Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

24. kāsacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः कासचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-4) · Śloka 4

तपसा यशसा धृत्या धिया च परयाऽन्वितः| आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम्||३|| वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा| पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः||४||

🔊 Audio coming soon

Adhikarana 3 (5) · Śloka 5

पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता| कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते||५||

🔊 Audio coming soon

Adhikarana 4 (6-8) · Śloka 8

अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः| उदानभावमापन्नः कण्ठे सक्तस्तथोरसि||६|| आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन्| आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाऽक्षिणी||७|| नेत्रे पृष्ठमुरःपार्श्वे निर्भुज्य स्तम्भयंस्ततः| शुष्को वा सकफो वाऽपि कसनात्कास उच्यते||८||

🔊 Audio coming soon

Adhikarana 5 (9) · Śloka 9

प्रतिघातविशेषेण तस्य वायोः सरंहसः| वेदनाशब्दवैशिष्ट्यं कासानामुपजायते||९||

🔊 Audio coming soon

Adhikarana 6 (10-13) · Śloka 13

रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः| वेगधारणमायासो वातकासप्रवर्तकाः||१०|| हृत्पार्श्वोरःशिरःशूलस्वरभेदकरो भृशम्| शुष्कोरःकण्ठवक्रस्य हृष्टलोम्नः प्रताम्यतः||११|| निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत्| शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत्||१२|| स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति| ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत्||१३||

🔊 Audio coming soon

Adhikarana 7 (14-16) · Śloka 16

कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम्| पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्यजः||१४|| पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः| उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः||१५|| प्रततं कासमानश्च ज्योतींषीव च पश्यति| श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके||१६||

🔊 Audio coming soon

Adhikarana 8 (17-19) · Śloka 19

गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनैः| वृद्धः श्लेष्माऽनिलं रुद्ध्वा कफकासं करोति हि||१७|| मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवैः| लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम्||१८|| बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम्| कासमानो ह्यरुग् वक्षः सम्पूर्णमिव मन्यते||१९||

🔊 Audio coming soon

Adhikarana 9 (20-23) · Śloka 23

अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः| रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत्||२०|| स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्| कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा||२१|| सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना| दुःखस्पर्शेन शूलेन भेदपीडाभितापिना||२२|| पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः| पारावत इवाकूजन् कासवेगात्क्षतोद्भवात्||२३||

🔊 Audio coming soon

Adhikarana 10 (24-30) · Śloka 30

विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्| घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः||२४|| कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम्| दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम्||२५|| स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम् | अकस्मादुष्णशीतार्तो बह्वाशी दुर्बलः कृशः||२६|| स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दर्शनलोचनः | पाणिपादतलैः श्लक्ष्णैः सततासूयको घृणी||२७|| ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः| भिन्नसंहतवर्चस्त्वं स्वरभेदोऽनिमित्ततः||२८|| इत्येष क्षयजः कासः क्षीणानां देहनाशनः| साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः||२९|| नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ| स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः||३०||

🔊 Audio coming soon

Adhikarana 11 (31) · Śloka 31

त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत्| चिकित्सामत ऊर्ध्वं तु शृणु कासनिबर्हिणीम्||३१||

🔊 Audio coming soon

Adhikarana 12 (32-34) · Śloka 34

रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत्| सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः||३२|| वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः| अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान्||३३|| बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकैः| घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः||३४||

🔊 Audio coming soon

Adhikarana 13 (35) · Śloka 35

कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे| प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः||३५|| इति कण्टकारीघृतम्|

🔊 Audio coming soon

Adhikarana 14 (36-38) · Śloka 38

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः| धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभिः||३६|| कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके| सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु||३७|| तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्| पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम्||३८|| इति पिप्पल्यादिघृतम्|

🔊 Audio coming soon

Adhikarana 15 (39-42) · Śloka 42

त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम्| द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम्||३९|| ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम्| त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात्||४०|| प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत्| ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत्||४१|| कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम्| त्र्यूषणं नाम विख्यातमेतद्धृतमनुत्तमम्||४२|| इति त्र्यूषणाद्यं घृतम्|

🔊 Audio coming soon

Adhikarana 16 (43-46) · Śloka 46

द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम्| पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान्||४३|| तुलार्धं चाजमांसस्य पादशेषेण तेन च| घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः||४४|| सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः| समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत्||४५|| पञ्चकासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम्| सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत्||४६|| इति रास्नाघृतम्|

🔊 Audio coming soon

Adhikarana 17 (47-52) · Śloka 52

विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्| भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया||४७|| सकफेऽनिलजे कासे श्वासहिक्काहताग्निषु| द्वौ क्षारौ पञ्चकोलानि पञ्चैव लवणानि च||४८|| शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम्| पाययेत घृतोन्मिश्रं वातकासनिबर्हणम्||४९|| दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम्| लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे||५०|| दुःस्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम्| पुराणगुडतैलाभ्यां चूर्णितं वाऽपि लेहयेत्||५१|| विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम्| मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन्||५२||

🔊 Audio coming soon

Adhikarana 18 (53-56) · Śloka 56

चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम्| शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम्||५३|| भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान्| कल्कानर्धतुलाक्वाथे निदिग्ध्याः पलविंशतिम् ||५४|| दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत्| सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम्||५५|| चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत्| लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम्||५६|| इति चित्रकादिलेहः|

🔊 Audio coming soon

Adhikarana 19 (57-62) · Śloka 62

दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम्| हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्||५७|| भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्| हरीतकीशतं चैकं जले पञ्चाढके पचेत्||५८|| यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम्| पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्||५९|| तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्| लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात्||६०|| तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम्| पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम्||६१|| हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान्| अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम्||६२|| इत्यगस्त्यहरीतकी|

🔊 Audio coming soon

Adhikarana 20 (63-64) · Śloka 64

सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम्| दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना||६३|| पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः| अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्||६४||

🔊 Audio coming soon

Adhikarana 21 (65-68) · Śloka 68

शिरसः पीडने स्रावे नासाया हृदि ताम्यति| कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्||६५|| दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम्| शरावसम्पुटच्छिद्रे कृत्वा जिह्मां विचक्षणः||६६|| वैरेचनं मुखेनैव कासवान् धूममापिबेत्| तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः||६७|| स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम्| निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम्||६८||

🔊 Audio coming soon

Adhikarana 22 (69-75) · Śloka 75

मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत्| धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत्||६९|| एष कासान् पृथग्दोषसन्निपातसमुद्भवान्| धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि||७०|| प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समनःशिलाम्| मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्||७१|| कृत्वा वर्तिं पिबेद्धूमं क्षौमचेलानुवर्तिताम्| घृताक्तामनु च क्षीरं गुडोदकमथापि वा||७२|| मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः| वंशलेखनसेव्यालक्षौमलक्तकरोहिषैः ||७३|| पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते| मनःशिलाले तद्वच्च पिप्पलीनागरैः सह||७४|| त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मनःशिला| कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः||७५||

🔊 Audio coming soon

Adhikarana 23 (76-82) · Śloka 82

ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्| रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्||७६|| यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः| रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करैः||७७|| स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत्| कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम्||७८|| दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम्| सिद्धां समतिलां दद्यात्क्षीरे वाऽपि ससैन्धवाम्||७९|| मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम्| सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नरः||८०|| वास्तुको वायसीशाकं मूलकं सुनिषण्णकम्| स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः||८१|| दध्यारनालाम्लफलप्रसन्नापानमेव च| शस्यते वातकासे तु स्वाद्वम्ललवणानि च||८२|| इति वातकासचिकित्सा|

🔊 Audio coming soon

Adhikarana 24 (83-107) · Śloka 107

पैत्तिके सकफे कासे वमनं सर्पिषा हितम्| तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः||८३|| यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतैः| हृतदोषस्ततः शीतं मधुरं च क्रमं भजेत्||८४|| पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम्| दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक्||८५|| स्निग्धशीतस्तनुकफे रूक्षशीतः कफे घने| क्रमः कार्यः परं भोज्यैः स्नेहैर्लेहैश्च शस्यते||८६|| शृङ्गाटकं पद्मबीजं नीलीसाराणि पिप्पली| पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्||८७|| लाजाऽमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता| पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रसः||८८|| खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते| घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्||८९|| शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः| पैत्ते, समुस्तमरिचः सकफे, सघृतोऽनिले||९०|| मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्| लेहयेन्मधुना गोर्वा क्षीरपं च शकृद्रसम्||९१|| त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः| लाजामुस्तशटीरास्नाधात्रीफलबिभीतकैः||९२|| शर्कराक्षौद्रसर्पिर्भिर्लेहः कासविनाशनः| श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत्||९३|| पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम्| क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम्||९४|| विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्| पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम्||९५|| मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः| मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः||९६|| घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुताः| शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः||९७|| शर्कराम्भोऽनुपानार्थं द्राक्षेक्षूणां रसाः पयः| सर्वं च मधुरं शीतमविदाहि प्रशस्यते||९८|| काकोलीबृहतीमेदायुग्मैः सवृषनागरैः| पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत्||९९|| शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा| कषायेण शृतं क्षीरं पिबेत् समधुशर्करम्||१००|| स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगैः| जीवकर्षभकाकोलीतामलक्यृद्धिजीवकैः||१०१|| शृतं पयः पिबेत् कासी ज्वरी दाही क्षतक्षयी| तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक्||१०२|| जीवकाद्यैर्मधुरकैः फलैश्चाभिषुकादिभिः| कल्कैस्त्रिकार्षिकैः सिद्धे पूतशीते प्रदापयेत्||१०३|| शर्करापिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च| शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान्||१०४|| गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशनः| शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च||१०५|| शर्करानागरोदीच्यं कण्टकारीं शटीं समम्| पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्||१०६|| महिष्यजाविगोक्षीरधात्रीफलरसैः समैः| सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम्||१०७|| इति पित्तकासचिकित्सा|

🔊 Audio coming soon

Adhikarana 25 (108-111) · Śloka 111

बलिनं वमनैरादौ शोधितं कफकासिनम्| यवान्नैः कटुरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत्||१०८|| पिप्पलीक्षारिकैर्यूषैः कौलत्थैर्मूलकस्य च| लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः||१०९|| धान्वबैलरसैः स्नेहैस्तिलसर्षपबिल्वजैः| मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत्||११०|| पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम्| जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु||१११||

🔊 Audio coming soon

Adhikarana 26 (112-122) · Śloka 122

कट्फलं कत्तृणं भार्गीं मुस्तं धान्यं वचाभये| शुण्ठीं पर्पटकं शृङ्गीं सुराह्वं च शृतं जले||११२|| मधुहिङ्गुयुतं पेयं कासे वातकफात्मके| कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च||११३|| पाठां शुण्ठीं शटीं मूर्वां गवाक्षीं मुस्तपिप्पलीम्| पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत्||११४|| नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च| हरीतकीं शटीं चैव तेनैव विधिना पिबेत्||११५|| तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम्| पिबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम्||११६|| कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रसः| सक्षौद्रः कफकासघ्नः सुरसस्यासितस्य च||११७|| देवदारु शटी रास्ना कर्कटाख्या दुरालभा| पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः||११८|| मधुतैलयुतावेतौ लेहौ वातानुगे कफे| पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली||११९|| पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली| देवदार्वभया मुस्तं पिप्पली विश्वभेषजम्||१२०|| विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत्| चतुरो मधुना लेहान् कफकासहरान् भिषक्||१२१|| सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्| चूर्णितं सर्पिषा वातकफकासहरं पिबेत्||१२२||

🔊 Audio coming soon

Adhikarana 27 (123-124) · Śloka 124

दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्| पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः||१२३|| पेयानुपानं तत् पेयं कासे वातकफात्मके| श्वासरोगेषु सर्वेषु कफवातात्मकेषु च||१२४|| इति दशमूलादिघृतम्|

🔊 Audio coming soon

Adhikarana 28 (125-129) · Śloka 129

समूलफलपत्रायाः कण्टकार्या रसाढके| घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकैः||१२५|| सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः| वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभिः||१२६|| द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः| शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्||१२७|| कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते| कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम्||१२८|| इति कण्टकारीघृतम्| कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम्| पाययेत् कफजे कासे हिक्काश्वासे च शस्यते||१२९|| इति कुलत्थादिघृतम्|

🔊 Audio coming soon

Adhikarana 29 (130) · Śloka 130

धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम्| कोशातकीफलान्मध्यं पिबेद्वा समनःशिलम्||१३०||

🔊 Audio coming soon

Adhikarana 30 (131-133) · Śloka 133

तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः| पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्||१३१|| वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम्| पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्||१३२|| आर्द्रे विरूक्षणं, शुष्के स्निग्धं, वातकफात्मके| कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम्||१३३|| इति कफजकासचिकित्सा|

🔊 Audio coming soon

Adhikarana 31 (134-137) · Śloka 137

कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत्| मधुरैर्जीवनीयैश्च बलमांसविवर्धनैः||१३४|| पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम्| प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा||१३५|| यवगोधूममृद्वीकाचूर्णमामलकाद्रसः| तैलं च प्रसृतांशानि तत् सर्वं मृदुनाऽग्निना||१३६|| पचेल्लेहं घृतक्षौद्रयुक्तः स क्षतकासहा| श्वासहृद्रोगकार्श्येषु हितो वृद्धेऽल्परेतसि||१३७||

🔊 Audio coming soon

Adhikarana 32 (138-148) · Śloka 148

क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी| क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम्||१३८|| वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्हितः| तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना||१३९|| हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः| सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनले||१४०|| मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः| तृष्णार्तानां पयश्छागं शरमूलादिभिः शृतम्||१४१|| रक्ते स्रोतोभ्य आस्याद्वाऽप्यागते क्षीरजं घृतम्| नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले||१४२|| स्तम्भायामेषु महतीं मात्रां वा सर्पिषः पिबेत्| कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्||१४३|| निवृत्ते क्षतदोषे तु कफे वृद्ध उरः क्षते| दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान्||१४४|| द्वे मेदे मधुकं द्वे च बले तैः क्षौमलक्तकैः| वर्तितैर्धूममापीय जीवनीयघृतं पिबेत्||१४५|| मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः| भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम्||१४६|| पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया| ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्||१४७|| भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतैः| क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु||१४८|| इति क्षतजकासचिकित्सा|

🔊 Audio coming soon

Adhikarana 33 (149-157) · Śloka 157

सम्पूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत्| नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम्||१४९|| तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम्| बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्||१५०|| शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया| तिल्वकस्य कषायेण विदारीस्वरसेन च||१५१|| सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्| (हितं तद्देहबलयोरस्य संरक्षणं मतम् )||१५२|| पित्ते कफे च सङ्क्षीणे परिक्षीणेषु धातुषु| घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्||१५३|| विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम्| घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे||१५४|| शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे| घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा||१५५|| जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः| क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः||१५६|| औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते| कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः||१५७||

🔊 Audio coming soon

Adhikarana 34 (158-160) · Śloka 160

द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः| कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले||१५८|| शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः| कल्कैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्||१५९|| सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च| दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः||१६०|| इति द्विपञ्चमूलादिघृतम्|

🔊 Audio coming soon

Adhikarana 35 (161-162) · Śloka 162

गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम्| निदिग्धिकां कासमर्दं पाठां चित्रकनागरम्||१६१|| जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम्| सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत्||१६२|| इति गुडूच्यादिघृतम्|

🔊 Audio coming soon

Adhikarana 36 (163-167) · Śloka 167

कासमर्दाभयामुस्तपाठाकट्फलनागरैः| पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा||१६३|| अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके| पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्||१६४|| धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम्| द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम्||१६५|| पिबेदुपरि भक्तस्य यवक्षारघृतं नरः| पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम्||१६६|| एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम्| स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये||१६७||

🔊 Audio coming soon

Adhikarana 37 (168-179) · Śloka 179

हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत्| स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम्||१६८|| दद्यान्मनःशिलाकर्षं कर्षार्धं च रसाञ्जनात्| कुडवार्धं च पिप्पल्याः स लेहः श्वासकासनुत्||१६९|| इति हरीतकीलेहः| श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः| श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा||१७०|| एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्| लिह्यादेतेन विधिना सुरसैरण्डपत्रजम्||१७१|| द्राक्षापद्मकवार्ताकपिप्पलीः क्षौद्रसर्पिषा| लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा||१७२|| चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम्| द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा||१७३|| पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च| बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत्||१७४|| सर्वैरेभिः समं चूर्णैः पृथक् क्षौद्रं घृतं सिताम्| विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम्||१७५|| जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम्| मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम्||१७६|| सारिवां पौष्करं मूलं कर्कटाख्यां रसाञ्जनम्| पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम्||१७७|| भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम्| क्षारचित्रकचव्याम्लवेतसव्योषदारु च||१७८|| चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा| चूर्णात्पाणितलं पञ्च कासानेतद् व्यपोहति||१७९|| इति पद्मकादिलेहः|

🔊 Audio coming soon

Adhikarana 38 (180-186) · Śloka 186

लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्| बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्||१८०|| स्वरभेदे च कासे च लेहमेतं प्रयोजयेत्| पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम्||१८१|| पेया चोत्कारिका च्छर्दितृट्कासामातिसारनुत्| गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्| साभयान् साधयेत्तोये यवागूं तेन चाम्भसा||१८२|| ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे| पाण्ड्वामये क्षये शोथे कर्णशूले च दापयेत्||१८३|| कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः| सगौरामलकः साम्लः सर्वकासभिषग्जितम्||१८४|| वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि| वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने||१८५|| क्षतकासे च ये धूमाः सानुपाना निदर्शिताः| क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत्||१८६||

🔊 Audio coming soon

Adhikarana 39 (187-189) · Śloka 189

दीपनं बृंहणं चैव स्रोतसां च विशोधनम्| व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत्||१८७|| सन्निपातभवोऽप्येष क्षयकासः सुदारुणः| सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम्||१८८|| दोषानुबलयोगाच्च हरेद्रोगबलाबलम्| कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम्||१८९||

🔊 Audio coming soon

Adhikarana 40 (190) · Śloka 190

भोज्यं पानानि सर्पींषि लेहाश्च सह पानकैः| क्षीरं सर्पिर्गुडा धूमाः कासभैषज्यसङ्ग्रहः||१९०||

🔊 Audio coming soon

Adhikarana 41 (191) · Śloka 191

तत्र श्लोकः- सङ्ख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च| कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः||१९१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 18

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने कासचिकित्सितं नामाष्टादशोऽध्यायः||१८||

🔊 Audio coming soon