Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

30. madātyayacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो मदात्ययचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-5) · Śloka 5

सुरैः सुरेशसहितैर्या पुरा परिपूजिता| सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता||३|| यज्ञौही या यया शक्रः सोमातिपतितो भृशम्| निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः||४|| विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः| दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये||५||

🔊 Audio coming soon

Adhikarana 3 (6) · Śloka 6

योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या| भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात्||६||

🔊 Audio coming soon

Adhikarana 4 (7) · Śloka 7

या देवानमृतं भूत्वा स्वधा भूत्वा पित्तॄंश्च या| सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः||७||

🔊 Audio coming soon

Adhikarana 5 (8-10) · Śloka 10

आश्विनं या महत्तेजो बलं सारस्वतं च या| वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या||८|| शोकारतिभयोद्वेगनाशिनी या महाबला| या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः||९|| या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः| रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत्||१०||

🔊 Audio coming soon

Adhikarana 6 (11-20) · Śloka 20

शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान्| प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः||११|| विचित्रविविधस्रग्वी रत्नाभरणभूषितः| देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम्||१२|| देशे यथर्तुके शस्ते कुसुमप्रकरीकृते| सरसासम्मते मुख्ये धूपसम्मोदबोधिते||१३|| सोपधाने सुसंस्तीर्णे विहिते शयनासने| उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः||१४|| सौवर्णै राजतैश्चापि तथा मणिमयैरपि| भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा||१५|| रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः| वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः||१६|| शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः| संवाह्यमान इष्टाभिः पिबेन्मद्यमनुत्तमम्||१७|| मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः| लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः||१८|| भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम्| पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः||१९|| पूजयित्वा सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च| प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले||२०||

🔊 Audio coming soon

Adhikarana 7 (21-25) · Śloka 25

अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः| स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत्||२१|| शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः| पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति||२२|| उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्| श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकैः सह||२३|| विधिर्वसुमतामेष भविष्यद्विभवाश्च ये| यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्||२४|| वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्| कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत्||२५||

🔊 Audio coming soon

Adhikarana 8 (26-28) · Śloka 28

बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम्| गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते||२६|| विधिना मात्रया काले हितैरन्नैर्यथाबलम्| प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा||२७|| यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते| रूक्षव्यायामनित्येन विषवद्याति तस्य तत्||२८||

🔊 Audio coming soon

Adhikarana 9 (29-36) · Śloka 36

मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्| दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्||२९|| लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च| रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्||३०|| गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम्| प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम्||३१|| गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः| माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात्||३२|| रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि| विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा||३३|| सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्| सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम्||३४|| रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम्| प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते||३५|| अतिपीतेन मद्येन विहतेनौजसा च तत्| हृदयं याति विकृतिं तत्रस्था ये च धातवः||३६||

🔊 Audio coming soon

Adhikarana 10 (37-38) · Śloka 38

ओजस्यविहते पूर्वो हृदि च प्रतिबोधिते| मध्यमो विहतेऽल्पे च विहते तूत्तमो मदः||३७|| नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः| विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः||३८||

🔊 Audio coming soon

Adhikarana 11 (39-40) · Śloka 40

हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम्| विकाराश्च यथासत्त्वं चित्रा राजसतामसाः||३९|| जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात्| स मद्यविभ्रमो नाम्ना ‘मद’ इत्यभिधीयते||४०||

🔊 Audio coming soon

Adhikarana 12 (41-51) · Śloka 51

पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः| प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे||४१|| प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः| वाद्यगीतप्रहासानां कथानां च प्रवर्तकः||४२|| न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः| सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः||४३|| मुहुः स्मृतिर्मुहुर्मोहो(ऽ)व्यक्ता सज्जति वाङ्मुहुः| युक्तायुक्तप्रलापश्च प्रचलायनमेव च||४४|| स्थानपानान्नसाङ्कथ्ययोजना सविपर्यया| लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे||४५|| मध्यमं मदमुत्क्रम्य मदमाप्राप्य चोत्तमम्| न किञ्चिन्नाशुभं कुर्युर्नरा राजसतामसाः||४६|| को मदं तादृशं विद्वानुन्मादमिव दारुणम्| गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः||४७|| तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः| मदमोहावृतमना जीवन्नपि मृतैः समः||४८|| रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्| यदर्थं पीयते मद्यं रतिं तां च न विन्दति||४९|| कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्| यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः||५०|| स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च| व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते||५१||

🔊 Audio coming soon

Adhikarana 13 (52-60) · Śloka 60

प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम्| मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम्||५२|| मद्येन मनसश्चास्य सङ्क्षोभः क्रियते महान्| महामारुतवेगेन तटस्थस्येव शाखिनः||५३|| मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम्| सुखमित्यधिगच्छन्ति रजोमोहपराजिताः||५४|| मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः| श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः||५५|| मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः| सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः||५६|| यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत्| इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः||५७|| सत्यमेते महादोषा मद्यस्योक्ता न संशयः| अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम्||५८|| किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्| अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम्||५९|| प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्| विषं प्राणहरं तच्च युक्तियुक्तं रसायनम्||६०||

🔊 Audio coming soon

Adhikarana 14 (61) · Śloka 61

हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् | युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम्||६१||

🔊 Audio coming soon

Adhikarana 15 (62-67) · Śloka 67

रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्| प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम्||६२|| स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम्| बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत्||६३|| वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्| मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम्||६४|| रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम्| अपि प्रवयसां मद्यमुत्सवामोदकारकम्||६५|| पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे| यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि||६६|| बहुदुःखहतस्यास्य शोकेनोपहतस्य च| विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम्||६७||

🔊 Audio coming soon

Adhikarana 16 (68-73) · Śloka 73

अन्नपानवयोव्याधिबलकालत्रिकाणि षट्| त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा||६८|| तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते| यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते||६९|| मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते| धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः||७०|| सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे| द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः||७१|| सस्यसम्बोधकं वर्षं, हेमप्रकृतिदर्शकः| हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम्||७२|| प्रधानावरमध्यानां रूपाणां व्यक्तिदर्शकः| यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम्||७३||

🔊 Audio coming soon

Adhikarana 17 (74-78) · Śloka 78

सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम्| मिष्टान्नपानविशदं सदा मधुरसङ्कथम्||७४|| सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम्| स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम्||७५|| वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः| मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु ||७६|| सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्| चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम्||७७|| हर्षप्रीतिकथापेतमतुष्टं पानभोजने| सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम्||७८||

🔊 Audio coming soon

Adhikarana 18 (79) · Śloka 79

आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान्| जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते||७९||

🔊 Audio coming soon

Adhikarana 19 (80-87) · Śloka 87

सुखशीलाः सुसम्भाषाः सुमुखाः सम्मताः सताम्| कलास्वबाह्या विशदा विषयप्रवणाश्च ये||८०|| परस्परविधेया ये येषामैक्यं सुहृत्तया| प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये||८१|| उत्सवादुत्सवतरं येषामन्योन्यदर्शनम्| ते सहायाः सुखाः पाने तैः पिबन्सह मोदते||८२|| रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः| पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः||८३|| पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः प्रियैः| देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना||८४|| स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः| बहुमद्योचिता ये च माद्यन्ति सहसा न ते||८५|| क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिकाः| रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः||८६|| क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः| स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः||८७||

🔊 Audio coming soon

Adhikarana 20 (88-97) · Śloka 97

ऊर्ध्वं मदात्ययस्यातः सम्भवं स्वस्वलक्षणम्| अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम्||८८|| स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः| रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया||८९|| रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च| करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्||९०|| हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः| विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम्||९१|| तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते| अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः||९२|| तस्योपजायते पित्ताद्विशेषेण मदात्ययः| स तु वातोल्बणस्याशु प्रशमं याति हन्ति वा||९३|| तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः| विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्||९४|| तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा| मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया||९५|| अव्यायामदिवास्वप्नशय्यासनसुखे रतः| मदात्ययं कफप्रायं स शीघ्रमधिगच्छति||९६|| छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः| विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्||९७||

🔊 Audio coming soon

Adhikarana 21 (98-100) · Śloka 100

विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः| त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः||९८|| हन्त्याशु हि विषं किञ्चित् किञ्चिद्रोगाय कल्पते| यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः||९९|| तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये| दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य लक्ष्यते||१००||

🔊 Audio coming soon

Adhikarana 22 (101-106) · Śloka 106

शरीरदुःखं बलवत् सम्मोहो हृदयव्यथा| अरुचिः प्रतता तृष्णा ज्वरः शीतोष्णलक्षणः||१०१|| शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या च वेदना| जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः||१०२|| उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः| शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः||१०३|| छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः| भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम्||१०४|| तृणभस्मलतापर्णपांशुभिश्चावपूरणम्| प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते||१०५|| व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च| मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत्||१०६||

🔊 Audio coming soon

Adhikarana 23 (107-111) · Śloka 111

सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम्| दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत्||१०७|| कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये| पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः||१०८|| मिथ्यातिहीनपीतेन यो व्याधिरुपजायते| समपीतेन तेनैव स मद्येनोपशाम्यति||१०९|| जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत्| प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत्||११०|| सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम्| मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् ||१११||

🔊 Audio coming soon

Adhikarana 24 (112-116) · Śloka 116

तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना| मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः||११२|| अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्| जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत्||११३|| क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः| श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु||११४|| मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः| मधुरश्च कषायश्च तिक्तः कटुक एव च||११५|| गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः| सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति||११६||

🔊 Audio coming soon

Adhikarana 25 (117-135) · Śloka 135

मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः| करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु||११७|| दोषविष्यन्दनार्थं हि तस्मै मद्यं विशेषतः| व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि||११८|| स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम्| रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च||११९|| रुजः स्रोतःस्वरुद्धेषु मारुते चानुलोमिते| निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः||१२०|| बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्| यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम्||१२१|| सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम् | दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये||१२२|| दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत्| लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि||१२३|| पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः| भूशयप्रसहानां च रसैः शाल्योदनेन च||१२४|| स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः| चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः ||१२५|| पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः| माषपूपलिकाभिश्च वातिकं समुपाचरेत्||१२६|| नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम्| मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा||१२७|| पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम्| रसप्रलेपि सम्पूपैः सुखोष्णैः सम्प्रदापयेत्||१२८|| भुक्ते तु वारुणीमण्डं दद्यात् पातुं पिपासवे| दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम्||१२९|| धान्यनागरतोयं च दधिमण्डमथापि वा| अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा||१३०|| कर्मणाऽनेन सिद्धेन विकार उपशाम्यति| मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते||१३१|| रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः| पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः||१३२|| अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः| घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः||१३३|| नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः| श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः||१३४|| शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः| मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः||१३५||

🔊 Audio coming soon

Adhikarana 26 (136-163) · Śloka 164

भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम् | सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम्||१३६|| सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम्| दद्याद्बहूदकं काले पातुं पित्तमदात्यये||१३७|| शशान् कपिञ्जलानेणाँल्लावानसितपुच्छकान्| मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान्||१३८|| पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम्| सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम्||१३९|| द्राक्षामलकखर्जूरपरूषकरसेन वा| कल्पयेत्तर्पणान् यूषान् रसांश्च विविधात्मकान्||१४०|| आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये| विज्ञाय बहुदोषस्य दह्यमानस्य तृष्यतः||१४१|| मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा| निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते||१४२|| काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते| तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः||१४३|| कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च| तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि||१४४|| गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक्| रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम् ||१४५|| तृष्यते चातिबलवद्वातपित्ते समुद्धते| दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम्||१४६|| जीर्णे समधुराम्लेन छागमांसरसेन तम्| भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत्||१४७|| अनुतर्षस्य मात्रा सा यया नो दूष्यते मनः| तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम्||१४८|| तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात्| परूषकाणां पीलूनां रसं शीतमथापि वा||१४९|| पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम्| मुस्तदाडिमलाजानां तृष्णाघ्नं वा पिबेद्रसम्||१५०|| कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः| पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति||१५१|| शीतलान्यन्नपानानि शीतशय्यासनानि च| शीतवातजलस्पर्शाः शीतान्युपवनानि च||१५२|| क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च| चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः||१५३|| हेमराजतकांस्यानां पात्राणां शीतवारिभिः| पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः||१५४|| संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः| चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये ||१५५|| शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत्| कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना||१५६|| हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते| कथाश्च विविधाः शस्ताः शब्दाश्च शिखिनां शिवाः||१५७|| तोयदानां च शब्दा हि शमयन्ति मदात्ययम्| जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च||१५८|| कल्पनीयानि भिषजा दाहे धारागृहाणि च| फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम्||१५९|| कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्| बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः||१६०|| फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम्| सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु||१६१|| सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः| परिषेकावगाहेषु व्यञ्जनानां च सेवने||१६२|| शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये| मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति ||१६३|| धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्ययः|१६४|

🔊 Audio coming soon

Adhikarana 27 (164-188) · Śloka 188

उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम्||१६४|| तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम्| बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम्||१६५|| सनागराभिः सर्वाभिर्जलं वा शृतशीतलम्| दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा||१६६|| जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम्| एतदेव च पानीयं सर्वत्रापि मदात्यये||१६७|| निरत्ययं पीयमानं पिपासाज्वरनाशनम्| निरामं काङ्क्षितं काले सक्षौद्रं पाययेत्तु तम्||१६८|| शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा| रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्||१६९|| यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत्| कुलत्थानां सुशुष्काणां मूलकानां रसेन वा||१७०|| तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा| पटोलयूषमम्लं वा यूषमामलकस्य वा||१७१|| प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत्| व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम्||१७२|| छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम्| स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् ||१७३|| कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु| व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम्||१७४|| प्रभूतकटुसंयुक्तं यवानीनागरान्वितम्| भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम्||१७५|| यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम्| पिबेच्च निगदं मद्यं कफप्राये मदात्यये||१७६|| सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम्| त्वगेलामरिचार्धांशं शर्कराभागयोजितम्||१७७|| एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम्| मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम्||१७८|| एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम्| गोधूमान्नयवान्नानां मांसानां चातिरोचनम्||१७९|| पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम्| मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा||१८०|| सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः| स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः ||१८१|| मृद्वीकाया विधानेन कारयेत् कारवीमपि| शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम्||१८२|| आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक्| धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्||१८३|| गुडेन मधुयुक्तेन व्यक्ताम्ललवणीकृतान्| तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति||१८४|| रूक्षोष्णेनान्नपानेन स्नानेनाशिशिरेण च| व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च||१८५|| कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च| प्राणवर्णकराणां च प्रघर्षाणां च सेवया||१८६|| सेवया वसनानां च गुरूणामगुरोरपि| सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया||१८७|| सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च| मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति||१८८||

🔊 Audio coming soon

Adhikarana 28 (189-190) · Śloka 190

यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति| सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा||१८९|| यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित्| स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित्||१९०||

🔊 Audio coming soon

Adhikarana 29 (191-198) · Śloka 198

वनानि रमणीयानि सपद्माः सलिलाशयाः| विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः||१९१|| माल्यानि गन्धयोगाश्च वासांसि विमलानि च| गान्धर्वशब्दाः कान्ताश्च गोष्ठ्यश्च हृदयप्रियाः||१९२|| सङ्कथाहास्यगीतानां विशदाश्चैव योजनाः| प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम्||१९३|| नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च| कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया||१९४|| आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः| न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत्||१९५|| लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि| विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे||१९६|| तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च| ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः||१९७|| पयसाऽभिहृते रोगे बले जाते निवर्तयेत्| क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्||१९८||

🔊 Audio coming soon

Adhikarana 30 (199-205) · Śloka 205

विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते||१९९|| व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ| तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते||२००|| श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता| तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम्||२०१|| हृत्कण्ठरोगः सम्मोहश्छर्दिरङ्गरुजा ज्वरः| तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम्||२०२|| तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये| तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै||२०३|| बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः| अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत्||२०४|| ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति| युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते||२०५||

🔊 Audio coming soon

Adhikarana 31 (206) · Śloka 206

निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः| शारीरमानसैर्धीमान् विकारैर्न स युज्यते||२०६||

🔊 Audio coming soon

Adhikarana 32 (207-211) · Śloka 211

तत्र श्लोकाः- यत्प्रभावा भगवती सुरा पेया यथा च सा| यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा||२०७|| यथा मदयते यैश्च गुणैर्युक्ता महागुणा| यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः||२०८|| ये च मद्यकृता दोषा गुणा ये च मदात्मकाः| यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम्||२०९|| ये सहायाः सुखाः पाने चिरक्षिप्रमदा नराः| मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत्||२१०|| मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः| सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते||२११||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 24

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः||२४||

🔊 Audio coming soon