५८|| पलाशफलनिर्यूहं पयसा सह पाययेत्| ततोऽनुपाययेत् कोष्णं क्षीरमेव यथाबलम्||५९|| प्रवाहिते तेन मले प्रशाम्यत्युदरामयः| पलाशवत् प्रयोज्या वा त्रायमाणा विशोधिनी||६०|| सांसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते| स्रुतदोषस्य तं शीघ्रं यथावदनुवासयेत्||६१|| शतपुष्पावरीभ्यां च पयसा मधुकेन च| तैलपादं घृतं सिद्धं सबिल्वमनुवासनम्||६२||

🔊 Audio coming soon

Adhikarana 25 (63-68) · Śloka 68

कृतानुवासनस्यास्य कृतसंसर्जनस्य च| वर्तते यद्यतीसारः पिच्छाबस्तिरतः परम्||६३|| परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः| कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना||६४|| सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः| शृते पयसि मृद्नीयादापोथ्योलूखले ततः||६५|| पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिषोः| स्नेहितं मात्रया युक्तं कल्केन मधुकस्य च||६६|| बस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः| स्नात्वा भुञ्जीत पयसा जाङ्गलानां रसेन वा||६७|| पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान्| जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च बस्तिः ||६८||

🔊 Audio coming soon

Adhikarana 26 (69-70) · Śloka 70

पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते| पित्तलान्यन्नपानानि तस्य पित्तं महाबलम्||६९|| कुर्याद्रक्तातिसारं तु रक्तमाशु प्रदूषयेत्| तृष्णां शूलं विदाहं च गुदपाकं च दारुणम्||७०||

🔊 Audio coming soon

Adhikarana 27 (71-76) · Śloka 76

तत्र च्छागं पयः शस्तं शीतं समधुशर्करम्| पानार्थं भोजनार्थं च गुदप्रक्षालने तथा||७१|| ओदनं रक्तशालीनां पयसा तेन भोजयेत्| रसैः पारावतादीनां घृतभृष्टैः सशर्करैः||७२|| शशपक्षिमृगाणां च शीतानां धन्वचारिणाम्| रसैरनम्लैः सघृतैर्भोजयेत्तं सशर्करैः||७३|| रुधिरं मार्गमाजं वा घृतभृष्टं प्रशस्यते| काश्मर्यफलयूषो वा किञ्चिदम्लः सशर्करः||७४|| नीलोत्पलं मोचरसं समङ्गा पद्मकेशरम्| अजाक्षीरयुतं दद्याज्जीर्णे च पयसौदनम्||७५|| दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत्| प्राग्भक्तं नवनीतं वा दद्यात् समधुशर्करम्||७६||

🔊 Audio coming soon

Adhikarana 28 (77-79) · Śloka 79

प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः| त्र्यहादारोग्यमाप्नोति पयसा क्षीरभुक् तथा||७७|| पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्| रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः||७८|| घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्| पेयं तस्यानु पातव्या पेया रक्तोपशान्तये||७९||

🔊 Audio coming soon

Adhikarana 29 (80-81) · Śloka 81

त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च| पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी||८०|| षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्| अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्||८१||

🔊 Audio coming soon

Adhikarana 30 (82-84) · Śloka 84

कृष्णमृन्मधुकं शङ्खं रुधिरं तण्डुलोदकम्| पीतमेकत्र सक्षौद्रं रक्तसङ्ग्रहणं परम्||८२|| पीतः प्रियङ्गुकाकल्कः सक्षौद्रस्तण्डुलाम्भसा| रक्तस्रावं जयेच्छीघ्रं धन्वमांसरसाशिनः||८३|| कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः| आजेन पयसा पीतः सद्यो रक्तं नियच्छति||८४||

🔊 Audio coming soon

Adhikarana 31 (85-86) · Śloka 86

पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्| यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्||८५|| पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा| दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच्च मुच्यते||८६||

🔊 Audio coming soon

Adhikarana 32 (87-88) · Śloka 88

गुदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते| सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना||८७|| पञ्चवल्कमधूकानां रसैरिक्षुरसैर्घृतैः| छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः||८८||

🔊 Audio coming soon

Adhikarana 33 (89-92) · Śloka 93

प्रक्षालनानां कल्कैर्वा ससर्पिष्कैः प्रलेपयेत्| एषां वा सुकृतैश्चूर्णैस्तं गुदं प्रतिसारयेत्||८९|| धातकीलोध्रचूर्णैर्वा समांशैः प्रतिसारयेत्| तथा स्रवति नो रक्तं गुदं तैः प्रतिसारितम्||९०|| पक्वता प्रशमं याति वेदना चोपशाम्यति| यथोक्तैः सेचनैः शीतैः शोणितेऽतिस्रवत्यपि||९१|| गुदवङ्क्षणकट्यूरु सेचयेद्घृतभावितम्| चन्दनाद्येन तैलेन शतधौतेन सर्पिषा||९२|| कार्पाससङ्गृहीतेन सेचयेद्गुदवङ्क्षणम्|९३|

🔊 Audio coming soon

Adhikarana 34 (93-95) · Śloka 96

अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते||९३|| यदा वायुर्विबद्धश्च कृच्छ्रं चरति वा न वा| पिच्छाबस्तिं तदा तस्य यथोक्तमुपकल्पयेत्||९४|| प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासयेत्| प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः||९५|| तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत्|९६|

🔊 Audio coming soon

Adhikarana 35 (96-100) · Śloka 101

पवनोऽतिप्रवृत्तो हि स्वे स्थाने लभतेऽधिकम्||९६|| बलं तस्य सपित्तस्य जयार्थे बस्तिरुत्तमः| रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते||९७|| शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्| शर्करार्धांशिकं लीढं नवनीतं नवोद्धृतम्||९८|| क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः| न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्||९९|| अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्| तदर्धशर्करायुक्तं लिह्यात् सक्षौद्रपादिकम्||१००|| अधो वा यदि वाऽप्यूर्ध्वं यस्य रक्तं प्रवर्तते|१०१|

🔊 Audio coming soon

Adhikarana 36 (101) · Śloka 102

यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते||१०१|| दारुणं स वलीपाकं प्राप्य शीघ्रं विपद्यते|१०२|

🔊 Audio coming soon

Adhikarana 37 (102-103) · Śloka 104

श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनम्||१०२|| योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः| लङ्घितस्यानुपूर्व्यां च कृतायां न निवर्तते||१०३|| कफजो यद्यतीसारः कफघ्नैस्तमुपाचरेत्|१०४|

🔊 Audio coming soon

Adhikarana 38 (104-112) · Śloka 113

बिल्वं कर्कटिका मुस्तमभया विश्वभेषजम्||१०४|| वचा विडङ्गं भूतीकं धान्यकं देवदारु च| कुष्ठं सातिविषा पाठा चव्यं कटुकरोहिणी||१०५|| पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली| योगाञ्छ्लोकार्धविहितांश्चतुरस्तान् प्रयोजयेत्||१०६|| शृताञ्छ्लेष्मातिसारेषु कायाग्निबलवर्धनान्| अजाजीमसितां पाठां नागरं मरिचानि च||१०७|| धातकीद्विगुणं दद्यान्मातुलुङ्गरसाप्लुतम्| रसाञ्जनं सातिविषं कुटजस्य फलानि च||१०८|| धातकीद्विगुणं दद्यात् पातुं सक्षौद्रनागरम्| धातकी नागरं बिल्वं लोध्रं पद्मस्य केशरम्||१०९|| जम्बूत्वङ्नागरं धान्यं पाठा मोचरसो बला| समङ्गा धातकी बिल्वमध्यं जम्ब्वाम्रयोस्त्वचः||११०|| कपित्थानि विडङ्गानि नागरं मरिचानि च| चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान् कफोत्तरे||१११|| श्लोकार्धविहितान् दद्यात् सस्नेहलवणान् खडान्| कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम्||११२|| कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्|११३|

🔊 Audio coming soon

Adhikarana 39 (113-116) · Śloka 116

कणां मधुयुतां पीत्वा तक्रं पीत्वा सचित्रकम्||११३|| जग्ध्वा वा बालबिल्वानि मुच्यते जठरामयात्| बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्| लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः||११४|| भोज्यं मूलकषायेण वातघ्नैश्चोपसेवनैः| वातातिसारविहितैर्यूषैर्मांसरसैः खडैः||११५|| पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम्| पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्||११६||

🔊 Audio coming soon

Adhikarana 40 (117-120) · Śloka 120

वातश्लेष्मविबन्धे वा कफे वाऽतिस्रवत्यपि| शूले प्रवाहिकायां वा पिच्छाबस्तिं प्रयोजयेत्||११७|| पिप्पलीबिल्वकुष्ठानां शताह्वावचयोरपि| कल्कैः सलवणैर्युक्तं पूर्वोक्तं सन्निधापयेत्||११८|| प्रत्यागते सुखं स्नातं कृताहारं दिनात्यये| बिल्वतैलेन मतिमान्सुखोष्णेनानुवासयेत्||११९|| वचान्तैरथवा कल्कैस्तैलं पक्त्वाऽनुवासयेत्| बहुशः कफवातार्तस्तथा स लभते सुखम्||१२०||

🔊 Audio coming soon

Adhikarana 41 (121) · Śloka 121

स्वे स्थाने मारुतोऽवश्यं वर्धते कफसङ्क्षये| स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्||१२१||

🔊 Audio coming soon

Adhikarana 42 (122) · Śloka 122

वातस्यानु जयेत् पित्तं, पित्तस्यानु जयेत् कफम्| त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः||१२२||

🔊 Audio coming soon

Adhikarana 43 (123) · Śloka 123

तत्र श्लोकः- प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च| क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम्||१२३||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 19

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽतिसारचिकित्सितं नामैकोनविंशोऽध्यायः||१९||

🔊 Audio coming soon