Adhikarana 1 (1-2) · Śloka 2
अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-6) · Śloka 6
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत् सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति||३|| भवन्ति चात्र- एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः| जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||४|| प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्| यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||५|| इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्| जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||६|| (इत्यामलकायसं ब्राह्मरसायनम्)|
🔊 Audio coming soon
Adhikarana 3 (7-8) · Śloka 8
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च| रसायनविधानेन कालयुक्तेन चायुषा||७|| स्थिता महर्षयः पूर्वं, नहि किञ्चिद्रसायनम्| ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||
🔊 Audio coming soon
Adhikarana 4 (9-14) · Śloka 14
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा| सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९|| संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्| त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०|| बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्| गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११|| तदा ह्यवश्यममृतं वसत्यामलके क्षणम्| शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२|| भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्| जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३|| सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः| स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४|| (इति केवलामलकरसायनम्)|
🔊 Audio coming soon
Adhikarana 5 (15-23) · Śloka 23
त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे| क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च||१५|| तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् | चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च||१६|| ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्| तानि चूर्णानि मधुना रसेनामलकस्य च||१७|| युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते| संवत्सरं निधेयानि यवपल्ले तथैव च||१८|| दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः| संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९|| प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्| एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०|| नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना| स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१|| धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः | भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२|| अनेनैव विधानेन हेम्नश्च रजतस्य च| आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३|| (इति लौहादिरसायनम्)|
🔊 Audio coming soon
Adhikarana 6 (24-29) · Śloka 29
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला| पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम्||२४|| एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना| द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च||२५|| सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्| घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते||२६|| जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्| आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७|| परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्| नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८|| श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च| मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९|| (इत्यैन्द्रं रसायनम्)|
🔊 Audio coming soon
Adhikarana 7 (30-31) · Śloka 31
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्| रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०|| आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि| मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी||३१|| (इति मेध्यरसायनानि)|
🔊 Audio coming soon
Adhikarana 8 (32-35) · Śloka 35
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा| रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२|| तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च| पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३|| प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा| जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४|| अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्| वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५|| (इति पिप्पलीरसायनम्)|
🔊 Audio coming soon
Adhikarana 9 (36-40) · Śloka 40
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्| वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः||३६|| जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा| पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्||३७|| पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः| चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८|| दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः| प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः||३९|| बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्| वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०|| (इति पिप्पलीवर्धमानं रसायनम्)|
🔊 Audio coming soon
Adhikarana 10 (41-47) · Śloka 47
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके| भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१|| प्रयोजयन् समामेकां त्रिफलाया रसायनम्| जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२|| (इति त्रिफलारसायनम्)| त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्| तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम्||४३|| प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते| अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४|| (इति त्रिफलारसायनमपरम्)| मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा| त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५|| (इति त्रिफलारसायनमपरम्)| सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा| विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६|| संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा| भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी||४७|| (इति त्रिफलारसायनमपरम्)|
🔊 Audio coming soon
Adhikarana 11 (48-50) · Śloka 50
अनम्लं च कषायं च कटु पाके शिलाजतु| नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः||४८|| हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि| रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९|| वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्| वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
🔊 Audio coming soon
Adhikarana 12 (51-54) · Śloka 55
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे| कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१|| पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह| तत् पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम्||५२|| जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्| मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३|| प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः| निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४|| पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता|५५|
🔊 Audio coming soon
Adhikarana 13 (55-61) · Śloka 61
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्||५५|| हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः| जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६|| मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः| कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः||५७|| रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते| ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु||५८|| यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः| कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः||५९|| गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः| रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते||६०|| यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु| विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः||६१||
🔊 Audio coming soon
Adhikarana 14 (62-66) · Śloka 66
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च| वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत्||६२|| ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्| लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते||६३|| पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः| आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम्||६४|| न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य| तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५|| (इति शिलाजतुरसायनम्)| तत्र श्लोकः- करप्रचितिके पादे दश षट् च महर्षिणा| रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 3
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः||३||
🔊 Audio coming soon