Adhikarana 1 (1-2) · Śloka 2
अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रिदोषजत्वसामान्यात् कुष्ठमनु राजयक्ष्मचिकित्सितमुच्यते| उन्मादापस्मारौ दक्षाध्वरोद्ध्वंसोत्पन्नावप्यागन्तुत्वानुबन्धत्वात् पश्चादुक्तौ||१-२||
Adhikarana 2 (3-12) · Śloka 12
दिवौकसां कथयतामृषिभिर्वै श्रुता कथा|
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति||३||
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः|
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्||४||
दुहितॄणामसम्भोगाच्छेषाणां च प्रजापतेः|
क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्||५||
प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्|
भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत||६||
गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्|
रजःपरीतमबलं यक्ष्मा शशिनमाविशत्||७||
सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः|
देवदेवर्षिसहितो जगाम शरणं गुरुम्||८||
अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः|
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः||९||
स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः|
ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च||१०||
क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसञ्ज्ञकः|
यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः||११||
स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः|
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्||१२||
दिवौकसामित्यादिना प्रागुत्पत्तिं यक्ष्मणो दर्शयति| एतया च प्रागुत्पत्त्या धातुक्षयो राजयक्ष्मणः प्रधानं कारणं, तथा भार्यास्वसमवर्तितयाऽधर्मश्च कारणं, भवतीति दर्श्यते| कामव्यसनसंयुक्ता स्त्रीपुंसङ्गसम्बन्धा | देहः स्नेहपरिक्षयादिति देहसारक्षयात्; स्नेहशब्देन हि सारवाचिना शुक्रौजसी ग्राह्ये| अवध्यातमिति क्रोधेन चिन्तितम्| गुरुक्रोधेनेति यक्ष्मरूपेण| शुद्धां मतिं बुद्ध्वेति स्वापराधजनितमात्मनः क्षयं बुद्ध्वा चन्द्रमसः स्वदोषपरिहारार्थं शुद्धां बुद्धिं ज्ञात्वा| विमुक्तग्रह इति ग्रहेण यक्ष्माख्येन विमुक्तः| सत्त्वं मनः| शुद्धमिति निर्दोषम्||३-१२||
Adhikarana 3 (13) · Śloka 13
अयथाबलमारम्भं वेगसन्धारणं क्षयम्|
यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्||१३||
अयथाबलमारम्भादियक्ष्महेतुत्रये विहाररूपे आहाररूपतया भिन्नजातीयत्वाद्विषमाशनं ‘चतुर्थं विषमाशनम्’ इति पृथक् पठितम्| निर्देशादेव चतुष्के लब्धे चतुर्थमिति पदं साहसादीनां प्रभेदानां बहुत्वेऽपि साहसादिचतुर्विधानतिक्रमोपदर्शनार्थम् ||१३||
Adhikarana 4 (14-19) · Śloka 19
युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः|
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः||१४||
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते|
वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति||१५||
स शिरःस्थः शिरःशूलं करोति गलमाश्रितः|
कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्||१६||
पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः|
जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम्||१७||
क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम्|
जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः||१८||
इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते|
एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम्||१९||
निदानोक्तमपि राजयक्ष्महेत्वादि पुनः प्रकरणवशात् किञ्चिन्निदानोक्तविशेषविधित्सयोच्यते| उक्तं कारणचतुष्कं प्रपञ्चयति- युद्धेत्यादि| सहसा शक्तिमनालोच्य यानि क्रियन्ते तानि साहसानि| उभाविति कफपित्ते| क्षणनादित्यादिना रक्तकफनिष्ठीवनमेकमेव लक्षणम् ‘उरःशूलातिपीडितः’ इत्यन्तेनोच्यते| उरःशूलम् उरोरुक्, रक्तनिष्ठीवनविशेषणमेव; तेनैकादशरूपत्वं पूर्यते एव||१४-१९||
Adhikarana 5 (20-23) · Śloka 23
ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्|
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||२०||
तदा वेगप्रतीघातात् कफपित्ते समीरयन्|
ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुतेऽनिलः||२१||
प्रतिश्यायं च कासं च स्वरभेदमरोचकम्|
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्||२२||
अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्|
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्||२३||
ह्रीमत्त्वादित्यादिना वेगसन्धारणजमाह| वर्चोभेदं त्रिलक्षणमिति पृथग्वातादिजनितत्रिदोषलिङ्गयुक्तमित्यर्थः||२०-२३||
Adhikarana 6 (24-27) · Śloka 27
ईर्ष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात्|
अतिव्यवायानशनाच्छुक्रमोजश्च हीयते||२४||
ततः स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन्|
प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम्||२५||
श्वासं विड्भेदमरुचिं पार्श्वशूलं स्वरक्षयम्|
करोति चांससन्तापमेकादशगदानिमान् ||२६||
लिङ्गान्यावेदयन्त्येतान्येकादश महागदम्|
सम्प्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम्||२७||
ईर्ष्येत्यादिना धातुक्षयजमाह| ओज इति रसः, रसेऽप्योजःशब्दो वर्तते; यदुक्तं- “मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे” इति; किंवा ओजो देहस्य सारम्| स्नेहक्षयादिति देहसारशुक्रौजःक्षयात्| क्षयात् प्राणक्षयप्रदमित्यत्र क्षयहेतुत्वात् क्षयः; ‘प्राणक्षयावहम्’ इति वा पाठः||२४-२७||
Adhikarana 7 (28-32) · Śloka 32
विविधान्यन्नपानानि वैषम्येण समश्नतः|
जनयन्त्यामयान् घोरान्विषमान्मारुतादयः||२८||
स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः|
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः||२९||
प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्|
ज्वरमंसाभितापं च छर्दनं रुधिरस्य च||३०||
पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च|
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्||३१||
इति व्याधिसमूहस्य रोगराजस्य हेतुजम्|
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः||३२||
विविधानीत्यादिना विषमाशनजमाह| वैषम्येणेति प्रकृतिकरणाद्यष्टाहारविधिवैषम्येण| वैषम्यादतिप्रवृद्धा वातादयो विषममुन्मार्गेण गताः सन्तः रुधिरादीनां स्रोतांसि रुद्ध्वा रोगाय यक्ष्मरूपाय कल्पन्त इति योजना| यथाक्रममिति प्रतिश्यायमित्यादिप्रथमश्लोकार्धविहितं कफकृतं, द्वितीयश्लोकार्धविहितं पित्तकृतं, शेषं तु वातकृतम्| अत्र प्रत्येकमेकादशलक्षणपाठेन एकादशलक्षणयोगेनैव राजयक्ष्मणः सम्पूर्णत्वं प्रायो भवतीति दर्शयति| यत्तु षड्लक्षणत्वं त्रिलक्षणत्वं वा यक्ष्मणो वक्ष्यति, तदसम्पूर्णलक्षणस्यैव ज्ञेयम्| ननु शोषाणामयथाबलमारम्भादिजत्वभेदेन चातुर्विध्यकथनेन किं? यतस्तानि तान्येव लक्षणानि सर्वत्र भवन्ति; तथाच सर्वेऽपि त्रिदोषजाः तेनैकरूपत्वाभिधानमेव युक्तम्; उक्तं च शल्ये- “एकादशानामेकत्र सान्निध्यात्तन्त्रयुक्तितः| क्रियाणां चाविभागेन प्रागेकोत्पादनेन च|| एक एव मतः शोषः सन्निपातात्मको गदः” (सु.उ.अ.४१) इति, इहापि चोक्तं- “सर्वस्त्रिदोषजो यक्ष्मा” इत्यादि| मैवं, हेतुलक्षणचिकित्सितेन चतुर्णामपि भेदाद्भिन्न एवेति युक्तम्| तत्र हेतवोऽयथाबलमारम्भादय उक्ता एव; लिङ्गं च भिन्नं साहसजे कण्ठोद्ध्वंस उरोरुक् जृम्भा च; वेगसन्धारणजे च अङ्गमर्दो मुहुश्छर्दिस्तथा वर्चोभेदस्त्रिलक्षणः, अन्यत्र हि वर्चोभेदस्त्रिलक्षणो न भवति; क्षयजे श्वासपार्श्वशूलांससन्तापाः; विषमाशनजे छर्दनं रुधिरस्य; साहसजे प्रतिश्यायाभावः, शेषेषु प्रतिश्याय इत्यादिलक्षणभेदः| चिकित्सितभेदस्तु असाधारणलक्षणे चिकित्साभेदकृत एव; तस्माद्भेदो यक्ष्मणां युक्त एव; तन्त्रान्तरे तु स्थूलदृष्ट्या अभेद उक्तः; इहापि स्थूलदृशा “सर्वस्त्रिदोषजो ज्ञेयः” इत्यादिनाऽभेद उक्त एव; सूक्ष्मचिन्तायां त्वयमेव भेद उक्तो ज्ञेयः| पुनश्च “कासोऽङ्गताप” इत्यादिना दोषलक्षणानि वक्ष्यति, तत् सामान्येन यक्ष्मणः प्रायोभाविलक्षणं चतुर्ष्वपि समुच्चित्योक्तमिति ज्ञेयं; तेन न पौनरुक्त्यम्||२८-३२||
Adhikarana 8 (33-37) · Śloka 38
पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्|
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३||
घृणित्वमश्नतश्चापि बलमांसपरिक्षयः|
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४||
मक्षिकाघुणकेशानां तृणानां पतनानि च|
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५||
पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६||
जलाशयानां शैलानां वनानां ज्योतिषामपि|
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७||
प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|
सम्प्रति चतुर्णामपि साधारणं पूर्वरूपमाह- पूर्वरूपमित्यादि| प्रतिश्यायश्च रूपे पठितः; तेन प्रतिश्यायः पूर्वरूपान्तरसहितः पूर्वरूपं भवति, रूपान्तरसहितस्तु रूपमिति विशेषः| न चैक एव प्रतिश्यायः पूर्वरूपार्थोऽपि व्याध्यवस्थायां वर्तमानत्वादरिष्टं भवति, “पूर्वरूपाणि सर्वाणि” (इं.अ.५) इत्यादिना सर्वपूर्वरूपानुवर्तनं व्याधौ रिष्टमुक्तम्| काये बीभत्सदर्शनमिति विकृतिदर्शनम्| मक्षिकादीनामन्नपाने च पतनानीति योज्यम्| पतत्र्यादिभिरभिधर्षणं स्वप्ने ज्ञेयं; पतत्रिणः पक्षिणः, श्वापदा व्याघ्रादयः| केशास्थिराशीनामित्यादौ यच्च दर्शनमित्यन्तं ‘स्वप्ने’ इत्युनुवर्तते||३३-३७||-
Adhikarana 9 (38-47) · Śloka 47
रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि सभेषजम्||३८||
यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः|
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः||३९||
स्रोतसां सन्निरोधाच्च रक्तादीनां च सङ्क्षयात्|
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते||४०||
तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्|
मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे||४१||
तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः|
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्||४२||
रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते |
स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते||४३||
जायन्ते व्याधयश्चातः षडेकादश वा पुनः|
येषां सङ्घातयोगेन राजयक्ष्मेति कथ्यते||४४||
कासोंऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा|
छर्दनं रक्तकफयोः श्वासवर्चोगदोऽरुचिः||४५||
रूपाण्येकादशैतानि यक्ष्मणः षडिमानि वा|
कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदोऽरुचिः||४६||
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये|
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा||४७||
सम्प्रति यक्ष्मरूपाणि प्रपञ्चेन व्याख्यातुमाह- रूपं त्वस्येत्यादि| निर्देक्ष्यामीति प्रपञ्चेन कथयिष्यामि| तत्र रूपव्याकरणे कर्तव्ये रूपिण एव तावद् यक्ष्मणः शरीरधातुपोषणविरोधकस्य उत्पादक्रमं शरीरधातुपोषणक्रमकथनपूर्वमाह- यथास्वेनेत्यादि| यथास्वेन यथात्मीयेन, ऊष्मणा रसाग्न्यादिरूपेण त्रयोदशविधेन| धातुः पुष्यति धातुनेति धातुना रसेन, धातू रक्तादिरूपः; किंवा क्रमपरिणामपक्षे रसेन रक्तं, रक्तेन मांसं पुष्यतीति ज्ञेयम्| एवं धातुपोषणक्रमं दर्शयित्वा यक्ष्मणि तद्विरोधमाह- स्रोतसामित्यादि| सन्निरोधादिति यक्ष्मकारकदोषेणावरुद्धत्वात्; रक्तादिसङ्क्षयोऽपि स्रोतोवरोधात्तथा पोषकरसाप्राबल्याच्च ज्ञेयः; धातूष्मापचयोऽपि धातुक्षयाद्दोषप्रभावाच्च ज्ञेयः| यथा धातुपोषकरसहानिर्भवति तथाऽऽह- तस्मिन्नित्यादि| ओजसे इति सारभागाय, रसायेति यावत्| विशेषाद्राजयक्ष्मिण इतिवचनेनान्येषामपि दुर्बलानां पुरीषं रक्ष्यमिति सूचयति| विड्बलमिति विडाधारम्| यश्चापि रस उत्पद्यते स च धातून्न पुष्णाति, किन्तु स्वस्थानस्थो विदह्यते; स्वस्थानस्थ इति हृदयस्थः| सर्वैरिति एकादशभिः| अर्धैरिति षड्भिः, एकादशस्य ज्येष्ठभागपरिग्रहात् षडेवार्धं भवति; दृष्टा चैषा विधा, यथा- “त्रिंशन्मताः कर्मसु बस्तयो हि, कालस्ततोऽर्धेन ततश्च योगः” (सि.अ.१) इत्यादौ, त्रिंशद्बस्त्यर्धरूपः कालः श्रेष्ठभागपरिग्रहात् षोडशबस्तिरूप एव, “काले त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः” (सि.अ.१) इत्यनेनोक्तः| त्रिभिरित्यत्र यानि कानि त्रीणि यक्ष्मणो रूपाणि ज्ञेयानि, शृङ्गग्राहिकयाऽनिर्देशात्| अन्ये तु ‘अंसपार्श्वाभितापश्च’ इत्यादिवक्ष्यमाणलक्षणत्रयं वर्णयन्ति| केचित्तु ‘अंसपार्श्वाभितापश्च’ इत्यादिकं यक्ष्मसम्बन्धिज्वरलक्षणं वदन्ति| अन्यथेति बलमांसयोगे सति||३८-४७||
Adhikarana 10 (48-50) · Śloka 50
घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा|
मारुताध्मातशिरसो मारुतं श्यायते प्रति||४८||
प्रतिश्यायस्ततो घोरो जायते देहकर्शनः|
तस्य रूपं शिरःशूलं गौरवं घ्राणविप्लवः||४९||
ज्वरः कासः कफोत्क्लेशः स्वरभेदोऽरुचिः क्लमः|
इन्द्रियाणामसामर्थ्यं यक्ष्मा चातः प्रजायते||५०||
प्रतिश्यायं विवृणोति- घ्राणेत्यादि| मारुताध्मातशिरसो मारुतपूर्णशिरसः| मारुतं प्रति श्यायते गच्छतीत्यर्थः| मारुतानुगतं घ्राणात् स्रवति| घ्राणविप्लवः गन्धाघ्राणादिरूपः| यक्ष्मा चातः प्रजायत इति अनेनोक्तलक्षणप्रतिश्यायस्यैव पूर्वरूपतामपि सूचयति||४८-५०||
Adhikarana 11 (51) · Śloka 51
पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम्|
कासमानो रसं यक्ष्मी निष्ठीवति कफानुगम्||५१||
स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते इति यदुक्तं यक्ष्मरूपं तद्विवृणोति- पिच्छिलमित्यादि||५१||
Adhikarana 12 (52) · Śloka 52
अंसपार्श्वाभितापश्च सन्तापः करपादयोः|
ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः||५२||
राजयक्ष्मणो ज्वरस्य विशिष्टं लक्षणमाह- अंसेत्यादि| लक्षणं राजयक्ष्मण इति अंसपार्श्वाभितापकरपादसन्तापरूपः सर्वाङ्गगज्वरो राजयक्ष्मलक्षणमित्यर्थः||५२||
Adhikarana 13 (53-56) · Śloka 56
वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात्|
स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः||५३||
तालुकण्ठपरिप्लोषः पित्ताद्वक्तुमसूयते|
कफाद्भेदो विबद्धश्च स्वरः खुरखुरायते ||५४||
सन्नो रक्तविबद्धत्वात् स्वरः कृच्छ्रात् प्रवर्तते|
कासातिवेगात् कषणः पीनसात्कफवातिकः||५५||
पार्श्वशूलं त्वनियतं सङ्कोचायामलक्षणम्|
शिरःशूलं ससन्तापं यक्ष्मिणः स्यात्सगौरवम्||५६||
स्वरभेदं विभजते- वातादित्यादि| वक्तुमसूयत इति वक्तुं नेच्छति| खुरखुरायत इति खुरखुराशब्दं करोति| सन्नः अवसन्नः| कषण इति कण्ठं कषति, हिनस्तीति यावत्| पार्श्वशूलं त्वनियतमिति न सङ्कोचरूपेण नियतं, किन्तु कदाचिदायामरूपं कदाचित् सङ्कोचरूपं, न सर्वदाभावि| शिरःशूलत्वेन वायुः, ससन्तापत्वेन पित्तं, सगौरवत्वेन श्लेष्मा, एवं त्रिदोषजन्यत्वं ज्ञेयम्||५३-५६||
Adhikarana 14 (57) · Śloka 57
अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात्|
कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसञ्चितः||५७||
सरक्तं कफमस्यतीति यदुक्तं तल्लक्षणं विवृणोति- अभिसन्न इत्यादि| अभितः सन्नोऽभिसन्नः| ‘अभिष्यन्दे’ इति पाठपक्षेऽभिष्यन्दगृहीत इत्यर्थः; किन्त्वभिपूर्वस्यन्दतेः कथं रूपसिद्धिर्भवतीति चिन्तनीयम्| सञ्चितोत्क्लिष्टमिति वक्तव्ये पूर्वनिपातनियमादुत्क्लिष्टसञ्चित इति कृतम्||५७||
Adhikarana 15 (58-59) · Śloka 59
रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते |
आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति च||५८||
वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति|
दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते||५९||
केवलरुधिरच्छर्दनेन युक्तं विवृणोति- रक्तमित्यादि| विबद्धमार्गत्वादिति रक्तस्य मांसाद्यभिगमे यो मार्गस्तन्निरोधान्मांसादभिगच्छद्रक्तं मांसाशये एव कृताधिष्ठानं प्रस्रवणजलमिव विबद्धमार्गत्वाद्बहु भवति, बहुत्वेनोत्क्लिष्टं द्वारान्तरागमनात् कण्ठमेति| एवं रक्तस्य पोषकरसेनासम्बन्धात् क्षीयमाणस्यामाशये एव बहुत्वं ज्ञेयम्| तेन रक्तादीनां च सङ्क्षयादित्यनेन रक्तक्षयो य उक्तः स उपपन्न एव||५८-५९||
Adhikarana 16 (60-61) · Śloka 61
पृथग्दोषैः समस्तैर्वा जिह्वाहृदयसंश्रितैः|
जायतेऽरुचिराहारे द्विष्टैरर्थैश्च मानसैः||६०||
कषायतिक्तमधुरैर्विद्यान्मुखरसैः क्रमात्|
वाताद्यैररुचिं जातां मानसीं दोषदर्शनात्||६१||
रोगाधिकारे “पञ्च भक्तस्यानशनस्थानानीति वातपित्तकफद्वेषायासाः” (सू.अ.१९) इत्यनेन यद्यपि त्रिदोषजाऽरुचिर्नोक्ता, तथाऽपि चिकित्सार्थं द्वन्द्वजगुल्मवत्त्रिदोषजाऽरुचिरुच्यते| वक्ष्यति- “चतुरोऽरोचकान् हन्युर्वाताद्येकजसर्वजान्” इति| इयं च त्रिदोषजाऽरुचिः प्रकृतिसमवायारब्धा, तेन रोगाधिकारे प्रत्येकदोषजारुचिग्रहणेनैव गृहीता| प्रकृतिसमसमवायारब्धत्वेनैव त्रिदोषजारुचेः पृथग्लक्षणं नोक्तम्; अतो वातादिलक्षणमेलकमेव तस्या लक्षणम्| कषायमुखरसता वातजायां, तिक्तमुखरसता पित्तजायां, मधुरमुखरसता कफजायां, त्रिदोषजायां तु त्रिदोषमुखरसतोन्नेया| दोषदर्शनादिति द्विष्टदर्शनात्||६०-६१||
Adhikarana 17 (62) · Śloka 62
अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि|
छर्दिर्या सा विकाराणामन्येषामप्युपद्रवः||६२||
छर्दिं विभजते- अरोचकादित्यादि| विकाराणामन्येषामप्युपद्रव इति एवम्भूता छर्दिर्न यक्ष्ममात्रनियता,किन्त्वन्येषामपि विकाराणामेवम्भूता छर्दिरुपद्रवरूपा भवति; किंवा एवम्भूता या छर्दिः सा यक्ष्मिण उपद्रवो भवति, तथाऽरोचकादिभ्य उत्थिता च्छर्दिरन्येषामपि हिक्कादीनामुपद्रवो भवतीत्यर्थः||६२||
Adhikarana 18 (63-64) · Śloka 64
सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम्|
परीक्ष्यावस्थिकं वैद्यः शोषिणं समुपाचरेत्||६३||
प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये|
पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु||६४||
सम्प्रति सर्वेषां यक्ष्मणां सामान्यरूपं त्रिदोषजत्वं प्रतिपाद्य, दोषबलाबलभेदेन च भेदं सूचयित्वा, सामान्यां विशेषां च चिकित्सां सूचयन्नाह- सर्व इत्यादि| विविधा इति भिन्नाः, साधारणीरित्यनेनाभिन्नाश्च शृण्विति योज्यम्| तत्र विविधाः प्रत्येकं पीनसादिविहिता ज्ञेयाः, साधारणीस्तु षडङ्गाजरसादिरूपाः साधारणविहिता ज्ञेयाः||६३-६४||
Adhikarana 19 (65-70) · Śloka 70
पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च|
परिषेकावगाहांश्च यावकं वाट्यमेव च||६५||
लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्|
लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत्||६६||
सपिप्पलीकं सयवं सकुलत्थं सनागरम्|
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत्||६७||
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः|
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः ||६८||
यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्|
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम्||६९||
धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्|
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत्||७०||
सपिप्पलीकमित्यादिके रसे यवागूसाधनवद्द्रव्यादिमानं ज्ञेयं; मांसमानं तु पलानि द्वादश| सूपसंस्कृतैरिति सुष्ठूपसंस्कृतैः| तेनेति पञ्चमूल्यादिसंस्कृतजलेन||६५-७०||
Adhikarana 20 (71-76) · Śloka 76
कृशरोत्कारिकामाषकुलत्थयवपायसैः|
सङ्करस्वेदविधिना कण्ठं पार्श्वमुरः शिरः||७१||
स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत्|
बलागुडूचीमधुकशृतैर्वा वारिभिः सुखैः||७२||
बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत्|
कण्ठे शिरसि पार्श्वे च पयोभिर्वा सवातिकैः||७३||
औदकानूपमांसानि सलिलं पाञ्चमूलिकम्|
सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत्||७४||
जीवन्त्याः शतपुष्पाया बलाया मधुकस्य च|
वचाया वेशवारस्य विदार्या मूलकस्य च||७५||
औदकानूपमांसानामुपनाहाः सुसंस्कृताः|
शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम्||७६||
तिलतण्डुलमाषैस्तु कृशरा ज्ञेया| पत्रभङ्गेनेति पत्रभङ्गक्वाथेन; पत्रभङ्गाश्च वातहरपल्लवाः| सवातिकैरिति वातिकोत्तरवातिकैः; तन्त्रान्तरे तु वातिकान्युत्तरवातिकानि च गणेन पठितानि; यथा- “बिल्वोऽग्निमन्थः काश्मर्यं श्रेयसी पाटला बला| शालपर्णी पृश्निपर्णी बृहती कण्टकारिका|| वर्धमानो मूलकं च वातिकान्यवतारयेत्| करमर्दं सबदरं कुलत्थाः शुष्कमूलकम्|| श्वदंष्ट्रा वेणुपर्णी च साश्वगन्धा शतावरी| ऋष्यप्रोक्तां गुडूची च मधुकं शिग्रुरेव च|| यवान्यारग्वधश्चैव यच्चान्यत्किञ्चिदीदृशम्| सर्वमेतद्विजानीयाद्भिषगुत्तरवातिकम्” इति| नाडीस्वेदं प्रयोजयेदिति नाडीस्वेदं यथायोग्यतया प्रयोजयेत्| जीवन्त्यादीनां प्रत्येकमुपनाहा ज्ञेयाः| वेसवारो यथा- “निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्वितम्| कृष्णामरीचसंयुक्तं वेसवार इति स्मृतः” इति||७१-७६||
Adhikarana 21 (77-81) · Śloka 81
शतपुष्पा समधुकं कुष्ठं तगरचन्दने|
आलेपनं स्यात् सघृतं शिरःपार्श्वांसशूलनुत्||७७||
बला रास्ना तिलाः सर्पिर्मधुकं नीलमुत्पलम्|
पलङ्कषा देवदारु चन्दनं केशरं घृतम्||७८||
वीरा बला विदारी च कृष्णगन्धा पुनर्नवा|
शतावरी पयस्या च कत्तृणं मधुकं घृतम्||७९||
चत्वार एते श्लोकार्धैः प्रदेहाः परिकीर्तिताः|
शस्ताः संसृष्टदोषाणां शिरःपार्श्वांसशूलिनाम्||८०||
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः|
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम्||८१||
पलङ्कषा गुग्गुलुः| पयस्या क्षीरकाकोली| शिरःपार्श्वांसशूलिनां शस्ता इति योज्यम्||७७-८१||
Adhikarana 22 (82-86) · Śloka 86
शृङ्गालाबुजलौकोभिः प्रदुष्टं व्यधनेन वा|
शिरःपार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत्||८२||
प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः|
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः||८३||
प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम् |
कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम्||८४||
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा|
अभ्यङ्गः, पयसा सेकः शस्तश्च मधुकाम्बुना||८५||
माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा|
परिषेकः प्रयोक्तव्य इति संशमनी क्रिया||८६||
शृङ्गालाबुजलौकोभिरित्यत्र पित्तदुष्टे जलौका, कफदुष्टे रक्तेऽलाबु ज्ञेयं; यदुक्तं- “पित्तान्वितं जलौकोभिरलाब्वा तु कफान्वितम्| शोणितं वातदुष्टं तु विषाणेनाशु निर्हरेत्” इति| व्यधनं तु सिराव्यधरूपम्||८२-८६||
Adhikarana 23 (87-88) · Śloka 88
दोषाधिकानां वमनं शस्यते सविरेचनम्|
स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम्||८७||
शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि|
अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते||८८||
यन्न कर्शनमित्यनेन मृदुवमनविरेचनं यन्न कर्शनायेति दर्शयति||८७-८८||
Adhikarana 24 (89-102) · Śloka 102
योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये|
शिरःपार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत्||८९||
बलाविदारिगन्धाद्यैर्विदार्या मधुकेन वा|
सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम्||९०||
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला|
क्षीरं सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम्||९१||
शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्|
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम्||९२||
दशमूलेन पयसा सिद्धं मांसरसेन च|
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते||९३||
भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्|
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम्||९४||
लेहान् कासापहान् स्वर्याञ् श्वासहिक्कानिबर्हणान्|
शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु||९५||
घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम् |
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||९६||
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्|
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्||९७||
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्|
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम्||९८||
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे|
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||९९||
खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा|
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः||१००||
वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः|
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः||१०१||
श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा|
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा||१०२||
प्रपौण्डरीकमित्यादौ क्षीरं द्रवम्| ये तु ‘क्षीरसर्पिः’ इत्येकपदेन पठन्ति, ते क्षीरोत्थं सर्पिर्जलेनैव पाचयन्ति| घृतं चौत्तरभक्तिकमिति उक्तमेव घृतं भक्तोत्तरं शिरःशूलादिहरं भवति| दशमूलेनेति अत्रावान्तरसाहचर्याद्दशमूलस्य क्वाथो ज्ञेयः, बलाया एव कल्कः; किंवा ‘दशमूलेन पयसा’ इति पाठः; तेन दशमूलसिद्धेन क्षीरेणेत्यर्थः| रास्नाघृतं वा रास्नाक्षीरं वा रोगानेतान् प्रबाधत इति योजना; तथा बलाघृतं बलाक्षीरं च प्रबाधते इति योजना| कासे वक्ष्यमाणं यद् रास्नाघृतं, बलाघृतं च वातरक्ते वक्ष्यमाणं, तत् क्षीरेण सहोपयुक्तमेतान् रोगान् प्रबाधत इत्याचार्यो वक्ष्यति| सपिप्पलीकं सक्षौद्रमित्यत्र पिप्पलीक्षौद्रयोः प्रक्षेप्यत्वं ज्ञेयम्| पञ्चभिः पञ्चमूलैर्वा यद्घृतमुदियात्तत् सपिप्पलीकं सक्षौद्रं स्वरबोधनमित्यादियोजना| पञ्चानामित्यादिना योगान्तरमाह| रसे क्षीरचतुर्गुण इति पञ्चानां पञ्चमूलीनां क्वाथस्त्रिगुणः, घृतसमं च क्षीरं ज्ञेयम्| उक्तं हि जतूकर्णे- “दशमूलशृतक्षीराज्जातं सर्पिर्नवं पिप्पलीमधुयुक्तं यत्, पञ्चपञ्चमूलक्वथितादुत्थितं च यत् त्रिभागक्वथिततुल्यपयस्के पक्वम्” इति| फलश्रुतौ ‘यक्ष्मणः सप्तकं बलम्’ इत्यनेन ‘स्वरभेदं’ इत्यादिना ये सप्त गदाः पठितास्ते ज्ञेयाः; तेषु च हिक्का पठिता, सा च राजयक्ष्मलक्षणेषु यद्यपि न पठिता, तथाऽप्युपद्रवरूपा ज्ञेया| पुष्कराख्यं पुष्करमूलम्||८९-१०२||
Adhikarana 25 (103-104) · Śloka 104
सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्|
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा||१०३||
चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम् |
सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम्||१०४||
सितोपलादावन्त्यादूर्ध्वं द्विगुणितमिति अन्त्यायास्त्वच एको भागः, बहुलाया भागद्वयं, पिप्पल्या भागचतुष्टयं, तुगाक्षीरी वंशलोचनानुकारि पार्थिवं द्रव्यं, तस्याष्टभागाः, सितोपलायास्तु षोडश| ऊर्ध्वशब्देन चेहातीतमुच्यते, विवक्ष्यमाणोर्ध्वाधोभागस्यास्थानात्; तेन क्वचित् ऊर्ध्वमित्यादावागतोऽपि ऊर्ध्वशब्दश्चरति||१०३-१०४||
Adhikarana 26 (105) · Śloka 105
हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे|
वासाघृतं शतावर्या सिद्धं वा परमं हितम्||१०५||
हस्तेत्यादौ वासाघृतं रक्तपित्तोक्तं गुल्मोक्तं च; शतावरीघृतं योनिव्यापच्चिकित्सितवक्ष्यमाणम्||१०५||
Adhikarana 27 (106-110) · Śloka 110
दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्|
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च||१०६||
पचेद्दशगुणे तोये दशभागावशेषिते|
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत्||१०७||
शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः|
तामलक्याः किरातानां तिक्तस्य कुटजस्य च||१०८||
फलानां सारिवायाश्च सुपिष्टान् कर्षसम्मितान्|
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत्||१०९||
ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्|
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति||११०||
दुरालभाद्ये पचेद्दशगुणे तोये इत्यनेन घृताद्दशगुणतोयेनेति ज्ञेयं, द्रव्याद्दशगुणतोयेन क्वाथस्याल्पत्वं स्यात्; प्रस्थघृतात्तु दशगुणतोये दशभागावशिष्टे प्रस्थमानत्वं कषायस्य भवति, तच्च जतूकर्णानुमतम्||१०६-११०||
Adhikarana 28 (111-113) · Śloka 113
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च|
शटीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम्||१११||
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्|
पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत्||११२||
एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्|
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति||११३||
जीवन्त्यादौ पूर्वयोगोक्तं क्षीरयुक्तमेव क्वाथं द्रवमिच्छन्ति; टीकाकृतस्तु बहवो जलमेव द्रवं वदन्ति||१११-११३||
Adhikarana 29 (114-116) · Śloka 116
बलां स्थिरां पृश्निपर्णीं बृहतीं सनिदिग्धिकाम्|
साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम्||११४||
द्राक्षाखर्जूरसर्पिर्भिः पिप्पल्या च शृतं सह|
सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत्||११५||
आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः|
यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिताः||११६||
बलामित्यादि| अत्र घृते क्षीरक्वाथकल्कसाध्ये क्वाथक्षीरे मिलित्वा चतुर्गुणे, कल्कद्रव्यं चाष्टभागेन ज्ञेयं, मधु च प्रक्षेपार्थे योज्यम्||११४-११६||
Adhikarana 30 (117-133) · Śloka 134
ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः|
यक्ष्मिणां ज्वरदाहेषु ससर्पिष्कः प्रशस्यते||११७||
कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः|
पयसा फलयुक्तेन माधुकेन रसेन वा||११८||
सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया|
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम्||११९||
यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्|
जाङ्गलानि च शूल्यानि सेवमानः कफं जयेत्||१२०||
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत्||१२१||
क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते|
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च||१२२||
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते|
प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति||१२३||
तस्याग्निदीपनान् योगानतीसारनिबर्हणान्|
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिबाधकान्||१२४||
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना|
सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः||१२५||
पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्|
दुरालभा शृङ्गवेरं पाठा च सुरया सह||१२६||
जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्|
पेयामण्डेन पातव्यमतीसारनिवृत्तये||१२७||
एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्|
ससूप्यधान्यान्सस्नेहान् साम्लान्सङ्ग्रहणान् परम्||१२८||
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्||१२९||
मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्|
स्नेहाम्ललवणोपेतान् खडान् साङ्ग्राहिकान् परम्||१३०||
चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्|
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान्||१३१||
मांसानां लघुपाकानां रसाः साङ्ग्राहिकैर्युताः|
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः||१३२||
स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्|
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः||१३३||
इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्|१३४|
ज्वराणामित्यादिनाऽऽवस्थिकं विधिमाह| वामनीयानि मदनफलादीनि| सदीपनमिति दीपनशुण्ठ्यादिसाधितम्| वम्यां सैव प्रशस्यत इत्यत्र कफप्रसेको द्विविधः- स्वतन्त्रः कफकृतः, तथा वातपराधीनोक्तः; एवं छर्दिमपि द्विधा विभज्य कफप्रसेकक्रियानुसारेण श्लेष्मप्रधानायां वमनादि, वातप्रधानायां स्निग्धोष्णसेवानुरूपा क्रिया शस्यत इति योज्यम्| खडो व्याकृतः| अन्येऽपि वदन्ति- “पिशितेन रसस्तत्र, यूषो धान्यैः, खलः फलैः| मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः” इति||११७-१३३||-
Adhikarana 31 (134-140) · Śloka 140
परं मुखस्य वैरस्यनाशनं रोचनं शृणु ||१३४||
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्|
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान्||१३५||
पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्|
भेषजं पानमन्नं च हितमिष्टोपकल्पितम्||१३६||
त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्|
दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा||१३७||
यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः|
श्लोकपादेष्वभिहिता रोचना मुखशोधनाः||१३८||
गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्|
एषामालोडितानां वा धारयेत् कवलग्रहान्||१३९||
सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः|
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च||१४०||
द्वौ कालाविति सायम्प्रातः| दन्तपवनमिति करञ्जकरवीरादिभिस्तिक्तकटुकैः| तद्वदिति तिक्तकटुकृतैर्जलैः| तेजोह्वा चविका| मुखशोधना इति मुखगतदोषशोधनाः||१३४-१४०||
Adhikarana 32 (141-144) · Śloka 144
यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्|
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत्||१४१||
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्|
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च||१४२||
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्|
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्||१४३||
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्|
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्||१४४||
इति यवानीषाडवम्|
यवानीषाडवे वराङ्गं त्वक्| पिप्पलीनामेकं शतमिति आकृतिमानात्||१४१-१४४||
Adhikarana 33 (145-148) · Śloka 148
तालीशपत्रं मरिचं नागरं पिप्पली शुभा|
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके||१४५||
पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा|
कासश्वासारुचिहरं तच्चूर्णं दीपनं परम्||१४६||
हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्|
वम्यतीसारशूलघ्नं मूढवातानुलोमनम्||१४७||
कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्|
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः||१४८||
इति तालीशाद्यं चूर्णं गुटिकाश्च|
तालीशाद्ये शुभा इति विशेषणं पिप्पल्याः| उक्तं हि हारीते- “तालीशं मरिचं शुण्ठी पिप्पल्यो भागवर्धिताः| त्वगेलेऽर्धांशके दद्याच्छर्कराऽष्टपलं भवेत्” इत्यादि| तथा जतूकर्णः- “तालीशमरिचनागरकृष्णाः कर्षाः, त्वगेले अर्धांशे, द्विकुडवा सिता, गुटिका विपाच्यताम्” इति| त्वगेलयोरर्धभागत्वम्| गुटिकापक्षे जलेन सितोपलां पक्त्वा गुडिकाः कुर्वन्ति वृद्धाः||१४५-१४८||
Adhikarana 34 (149-172) · Śloka 172
शुष्यतां क्षीणमांसानां कल्पितानि विधानवित्|
दद्यान्मांसादमांसानि बृंहणानि विशेषतः||१४९||
शोषिणे बार्हिणं दद्याद्बर्हिशब्देन चापरान्|
गृध्रानुलूकांश्चाषांश्च विधिवत् सूपकल्पितान्||१५०||
काकांस्तित्तिरिशब्देन वर्मिशब्देन चोरगान्|
भृष्टान् मत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि||१५१||
लोपाकान् स्थूलनकुलान् बिडालांश्चोपकल्पितान्|
शृगालशावांश्च भिषक् शशशब्देन दापयेत्||१५२||
सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा|
मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये||१५३||
गजखड्गितुरङ्गाणां वेशवारीकृतं भिषक्|
दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये||१५४||
मांसेनोपचिताङ्गानां मांसं मांसकरं परम्|
तीक्ष्णोष्णलाघवाच्छस्तं विशेषान्मृगपक्षिणाम्||१५५||
मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत्|
तेषूपधा, सुखं भोक्तुं तथा शक्यानि तानि हि||१५६||
जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत्|
तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत्||१५७||
बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः|
खरगोमहिषाणां च मांसं मांसकरं परम्||१५८||
योनिरष्टविधा चोक्ता मांसानामन्नपानिके|
तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे||१५९||
प्रसहा भूशयानूपवारिजा वारिचारिणः|
आहारार्थं प्रदातव्या मात्रया वातशोषिणे||१६०||
प्रतुदा विष्किराश्चैव धन्वजाश्च मृगद्विजाः|
कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम्||१६१||
विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च|
रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत्||१६२||
मांसमेवाश्नतः शोषो माध्वीकं पिबतोऽपि च|
नियतानल्पचित्तस्य चिरं काये न तिष्ठति||१६३||
वारुणीमण्डनित्यस्य बहिर्मार्जनसेविनः|
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्||१६४||
प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु|
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्||१६५||
मद्यं तैक्ष्ण्यौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम्|
प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः||१६६||
पुष्यन्ति धातुपोषाच्च शीघ्रं शोषः प्रशाम्यति|
मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत्||१६७||
सक्षौद्रं, पयसा सिद्धं सर्पिर्दशगुणेन वा|
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः||१६८||
क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्|
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||१६९||
सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्|
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम्||१७०||
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्घृतम्|
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह||१७१||
सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह|
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः||१७२||
कल्पितानीति सम्यक् संस्कारेण संस्कृतानि| वर्मिशब्देन सर्पाकारो दीर्घो मत्स्यविशेषो ग्राह्यः| गण्डूपदः भूमिलता| लोपाकः अल्पशृगालो लाङ्गूलप्रधानः| सम्प्रत्यस्यान्यमांसप्रयोगमाह- मांसानीत्यादि| अनभ्यासादिति अभक्ष्यत्वेन| उपधेति अन्यशब्देन दानमिति यावत्| तथेति सञ्ज्ञान्तरेण दाने सुखं यथा भवति तथा भोक्तुं शक्यते| अभक्ष्यत्वे तु ज्ञाते दोषमाह- जानन्नित्यादि| योनिरष्टविधेति “प्रसहा” (सु.सू.अ.२७) इत्यादिना प्रोक्ता| सक्षौद्रमिति च्छेदः| पयसेत्यादि द्वितीयं घृतम्| मधुरकाणि यानि तानि चेह कल्कार्थम्| पिप्पलीत्यादिनाऽनियतमानं घृतं चतुर्गुणेन क्षीरेण साध्यते, षट्पलोक्तद्रव्यघृतमानवत्||१४९-१७२||
Adhikarana 35 (173-178) · Śloka 179
बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च|
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||
मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५||
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्|
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|
उत्तीर्णमित्यादौ पुनराक्तैरिति मिश्रकस्नेहैराक्तैः करैः पुनः पुनः मर्दयेत्; पुनराक्तमिति पाठे तु पुनर्मिश्रकैः स्नेहैराक्तमित्यर्थः| उत्सादयेदिति उद्वर्तयेत्| विकसा मञ्जिष्ठा| तर्कारी जया| समाक्षिकमिति ईषन्माक्षिकम्||१७३-१७८||-
Adhikarana 36 (179-189) · Śloka 189
गन्धैः समाल्यैर्वासोभिर्भूषणैश्च विभूषितः||१७९||
स्पृश्यान् संस्पृश्य सम्पूज्य देवताः सभिषग्द्विजाः|
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम्||१८०||
इष्टमिष्टैरुपहितं सुखमद्यात् सुखप्रदम्|
समातीतानि धान्यानि कल्पनीयानि शुष्यताम्||१८१||
लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च|
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि||१८२||
यच्चोपदेक्ष्यते पथ्यं क्षतक्षीणचिकित्सिते|
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये||१८३||
अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः|
यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः||१८४||
बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः|
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः||१८५||
सुहृदां रमणीयानां प्रमदानां च दर्शनैः|
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च||१८६||
हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः|
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः||१८७||
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया|
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते||१८८||
यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः|
तां वेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत्||१८९||
अतः परं मनस आनुकूल्यं यक्ष्मारम्भकदोषं हन्तीत्यतो सर्वासु चेष्टासु सदैव मनोनुकूलं स्यात्तथैव वर्तनीयं, यया च युक्त्या दैवव्यपाश्रयचिकित्सा कर्तव्या तदाह- गन्धैरित्यादि||१७९-१८९||
Adhikarana 37 (190-191) · Śloka 191
तत्र श्लोकौ- प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसङ्ग्रहः|
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः||१९०||
नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता|
इत्युक्तः सङ्ग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते||१९१||
प्रागुत्पत्तिरित्यादिसङ्ग्रहः| नामहेतुरिति “स राज्ञः पूर्वमासीद्वै राजयक्ष्मा ततो मतः” इति||१९०-१९१||
Adhikarana puShpikA · Śloka 8
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने राजयक्ष्मचिकित्सितं नामाष्टमोऽध्यायः||८||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सितस्थाने राजयक्ष्मचिकित्सितं नामाष्टमोऽध्यायः||८||