Adhikarana 1 (1-2) · Śloka 2
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
हविष्प्राशान्मेहकुष्ठयोर्जन्म उक्तं, तेन मेहमनु कुष्ठचिकित्सितमुच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
हविष्प्राशान्मेहकुष्ठयोर्जन्म उक्तं, तेन मेहमनु कुष्ठचिकित्सितमुच्यते||१-२||
Adhikarana 2 (3) · Śloka 3
हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च| शृण्वग्निवेश! सम्यग्विशेषतः स्पर्शनघ्नानाम्||३||
🔊 Audio coming soon
निदाने हेत्वादय उक्ता अपि चिकित्सोपकरणतया किञ्चिद्विशेषप्रतिपादनार्थं पुनरुच्यन्ते| आश्रयमिति आधारम्| प्रशमनं चेति चकारात् पूर्वरूपसम्प्राप्त्योर्वक्ष्यमाणयोर्ग्रहणं; किंवा लिङ्गेन पूर्वरूपं, हेतुना च सम्प्राप्तिर्बोद्धव्या| अन्यान्यपि पिप्लुव्यङ्गादीनि स्पर्शनघ्नानि सन्ति, तेन विशेषतो यानि कुष्ठानि स्पर्शनघ्नानि तेषां हेत्वादीनि शृणु; किंवा कुष्ठानामनन्त्याद्यानि विशेषतः स्पर्शनघ्नान्यष्टादश तेषां हेत्वादि शृण्विति योजना| उक्तं हि- “कुष्ठानि सप्तविधान्यष्टादशविधान्यपरिसङ्ख्येयविधानि च” (नि.अ.५) इति||३||
Adhikarana 3 (4-8) · Śloka 8
विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च| भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्||४|| व्यायाममतिसन्तापमतिभुक्त्वोपसेविनाम्| शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्||५|| घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्| अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्||६|| नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्| माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्||७|| व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा| विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्||८||
🔊 Audio coming soon
विरोधीन्यात्रेयभद्रकाप्यीये- “न मत्स्यान् पयसाऽभ्यवहरेत्” (सू.अ.२६) इत्यादिनोक्तानि| शीतोष्णेत्यादि| शीतोष्णादीनां यथाक्रमेण सेव्यत्वमुक्तं, तद्विपरीतेन सेविनाम्; एवं लङ्घनाहारयोरपि ज्ञेयम्| घर्मादिभिरार्तत्वे सति द्रुतमविश्रम्य शीताम्बुसेविनामिति योज्यम्| अजीर्णाध्यशिनामिति अजीर्णम् आममन्नम्, अपक्वमिति यावत्; तद्भुञ्जानानाम्| अध्यशिनामिति आहारेऽपरिणते भुञ्जानानाम्| पञ्चकर्मापचारिणामिति पञ्चकर्मणि क्रियमाणेऽपचारिणां निषिद्धसेविनाम्| व्यवायं चाप्यजीर्णे इति विदग्धादिरूपेऽन्नाजीर्णे स्त्रीसेवनम् कुर्वताम्| पापं कर्म च कुर्वतामिति पापकर्मणैव विप्रादिधर्षणे लब्धे पुनस्तद्वचनं विशेषहेतुत्वोपदर्शनार्थम्||४-८||
Adhikarana 4 (9-10) · Śloka 10
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च| दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः||९|| अतः कुष्ठानि जायन्ते सप्त चैकादशैव च| न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते||१०||
🔊 Audio coming soon
दोषदूष्यसङ्ग्रहमाह- वातादय इत्यादिना| वातादीनां त्रित्वे सिद्धेऽपि त्रय इति वचनं सर्वकुष्ठेषु त्रयाणामपि दुष्टिदर्शनार्थम्| द्रव्यसङ्ग्रह इति द्रव्यमारम्भकं कारणमुच्यते| अर्थलब्धमपि सप्तकमितिपदं सर्वत्र सप्तकनियमार्थं पुनरुच्यते| यद्यपि विसर्पाणामुत्पादे एतान्येव सप्त कारणानि, यदुक्तं- “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः” (चि.अ.२१) इति; तथाऽपि कुष्ठं चिरक्रियैः स्थिरैर्दोषैर्जन्यते, विसर्पस्तु विसरणशीलैरिति विशेषः| अन्ये तु विसर्पा वातादिभिरेकैकशोऽपि भवन्तीत्याहुः; यदुक्तं- “पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः” (चि.अ.२१) इति; तन्न, त्रिदोषजत्वेऽपि विसर्पाणामेकदोषजकुष्ठवदेकदोषजत्वादिव्यपदेशस्तत्रोच्यते| सप्त चैकादशैव चेति विच्छेदपाठेन सप्तानां कुष्ठानां महाकुष्ठत्वम्, एकादशानां च क्षुद्रकुष्ठत्वमिति बोधयति| निदानेऽनभिहितानामपि क्षुद्रकुष्ठानामिह चिकित्सार्थं विधानम्||९-१०||
Adhikarana 5 (11-12) · Śloka 12
स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः| कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः||११|| व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः| दाहः सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्||१२||
🔊 Audio coming soon
स्पर्शेत्यादि पूर्वरूपम्| न वा स्वेद इति सम्बन्धः| अस्वेदातिस्वेदौ तु स्वेदवहस्रोतोऽवरोधानवरोधकृतौ ज्ञेयौ| शीघ्रोत्पत्तिश्चिरस्थितिश्च व्रणानामेव||११-१२||
Adhikarana 6 (13-20) · Śloka 20
अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य- किटिमविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३|| कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु| कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्||१४|| दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्| उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः||१५|| श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्| कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते||१६|| कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्| यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते||१७|| सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्| सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते||१८|| श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति| अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि||१९|| यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्| त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति||२०|| इति सप्तमहाकुष्ठानि|
🔊 Audio coming soon
कपालः घटखर्परः | विषमं दुश्चिकित्स्यम्| लोमपिञ्जरमिति रोमभिः पिञ्जरं कपिलम् | उत्सन्नमण्डलमिति उद्गतमण्डलम्| ऋष्यः नीलण्डो हरिणः, ऋष्यजिह्वासंस्थानमिति तज्जिह्वाकारम्| प्रायेण चोरसीति उरसि बाहुल्येन भवति, श्लेष्मप्रधानत्वात्; कदाचिदन्यत्रापि भवतीति भावः| काकणन्तिका गुञ्जा| कुष्ठत्वेनैव त्रिदोषलिङ्गत्वे सिद्धे पुनस्तद्वचनं प्रबलत्रिदोषलिङ्गत्वोपदर्शनार्थम्||१३-२०||
Adhikarana 7 (21-26) · Śloka 26
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्| तदेककुष्टं, चर्माख्यं बहलं हस्तिचर्मवत्||२१|| श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम्| वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्||२२|| कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्| सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्||२३|| रक्तं सकण्डु सस्फोटं सरुग्दलति चापि यत्| तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते||२४|| पामाश्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्| स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः||२५|| रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्| सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका||२६|| इत्येकादश क्षुद्रकुष्ठानि|
🔊 Audio coming soon
महावास्त्विति महास्थानम्| मत्स्यशकलोपममिति मत्स्यत्वक्सदृशम्| किणवत् खरः स्पर्शो यस्य तत् किणखरस्पर्शम्; किणः व्रणस्थानम्||२१-२६||
Adhikarana 8 (27-30) · Śloka 30
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे| पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७|| वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके| ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते||२८|| चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्| कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९|| पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा| पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||
🔊 Audio coming soon
चिकित्सार्थं वाताद्याधिकं कुष्ठेष्वाह- वात इत्यादि| ऋष्यजिह्वादिषु वातपित्ताधिक्यादि यथासङ्ख्यं ज्ञेयम्||२७-३०||
Adhikarana 9 (31-32) · Śloka 32
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्| यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१|| दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्| तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||
🔊 Audio coming soon
उक्तैकदोषजत्वादिना कुष्ठेष्वविरोधं दर्शयन्नाह- सर्वमित्यादि| त्रिदोषजत्वं सर्वेषु कुष्ठेषु व्यवस्थितमेव; दोषबलाबलविवक्षया चिकित्सार्थमेकदोषजत्वादिव्यपदेश इति भावः| अनुबन्धस्येति अप्रधानस्य||३१-३२||
Adhikarana 10 (33) · Śloka 33
कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि| ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च प्रकाशयति||३३||
🔊 Audio coming soon
सम्प्रति दोशविशेषजातस्य कुष्ठविशेषस्य तथा कुष्ठजनकस्य च हेतोः परस्परबोधकत्वमाह- कुष्ठविशेषैरित्यादि| कुष्ठविशेषैर्दोषा इति कुष्ठविशेषैः कापलादिभिर्दोषा वातादयो ज्ञायन्ते; तथा दोषविशेषैः पुनः कुष्ठानिति वाताधिकोऽयं पैत्तिकोऽयमिति कुष्ठदोषे परिज्ञाते दोषविशेषज्ञानाद्विशिष्टानि कुष्ठानि ज्ञायन्ते; यथा- इदं वातोत्तरं कुष्ठं, तस्मात् कापालम्; इदं पित्ताधिकत्वान्मण्डलमित्यादि| तथा यः कुष्ठेष्वपरिज्ञातो हेतुः स दोषविशेषैर्ज्ञायते; यथा- कुष्ठं वातोत्तरं दृष्ट्वा वातोत्तरकुष्ठजनकानि रूक्षविरुद्धाशनादीनि कारणानि ज्ञायन्ते| हेतुभिश्च दोषविशेषजनकैः कुष्ठानि ज्ञायन्ते, यस्मादनेन वातोत्तरकुष्ठजनकं सेवितं तस्मादस्य वातोत्तरं कापालं कुष्ठं भविष्यतीति| किंवा कुष्ठादोषयोरन्योन्यगमकत्वं कार्यकारणतया परस्परगमकत्वादुपपन्नमिति दर्शयन्नाह- तैरिति; तैः कुष्ठैः कार्यरूपैर्हेतुर्नाम दोषः अनुमीयते, हेतुश्च दोषरूपस्तान् कार्यरूपकुष्ठविशेषानवगमयतीत्यर्थः||३३||
Adhikarana 11 (34-36) · Śloka 36
रौक्ष्यं शोषस्तोदः शूलं सङ्कोचनं तथाऽऽयामः| पारुष्यं खरभावो हर्षः श्यावारुणत्वं च||३४|| कुष्ठेषु वातलिङ्गं, दाहो रागः परिस्रवः पाकः| विस्रो गन्धः क्लेदस्तथाऽङ्गपतनं च पित्तकृतम्||३५|| श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः| कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः||३६||
🔊 Audio coming soon
कुष्ठगतदोषज्ञानार्थं वातादिलिङ्गान्याह- रौक्ष्यमित्यादि| दाहादयः पित्तलिङ्गानि||३४-३६||
Adhikarana 12 (37-38) · Śloka 38
सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्| तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्||३७|| वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम्| कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि||३८||
🔊 Audio coming soon
चिकित्साप्रवृत्तिनिवृत्त्यर्थं साध्यासाध्यकुष्ठान्याह- सर्वैरित्यादि||३७-३८||
Adhikarana 13 (39-42) · Śloka 42
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु| पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९|| वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः| प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्||४०|| बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्| दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१|| स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते| वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||
🔊 Audio coming soon
यथाक्रमं चिकित्सामाह- वातोत्तरेष्वित्यादि| अग्रे इति सर्पिरादिषु योज्यं; तेन वातोत्तरादिषु सर्पिरादि प्रथमं कर्तव्यं, तदनु वक्ष्यमाणा चिकित्सा कार्येत्यर्थः| बहुश इति बहून् वारान्; स्तोकस्तोकनिर्हरणेन पुनः पुनः शोध्यः; एकदा हि भूरिदोषहरणे बलक्षयो महात्ययः स्यात्| अत एवाह- दोषे ह्यतिमात्रहृते इत्यादि| दोषे इति जातावेकवचनं; तेन कफपित्तयोरपि ग्रहणम्; किंवा दोष इति एकवचनेनैव एकदोषस्याप्यतिमात्रहरणे वायुर्हन्यादिति| कोष्ठे शुद्धे रक्ते प्रवाहिते च स्नेहस्य पानं ज्ञेयम्| अशुद्धकोष्ठस्य स्नेहपानं व्याधिवर्धनं भवति| उक्तं हि- “शेषदोषे व्याधिरतिवर्धते” इति| शोधनेन तु निःशेषीकृते दोषे सशेषदोषता नास्ति||३९-४२||
Adhikarana 14 (43-49) · Śloka 49
दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु| कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३|| शीतरसः पक्वरसो मधूनि मधुकं च वमनानि| कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता||४४|| सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि| शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५|| दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः| सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६|| वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य| फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७|| सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्| नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् ||४८|| वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति| कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||
🔊 Audio coming soon
कुटजेत्यादिना वमनद्रव्याण्याह| शीतरसः शीतकषायः | यथाविरेकं क्रमश्चेष्ट इति प्रधानमध्यावरशुद्ध्यपेक्षया पेयादिक्रमस्त्रिशो द्विश एकशो वा कार्यः; उक्तं हि- “पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः” (सि.अ.१) इति| आस्थापनानुवासने यद्यपि “नास्थाप्याः कुष्ठिनः” (सि.अ.२) इत्यादिना कुष्ठे निषिद्धे, तथाऽप्यास्थापनानुवासनैकसाध्यायामवस्थायां कर्तव्ये एव; यदुक्तं- “प्रवृत्तिनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येत्” (वि.अ.८) इति; तेनाह- वातोल्बणमित्यादि| सूत्रस्थाने यद्यपि एकैव वैरेचनिको धूम उक्तस्तथाऽपि तत्रोक्तद्रव्यैर्व्यस्तसमस्तैर्बहवो धूमा भवन्तीति बहुवचनमिह कृतम्||४३-४९||
Adhikarana 15 (50-53) · Śloka 53
स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः| कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्यः||५०|| आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च| स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१|| रुधिरागमार्थमथवा शृङ्गालाबूनि योजयेत् कुष्ठे| प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२|| ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्| संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||
🔊 Audio coming soon
नाड्येव नाडी स्वेदाध्याये उक्ता| कूर्चं शस्त्रविशेषमाहुः| रक्तोत्क्लेशः उत्क्लिष्टं रक्तम्| स्विन्नत्वेनोत्सन्नं स्विन्नोत्सन्नम्| रुधिरागमार्थं विलिखेदिति सम्बन्धः| निर्हृतोऽस्रदोषो येषां ते निर्हृतास्रदोषाः||५०-५३||
Adhikarana 16 (54-57) · Śloka 57
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः| तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५४|| पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च| पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५|| स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि| कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६|| जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा| घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||
🔊 Audio coming soon
न शस्त्रं क्रमत इति सिरादिसङ्कटत्वान्न शस्त्रं योग्यं भवति| स्पर्शेन्द्रियनाशनानीति त्वगिन्द्रियहराणि| सुप्तसुप्तानीति सुप्तवत् सुप्तानि अचेतनानि, सर्वथा स्पर्शाज्ञानीत्यर्थः||५४-५७||
Adhikarana 17 (58-59) · Śloka 59
मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्| कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं च||५८|| सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत् कर्म| बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु||५९||
🔊 Audio coming soon
सर्पींषि तिक्तकानि तिक्तषट्पलादीनि| पित्तकुष्ठिनां कफपित्तरक्तहरणादीनि कार्याणीति योज्यम्||५८-५९||
Adhikarana 18 (60-64) · Śloka 64
दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्| वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्||६०|| दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्| अभया प्रयोजिता वा मासं सव्योषगुडतैला||६१|| मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं त्रिफलात्वचश्च | स्यात्त्रायमाणा कटुरोहिणी च भागार्धिका नागरपादयुक्ता||६२|| पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना| जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत||६३|| कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च| षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च||६४||
🔊 Audio coming soon
दार्वी दारुहरिद्रा| रसाञ्जनं दार्वीक्वाथकृतम्| अभयाप्रयोगे गुडतैलयोः कुष्ठनिदानत्वेनोक्तयोरपि संयोगमहिम्ना हरीतक्या समं प्रयोगः कुष्ठघ्नो भवति| मूलं पटोलस्येति पटोलमूलं, तथा गवाक्ष्या अपि मूलम्| पलांशं पलपरिमाणम्| त्रिफलात्वचश्च प्रत्येकं पलांशाः| यद्यपि कल्याणकघृतोक्ताष्टाविंशतिपदेन त्रिफलायाः प्रत्येकं भागः सर्वत्र व्यवस्थापितः, तथाऽपि तस्यैवार्थस्य द्योतनार्थं पुनः पृथक्शब्दं ग्राहयति; किंवा त्रायमाणायाः कटुरोहिण्याश्च पृथग्भागार्धिकत्वं दर्शयति, त्रिफलायास्तु प्रसङ्गत एव पृथग्भागग्रहणं सिद्धम्| त्रायमाणाकटुरोहिण्योः प्रत्येकं षट्शाणमात्रं, नागरस्य चोभयोरर्धभागपूरकत्वेनार्धपलापेक्षया चतुर्थपादद्वयेन शाणचतुष्टयं भवति, एवं त्रायमाणाकटुरोहिणीनागरैः पलमेकं, पटोलमूलादिभिः पञ्चपलानीति मिलित्वा षट्पलानि; तथा सत्येषां पटोलादीनां चूर्णीकृतानामिति जर्जरीकृतानां, षट्पलानां पलमाकृष्य जले शृतं पिबेत्; एवं षड्दिनं प्रयोज्यम्| षड्दिनप्रयोगेणैवास्य प्रायः कुष्ठहरत्वमुन्नीयते| एतद्व्याख्यानसम्मतिप्रदानि तन्त्रान्तराणि लिख्यन्ते| तथाहि अग्निवेशः- “पटोलमूलं त्रिफला विशाला च पलोन्मिता| पलार्धं त्रायमाणा च तथा कटुकरोहिणी|| कर्षार्धं नागरं दत्त्वा षट्पलान्यवचूर्णयेत्| जले शृतं पिबेत् कोष्णं चूर्णस्यात्र पलं पलम्” इत्यादि| चक्षुष्येणोऽप्याह- “पटोलमूलं त्रिफला विशाला च पलांशिका| कटुका त्रायमाणा च पलर्धा पादनागरा|| तस्मात् षड्भागमुत्क्वाथ्य जले दोषहरं पिबेत्” इति| अन्ये तु व्याख्यानयन्ति यत्- पलांशशब्देन कर्ष उच्यते; तेन पटोलमूलस्य पृथक्कर्षः, तथा गवाक्षीमूलस्य कर्षः, तथा क्रिफलाया मिलित्वा कर्षः, त्रायमाणा च नागरपादयुक्ता सती कर्षार्धा भवति, एवं कटुरोहिणी च नागरपादयुक्ता सती कर्षार्धा भवति, एवं मिलित्वा पलं चूर्णीकृतं जले शृतं पिबेदिति| एतच्च तन्त्रान्तरविरोधात् तथा त्रिफलसमुदायभागस्य चान्यायसिद्धत्वान्नातिसाधु; “पटोलमूलत्रिफलागवाक्षीत्रिवृतापलैः| त्रायन्ती कटुका द्वाभ्यां कृत्वा नागरपादिकम्|| चूर्णं पलं पिबेत्तस्माच्छृतं जीर्णे रसान्नभुग्” इत्यादिजतूकर्णवचनविरोधाच्च| जीर्णे रसैरित्यादि| विरेकेऽत्र रसभोजनं प्रयोगयौगिकत्वात्; आवर्तकीघृतविरिक्तस्य काञ्जिककोद्रवान्नभोजनवत्| धन्वमृगद्विजानां रसैः शाल्योदनमाददीतेत्यर्थः||६०-६४||
Adhikarana 19 (65-69) · Śloka 69
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे| सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा||६५|| चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम् | सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम्||६६|| श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि| ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति||६७|| इति मुस्तादिचूर्णम्| त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्| मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्||६८|| भूनिम्बपलाशानां दद्याद्विपलं ततस्त्रिवृद्द्विगुणा| तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम्||६९||
🔊 Audio coming soon
तर्पणभागैरिति सक्तुभागैः| प्रायोगिकमिति सततोपयोज्यम्| केचित्त्रिफलेत्यादि योगं न पठन्ति||६५-६९||
Adhikarana 20 (70-72) · Śloka 72
लेलीतकप्रयोगो रसेन जात्याः समाक्षिकः परमः| सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण||७०|| श्रेष्ठं गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा| सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम्||७१|| वज्रशिलाजतुसहितं सहितं वा योगराजेन| सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च||७२||
🔊 Audio coming soon
लेलीत(ह)कः पाषाणभेद औत्तरापथिकः, उच्यते हि निघण्टौ- “आसीद्दैत्यो महाबाहुर्लेलिहानो महासुरः| योजनानां त्रयस्त्रिंशत् कायेनाच्छाद्य तिष्ठति|| विष्णुचक्रेण सञ्च्छिन्नो पपात धरणीतले| वसा तस्य समाख्याता लेलीह(त)क इति क्षितौ” इत्यादि| जात्या इति आमलक्याः||७०-७२||
Adhikarana 21 (73-75) · Śloka 75
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः| क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च||७३|| तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि| त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्||७४|| मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे| मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५|| इति मध्वासवः|
🔊 Audio coming soon
कार्ये ते चाष्टपालिके इति खदिरसुरदारुसारे अष्टपलमाने कर्तव्ये| कनकं नागकेशरम्||७३-७५||
Adhikarana 22 (76-80) · Śloka 80
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य| द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि||७६|| त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः| सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७|| निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या| मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८|| अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च| ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९|| इति कनकबिन्द्वरिष्टम्| कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु| कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||
🔊 Audio coming soon
कनकबिन्दौ मधुशर्करे विना आसवानिष्पत्तेः पूर्वानुसारोक्तमाने मधुशर्करे इहापि ज्ञेये| सौवर्णीत्वक् दारुहरिद्रात्वक्| केचित् कनकबिन्दुं पठित्वा मध्वासवं पठन्ति||७६-८०||
Adhikarana 23 (81) · Śloka 81
त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता| क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||
🔊 Audio coming soon
त्रिफलासवश्च गौड इत्यादौ गौड इति शर्करास्थाने गुडेन कृतो गौडः| क्रमुकं ह्रखपूगफलं, वराङ्गं गुडत्वक्| अत्र त्रिफलादीनां मानेऽनुक्तेऽपि आसवान्तरोक्तद्रव्यमानविभागेन मानं ग्राह्यम्||८१||
Adhikarana 24 (82-83) · Śloka 83
लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि च तिक्तकानि| भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२|| पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः| शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च||८३||
🔊 Audio coming soon
लघूनीत्यादिना सेव्यमाहारमाह| भल्लातकादीनामन्नसंस्कारकत्वं घृतसाधकत्वं च यथास्वपरिभाषया ज्ञेयम्| न गुर्वित्यादिना निषेध्यमाह||८२-८३||
Adhikarana 25 (84-96) · Śloka 96
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च| कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४|| चित्रकमेलां बिम्बीं वृषकं त्रिवृदर्कनागरकम्| चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य||८५|| क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु| भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि||८६|| मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः| मूत्रं पित्तं क्षारः पालाशः कुष्ठहा लेपः||८७|| त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती| गोधारसः सलवणो दारु च मूत्रं च मण्डलनुत्||८८|| कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन| मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे च||८९|| तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्| मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च||९०|| मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः| दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम||९१|| एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः| त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||९२|| कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः| प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३|| श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः| सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४|| लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य| कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५|| शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि| पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६|| इति लेपाः|
🔊 Audio coming soon
एलेत्यादिना लेपानाह| बिम्बी अष्ठोपमफला| अर्कः कुरुविन्दो मणिविशेषः, ताम्रमित्यन्ये| विलयन्तीति अपयान्ति| मांसेषु तोयकार्यमिति मांसप्रक्षालनोदके तथा पिष्टे तथा किण्वे च तोयकार्यं कार्यम्| तोयकार्यं क्षाराम्भसा कार्यमिति योज्यम्| अत्र मांसपिष्टाभ्यां किण्वं कार्यं, किण्वैश्च मेदकः साधनीयः| मेदकः जगलः| सुजातः सञ्जनितः, प्रलेपनमिति योज्यम्| मुस्तमित्यादौ वर्णक इति वर्णकरमालेपनम्| त्वग्दोषशब्देन गोबलीवर्दन्यायेन किलासव्यङ्गादीनां ग्रहणम्| कुष्ठमित्यादिको योगो जलपिष्टो ज्ञेयः| तेनारग्वधीयोक्ते “करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः” (सू.अ.३) इत्यत्र गोमूत्रपिष्टत्वं विशेषः, तेन न पौनरुक्त्यम्| उद्वर्तनालेपावित्यादौ उन्मर्दनम् उद्वर्तनं ज्ञेयम्| शैरीषी त्वगित्यादौ प्रत्येकद्रव्यकृतत्वेन चतुर्भिर्द्रव्यैश्चतुर्विधो लेपो ज्ञेयः| अन्ये तु चतुर्भिरपि मिलितैरवचूर्णनोद्वर्तनजलपिष्टलेपनरसक्रियालेपनभेदेनेह चतुर्विधलेपं वदन्ति| एतच्चतुर्विधाचतुष्टयमारग्वधीयप्रयोगेषु यद्यपि दृश्यते, तथाऽप्यालेपनेन सिद्धत्वान्नातिरमणीयम्||८४-९६||
Adhikarana 26 (97-101) · Śloka 101
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य| आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७|| इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य| स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य||९८|| आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः| तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९|| त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी| एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००|| एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्| एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||
🔊 Audio coming soon
दार्व्या इत्यादौ दार्वीसम्बन्धिनो रसाञ्जनस्यैको योगः; शेषास्तु षट्, सप्तमस्तिनिशस्य, अष्टमोऽश्वमारस्य| अश्वमारस्तु यद्यपि मूलविषत्वेनोक्तस्तथाऽपि कुष्ठेषु विषप्रयोगस्यापि हितत्वात् साधुः||९७-१०१||
Adhikarana 27 (102-104) · Śloka 104
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका| कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२|| एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च| तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३|| एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः| उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||
🔊 Audio coming soon
कुष्ठार्केत्यादौ एतैस्तैलं सिद्धमित्यत्र प्राधान्यात्तिलतैलं ज्ञेयं, यत्र तु विशेषस्तत्र ‘कनकक्षीरी शैला’ इत्यादौ ‘सार्षपमथवा तैलम्’ इत्युक्तम्; अन्ये तु कुष्ठेष्वालेपे सार्षपं ग्राहयन्ति, पाने तु विशेषानुक्तौ तिलतैलमेव भवति||१०२-१०४||
Adhikarana 28 (105) · Śloka 105
श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च| कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम्||१०५|| इति श्वेतकरवीराद्यं तैलम्|
🔊 Audio coming soon
श्वेतकरवीररस इत्यादौ करवीररसगोमूत्रयोर्द्रवत्वं, शेषस्य कल्कत्वम्||१०५||
Adhikarana 29 (106-107) · Śloka 107
श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च| कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका||१०६|| एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम्| दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम्||१०७|| इति श्वेतकरवीरपल्लवाद्यं तैलम्|
🔊 Audio coming soon
श्वेतकरवीरपल्लवेत्यादौ करवीररसस्य गोमूत्रस्य च साम्यम्||१०६-१०७||
Adhikarana 30 (108-110) · Śloka 110
तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे| बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा||१०८|| कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्| लाङ्गालकं कुटजत्वक् कटुकाख्या रोहिणी चैव||१०९|| सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्| कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ||११०|| इति तिक्तेक्ष्वाक्वादितैलम्|
🔊 Audio coming soon
द्वे तुत्थे इति मयूरतुत्थं खर्परिकातुत्थं च||१०८-११०||
Adhikarana 31 (111-116) · Śloka 116
कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं च| जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्||१११|| सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः| गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि||११२|| कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः | एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः||११३|| हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासञ्ज्ञः| सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम्||११४|| कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये| सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्||११५|| स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु| भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात्||११६|| इति कनकक्षीरीतैलम्|
🔊 Audio coming soon
कनकक्षीरी ‘कङ्कुष्ठ’ इति ख्याता| अवाक्पुष्पी अपामार्गः; किंवा ‘हेद्वादुल्ली’ इति ख्याता| अमृतासञ्ज्ञः खर्परिकातुत्थम्||१११-११६||
Adhikarana 32 (117-118) · Śloka 118
कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्| तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे||११७|| तेनालिप्तं सिध्मं सप्ताहाह्येति तिष्ठतो घर्मे| मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः||११८|| इति सिध्मे लेपः|
🔊 Audio coming soon
व्येति अपयाति| घर्मे इति आतपे| स्नानं मुक्त्वेति स्नानं वर्जयित्वाऽयं प्रयोगः कर्तव्यः||११७-११८||
Adhikarana 33 (119) · Śloka 119
सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च| कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य||११९||
🔊 Audio coming soon
सर्षपकरञ्जेत्यादिना कुष्ठेष्वन्नपानसाधने सार्षपतैलादीनि देयानीति दर्शयति; अन्ये तु कुष्ठेषु सामान्येन तैलश्रुतौ सार्षपादीन्येव देयानि न तिलतैलमित्यनेन दर्शितमिति वर्णयन्ति||११९||
Adhikarana 34 (120-134) · Śloka 134
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्| एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः||१२०|| देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता| चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च||१२१|| इति विपादिकाहरघृततैले| किण्वं वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्| लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत्||१२२|| पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च| लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः||१२३|| चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि| खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च||१२४|| लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः| दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः||१२५|| एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च| कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति||१२६|| एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्| काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः||१२७|| वासा तिफला पाने स्नाने चोद्वर्तने प्रलेपे च| बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव||१२८|| खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः| सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु||१२९|| जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि| भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे||१३०|| यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च| स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः||१३१|| आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि| सातिविषा च ससेव्या सचन्दना रोहिणी कटुका||१३२|| तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु| तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च||१३३|| क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले| शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम्||१३४||
🔊 Audio coming soon
घृततैलपाक इति यमकपाकः| अत्र च सिद्धे स्नेहे क्षेप्ययोः सर्जरसमधूच्छिष्टयोरपि कल्कार्थोपात्तजीवन्तीमञ्जिष्ठादिद्रव्यैः समानत्वं साहचर्याज्ज्ञेयं; किंवा स्नेहादष्टमो भागः सर्जरसमधूच्छिष्टयोः, अन्यत्र दृष्टत्वात्; तथाहि “समूलादेरण्डात्” इत्यादौ द्विप्रस्थस्नेहपरिमाणे मधूच्छिष्टपलान्यष्टावुक्तानि| पूतीकेत्यादौ पक्वसुरा गोरक्षकर्कटी, क्षौद्रवल्ली गुडूची| षण्मारुतकफकुष्ठघ्ना इति किण्वं वराहरुधिरमित्याद्युक्ताः षड् भवन्ति| अन्ये चित्रकादीनेव श्लोकपादोक्तान् षड् वर्णयन्ति| अवघातः कर्णिकाकारः| रोहीतकः ‘रोहिडा’ इति ख्यातः| वाप्यं कुष्ठं, लोहमगुरु, प्लवं कैवर्तमुस्तकम्| भागोत्तराणि यथोत्तरमेकभागवृद्धानि| रसा इति क्वाथाः| तैलैरित्यादौ चन्दनादीनां तैलसाधनरूप एव योगो ज्ञेयः||१२०-१३४||
Adhikarana 35 (135) · Śloka 135
खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्| कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्||१३५||
🔊 Audio coming soon
खदिरघृतमित्यादौ खदिरादिभिर्घृतानि साध्यानि; तत्र च खदिरस्य सारं, निम्बस्य त्वक्, पटोलस्य च पत्रं ग्राह्यं, वृद्धव्यवहारात्| उक्तं च- “सारः स्यात् खदिरादीनां, निम्बादीनां त्वचस्तथा| फलं तु दाडिमादीनां, पटोलादेर्दलं तथा” इति||१३५||
Adhikarana 36 (136-139) · Śloka 139
त्रिफलात्वचोऽर्धपलिकाः पटोलपत्रं च कार्षिकाः शेषाः| कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च||१३६|| एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्| सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः||१३७|| ते च कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्| यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम्||१३८|| तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्| ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति||१३९||
🔊 Audio coming soon
त्रिफलात्वच इत्यादौ प्रत्येकं हरीतक्यादीनामर्धपलं, पटोलपत्रं चार्धपलं; शेषाः कटुरोहिण्यादयः| मसूरविदलानामिति निस्तुषमसूराणां, न तु मसूरविदलाऽत्र श्यामा; उक्तं हि जतूकर्णे पुंलिङ्गेन- “मसूरविदलात् पलम्” इति| अष्टभागे शेषे इति षोडशपले; अत एवोक्तं ‘तत्र कषायेऽष्टपले’ इति प्रथमाद्विवचनान्तं, तेन षोडशपलमाह| अत्र चाष्टाविंशत्युत्तरपलशतमानस्याष्टभागशेषे षोडशपलानि भवन्ति, तच्च द्रवषोडशपलमष्टपलशब्देनाकृतद्वैगुण्येनैवोच्यते; पलेऽपि यदि द्रवद्वैगुण्यं स्यात्तदा षोडशपलेन द्वात्रिंशत्पलानि स्युः, न चेहाढकाष्टभागशेषे द्वात्रिंशत्पलत्वं, किन्तु षोडशपलमेव; तेनैतस्मादेवाष्टपलशब्देनाकृतद्वैगुण्याद्द्रवषोडशपलग्रहणादुन्नीयते यत्- पलोल्लेख्यमाने द्वैगुण्यं नास्ति; किञ्च कुडवादावेव द्रवद्वैगुण्यमिहानुमतं तन्त्रान्तरेणाप्यनुमतमिति| यावत् स्यादष्टपलमित्यनेन कषायचतुष्पलेन संयुतस्याष्टपलं स्थाप्यमिति दर्शयति | एषा च मात्रा कुष्ठिनां भूरिमात्रद्रव्यसाध्यत्वेनोत्तमा ज्ञेया||१३६-१३९||
Adhikarana 37 (140-143) · Śloka 143
निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्| कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च||१४०|| सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते| चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च||१४१|| मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्| नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम्||१४२|| कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि| पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्||१४३|| इति तिक्तषट्पलकं घृतम्|
🔊 Audio coming soon
निम्बमित्यादिना तिक्तषट्पलकमाह| “सर्पिश्चाप्यनवं हितम्” इति वचनस्य बाधकमिह योगमहिम्ना सर्पिषो नवत्वं ज्ञेयम्| प्रथमं ‘सर्पिषः’ इति पदं मानार्थं, द्वितीयं तु ‘घृतं’ इति पदं पेयत्वोपदर्शनार्थं; तथा प्रथमं सिद्धमिति पक्वं, द्वितीयं तु प्रसिद्धिख्यापकम्||१४०-१४३||
Adhikarana 38 (144-150) · Śloka 150
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्| मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४|| धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे| षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५|| वत्सकबीजं यासं मूर्वाममृतां किराततिक्तं च| कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च||१४६|| कल्कश्चातुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्| द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७|| कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि| वीसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च||१४८|| विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्| हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां च||१४९|| हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः| योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०|| इति महातिक्तकं घृतम्|
🔊 Audio coming soon
सप्तच्छदमित्यादिना महतिक्तघृतमाह| शम्पाक आरग्वधः| कल्कश्चातुर्भाग इति घृताच्चतुर्थो भागः; एतच्च सामान्यपरिभाषासिद्धमपि स्पष्टार्थमुच्यते| अमृतफलानामिति आमलकानाम्| अत्रापि त्रिसर्पिर्वचने एकं कल्कादिभागार्थं, द्वितीयं पेयत्वोपदर्शनार्थं, तृतीयं महातिक्तकसञ्ज्ञादर्शनार्थम्||१४४-१५०||
Adhikarana 39 (151) · Śloka 151
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने | स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते साध्यम्||१५१||
🔊 Audio coming soon
न कुष्ठमनुवर्तत इति साध्यमेवेत्यर्थः||१५१||
Adhikarana 40 (152-156) · Śloka 156
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले| तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२|| पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा| हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३|| सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः| अष्टभागावशेषं तु कषायमवतारयेत्||१५४|| धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्| महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५|| निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्| महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६|| इति महाखदिरं घृतम्|
🔊 Audio coming soon
खदिरस्य तुला इत्यादिकं केचिदनार्षं वदन्ति| साधयेदित्यत्र ‘सर्पिः’ इति शेषः| तत्र घृतमानानुक्तौ क्वाथशेषस्याढकाधिकद्रोणस्य नियतत्वात् तत्क्वाथचतुर्थभागं प्रस्थाधिकाढकमानं घृतं साध्यम्||१५२-१५६||
Adhikarana 41 (157-161) · Śloka 161
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु| मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७|| वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च| स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८|| पानाहारविधाने प्रसेचने धूपने प्रदेहे च| कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९|| एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्| उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०|| एदगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च| कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||
🔊 Audio coming soon
खदिर इति कुष्ठहन्तृत्वेन खदिरो द्रव्यान्तरेषु विशिष्यते प्रकर्षवान् भवतीत्यर्थः| श्वदन्ता इति कुक्कुरदन्ताः| उद्दालनमिति प्रशमनम्| पाकलं कुष्ठम्||१५७-१६१||
Adhikarana 42 (162-172) · Śloka 172
श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्| श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२|| तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्| संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३|| श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्| स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४|| मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य| पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५|| यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्| खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६|| समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्| श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७|| कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्| हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८|| नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा| मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९|| काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे| पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०|| लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च| गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१|| शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्| श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||
🔊 Audio coming soon
त्वग्दोषाधिकारानुषङ्गात्त्वग्दोषविशेषस्य श्वित्रस्य चिकित्सामाह- श्वित्राणामित्यादि| नन्वपररोगाणां निदानाद्यभिधाय चिकित्सोच्यते, श्वित्रस्य तु प्रथमं चिकित्सा पश्चाद्धेत्वादीति कोऽभिप्रायः? उच्यते- येयं कुष्ठचिकित्सोक्ता सा श्वित्राणामपि विधेया; तद्यदि निदानादि श्वित्रस्योच्यते तदा सा चिकित्सा व्यवहिता स्यात्, तेन चिकित्सैव तावदुच्यते| श्वित्राणां सविशेषं प्रयोक्तव्यमिति यदेतत् कुष्ठोद्दालनमुक्तं तच्छ्वित्राणां सविशेषं गाढतरं कर्तव्यमित्यर्थः| सर्वतो विशुद्धानामिति वमनादिभिः शुद्धानाम्| मलपूः काकोदुम्बरिका| श्वित्रेऽङ्गे इति श्वित्रयुक्तेऽङ्गे| कनकपुष्पी सुवर्णक्षीरी| मालस्याः कोरकक्षारमिति मालतीमुकुलक्षारं, कोरको मुकुल उच्यते| अञ्जने द्वे इति सौवीरं रसाञ्जनकं च| कस्यचिदेव प्रशाम्यतीत्यनेन श्वित्राणां दुरपगमतामाह||१६२-१७२||
Adhikarana 43 (173-176) · Śloka 176
दारुणं चारुणं श्वित्रं किलासं नामभिस्त्रिभिः| विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत्||१७३|| दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते| श्वेतं मेदःश्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्||१७४|| यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्| यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति||१७५|| अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्| मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते||१७६||
🔊 Audio coming soon
नामभिरिति उक्तदारुणादिभिरेव| प्रायःशब्देनैकदोषं द्विदोषं च भवति| दोषे इत्यादिनोक्तं त्रैविध्यं विभजति| सुश्रुते तु “त्वग्गतमेव किलासम्” (नि.अ.५) इत्युक्तं, तच्च न कुष्ठवद्रक्तादिगतकुष्ठलक्षणकारकं श्वित्रमित्यभिप्रायेणोक्तम्| इह तु यद्रक्ताद्याश्रयित्वं श्वित्रस्योच्यते, तद्रक्तादिदोषमात्राभिप्रायेण न रक्तादिगतसमस्तकुष्ठलक्षणकारितया; तेनात्रापि त्वङ्मात्रविकृतिकारकत्वं श्वित्रस्य सम्मतमेवेति न विरोधः | गुर्विति अनुपक्रमम्| अरक्तेत्यादिना साध्यकिलासलक्षणमाह||१७३-१७६||
Adhikarana 44 (177) · Śloka 177
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां गुरुधर्षणं च| पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||
🔊 Audio coming soon
वचांसीत्यादिना त्वैहिकं वाङ्मानसं पापं कर्मोक्तं, पापक्रियेत्यनेन जन्मान्तरकृतमधर्मं ग्राहयति||१७७||
Adhikarana 45 (178-180) · Śloka 180
तत्र श्लोकाः- हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः| कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८|| साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः| सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९|| इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये| स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||
🔊 Audio coming soon
हेतुर्द्रव्यमित्यादिना सङ्ग्रहः| येषु येषु कपालादिषु ये ये चाधिका दोषास्तेषां निर्देशः समासतो दोषनिर्देश इति| ‘रौक्ष्यं शोषस्तोदः’ इत्यादिनोक्तं दोषलिङ्गम्| गुरुलाघवमिति ‘श्वित्रं गुरु तच्चोत्तरोत्तरम्’ इत्यनेनोक्तम्||१७८-१८०||
Adhikarana puShpikA · Śloka 7
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने कुष्ठचिकित्सितं नाम सप्तमोऽध्यायः||७||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम सप्तमोऽध्यायः||७||