Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. śvayathucikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः श्वयथुचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

क्षतक्षीणे मर्मोपघातो भवति, शोथेऽपि मर्मोपघातः कारणं, तेन समानहेतुतया क्षतक्षयमनु शोथचिकित्सितमुच्यते||१-२||

Adhikarana 2 (3) · Śloka 3

भिषग्वरिष्ठं सुरसिद्धजुष्टं मुनीन्द्रमत्र्यात्मजमग्निवेशः| महागदस्य श्वयथोर्यथावत् प्रकोपरूपप्रशमानपृच्छत्||३||

🔊 Audio coming soon

जुष्टमिति सेवितम्| प्रकोपयतीति प्रकोपो हेतुरित्यर्थः, किंवा कार्यकारणयोरभेदोपचारात् प्रकोपशब्देन श्वयथुकारणमुच्यते; रूपशब्देन रूपपूर्वरूपयोर्ग्रहणं; शमनेन चिकित्सोच्यते||३||

Adhikarana 3 (4) · Śloka 4

तस्मै जगादागदवेदसिन्धुप्रवर्तनाद्रिप्रवरोऽत्रिजस्तान्| वातादिभेदात्त्रिविधस्य सम्यङ्निजानिजैकाङ्गजसर्वजस्य||४||

🔊 Audio coming soon

अगदार्थ आरोग्यार्थो यो वेदः सोऽगदवेदः, स एव गम्भीरप्रसन्नत्वात् सिन्धुरिव सिन्धुः, तस्य प्रवर्तनेऽद्रिप्रवरो हिमालय इवेत्यर्थः; यथा हिमालयो गङ्गायाः प्रवर्तकस्तथाऽत्रिजोऽपि आयुर्वेदप्रवर्तक इत्यर्थः| तानिति प्रकोपादीन् याञ् शिष्यः पृष्टवान्| एकाङ्गजसर्वजस्येत्यत्र सर्वजशब्देन सर्वशरीरजस्य ग्रहणम्, एकाङ्गजशब्देन च सामान्येन शरीराव्यापकस्य ग्रहणं; तेन सर्वार्धगात्रावयवाश्रितत्वेन यत्त्रैविध्यं वक्तव्यं तत्रैकाङ्गजेनार्धगात्राश्रितावयवाश्रितयोरिह ग्रहणं ज्ञेयम्||४||

Adhikarana 4 (5-6) · Śloka 6

शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा| दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च||५|| अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः| मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः||६||

🔊 Audio coming soon

शुद्धिः वमनादिशोधनम्, आमया ज्वरादयः, अभक्तम् अभोजनं विगुणं च भोजनं, तैः कृशानामबलानां च क्षारादिसेवा निजस्य श्वयथोर्हेतुरिति योज्यम्| दध्यादि तु स्वतन्त्रमेव हेतुः| आमम् अपक्वं, दुष्टं दोषकारकं नवोदकादि, गरः संयोगजं विषम्| नच देहशुद्धिरिति शोधनार्हेऽपि देहे देहाशुद्धिः| मर्मोपघात इह दोषकृत एव ज्ञेयः; बाह्यहेतुजस्तु मर्मोपघात आगन्तुहेतुरेव| विषमा प्रसूतिः अकालगर्भपतनादिका| प्रतिकर्मणामिति वमनादीनां; मिथ्योपचार इति असम्यक्करणमसम्यगुपचारश्च||५-६||

Adhikarana 5 (7) · Śloka 7

बाह्यास्त्वचो दूषयिताऽभिघातः काष्ठाश्मशस्त्राग्निविषायसाद्यैः | आगन्तुहेतुः, ...|७|

🔊 Audio coming soon

बाह्या इत्यादिनाऽऽगन्तुशोथहेतुमाह| बाह्या इति अगम्भीराः; एतेन गम्भीरत्वग्दूषकत्वं शोथस्य न भवति| त्वच इति कर्मपदं हलन्तम्| दूषयिता अभिघातविशेषेण| काष्ठाश्मशस्त्राग्निविषायसाद्यैरिति काष्ठादिकारणकः; आदिशब्दो हि कारणवाची, तेन काष्ठादिकारणकोऽभिघात इत्यर्थः| काष्ठादयश्चेह सङ्क्षेपेणोक्ता दन्तादीनामप्युपलक्षणा ज्ञेयाः| किंवा आदि शब्दः प्रकारवाची, तेन काष्ठादिकृतोऽभिघातः काष्ठादिशब्देनोच्यत इति कृत्वाऽभिघातेन समं सामानाधिकरण्यं ज्ञेयम्| आगन्तुहेतुरिति च्छेदः||७||-

Adhikarana 6 (7) · Śloka 7

... त्रिविधो निजश्च सर्वार्धगात्रावयवाश्रितत्वात्||७||

🔊 Audio coming soon

त्रिविध इति सर्वार्धगात्रावयवाश्रितत्वेन निजस्त्रिविधः; चकारादागन्तुरपि यथोक्तभेदात्त्रिविध इत्यर्थः||७||

Adhikarana 7 (8) · Śloka 8

बाह्याः सिराः प्राप्य यदा कफासृक्पित्तानि सन्दूषयतीह वायुः| तैर्बद्धमार्गः स तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति||८||

🔊 Audio coming soon

बाह्याः सिरा इत्यादिसम्प्राप्तिकथनम्| बाह्या इति अगम्भीराः| सिराशब्देन स्रोतसां सामान्येन ग्रहणम्| बद्धमार्ग इति आवृतमार्गः| उत्सेधेनाव्यभिचारिणा लिङ्ग्यत इति उत्सेधलिङ्गः||८||

Adhikarana 8 (9) · Śloka 9

उरःस्थितैरूर्ध्वमधस्तु वायोः स्थानस्थितैर्मध्यगतैस्तु मध्ये| सर्वाङ्गगः सर्वगतैः क्वचित्स्थैर्दोषैः क्वचित् स्याच्छ्वयथुस्तदाख्यः||९||

🔊 Audio coming soon

उरःस्थितैरित्यादिना विशिष्टशोथानां सम्प्राप्तिविशेषमाह| ऊर्ध्वमिति उरःप्रभृत्यूर्ध्वशरीरे| अध इति पक्वाशयप्रभृतौ| वायोः स्थानं पक्वाशयः| मध्यगतैरिति उरःपक्वाशयमध्यगतैः| क्वचिदिति कण्ठताल्वादिदेशे| तदाख्य इति ‘गलशोथ’ इत्यादिशब्दाख्य इति; किंवा ऊर्ध्वशोथाधःशोथ इत्यादिशब्दाख्य इति सर्वत्र योजनीयम्||९||

Adhikarana 9 (10) · Śloka 10

ऊष्मा तथा स्याद्दवथुः सिराणामायाम इत्येव च पूर्वरूपम्|१०|

🔊 Audio coming soon

ऊष्मेत्यादिना पूर्वरूपमाह| दवथुः उपतापश्चक्षुरादौ| सिराणामायाम इति सिराप्रसरणम्|१०|-

Adhikarana 10 (10) · Śloka 10

सर्वस्त्रिदोषोऽधिकदोषलिङ्गैस्तच्छब्दमभ्येति भिषग्जितं च||१०||

🔊 Audio coming soon

सर्वशोथानां त्रिदोषजत्वेऽपि वातजादिव्यपदेशो वातजादिचिकित्सा च यथा भिन्ना भवति तदाह- सर्व इत्यादि| अधिकानि अधिकस्य वा दोषस्य लिङ्गानीति अधिकदोषलिङ्गानि, तैः अधिकदोषलिङ्गैः| तच्छब्दमिति अधिकदोषशब्दं वातजोऽयमित्यादिकं प्राप्नोति; तथा भिषग्जितं चाधिकदोषलिङ्गैः प्राप्नोति, अधिकदोषलिङ्गप्रयुक्तं चिकित्सतभेदं प्राप्नोतीत्यर्थः||१०||

Adhikarana 11 (11) · Śloka 11

सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माऽथ सिरातनुत्वम्| सलोमहर्षाऽङ्गविवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम्||११||

🔊 Audio coming soon

सगौरवमित्यादिना सामान्यलिङ्गं पठति||११||

Adhikarana 12 (12) · Śloka 12

चलस्तनुत्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्तियुतोऽनिमित्ततः| प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात्||१२||

🔊 Audio coming soon

चल इत्यादिना वातजशोथलिङ्गमाह| तनुत्वगिति अबहलत्वक्| असित इति कृष्णः| सुप्तिः स्पर्शाज्ञानं; हर्षः ‘झणझणिका’ इति ख्याता वेदना, किंवा रोमहर्षः| अनिमित्ततः प्रशाम्यतीति वायोश्चलत्वेन कदाचिन्निमित्तं विनाऽपि लीनो भवतीत्यर्थः| केचित् ‘निमित्ततः’ इति पठन्ति, तेन “स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः” (सू.अ.१८) इति यदुक्तं तदेवेदमुच्यते| प्रोन्नमतीति सम्पीडनानन्तरमेवोन्नमति||१२||

Adhikarana 13 (13) · Śloka 13

मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः| य उष्यते स्पर्शरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान्||१३||

🔊 Audio coming soon

मृद्वित्यादिना पित्तशोथमाह| उष्यत इति दह्यते| स्पर्शरुगिति स्पर्शनं न सहते||१३||

Adhikarana 14 (14) · Śloka 14

गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत्| स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिबली कफात्मकः||१४||

🔊 Audio coming soon

गुरुरित्यादिना कफशोथमाह| अरोचकान्वित इति अरोचकव्याधिसहचारी| कृच्छ्रजन्मप्रशम इति चिरोत्पत्तिविनाशः| रात्रिबली कफात्मक इति रात्रौ स्रोतोरोधजेन देहक्लेदेनाचेष्टया च कफस्य वृद्धत्वात् तज्जनितशोथो बलवान् भवति, दिवा तु स्फुटस्रोतसि शरीरे चेष्टायुक्ते न कफो बलीभवति किन्तु वायुः; तेन वातशोथो दिवा बलीभवति, कफशोथस्तु हीयते||१४||

Adhikarana 15 (15) · Śloka 15

कृशस्य रोगैरबलस्य यो भवेदुपद्रवैर्वा वमिपूर्वकैर्युतः| स हन्ति मर्मानुगतोऽथ राजिमान् परिस्रवेद्धीनबलस्य सर्वगः||१५||

🔊 Audio coming soon

सम्प्रत्यसाध्यत्वमाह- कृशस्येत्यादि| वमिपूर्वकैरिति त्रिशोथीये “छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च| सुप्तिः शोषः सदौर्बल्यः शोथोपद्रवसङ्ग्रहः” (सू.अ.१८) इत्यनेनोक्तैः| मर्मानुगतो राजिमानिति च पृथग्लक्षणं, परिस्रवेदित्यादि च पृथक् पृथगसाध्यलक्षणम्||१५||

Adhikarana 16 (16) · Śloka 16

अहीनमांसस्य य एकदोषजो नवो बलस्थस्य सुखः स साधने|१६|

🔊 Audio coming soon

अहीनेत्यादिना सुखसाध्यलक्षणमुच्यते| कृच्छ्रसाध्यलक्षणं च सुखसाध्यलक्षणासम्पूर्णतायां ज्ञेयम्| श्वयथोश्च हेतुलक्षणानि त्रिशोथीयोक्तान्यपि प्रकरणात् सङ्क्षेपेणेहोच्यन्ते|१६|

Adhikarana 17 (16) · Śloka 16

निदानदोषर्तुविपर्ययक्रमैरुपाचरेत्तं बलदोषकालवित्||१६||

🔊 Audio coming soon

सामान्येन चिकित्सासूत्रमाह- निदानेत्यादि| निदानादिविपरीतक्रमैः लङ्घनादिभिरुपाचरेदित्यर्थः| बलदोषकालविदित्यनेन निदानादेर्विपरीता क्रियोक्ता; बलं तथा दोषमामादिभेदभिन्नं तथा कालं च व्याध्यवस्थारूपं विदित्वा या युज्यते सा कर्तव्येति दर्शयति| निदानेत्यादौ दोषशब्देन वातादयो गृह्यन्ते, ऋतुशब्देन च नित्यगः कालः| तेनैव तद्विशिष्टवाचकतया बलदोषकालविदिति वचनं न पुनरुक्तम्| अन्ये तु प्रथमेन दोषशब्देन दूष्यधातुग्रहणं, द्वितीयेन तु वातादिग्रहणमित्याहुः; प्रथमव्याख्याने तु दोषशब्देनैव दूष्यस्यापि दोषाधारस्य ग्रहणं ज्ञेयम्||१६||

Adhikarana 18 (17-19) · Śloka 19

अथामजं लङ्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादितः| शिरोगतं शीर्षविरेचनैरधो विरेचनैरूर्ध्वहरैस्तथोर्ध्वजम्||१७|| उपाचरेत् स्नेहभवं विरूक्षणैः प्रकल्पयेत् स्नेहविधिं च रूक्षजे| विबद्धविट्केऽनिलजे निरूहणं घृतं तु पित्तानिलजे सतिक्तकम्||१८|| पयश्च मूर्च्छारतिदाहतर्षिते विशोधनीये तु समूत्रमिष्यते| कफोत्थितं क्षारकटूष्णसंयुतैः समूत्रतक्रासवयुक्तिभिर्जयेत्||१९||

🔊 Audio coming soon

आमजमिति आमदोषजनितम्, अपक्वता च प्रायो दोषाणां प्रथमदुष्टौ भवति| क्रमैरिति उपक्रमैः| अध इति अधोभागजं, विरेचनैरुपाचरेत्| ऊर्ध्वहरैरिति वमनैः, ऊर्ध्वजमिति ऊर्ध्वभागजम्| सतिक्तकं घृतमिति तिक्तद्रव्यसाधितं घृतम्| पित्तानिलजे इति वातपित्तजद्वन्द्वे| मूर्च्छादय इह सञ्जाता यस्य तस्मिन् मूर्च्छारतिदाहतर्षिते| विशोधनीये इति मूर्च्छायुक्ते एव विशोधनीये| समूत्रेत्यादि मूत्रसमभागैस्तक्रासवयोगैः||१७-१९||

Adhikarana 19 (20) · Śloka 20

ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं नवान्नं गौडं पिष्टान्नं दधि तिलकृतं विज्जलं मद्यमम्लम्| धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च||२०||

🔊 Audio coming soon

ग्राम्येत्यादिना निदानत्वेनैव प्राप्तनिषेधानपि महात्ययावह- त्वादत्यर्थनिषेधोपदर्शनार्थमाह| गौडमिति गुडविकारं, तस्य विकारे अण्| धाना अङ्कुरितभृष्टयवाः| वल्लूरं शुष्कमांसम्| समशनं पथ्यापथ्ययोरेकत्र भोजनम्||२०||

Adhikarana 20 (21-22) · Śloka 22

व्योषं त्रिवृत्तिक्तकरोहिणी च सायोरजस्का त्रिफलारसेन| पीतं कफोत्थं शमयेत्तु शोफं गव्येन मूत्रेण हरीतकी च||२१|| हरीतकीनागरदेवदारु सुखाम्बुयुक्तं सपुनर्नवं वा| सर्वं पिबेत्त्रिष्वपि मूत्रयुक्तं स्नातश्च जीर्णे पयसाऽन्नमद्यात्||२२||

🔊 Audio coming soon

अत्र कफदोषस्यैव प्रथमं चिकित्स्यत्वेन व्योषमित्यादिना कफशोथचिकित्सामाह| सायोरजस्केति अनेन मारितमेवात्र अयोरज इच्छन्ति, रसायनेऽपि मृतायोरजस एव प्रयोगोपदेशात्| अयोरजो न समं तुल्यमानम्, अयो हि दुष्परिणामं, तेनायःप्रयोगेऽल्पमेव लोहं मात्रानुसारेण ज्ञेयम्| हरीतक्यादीनां कल्कः सुखाम्बुना पेयः| सपुनर्नवं वा सर्वमिति हरीतक्यादि| त्रिष्वपि वातादिजेषु| स्नातश्चेत्यादिविधिरन्ते उक्तत्वादुक्तसर्वप्रयोगेषु ज्ञेयः||२१-२२||

Adhikarana 21 (23-28) · Śloka 28

पुनर्नवानागरमुस्तकल्कान् प्रस्थेन धीरः पयसाऽक्षमात्रान्| मयूरकं मागधिकां समूलां सनागरां वा प्रपिबेत् सवाते||२३|| दन्तीत्रिवृत्त्र्यूषणचित्रकैर्वा पयः शृतं दोषहरं पिबेन्ना| द्विप्रस्थमात्रं तु पलार्धिकैस्तैरर्धावशिष्टं पवने सपित्ते||२४|| सशुण्ठिपीतद्रुरसं प्रयोज्यं श्यामोरुबूकोषणसाधितं वा| त्वग्दारुवर्षाभुमहौषधैर्वा गुडूचिकानागरदन्तिभिर्वा||२५|| सप्ताहमौष्ट्रं त्वथवाऽपि मासं पयः पिबेद्भोजनवारिवर्जी| गव्यं समूत्रं महिषीपयो वा क्षीराशनो मूत्रमथो गवां वा||२६|| तक्रं पिबेद्वा गुरुभिन्नवर्चाः सव्योषसौवर्चलमाक्षिकं च| गुडाभयां वा गुडनागरं वा सदोषभिन्नामविबद्धवर्चाः||२७|| विड्वातसङ्गे पयसा रसैर्वा प्राग्भक्तमद्यादुरुबूकतैलम् | स्रोतोविबन्धेऽग्निरुचिप्रणाशे मद्यान्यरिष्टांश्च पिबेत् सुजातान्||२८||

🔊 Audio coming soon

पुनर्नवेत्यादौ प्रस्थमानं क्षीरमतिबहुत्वात्तदर्धावशिष्टं पक्त्वा पेयम्| मयूरकमित्यादावपि पूर्वयोगोक्तं क्षीरं द्रव्यमानं च ज्ञेयम्| पलार्धिकैरिति द्विकर्षमानैः| अत्र च भेषजापेक्षया क्षीरस्य बहुत्वात् स्तोकक्षीरदानं केचिदिच्छन्ति साधनत्वेन कर्तव्यमिति, ‘यथा कुर्वन्ति स उपायः’ (सू.अ.२६) इति वचनात्| पीतद्रुः देवदारुः| ऊषणं मरिचम्| भोजनवारिवर्जीति भोजनं वारि च त्यक्तव्यमित्यर्थः| गव्यमित्यादावपि गवां मूत्रमित्यन्तेन सप्ताहं मासं वेति तथा भोजनवारिवर्जीति चानुवर्तयन्ति| समूत्रमित्यत्र मूत्रसमं क्षीराशनमिति सम्बध्यते||२३-२८||

Adhikarana 22 (29-31) · Śloka 31

गण्डीरभल्लातकचित्रकांश्च व्योषं विडङ्गं बृहतीद्वयं च| द्विप्रस्थिकं गोमयपावकेन द्रोणे पचेत् कूर्चिकमस्तुनस्तु ||२९|| त्रिभागशेषं च सुपूतशीतं द्रोणेन तत् प्राकृतमस्तुना च| सितोपलायाश्च शतेन युक्तं लिप्ते घटे चित्रकपिप्पलीनाम्||३०|| वैहायसे स्थापितमादशाहात् प्रयोजयंस्तद्विनिहन्ति शोफान्| भगन्दरार्शःक्रिमिकुष्ठमेहान् वैवर्ण्यकार्श्यानिलहिक्कनं च||३१|| इति गण्डीराद्यरिष्टः|

🔊 Audio coming soon

कूर्चिकमस्तुन इत्यत्र दध्ना सह पयसि पक्वं यन्मस्तु तत् कूर्चिकमस्तु, केवलस्य दध्नो यन्मस्तु तत् प्राकृतमस्तु| वैहायसे इति अन्तरिक्षे||२९-३१||

Adhikarana 23 (32-33) · Śloka 33

काश्मर्यधात्रीमरिचाभयाक्षद्राक्षाफलानां च सपिप्पलीनाम्| शतं शतं जीर्णगुडात्तुलां च सङ्क्षुद्य कुम्भे मधुना प्रलिप्ते||३२|| सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना| शोफान् विबन्धान् कफवातजांश्च निहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च||३३|| इत्यष्टशतोऽरिष्टः|

🔊 Audio coming soon

काश्मर्येत्यादौ उष्णे इति उष्णकाले| द्विगुणमिति द्विसप्ताहं, शीतकाले स्थाप्यम्| अष्टशत इति सञ्ज्ञा काश्मर्यादिसप्तशतं मिलित्वा कृतत्वाज्ज्ञेया||३२-३३||

Adhikarana 24 (34-38) · Śloka 38

पुनर्नवे द्वे च बले सपाठे दन्तीं गुडूचीमथ चित्रकं च| निदिग्धिकां च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तम्||३४|| पूत्वा रसं द्वे च गुडात् पुराणात्तुले मधुप्रस्थयुतं सुशीतम्| मासं निदध्याद्घृतभाजनस्थं पल्ले यवानां परतस्तु मासात्||३५|| चूर्णीकृतैरर्धपलांशिकैस्तं पत्रत्वगेलामरिचाम्बुलोहैः | गन्धान्वितं क्षौद्रघृतप्रदिग्धे जीर्णे पिबेद् व्याधिबलं समीक्ष्य||३६|| हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहज्वरारोचकमेहगुल्मान्| भगन्दरं षड्जठराणि कासं श्वासं ग्रहण्यामयकुष्ठकण्डूः||३७|| शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च| क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी||३८|| इति पुनर्नवाद्यरिष्टः|

🔊 Audio coming soon

पुनर्नवे द्वे इत्यादौ प्रत्येकं द्रव्याणां द्विपलिकत्वम्| द्रोणावशेषविधानाच्च चतुर्द्रोणं जलस्य ज्ञेयम्| तथा सति चतुर्भागावशेषेण द्रोणः क्वाथो भवति| पल्ले यवानामिति यवराशौ, क्षौद्रघृतप्रदिग्धे कुम्भे कृत्वा मासं स्थाप्यमिति ज्ञेयं; किंवा क्षौद्रघृतप्रलिप्ते सुगन्धे भाजने कृत्वा पचेत्| षट्जठराणीति भेषजासाध्यौ छिद्रोदकदरौ वर्जयित्वा||३४-३८||

Adhikarana 25 (39-40) · Śloka 40

फलत्रिकं दीप्यकचित्रकौ च सपिप्पलीलोहरजो विडङ्गम्| चूर्णीकृतं कौडविकं द्विरंशं क्षौद्रं पुराणस्य तुलां गुडस्य||३९|| मासं निदध्याद्घृतभाजनस्थं यवेषु तानेव निहन्ति रोगान्| ये चार्शसां पाण्डुविकारिणां च प्रोक्ता हिताः शोफिषु तेऽप्यरिष्टाः||४०|| इति त्रिफलाद्यरिष्टः|

🔊 Audio coming soon

फलत्रिकमित्यादौ द्विप्रस्थे त्रिफलादीनां चतुर्गुणं जलं दत्त्वा पादावशेषः कषाय आसवान्तरे दृष्टत्वाज्ज्ञेयः| चूर्णीकृतमिति कषायार्थं जर्जरीकृतम्| अन्ये तु चूर्णे एव द्रोणार्धं परं जलं ददति; किंवा कुडवमानत्वं चूर्णस्य देयं, तेन द्विरंशं क्षौद्रमिति द्विकुडवमिति यावत्||३९-४०||

Adhikarana 26 (41-42) · Śloka 42

कृष्णा सपाठा गजपिप्पली च निदिग्धिका चित्रकनागरे च| सपिप्पलीमूलरजन्यजाजीमुस्तं च चूर्णं सुखतोयपीतम्||४१|| हन्यात्त्रिदोषं चिरजं च शोफं कल्कश्च भूनिम्बमहौषधस्य| अयोरजस्त्र्यूषणयावशूकचूर्णं च पीतं त्रिफलारसेन||४२||

🔊 Audio coming soon

पिप्पल्याद्ये चूर्णे त्रिदोषमिति प्रत्येकं मिलितैर्वा वातादिभिर्जनितमिति ज्ञेयम्; न चात्र त्रिदोषस्यासाध्यत्वं युक्तम्||४१-४२||

Adhikarana 27 (43-46) · Śloka 46

क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च| सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम्||४३|| कलिङ्गकाश्चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम्| सहिङ्गुकर्षं त्वणुशुष्कचूर्णं द्रोणं तथा मूलकशुण्ठकानाम्||४४|| स्याद्भस्मनस्तत् सलिलेन साध्यमालोड्य यावद्घनमप्रदग्धम्| स्त्यानं ततः कोलसमां तु मात्रां कृत्वा सुशुष्कां विधिनोपयुञ्ज्यात्||४५|| प्लीहोदरश्वित्रहलीमकार्शःपाण्ड्वामयारोचकशोषशोफान्| विसूचिकागुल्मगराश्मरीश्च सश्वासकासाः प्रणुदेत् सकुष्ठाः||४६|| इति क्षारगुडिका|

🔊 Audio coming soon

चत्वारि लवणानि सामुद्रवर्जं दीर्घञ्जीवितीयोक्तानि| अणुशुष्कचूर्णमिति सूक्ष्मचूर्णं ग्राह्यम्| अत्र जलमानमपि चूर्णचतुर्गुणं देयम्| स्त्यानमिति घनम्||४३-४६||

Adhikarana 28 (47-48) · Śloka 48

प्रयोजयेदार्द्रकनागरं वा तुल्यं गुडेनार्धपलाभिवृद्ध्या| मात्रा परं पञ्चपलानि मासं जीर्णे पयो यूषरसाश्च भक्तम्||४७|| गुल्मोदरार्शःश्वयथुप्रमेहाञ् श्वासप्रतिश्यालसकाविपाकान्| सकामलाशोषमनोविकारान् कासं कफं चैव जयेत् प्रयोगः||४८||

🔊 Audio coming soon

आर्द्रकनागरमिति अशुष्कनागरम्| अर्धपलाभिवृद्धिश्च इह गुडनागराभ्यां ज्ञेया, अन्यथा केवलार्द्रकवृद्ध्या पञ्चपलमाने गुडेन समं दशपलतायां भूरिमात्रतयाऽग्निवधादिदोषकारकं स्यात्; अर्धपलादारभ्य प्रतिदिनमर्धपलवृद्ध्या दशभिर्दिनैः पञ्चपलं भवति; ततस्तु पञ्चपलस्य यावन्मासमुपयोगः||४७-४८||

Adhikarana 29 (49) · Śloka 49

रसस्तथैवार्द्रकनागरस्य पेयोऽथ जीर्णे पयसाऽन्नमद्यात्| जत्वश्मजं च त्रिफलारसेन हन्यात्त्रिदोषं श्वयथुं प्रसह्य||४९|| इति शिलाजतुप्रयोगः|

🔊 Audio coming soon

रसस्तथैवेत्यादौ पूर्वयोगवदर्धपलाभिवृद्धिः गुडयुक्तत्वं चेत्यादि सर्वं तथैवेति पदेन गृह्यते||४९||

Adhikarana 30 (50-52) · Śloka 52

द्विपञ्चमूलस्य पचेत् कषाये कंसेऽभयानां च शतं गुडस्य| लेहे सुसिद्धेऽथ विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुषास्थिते च||५०|| प्रस्थार्धमात्रं मधुनः सुशीते किञ्चिच्च चूर्णादपि यावशूकात्| एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्||५१|| श्वासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान्| कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान्||५२|| इति कंसहरीतकी|

🔊 Audio coming soon

द्विपञ्चमूलस्येत्यादौ निर्दिष्टत्वात् कंसः क्वाथाद्भवति, तावन्मानं दशमूलं चतुःषष्टिपलं ग्राह्यम्| अन्ये तु ‘द्विपञ्चमूलस्य तुलाकषाये कंसोऽभयानां च शतं गुडस्य’ इति पठन्ति| व्योषत्रिसौगन्ध्ययोः मानानिर्देशेन अन्यत्र लेहान्तरोक्तचूर्णमानानुसारेण मानं ज्ञेयम्| अगस्त्यहरीतक्यां गुडतुलायां पिप्पलीचूर्णपलचतुष्टयमुक्तं, तथा च्यवनप्राशे मत्स्यण्डिकार्धतुलायां पिप्पलीचूर्णपलद्वयमुक्तं, तद्वदिहापि गुडशते व्योषस्य कटुद्रव्यस्य पलचतुष्टयं; तथा च्यवने चातुर्जातकस्य गन्धार्थस्य पलमुक्तं, तदनुसारेणेह द्विपलं त्रिसौगन्ध्यम्| किञ्चिच्छब्दस्याल्पवचनत्वादत्रोक्तनागरादिचूर्णादर्धमानं यावशूकस्य ज्ञेयं, केचित्तु किञ्चिच्छब्दं कर्षपर्यायं वदन्ति; तन्त्रान्तरप्रत्ययात्| जतूकर्णसंवादात् त्रिसौगन्ध्यस्य प्रत्येकं कर्षमानत्वं, त्र्यूषणयवक्षाराणां तु प्रत्येकं पलम्| यदुक्तं- “दशमूलकषायस्य कंसे पथ्याशतं गुडात्| तुलां पचेत्ततो दद्याद् व्योषक्षारचतुःपलम्| त्रिसुगन्धस्य कर्षांश प्रस्थार्धं मधुनो हिमे” इत्यादि||५०-५२||

Adhikarana 31 (53-54) · Śloka 54

पटोलमूलामरदारुदन्तीत्रायन्तिपिप्पल्यभयाविशालाः| यष्ट्याह्वयं तिक्तकरोहिणी च सचन्दना स्यान्निचुलानि दार्वी||५३|| कर्षोन्मितैस्तैः क्वथितः कषायो घृतेन पेयः कुडवेन युक्तः| वीसर्पदाहज्वरसन्निपाततृष्णाविषाणि श्वयथुं च हन्ति||५४||

🔊 Audio coming soon

पटोलमूलेत्यादौ क्वाथ्यद्रव्यपलत्रयमष्टगुणजलपरिभाषया क्वथनीयं; ततश्चतुर्भागावशेषेण षट्पलमानः कषायो भवति| उक्तं हि- “कर्षादौ तु पलं यावत् दद्यात् षोडशकं जलम्| ततश्च कुडवं यावत्तोयमष्टगुणं भवेत्” इति||५३-५४||

Adhikarana 32 (55-57) · Śloka 57

सचित्रकं धान्ययवान्यजाजीसौवर्चलं त्र्यूषणवेतसाम्लम्| बिल्वात् फलं दाडिमयावशूकौ सपिप्पलीमूलमथापि चव्यम्||५५|| पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्| अर्शांसि गुल्मं श्वयथुं च कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम्||५६|| पिबेद्घृतं वाऽष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम्| कल्याणकं वाऽपि सपञ्चगव्यं तिक्तं महद्वाऽप्यथ तिक्तकं वा||५७||

🔊 Audio coming soon

सचित्रकेत्यादौ केचित् ‘बिल्वात् पलं’ इति पठन्ति; तन्मते बिल्वं पलमानं, शेषं तु कार्षिकम्||५५-५७||

Adhikarana 33 (58-59) · Śloka 59

क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन| तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्र्यम्||५८|| अर्शोऽतिसारानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं च| तक्रेण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवा यवागूम्||५९|| इति चित्रकघृतम्|

🔊 Audio coming soon

दध्यागतमिति दधिभावेन परिणतम्| तक्रेणेति यथोक्तदधिमथनजातेन तक्रेण||५८-५९||

Adhikarana 34 (60-63) · Śloka 63

जीवन्त्यजाजीशटिपुष्कराह्वैः सकारवीचित्रकबिल्वमध्यैः| सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा||६०|| अर्शोऽतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागूः| या पञ्चकोलैर्विधिनैव तेन सिद्धा भवेत् सा च समा तयैव||६१|| कुलत्थयूषश्च सपिप्पलीको मौद्गश्च सत्र्यूषणयावशूकः| रसस्तथा विष्किरजाङ्गलानां सकूर्मगोधाशिखिशल्लकानाम्||६२|| सुवर्चला गृञ्जनकं पटोलं सवायसीमूलकवेत्रनिम्बम्| शाकार्थिनां शाकमिति प्रशस्तं भोज्ये पुराणश्च यवः सशालिः||६३||

🔊 Audio coming soon

जीवन्तीत्यादौ बदरप्रमाणैरिति द्विशाणिकैः| विधिनैव तेनेत्यत्र बदरमानत्वं द्रव्याणां ज्ञेयम्| सकूर्मेत्यादौ कूर्मविधानं मत्स्यमांसनिषेधेऽप्यपवादरूपं ज्ञेयम्| शल्लकः शललीसञ्ज्ञः| सुवर्चिका सूर्यावर्तः| गृञ्जनकं रसोनकसदृशं; किंवा गृञ्जनकं शोभाञ्जनम्| वायसी काकमाची||६०-६३||

Adhikarana 35 (64-67) · Śloka 67

आभ्यन्तरं भेषजमुक्तमेतद्बर्हिर्हितं यच्छृणु तद्यथावत्| स्नेहान् प्रदेहान् परिषेचनानि स्वेदांश्च वातप्रबलस्य कुर्यात्||६४|| शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः| प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रधान्यैः||६५|| श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चैव यथोपलाभम्| वातान्वितेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम्||६६|| जलैश्च वासार्ककरञ्जशिग्रुकाश्मर्यपत्रार्जकजैश्च सिद्धैः| स्विन्नो मृदूष्णै रवितप्ततोयैः स्नातश्च गन्धैरनुलेपनीयः||६७||

🔊 Audio coming soon

शैलेयेत्यादौ तैलं सिद्धं सुपिष्टैरिति शैलेयादिभिः सुपिष्टैस्तैलं सिद्धमिति वदन्ति; तथा तैरेव सुपिष्टैः प्रदेहं कथयन्ति| रविणा सूर्येण तप्ततोयैः स्नातो गन्धैरगुर्वादिभिरालेपनीयः||६४-६७||

Adhikarana 36 (68-69) · Śloka 69

सवेतसाः क्षीरवतां द्रुमाणां त्वचः समञ्जिष्ठलतामृणालाः| सचन्दनाः पद्मकवालकौ च पैत्ते प्रदेहस्तु सतैलपाकः||६८|| आक्तस्य तेनाम्बु रविप्रतप्तं सचन्दनं साभयपद्मकं च| स्नाने हितं क्षीरवतां कषायः क्षीरोदकं चन्दनलेपनं च||६९||

🔊 Audio coming soon

सवेतसा इत्यादिना पैत्ते प्रदेहमाह| क्षीरिद्रुमा अश्वत्थादयः| सतैलपाक इति मञ्जिष्ठादिभिरेव क्वाथकल्केन स्नेहः पक्तव्यः| सचन्दनमित्यादौ अभयम् उशीरम्||६८-६९||

Adhikarana 37 (70-73) · Śloka 73

कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः| कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च||७०|| बिभीतकानां फलमध्यलेपः सर्वेषु दाहार्तिहरः प्रदिष्टः| यष्ट्याह्वमुस्तैः सकपित्थपत्रैः सचन्दनैस्तत्पिडकासु लेपः||७१|| रास्नावृषार्कत्रिफलाविडङ्गं शिग्रुत्वचो मूषिकपर्णिका च| निम्बार्जकौ व्याघ्रनखः सदूर्वा सुवर्चला तिक्तकरोहिणी च||७२|| सकाकमाची बृहती सकुष्ठा पुनर्नवा चित्रकनागरे च| उन्मर्दनं शोफिषु मूत्रपिष्टं शस्तस्तथा मूलकतोयसेकः||७३||

🔊 Audio coming soon

सिकता वालुका| शिग्रोस्त्वक्| अनुलेपनं स्नानानन्तरमनुलेपनम्| तत्पिडकास्विति दाहादियुक्तपिडिकासु| रास्नेत्यादिना सर्वशोथेषून्मर्दनसेकौ ब्रूते| व्याघ्रनखं नखी| मूषिकपर्णी ‘पुत्रश्रेणी’ इति ख्याता||७०-७३||

Adhikarana 38 (74) · Śloka 74

शोफास्तु गात्रावयवाश्रिता ये ते स्थानदूष्याकृतिनामभेदात्| अनेकसङ्ख्याः कतिचिच्च तेषां निदर्शनार्थं गदतो निबोध||७४||

🔊 Audio coming soon

शोथास्त्वित्यादि| स्थानं गलादि, दूष्या रक्तादयः, आकृतिः आकारो दीर्घत्वादिः, नामभेदस्तु शल्यादिषु विस्तरेणोक्तोऽपि ‘कण्ठशालूक’ इत्यादिना लेशेनाभिहिताः; एवं स्थानादिभेदकृतादतिबहुत्वाद्बहुसङ्ख्या ज्ञेया इति योज्यम्||७४||

Adhikarana 39 (75) · Śloka 75

दोषास्त्रयः स्वैः कुपिता निदानैः कुर्वन्ति शोफं शिरसः सुघोरम्|७५|

🔊 Audio coming soon

शिरसः सुघोरमित्यत्र लक्षणं त्रिदोषकृतं, नाम च ‘शिरःशोथ’ इति विज्ञेयं, तन्त्रान्तरेऽयम् ‘उपशीर्षक’ इत्युक्तः||७५|

Adhikarana 40 (75) · Śloka 75

अन्तर्गले घुर्घुरिकान्वितं च शालूकमुच्छ्वासनिरोधकारि||७५||

🔊 Audio coming soon

घुर्घुरिकान्वितमिति घुर्घुराकारशब्देन वेदनया वा युक्तम्||७५||

Adhikarana 41 (76) · Śloka 76

गलस्य सन्धौ चिबुके गले च सदाहरागः श्वसनासु चोग्रः| शोफो भृशार्तिस्तु बिडालिका स्याद्धन्याद्गले चेद्वलयीकृता सा||७६||

🔊 Audio coming soon

गलस्य सन्धाविति गलवदनसन्धौ| श्वसनास्विति श्वासवहनाडीषु| बिडालिकायां त्रिदोषाश्रयः कारणत्वेनानुवर्तते| वलयीकृता सेति कृत्स्नगलवेष्टकत्वेन वलयाकारा स्यात्| सुश्रुतेऽप्युक्तं- “तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं वलयं वदन्ति” (सु. नि. अ. १६) इति| इयं च त्रिदोषजाऽपि रक्तपित्ताधिका ज्ञेया||७६||

Adhikarana 42 (77-78) · Śloka 78

स्यात्तालुविद्रध्यपि दाहरागपाकान्वितस्तालुनि सा त्रिदोषात्| जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका च||७७|| यो दन्तमांसेषु तु रक्तपित्तात् पाको भवेत् सोपकुशः प्रदिष्टः| स्याद्दन्तविद्रध्यपि दन्तमांसे शोफः कफाच्छोणितसञ्चयोत्थः||७८||

🔊 Audio coming soon

उपजिह्विकेह त्रिशोथीयोक्ताऽपि तत्रानुक्ताधिजिह्विकाप्रसङ्गेनोक्ता||७७-७८||

Adhikarana 43 (79-80) · Śloka 80

गलस्य पार्श्वे गलगण्ड एकः स्याद्गण्डमाला बहुभिस्तु गण्डैः| साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः||७९|| तेषां सिराकायशिरोविरेका धूमः पुराणस्य घृतस्य पानम्| स्याल्लङ्घनं वक्त्रभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च||८०||

🔊 Audio coming soon

साध्याः स्मृता इत्यादि| पीनसादिरहिताः साध्याः| साध्यासाध्यविभागादिभेदाः शिरःशोथादिषु सर्वेष्वेव ज्ञेयाः| सिरेति सिराव्यधः| विशेषचिकित्सा तु सुश्रुते प्रतिपत्तव्या||७९-८०||

Adhikarana 44 (81-86) · Śloka 86

अङ्गैकदेशेष्वनिलादिभिः स्यात् स्वरूपधारी स्फुरणः सिराभिः| ग्रन्थिर्महान्मांसभवस्त्वनर्तिर्मेदोभवः स्निग्धतमश्चलश्च||८१|| संशोधिते स्वेदितमश्मकाष्ठैः साङ्गुष्ठदण्डैर्विलयेदपक्वम्| विपाट्य चोद्धृत्य भिषक् सकोशं शस्त्रेण दग्ध्वा व्रणवच्चिकित्सेत्||८२|| अदग्ध ईषत् परिशेषितश्च प्रयाति भूयोऽपि शनैर्विवृद्धिम्| तस्मादशेषः कुशलैः समन्ताच्छेद्यो भवेद्वीक्ष्य शरीरदेशान्||८३|| शेषे कृते पाकवशेन शीर्यात्ततः क्षतोत्थः प्रसरेद्विसर्पः| उपद्रवं तं प्रविचार्य तज्ज्ञस्तैर्भेषजैः पूर्वतरैर्यथोक्तैः||८४|| निवारयेदादित एव यत्नाद्विधानवित् स्वस्वविधिं विधाय| ततः क्रमेणास्य यथाविधानं व्रणं व्रणज्ञस्त्वरया चिकित्सेत्||८५|| विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च| स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम्||८६||

🔊 Audio coming soon

अङ्गैकदेशेत्यादिना ग्रन्थीनाह| स्वरूपधारीति वातेन वातलक्षणधारी, पित्तेन पित्तलक्षणधारी, कफेन कफलक्षणधारी च| ग्रन्थिसञ्ज्ञया ग्रन्थ्याकारत्वं दर्शयति| स्फुरणः वेपमान इत्यर्थः| मेदोभवोऽनर्तिर्भवति| महान् ग्रन्थिर्मांसभवो भवति| संशोधिते इति कृतशोधने पुरुषे| विलयेदिति विम्लापयेत्| सकोशमिति कोशसहितमुद्धृत्य ततो दग्ध्वा व्रणवच्चिकित्सेत्| असम्यग्दग्धे परिशेषिते च ग्रन्थौ दोषमाह- अदग्ध इत्यादि| स्वैर्भेषजैरिति विसर्पभेषजैः| विवर्जयेदित्यादिनाऽसाध्यग्रन्थिभेदानाह||८१-८६||

Adhikarana 45 (87) · Śloka 87

ग्रन्थ्यर्बुदानां च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः| ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन||८७||

🔊 Audio coming soon

अर्बुदचिकित्सातिदेशार्थमाह- ग्रन्थ्यर्बुदानामित्यादि| अविशेष इव अविशेष इह ज्ञेयः| सुश्रुतेऽप्यर्बुदलक्षणमुक्तं- “गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्च्छिता मांसमभिप्रदूष्य| वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम्|| कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति” (सु. नि. अ. ११) इति; तस्मात् स्तोकविशेषे सत्यपि स्रावाद्यविशेषाद्ग्रन्थिविशेषचिकित्सैवातिदिश्यतेऽर्बुदे||८७||

Adhikarana 46 (88-89) · Śloka 90

ताम्रा सशूला पिडका भवेद्या सा चालजी नाम परिस्रुताग्रा| शोफोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाकः||८८|| ज्वरान्विता वङ्क्षणकक्षजा या वर्तिर्निरर्तिः कठिनायता च| विदारिका सा कफमारुताभ्यां तेषां यथादोषमुपक्रमः स्यात्||८९|| विस्रावणं पिण्डिकयोपनाहः पक्वेषु चैव व्रणवच्चिकित्सा|९०|

🔊 Audio coming soon

चर्मनखान्तर इति चर्मनखसन्धौ| विदारिकेह कफवाताभ्यामुच्यते, सुश्रुते विदारिका “सर्वजां सर्वलक्षणाम्” (सु. नि.अ.१३) इति पठिता, तेनेहापि कफवाताधिका हीनपित्ता च विज्ञेया| तेषामित्यनेन अलज्यक्षतविदारिकारोगान् प्रत्यवमृशति| विस्रावणमिति रक्तविस्रावणम्| पिण्डिकयेति पिण्डिकास्वेदेन||८८-८९||-

Adhikarana 47 (90-93) · Śloka 93

विस्फोटकाः सर्वशरीरगास्तु स्फोटाः सरागज्वरतर्षयुक्ताः||९०|| यज्ञोपवीतप्रतिमाः प्रभूताः पित्तानिलाभ्यां जनितास्तु कक्षाः | याश्चापराः स्युः पिडकाः प्रकीर्णाः स्थूलाणुमध्या अपि पित्तजास्ताः||९१|| क्षुद्रप्रमाणाः पिडकाः शरीरे सर्वाङ्गगाः सज्वरदाहतृष्णाः| कण्डूयुताः सारुचिसप्रसेका रोमान्तिकाः पित्तकफात् प्रदिष्टाः||९२|| याः सर्वगात्रेषु मसूरमात्रा मसूरिकाः पित्तकफात् प्रदिष्टाः| वीसर्पशान्त्यै विहिता क्रिया या तां तेषु कुष्ठे च हितां विदध्यात्||९३||

🔊 Audio coming soon

स्फोटा इह कक्षोक्तस्फोटाश्चिरस्थायिनः| यज्ञोपवीतप्रतिमा इति यज्ञोपवीतव्याप्यस्थानमात्रव्यापकाः स्फोटा एव, कक्षा इति कक्षाशब्दाख्याः| प्रकीर्णा इति बहुविधजातिकाः| विसर्पेत्यादौ तेष्विति विस्फोट-कक्षा-मसूरिकाख्येषु विदारिकानन्तरोक्तेष्वित्यर्थः||९०-९३||

Adhikarana 48 (94-95) · Śloka 95

ब्रध्नोऽनिलाद्यैर्वृषणे स्वलिङ्गैरन्त्रं निरेति प्रविशेन्मुहुश्च| मूत्रेण पूर्णं मृदु मेदसा चेत् स्निग्धं च विद्यात् कठिनं च शोथम्||९४|| विरेचनाभ्यङ्गनिरूहलेपाः पक्वेषु चैव व्रणवच्चिकित्सा| स्यान्मूत्रसेकः कफजं विपाट्य विशोध्य सीव्येद्व्रणवच्च पक्वम्||९५||

🔊 Audio coming soon

ब्रध्न इत्यादौ वृषणे इति जातावेकवचनं, तेन वृषणयोरपि ग्रहणम्| स्वलिङ्गैरिति वातादिलिङ्गैः| वातलिङ्गेन वातिकः, पित्तलिङ्गेन पैत्तिकः, कफलिङ्गेन कफजो ब्रध्नो ज्ञेय इत्यर्थः| अन्त्रं मुहुर्निरेति स्वस्थानाद् वृषणं प्रविशेच्चेति अन्त्रवृद्धिलक्षणम्| मूत्रेण तु यद्ब्रध्नं तत् पूर्णं मृदु च भवति| मेदसा तु कृतं स्निग्धं कठिनं च| एवं षड्विधो ब्रध्न उक्तः| सुश्रुते तु रक्तजोऽपि ब्रध्न उक्तः, स इह पित्तजे एवान्तर्भावनीयः| विरेचनेत्यादिना सामान्यचिकित्सासूत्रमाह| कफजानां वैशेषिकी चिकित्सोच्यते- विपाट्य विशोध्य च सीव्येद् विपक्वं ब्रध्नं, व्रणवच्चोपचरेदिति भावः||९४-९५||

Adhikarana 49 (96-97) · Śloka 97

क्रिम्यस्थिसूक्ष्मक्षणनव्यवायप्रवाहणान्युत्कटकाश्वपृष्ठैः | गुदस्य पार्श्वे पिडका भृशार्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात्||९६|| विरेचनं चैषणपाटनं च विशुद्धमार्गस्य च तैलदाहः| स्यात् क्षारसूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा||९७||

🔊 Audio coming soon

क्रिम्यस्थीत्यादिना भगन्दरं पञ्चविधमपीह सङ्क्षेपात् सामान्येनाह| एषणं शलाकया गत्यवेक्षणम्| क्षारसूत्रेण सुपाचितेन छिन्नस्येत्यनेन शल्यतन्त्रोक्तं क्षारसूत्रविधानं दर्शयति; प्रपञ्चस्त्विह पराधिकारत्वेन न कृतः; सुपाचितेनेति सम्यग्विपाचितक्षारेण||९६-९७||

Adhikarana 50 (98) · Śloka 98

जङ्घासु पिण्डीप्रपदोपरिष्टात् स्याच्छ्लीपदं मांसकफास्रदोषात्| सिराकफघ्नश्च विधिः समग्रस्तत्रेष्यते सर्षपलेपनं च||९८||

🔊 Audio coming soon

जङ्घास्विति बहुवचनं व्यक्त्यपेक्षया; किंवा बहुवचनेन जङ्घादिष्वित्यादिपदलोपो ज्ञेयः| उक्तं हि- “शिश्नौष्ठनासास्वपिकेचिदाहुः” इत्यादि| तथाहि पुष्कलावतः- “ग्रीवावङ्क्षणजङ्घौष्ठपादकर्णकराश्रयम्| श्लीपदं मांसमेदोभ्यां विद्यात्” इति| पिण्डीति मांसपिण्डी| प्रपदं पादाग्रम्||९८||

Adhikarana 51 (99-100) · Śloka 100

मन्दास्तु पित्तप्रबलाः प्रदुष्टा दोषाः सुतीव्रं तनुरक्तपाकम्| कुर्वन्ति शोथं ज्वरतर्षयुक्तं विसर्पणं जालकगर्दभाख्यम्||९९|| विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च| धात्रीप्रयोगाञ् शिशिरान् प्रदेहान् कुर्यात् सदा जालकगर्दभस्य||१००||

🔊 Audio coming soon

मन्दा इत्यादौ मन्दा इति अल्पवृद्धाः; मन्दा इति बहुवचनं व्यक्त्यपेक्षया| पित्तं प्रबलं येषां ते पित्तप्रबलाः| तनुः रक्तपाको यस्मिन् तत् तनुरक्तपाकं; सुश्रुते हि अपाकशब्देन ईषत्पाक उक्तः “अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः” (सु. नि. अ. १३) इति| रक्तस्य पाकेन युक्तं रक्तपाकं, नतु रक्तवर्णमात्रम्||९९-१००||

Adhikarana 52 (101) · Śloka 101

एवंविधांश्चाप्यपरान् परीक्ष्य शोथप्रकाराननिलादिलिङ्गैः| शान्तिं नयेद्दोषहरैर्यथास्वमालेपनच्छेदनभेददाहैः||१०१||

🔊 Audio coming soon

अत्रानुक्तशोथप्रकारसङ्ग्रहार्थमाह- एवंविधानित्यादि||१०१||

Adhikarana 53 (102) · Śloka 102

प्रायोऽभिघातादनिलः सरक्तः शोथं सरागं प्रकरोति तत्र| वीसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म||१०२||

🔊 Audio coming soon

आगन्तुशोथचिकित्सामाह- प्राय इत्यादि| विषजे शोथे इति सम्बन्धः||१०२||

Adhikarana 54 (103) · Śloka 103

तत्र श्लोकः- त्रिविधस्य दोषभेदात् सर्वार्धावयवगात्रभेदाच्च| श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम्||१०३||

🔊 Audio coming soon

सङ्ग्रहे सर्वार्धगात्रावयवभेदाच्च त्रिविधस्येति सम्बन्धः| द्विविधस्येति निजागन्तुभेदेन||१०३||

Adhikarana puShpikA · Śloka 12

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने श्वयथुचिकित्सितं नाम द्वादशोऽध्यायः||१२||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शोथचिकित्सितं नाम द्वादशोऽध्यायः||१२||