Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. pramēhacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

निदानोक्तसम्बन्धक्रमादेव गुल्मचिकित्सितादनु मेहचिकित्सितमुच्यते||१-२||

Adhikarana 2 (3) · Śloka 3

निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः| कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्||३||

🔊 Audio coming soon

निर्गता मोहादयो यस्य स तथा; अनुशयः कोपः| निर्गता आशा यस्य स निराशः नीरागः| निदानोक्तमपि हेतुलिङ्गादि पुनः प्रकरणवशात् सकलमुच्यते||३||

Adhikarana 3 (4) · Śloka 4

आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि| नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्||४||

🔊 Audio coming soon

आस्यासुखमिति सुखजनिका आस्या न दुःखजनिका, एवं स्वप्नसुखं च ज्ञेयं; शय्यादिदोषेण दुःखस्वप्नं दुःखास्या च न प्रमेहहेतुः| गुडवैकृतं गुडकृता भक्ष्याः||४||

Adhikarana 4 (5-6) · Śloka 6

मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य| करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि||५|| क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति| दोषो हि बस्तिं समुपेत्य मूत्रं सन्दूष्य मेहाञ्जनयेद्यथास्वम्||६||

🔊 Audio coming soon

मेदश्च मांसं चेत्यादिना कफजादिमेहसम्प्राप्तिः| कफजा एव मेहा भूयस्त्वेन साध्यत्वेन चादावुच्यन्ते| क्षीणेष्विति कफपित्तेषु, द्वयोश्च बहुवचनं व्यक्त्यपेक्षया ज्ञेयम्; क्षीणेष्विति वृद्धवातापेक्षया क्षीणेषु; तेन वृद्धे कफे पित्ते वा यो वायुः क्रमेण वृद्धो भवति स नेहासाध्यमेहचतुष्टयकरणे विवक्षित इति दर्शयति , तत्र चिकित्साविधानात् साध्यत्वमस्ति- “या वातमेहान् प्रतिपूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा| वायुर्हि मेहेष्वतिकर्शितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता” इति| धातूनिति मज्जौजोलसीकाख्यान्| सर्वमेहानां सामान्यसम्प्राप्तिमाह- दोषो हीत्यादि||५-६||

Adhikarana 5 (7) · Śloka 7

साध्याः कफोत्था दश, पित्तजाः षट् याप्या, न साध्यः पवनाच्चतुष्कः| समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते||७||

🔊 Audio coming soon

समक्रियत्वादिति कफस्य दोषस्य दूष्यस्य मेदःप्रभृतेः समानत्वात् कटुतिक्तादिक्रियायाः| विषमक्रियत्वादिति पित्तस्य संशमनचिकित्सायाः कट्वादिरूपाया विषमत्वात्| महात्ययत्वादिति मज्जादिगम्भीरधात्वपकर्षकत्वेन महाव्यापत्तिकर्तृकत्वादाशुकारित्वाच्च; चकारान्निदानोक्तं विषमक्रियत्वं वातात्मकानां समुच्चिनोति| यथाक्रममिति यथासङ्ख्यम्||७||

Adhikarana 6 (8) · Śloka 8

कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः| मज्जा रसौजः पिशितं च दूष्याः प्रमेहिणां, विंशतिरेव मेहाः||८||

🔊 Audio coming soon

कफ इत्यादिना सर्वमेहानां दोषदूष्यसङ्ग्रहमाह| रसश्च ओजश्चेति रसौजः, ओजसोऽपि मधुमेहे दूष्यत्वात्| यद्यपि मेदःप्रभृतयो दूष्या इह उच्यन्ते, तथाऽपि मेदोमांसशरीरक्लेदानामवश्यम्भावितया परिग्रहः| मज्जादयश्च सर्वमेहे न पुनरवश्यं दूष्यन्ते, स्तोकं वा दुष्टा भवन्ति; किंवा सर्वमेहानामेव त्रिदोषत्वं तथा सकलदूष्यत्वं च ‘कफः सपित्त’ इत्यादिना ग्रन्थेनोच्यते; मेदोमांसादीनि त्वत्यर्थदूष्योपदर्शनार्थं पृथगुक्तानि; यतः कियन्तःशिरसीये सकलमेहवाचकं मधुमेहं कथयता दोषत्रयप्रकोपोऽप्युक्तः| तथाहि- “समारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः| दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः” (सू.अ.१७) इत्युक्तं; तथा सुश्रुतोऽप्याह- “वातपित्तमेदोभिरन्वितः श्लेष्मा मेहाञ्जनयति” (सु. नि.अ.६) इति| कफादीनां द्व्युल्बणादिसंसर्गस्यानन्त्येनाधिकप्रमेहसङ्ख्याप्रसक्तिनिरासार्थमाह- विंशतिरेव मेहा इति||८||

Adhikarana 7 (9-11) · Śloka 11

जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्| शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा||९|| विद्यात् प्रमेहान् कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्| हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात्||१०|| मज्जौजसा वा वसयाऽन्वितं वा लसीकया वा सततं विबद्धम्| चतुर्विधं मूत्रयतीह वाताच्छेषेषु धातुष्वपकर्षितेषु||११||

🔊 Audio coming soon

जलोपममित्यादिना दशभिः श्लेष्मगुणैः कृतान् दशप्रमेहानाह| एतच्च निदाने स्फुटमनुसर्तव्यम्| घनं चोपरि विप्रसन्नमित्यनेन सान्द्रप्रसादमेहमाह| मज्जया मज्जमेहः, ओजसा मधुमेहः, वसया वसामेहः, लसिकया हस्तिमेह इति ज्ञेयाः| शेषेष्विति मेदःप्रभृतिषु रसाद्युक्तधातुव्यतिरिक्तेषु| अपकर्षितेष्विति क्षीणेषु; क्षयस्तेषां प्रमेहारम्भकेण वातेनैव, उपोषणादिभिः कर्शनाद्वा क्रियते||९-११||

Adhikarana 8 (12) · Śloka 12

वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः| श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः||१२||

🔊 Audio coming soon

सङ्क्षेपेण कफजादिप्रमेहलक्षणमाह- वर्णमित्यादि| तत्र कफजे श्वेतो वर्णो, मधुरो रसः, शीतः स्पर्शः, आमश्च गन्धो भवति| एवं पित्तमेहेऽपि ज्ञेयाः| वायोस्त्वतिनिर्वर्णत्वेन प्राभाविकं कायवर्णमाह- श्यावारुण इत्यादि| मज्जादिसाद्गुण्यं मज्जलसीकादिसमानगुणतां याति| यद्यपि वातिको मेहोऽसाध्य एवोक्तस्तथाऽपि पुनरिहासाध्यवचनेन य एव उत्पत्तितः प्रभूताकृतिः स एव श्यावारुणत्वादि सकलं लक्षणं बिभर्ति; यस्तूत्तरकालं चानुबद्धः स साध्यो भवति; तत्र मज्जादिसाद्गुण्यं नावश्यं भवतीति दर्शयति| किंवोत्तरकालमेव ये वातानुबन्धाः श्यावारुणवर्णादियुक्ता भवन्ति तेऽप्यसाध्या भवन्तीति| तथा कफपित्तजा अपि मज्जादियोगादसाध्या एव; उक्तं च- “सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः| मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि” (सु. नि. अ. ६)||१२||

Adhikarana 9 (13-14) · Śloka 14

स्वेदोऽङ्गगन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च| हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः||१३|| शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः| भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च||१४||

🔊 Audio coming soon

स्वेदोऽङ्गगन्ध इत्यादिना पूर्वरूपमाह||१३-१४||

Adhikarana 10 (15-17) · Śloka 17

स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च| सम्बृंहणं तत्र कृशस्य कार्यं संशोधनं दोषबलाधिकस्य||१५|| स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय | ऊर्ध्वं तथाऽधश्च मलेऽपनीते मेहेषु सन्तर्पणमेव कार्यम्||१६|| गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन| प्रमेहिणः स्युः, परितर्पणानि कार्याणि तस्य प्रसमीक्ष्य वह्निम्||१७||

🔊 Audio coming soon

परिदुर्बलः हीनबलः| कृशस्य इति मांसकृशस्य| दोषबलाधिकस्य दोषेण बलेन चाधिकस्य| क्षयः धातुक्षयः||१५-१७||

Adhikarana 11 (18-24) · Śloka 24

संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या| मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः||१८|| ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः| यवौदनं रूक्षमथापि वाट्यमद्यात् ससक्तूनपि चाप्यपूपान्||१९|| मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत| दन्तीङ्गुदीतैलयुतं प्रमेही तथाऽतसीसर्षपतैलयुक्तम्||२०|| सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही| यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१|| निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्| तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२|| ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्| सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत्||२३|| खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः| देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||

🔊 Audio coming soon

क्षुण्णशुष्कयवानां मण्डरहित ओदनो यवौदनः| वाट्यः स एव समण्डो निस्तुषेद्दलितानां यवानां भवति| अतसी ख्याता, ये तिलातसीति पठन्ति तेषां मते तिलरूपाऽतसी(?) विवक्षिता| तृणधान्यानि श्यामाकादीनि| अपूपान् यवपिष्टकृतान्| धानान् भृष्टयवान्| वेणुयवा यवाकाराणि वंशबीजानीत्यर्थः||१८-२४||

Adhikarana 12 (25) · Śloka 25

संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्| जयन्ति पित्तप्रभवान् विरेकः सन्तर्पणः संशमनो विधिश्च||२५||

🔊 Audio coming soon

संशोधनग्रहणेनैवोल्लेखने प्राप्ते पुनर्वमनस्य कफजयप्रधानत्वख्यापनार्थमुल्लेखनपदेन कथनम्; अन्ये तूल्लेखनं कफमेहेषु लङ्घनं वदन्ति| पित्तमेहानां याप्यत्वात् ‘जयन्ति’ इति पदेन पित्तजानां यापनमेवोच्यते; किंवाऽत्यन्तदुष्टे मेदसि पित्तजानामसाध्यत्वं, ‘साध्यास्तु मेदो यदि न प्रदुष्टम्’ इत्यनेन ये वक्तव्यास्तान् प्रति जयन्तीति साधु||२५||

Adhikarana 13 (26-34) · Śloka 34

दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही| क्षौद्रेण युक्तामथवा हरिद्रां पिबेद्रसेनामलकीफलानाम्||२६|| हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च| उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च||२७|| दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि| दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा||२८|| यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः| पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसम्प्रयुक्ताः||२९|| उशीरलोध्राञ्जनचन्दनानामुशीरमुस्तामलकाभयानाम्| पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम्||३०|| लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्| शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम्||३१|| अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्| पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसम्प्रयुक्ताः||३२|| सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे| मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च||३३|| सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु| मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम्||३४||

🔊 Audio coming soon

दार्वीमित्याद्युक्तं योगद्वयं सर्वमेहेषु| सुराह्वः देवदारु| हरीतक्यादयो दश यथासङ्ख्यं कफमेहेषु; किंवा सर्वे सर्वकफमेहेषु, उशीराद्युक्ताश्च पित्तमेहेषु सर्वेषु ज्ञेयाः| कटङ्कटेरी दारुहरिद्रा| मन्थस्य पाने इति मन्थपानार्थं, भोजने इति भोज्यसंस्कारे, एवं पानसंस्कारेऽपि| सिद्धानि तैलानीति एतैरेव कषायैः सिद्धानि| अनिलात्मकेष्विति कफपित्तमेहेष्वेववातानुबन्धेषु, उत्पत्तिविशिष्टानिलजानामसाध्यत्वेनाचिकित्स्यत्वात्||२६-३४||

Adhikarana 14 (35-36) · Śloka 36

कम्पिल्लसप्तच्छदशालजानि बैभीतरौहीतककौटजानि| कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही||३५|| पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले| जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः||३६||

🔊 Audio coming soon

कफपित्तमेहीति कफमेही पित्तमेही च| कल्कीकृतानीति कम्पिल्लकादीन्येव कल्कीकृतानि||३५-३६||

Adhikarana 15 (37-40) · Śloka 40

दृष्ट्वाऽनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः| तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरैः कषायैः||३७|| त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः| वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च||३८|| मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु| मेहेषु तैलं विपचेद्, घृतं तु पैत्तेषु, मिश्रं त्रिषु लक्षणेषु||३९|| फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्| पिबेत् कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु||४०||

🔊 Audio coming soon

अनुबन्धमिति पश्चादनुगतम्| तैलं कफे स्यात् स्वकषायसिद्धमिति कफे कफानुबन्धे च कफघ्नौषधकषायैः सिद्धं तैलं स्यात्, एवं पित्ते पित्तानुबन्धे च पित्तघ्नौषधकषायसिद्धं घृतं देयं स्यात्| सर्वैरित्युक्ते पृथगपि सर्वैः स्नेहसाधनं स्यादत आह- समस्तैरिति ; मिलितैरित्यर्थः| मिश्रमिति तैलघृतयमकम्| त्रिषु लक्षणेष्विति त्रिदोषलक्षणमेलके सति; त्रिदोषजत्वमनुबन्ध्यानुबन्धकृतं कफपित्तजमेहेष्वेव मन्तव्यं; किञ्च सर्वेषामेव मेहानां त्रिदोषजत्वादुद्भूतत्रिदोषजत्वं कदाचिद्भवतीति ज्ञेयम्||३७-४०||

Adhikarana 16 (41-44) · Śloka 44

लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम्| चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च||४१|| भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्| कलिङ्गकन् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च||४२|| द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे| रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः||४३|| मध्वासवोऽयं कफपित्तमेहान् क्षिप्रं निहन्याद्द्विपलप्रयोगात्| पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम्||४४|| इति मध्वासवः|

🔊 Audio coming soon

लोध्रमित्यादौ क्रमुकं पट्टिकालोध्रं पूगं वा| इन्द्रसाह्वाम् इन्द्रवारुणीम्||४१-४४||

Adhikarana 17 (45) · Śloka 45

क्वाथः स एवाष्टपलं च दन्त्या भल्लातकानां च चतुष्पलं स्यात्| सितोपला त्वष्टपला विशेषः क्षौद्रं च तावत् पृथगासवौ तौ||४५||

🔊 Audio coming soon

क्वाथः स एवेति तावन्मानजलेनैव दन्त्यष्टपलं भल्लातकचतुःपलं लोध्रादीनि च कर्षमानानि दत्त्वा क्वाथः कर्तव्य इत्यर्थः| क्षौद्रं च तावदिति क्वाथापेक्षयाऽष्टभागमित्यर्थः||४५||

Adhikarana 18 (46-48) · Śloka 48

सारोदकं वाऽथ कुशोदकं वा मधूदकं वा त्रिफलारसं वा| सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं चिरसंस्थितं वा||४६|| मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्| संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७|| भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः| श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||

🔊 Audio coming soon

सारोदकमिति सारैः खदिरादिसारैः षडङ्गविधिना कृतमुदकं सारोदकं ज्ञेयम्, एवं कुशोदकं ज्ञेयम्| मधुना मधुरीकृतमुदकं मधूदकम्| शूल्यानीति शूलपक्वानीत्यर्थः | मृगद्विजानामित्यत्र यौगिकत्वाज्जाङ्गलमृगद्विजानामिति ज्ञेयम्| प्रयोगादिति अभ्यासात्||४६-४८||

Adhikarana 19 (49) · Śloka 49

सन्तर्पणोत्थेषु गदेषु योगा मेदस्विनां ये च मयोपदिष्टाः| विरूक्षणार्थं कफपित्तजेषु सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः||४९||

🔊 Audio coming soon

सन्तर्पणोत्थेषु गदेषु योगा सन्तर्पणीयाध्याये “त्रिफलारग्वधं पाठां” (सू.अ.२३) इत्याद्युक्ताः||४९||

Adhikarana 20 (50) · Śloka 50

व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः| सेव्यत्वगेलागुरुचन्दनाद्यैर्विलेपनैश्चाशु न सन्ति मेहाः||५०||

🔊 Audio coming soon

सेव्यम् उशीरम्| चन्दनाद्यैरित्यत्र आदिग्रहणेन हि शैलेयादीनां ग्रहणं स्यात्||५०||

Adhikarana 21 (51) · Śloka 51

क्लेदश्च मेदश्च कफश्च वृद्धः प्रमेहहेतुः प्रसमीक्ष्य तस्मात्| वैद्येन पूर्वं कफपित्तजेषु मेहेषु कार्याण्यपतर्पणानि||५१||

🔊 Audio coming soon

सम्प्रत्युत्सर्गतः कफपित्तप्रमेहाणामपतर्पणमाह- क्लेदश्चेत्यादि| यद्यप्यपतर्पणेन गुल्मादिदोषो भवति, तथाऽपि गुल्मादिप्रादुर्भावो यथा न भवेत्तथाऽपतर्पणं कर्तव्यमिति क्लेदश्च मेदश्चेत्यादिना दर्शयति||५१||

Adhikarana 22 (52) · Śloka 52

या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा| वायुर्हि मेहेष्वतिकर्शितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता||५२||

🔊 Audio coming soon

पूर्वचिकित्सिते यानि “सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु” इत्यादिनोक्तानि, तानि वातानुबद्धमेहविषयाणीति दर्शयन्नाह- या वातमेहानित्यादि| वातोल्बणत्वमेव कुतः कफजेषु पित्तजेषु च भवतीत्याह- वायुरित्यादि| असाध्यानिति उत्पत्तितः||५२||

Adhikarana 23 (53) · Śloka 53

यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः| हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा||५३||

🔊 Audio coming soon

यैर्हेतुभिरित्यादिश्लोकार्थपरिभाषा सर्वरोगेष्वेवानुमता, इह प्रमेहस्य चिरकालानुबन्धितया हेतुसेवानिरासार्थमुच्यते||५३||

Adhikarana 24 (54) · Śloka 54

हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः| यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः||५४||

🔊 Audio coming soon

सम्प्रति प्रमेहलक्षणस्य रक्तपित्तलक्षणसाम्ये रक्तपित्ते प्रमेहचिकित्सा मा भूदिति कृत्वा प्रमेहरक्तपित्तभेदकं लक्षणमाह- हारिद्रवर्णमित्यादि||५४||

Adhikarana 25 (55) · Śloka 55

दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः| क्षीणेषु दोषेष्वनिलात्मकः स्यात् सन्तर्पणाद्वा कफसम्भवः स्यात्||५५||

🔊 Audio coming soon

दृष्ट्वेत्यादि| क्षीणेषु दोषेष्विति क्षीणेषु कफमेदःप्रभृतिषु| दोषत्वं चेह दूष्ये मेदआदावविवक्षितं, तथाऽपि दोषसम्बन्धाद्दोषशब्दोऽत्र ज्ञेयः; किंवा दोषेष्विति कफपित्तेषु; द्वयोश्च बहुवचनं व्यक्त्यपेक्षया बहुत्वात्| यदि हि वातिकः स्यात्तदा हेत्वभावात् कफोऽवृद्धः स्यादित्यर्थः; सन्तर्पणात्तु यदि ज्ञातं तर्पणजनितकफवृद्धत्वं, तदा वातनिदानाभावान्नायं वातजः किन्तु कफज इत्यवधार्यत इति भावः||५५||

Adhikarana 26 (56) · Śloka 56

सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः| साध्या न ते, पित्तकृतास्तु याप्याः, साध्यास्तु मेदो यदि न प्रदुष्टम्||५६||

🔊 Audio coming soon

सम्प्रत्युक्तानुक्तप्रमेहाणां साध्यासाध्ययाप्यत्वोपदर्शनार्थमाह- सपूर्वरूपा इत्यादि| सह पूर्वरूपेण “स्वेदोऽङ्गगन्धः” इत्यादिना वर्तन्त इति सपूर्वरूपाः| तत्र कफमेहाः साध्या उक्तास्ते पूर्वरूपेण सह वर्तमाना असाध्या भवन्ति, पित्तमेहा याप्या उक्तास्ते प्रत्याख्येया भवन्ति| साध्यावस्थायामपि पूर्वरूपयोगेन यद्यपि सर्वरोगाणामसाध्यत्वमुक्तम्, उक्तं च यथा- “अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्| विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्” (इ.अ.५) इति; तत्र सर्वपूर्वरूपानुबन्धे सर्वरोगाणामसाध्यत्वमुक्तम्, इह तु असमस्तपूर्वरूपानुबन्धेऽप्यसाध्यत्वं भवतीति विशेषवचनाल्लभ्यते| तथा क्रमेण च ये वातकृतास्ते पूर्वरूपरहिता अप्यसाध्याः| क्रमेणेति यथोक्तनिदानक्रमेण| एतेन य एव निदानोक्ताहेत्वादियोगेन वातजाश्चत्वारो जायन्ते ते मेहा असाध्याः; ये तु कफजाः पित्तजा वा वातानुबन्धत्वेन वातजास्ते साध्या याप्या वा| अत एव तान् प्रति “सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु” इत्यनेन चिकित्सोक्ता| पूर्वरूपराहित्येन पित्तकृते प्रमेहे कदाचित् साध्यत्वमपि भवतीत्यपवादविधिं दर्शयितुमुत्सर्गप्राप्तां पैत्तिकयाप्यतामनुवदति- पित्तकृतास्तु याप्या इति| अवस्थासाध्यान् पैत्तिकानाह- साध्यास्त्वित्यादि| न प्रदुष्टमिति न प्रकर्षेण दुष्टम्; अदुष्टमेदसः पैत्तिकाः साध्या भवन्तीत्यर्थः| किंवा प्रदुष्टाः कफपित्तमेहास्तावदसाध्याः, तथा कफपित्तमेहा ये धात्वपकर्षणाद्वातकृता भवन्ति तेऽपि सपूर्वरूपाः सन्तोऽसाध्या भवन्ति| ये तु पूर्वरूपत्वेन कियन्तःशिरसीयोक्तं प्रमेहं विंशतिप्रमेहातिरिक्तं वर्णयन्ति, ते “विंशतिरेव मेहाः” इति सङ्ख्यानियमेनैव प्रत्यादिष्टाः||५६||

Adhikarana 27 (57) · Śloka 57

जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्| ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान्||५७||

🔊 Audio coming soon

मेहानामसाध्यताप्रकारान्तरमाह- जात इत्यादि| प्रमेही यः प्रमेहिणो जातः सोऽप्यसाध्यो भवति| अत्रापि हेतुमाह- स हि बीजदोषादिति; प्रमेहारम्भकदोषदुष्टबीजजातप्रमेहित्वात्| मधुमेहशब्देनात्र मेहमात्रमुच्यते, यदि तु वातिक उपेक्षितो वा मेहो मधुमेह उच्यते, तदेतरप्रमेहयुक्तमातापितृजनितप्रमेहिणो नासाध्यत्वं स्यात्| किञ्च मधुमेहिनो जनितस्य मधुमेहित्वमेव कारणानुरूपतया युक्तम्| ततश्च मधुमेही मधुमेहिनो वा जातो न साध्य इति वक्तुमुचितम्| तस्मादपत्ये सामान्येन प्रमेहवचनेनापि तत्कारणे पितरि कार्यानुरूपः प्रमेहो मधुमेहशब्दवाच्यो ज्ञेयः| मेहशब्दोऽयं सामान्येन सर्वमेहेषु वर्तत एव, यतः कियन्तःशिरसीये या पिडका मधुमेहसम्बन्धित्वेनोक्तास्ता इह “प्रमेहिणां या पिडका” इत्यनेन सामान्यप्रमेहसम्बन्धितयाऽनुदिताः, तस्मान्मधुमेहशब्दः सर्वप्रमेहे मधुमेहविशेषे च वर्तते; यथा तृणशब्दः सर्वतृणे तृणविशेषे च वर्तते| प्रपञ्चितश्चायमर्थः कियन्तःशिरसीये इति नेह प्रतन्यते| कुलजप्रमेहासाध्यताप्रसङ्गेनापरेषामप्यसाध्यतामाह- ये चापीत्यादि| कुलजा इति पितृपितामहादिकारणोद्भूताः| अनेनैव सामान्येन वचनेन प्रमेहस्यापि कुलजस्यासाध्यतायां सिद्धायां पुनस्तद्वचनं सन्तानानुबन्धित्वोपदर्शनार्थम्| उक्तं हि- “प्रमेहोऽनुसङ्गिनाम्” (सू.अ.२५) इति||५७||

Adhikarana 28 (58) · Śloka 58

प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त| ताः शल्यविद्भिः कुशलैश्चिकित्स्याः शस्त्रेण संशोधनरोपणैश्च||५८||

🔊 Audio coming soon

प्रमेहपिडकाचिकित्सासूत्रमाह- प्रमेहिणामित्यादि| रोगाधिकारे इति रोगचतुष्के| अत्र शल्याधिकारत्वेन “अन्याधिकारेषु न विस्तरोक्तिः” (चि.अ.२६) इति वचनान्न विस्तरः कृतः||५८||

Adhikarana 29 (59-61) · Śloka 61

तत्र श्लोकाः- हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च| मेही द्विविधस्त्रिविधं भिषग्जितमतिक्षपणदोषः||५९|| आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च| तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः||६०|| व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च| मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत्||६१||

🔊 Audio coming soon

हेतुरित्यादिः सङ्ग्रहः| त्रिविधं भिषग्जितमिति संशोधनं, संशमनं निदानवर्जनं च| आद्या इति भक्षणीयाः| शेषं सुगमम्||५९-६१||

Adhikarana puShpikA · Śloka 6

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रमेहचिकित्सितं नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

इति श्रीचक्तपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने प्रमेहचिकित्सितं नाम षष्ठोऽध्यायः||६||