Adhikarana 1 (1-2) · Śloka 2
अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
त्रिमर्मीये च बहून् रोगान् पञ्चकर्मसाध्यान् दृष्ट्वा पञ्चकर्मासाध्ये ऊरुस्तम्भे जातस्मरण आचार्य ऊरुस्तम्भचिकित्सितमेवाह; भवति हि विरोधिदर्शनात् तद्विरोधिस्मरणं, यथा नकुलस्मरणात् सर्पस्मरणम्||१-२||
Adhikarana 2 (3-15) · Śloka 15
श्रिया परमया ब्राह्मया परया च तपःश्रिया|
अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम्||३||
धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम्|
अग्निवेशो गुरुं काले संशयं परिपृष्टवान्||४||
भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा|
निर्दिष्टान्यामयनां हि सर्वेषामेव भेषजम्||५||
दोषजोऽस्त्यामयः कश्चिद्यस्य तानि भिषग्वर!|
न स्युः शक्तानि शमने साध्यस्य क्रियया सतः||६||
अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम्|
सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः||७||
स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः|
द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषैः||८||
पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः|
लङ्घनाध्यशनायासभयवेगविधारणैः||९||
स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह|
रुद्ध्वाऽऽशु गौरवादूरू यात्यधोगैः सिरादिभिः||१०||
पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कटः|
अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम्||११||
महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा|
तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः||१२||
गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः |
भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून्||१३||
ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु|
स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः||१४||
प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः|
लोमहर्षश्च छर्दिश्च जङ्घोर्वोः सदनं तथा||१५||
अहीनमिति सर्वदा युक्तम्| समस्तानीति मिलितानि| दोषज इति पदं मानसागन्तुनिरासार्थं; तन्निरासस्तु तयोः पञ्चकर्माविषयतया प्रसिद्धत्वात्| तथा दोषजस्याप्यसाध्यस्य साधने पञ्चकर्माणि न समर्थानीति तन्निरासार्थमाह- साध्यस्येत्यादि| साध्यस्य सत इति सम्बन्धः| भूय ऊरुस्तम्भस्य कारणादीनि पृष्टो गुरुरब्रवीदिति सम्बन्धः| जीर्णाजीर्णे इति स्तोकजीर्णशेषाजीर्ण इत्यर्थः| आमं चितमिति रसशेषरूपं, कोष्ठोपलेपनाप्यामं सञ्चितं, मेदसा सहेति मेदःसहितमामं वातादीनां रोधकं ज्ञेयम्| आमं च ऊरुं गच्छत् त्रिदोषसहितमेव याति| सिरादिभिरिति सिराधमनीस्रोतोभिः| दोषो मेदोबलोत्कट इति दोष आमसंरुद्धो वातादिः| यदा ‘दोषमेदोत्कट’ इति पाठः, तदाऽऽमस्य विशेषणम्| सक्थिग्रहेणैव यद्यपि जङ्घोर्वोर्ग्रहणं प्राप्तं, तथाऽपि तयोरभिधानं विशेषेण तत्पूरणोपदर्शनार्थम्| अविधेयपरिस्पन्दमिति अस्वाधीनेन्द्रियम्, अल्पविक्रममिति अल्पक्रियमक्रियं वा करोतीत्यर्थः| महासरसीत्यादिदृष्टान्तेन ऊरुस्तम्भारम्भकप्रधानस्य कफस्य प्रबलतामाह| यद्यपि, ऊरुस्तम्भस्य त्रिदोषजन्यत्वमिह तथा सूत्रस्थानेऽपि “एक ऊरुस्तम्भ आमत्रिदोषसमुत्थानः” (सू.अ.१९) इत्यनेनोक्तं, तथाऽपि कफप्राधान्यादत्र कफ उपदिष्टः| अत एवाग्रे ऊरु श्लेष्मेत्यादिना ऊरुस्तम्भशब्दनिरुक्तिमुत्पादसामग्रीं चाह| स्थैर्यशैत्याभ्यामित्यनेन स्तम्भनक्रियायां स्थैर्यशैत्ययोः कफगुणयोः कारणतां दर्शयति||३-१५||
Adhikarana 3 (16) · Śloka 16
वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः|
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा||१६||
ऊरुस्तम्भे स्नेहप्रयोगजं दोषमाह- वातशङ्किभिरित्यादि| वातशङ्का चास्मिन् सुप्तिसङ्कोचादिवातसमानलिङ्गदर्शनाद्भवति| अस्य संस्नेहनदोषाः कृच्छ्रादुद्धरणं तथेत्यन्तेनेक्ताः||१६||
Adhikarana 4 (17-19) · Śloka 19
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना|
पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च||१७||
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः|
अन्यनेयौ हि सम्भग्नावूरू पादौ च मन्यते||१८||
यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत्|
ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्||१९||
जङ्घोरुग्लानिरित्यादि तु लक्षणं भिन्नसामग्रीकं ब्रूते| अन्ये तु सर्वमेवैतदूद्र्ध्वाधःकृतस्नेहनप्रयोगदोषकृतमसाध्यलक्षणमाहुः| शश्वच्चादाहवेदनेति ईषद्दाहवेदना, अन्ये तु दाहवर्जितवेदनामाहुः||१७-१९||
Adhikarana 5 (20-24) · Śloka 24
तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम्|
न चैव वमनं यस्मात्तन्निबोधत कारणम्||२०||
वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च|
तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम्||२१||
कफं कफस्थानगतं पित्तं च वमनात् सुखम्|
हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि||२२||
पक्वाशयस्थाः सर्वेऽपि बस्तिभिर्मूलनिर्जयात्|
शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिताः||२३||
वातस्थाने हि तच्छैत्याद्द्वयोः स्तम्भाच्च तद्गताः|
न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलात्||२४||
सम्प्रति स्नेहबस्त्यादिप्रतिषेधोपपत्तिमाह- तस्येत्यादि| स्नेहस्य दोषो यद्यपि प्रागेवोक्तः, तथाऽपीदानीं यथा तद्दोषकारकं स्नेहनं भवति तथा प्रतिपाद्यते| शिरोविरेचनं चात्र सर्वथैवासम्भाव्यमानत्वादेव नोपन्यस्तमिति ज्ञेयम्| स्नेहनमिति पानाभ्यङ्गाभ्यां स्नेहम्| बस्तिकर्म चेति स्नेहबस्तिकर्म, तस्यैव श्लेष्मवृद्धिकरत्वात्| किंवा बस्तिकर्मविशेषणं स्नेहनमिति पदं, तेनानुवासनमेव लभ्यते; निरूहस्तु विरेचनशब्देनैव शोधनाभिधायिना गृहीतः; अत एव ऊरुस्तम्भदोषोद्धरणासमर्थशोधनविवरणे एव निरूहोऽप्यत्रोक्तः| उक्तदोषहरणासामर्थ्यं वमनविरेचननिरूहाणां क्रमेण विवृण्वन्नाह- श्लेष्मस्थानगत इत्यादि| हर्तुं सुखमिति विभक्तिलिङ्गविपरिणामाद्वक्ष्यमाणेऽपि योजनीयम्| तावुभाविति निर्हर्तुमसुखाविति पूर्ववद्योजनीयम्| सर्वेऽपि वातपित्तश्लेष्माणः| मूलनिर्जयादितिपदं वमनादित्यनेन तथा बस्तिभिरित्यनेन च योज्यं; मूलनिर्जयादिति मूलच्छेदात्| वमनादीनां साध्यं विषयं दर्शयित्वा असाध्यं विषयमाह- शक्या इत्यादि| तथाऽऽममेदसः स्तब्धत्वेन वमनादीनां जङ्घोरुस्थानेऽसमर्थत्वं ज्ञेयम्| ऊरुस्तम्भदोषस्य वमनाद्यहार्यत्वे हेत्वन्तरमाह- वातस्थाने इत्यादि| वातस्थाने इति जङ्घोरुरूपे वातस्थाने| तच्छैत्यादिति वातशैत्यात्||२०-२४||
Adhikarana 6 (25-29) · Śloka 30
तस्य संशमनं नित्यं क्षपणं शोषणं तथा|
युक्त्यपेक्षी भिषक् कुर्यादधिकत्वात्कफामयोः||२५||
सदा रूक्षोपचाराय यवश्यामाककोद्रवान्|
शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः||२६||
सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवैः|
वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः||२७||
क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च|
मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः||२८||
समङ्गां शाल्मलीं बिल्वं मधुना सह ना पिबेत्|
तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि||२९||
चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा|३०|
चिकित्सामाह- तस्येत्यादि| तस्योरुस्तम्भस्य शमनं कर्तव्यं न शोधनमित्यर्थः| क्षपणं शोषणमामकफयोः कुर्यादिति योजना; तत्र क्षपणं सर्वथोच्छेदेन, शोषणं द्रवभागविशोषणम्| वायसी काकमाची| कुलकं कारवेल्लकम्| शाल्मलं शाल्मलीवेष्टकम्| एतानि मधुना पिबेदिति सम्बन्धः||२५-२९||-
Adhikarana 7 (30-32) · Śloka 33
मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम्||३०||
देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम्|
पिप्पलीं पिप्पलीमूलं सरलं देवदारु च||३१||
चव्यं चित्रकमूलानि देवदारु हरीतकीम्|
भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत्||३२||
सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान्|३३|
मुस्तमित्यादिकाः पञ्च योगा अर्धश्लोकोक्ता ऊरुग्रहापहाः||३०-३२||-
Adhikarana 8 (33-38) · Śloka 39
शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् ||३३||
मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा|
पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणाऽऽप्लुतम्||३४||
सक्षौद्रं दधिमण्डैर्वाऽप्यूरुस्तम्भविनाशनम्|
मूर्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम्||३५||
पूर्ववद्गुग्गुलुं मूत्रे रात्रिस्थितमथापि वा|
स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम्||३६||
सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम्|
लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम्||३७||
फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम्|
त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम्||३८||
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः|३९|
शार्ङ्गेष्टा गुञ्जा| स्वादुकण्टकं विकङ्कतम्| पूर्ववदिति पूर्वेण सम्बध्यते| गुग्गुलुं च मूत्रे उषितं पिबेदिति योज्यम्| जलाप्लुतं ‘पिबेत्’ इति शेषः| फली न्यग्रोधः| हेम नागकेशरम्||३३-३८||-
Adhikarana 9 (39-47) · Śloka 47
अपतर्पणजश्चेत् स्याद्दोषः सन्तर्पयेद्धि तम्||३९||
युक्त्या जाङ्गलजैर्मांसैः पुराणैश्चैव शालिभिः|
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वकः||४०||
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः|
पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा||४१||
सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत्|
सक्षौद्रं प्रसृतं तस्मादञ्जलिं वाऽपि ना पिबेत्||४२||
कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्|
अजगन्धाऽश्वगन्धा च तैलं तैः सार्षपं पचेत्||४३||
सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दितः पिबेत्|
(रौक्ष्यान्मुक्त ऊरुस्तम्भात्ततश्च स विमुच्यते )||४४||
द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्|
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके||४५||
आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम्|
गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत्||४६||
पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः|
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः||४७||
इत्यष्टकट्वरतैलम्|
आवस्थिकं क्रममाह- अपतर्पणज इत्यादिना| रूक्षणादित्यादिना स्नेहविधानमावस्थिकं, तेन सामान्येनात्र विहितस्नेहनिषेधेन समं न विरोधः, अस्य विधेरपवादत्वात्| पीलुपर्णी मोरटः, रास्नाभेद इत्यन्ये| सक्षौद्रमिति पादिकक्षौद्रम्| अजगन्धा अजमोदा| भल्लातकास्थीनि विंशतिरिति आकृतिमानेन| पलाभ्यामिति पिप्पल्यादिसमुदायात् पलाभ्याम्| अष्टकट्वर इति तैलादष्टगुणं कट्वरं यस्मिन् तैलप्रस्थे स अष्टकट्वरः; कट्वरं तक्रम्||३९-४७||
Adhikarana 10 (48-59) · Śloka 60
इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम्|
श्लेष्मणः क्षपणं त्वन्यद्बाह्यं शृणु चिकित्सितम्||४८||
वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम्|
इष्टकानां ततश्चूर्णैः कुर्यादुत्सादनं भृशम्||४९||
मूलैर्वाऽप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्|
पिचुमर्दस्य वा मूलैरथवा देवदारुणः||५०||
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक्|
गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम्||५१||
दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान्|
तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजैः||५२||
पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम्|
पिष्टं तु सर्षपं मूत्रेऽध्युषितं स्यात् प्रलेपनम्||५३||
वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ|
हिंस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः||५४||
दधिसैन्धवसंयुक्तं कार्यमेतैः प्रलेपनम्|
(ऊरुस्तम्भविनाशाय भिषजा जानता क्रमम्)||५५||
श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ|
शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान्||५६||
अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत्|
प्रलेपो मूत्रपिष्टैर्वाऽप्यूरुस्तम्भनिवारणः||५७||
कफक्षयार्थं शक्येषु व्यायामेष्वनुयोजयेत्|
स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा||५८||
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम्|
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः||५९||
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत्|६०|
पिचुमर्दः निम्बः| द्रवन्ती दन्तीभेदः| तर्कारी जयन्ती| गन्धा इति अगुर्वाद्युक्ता इह ग्राह्याः| कुठेरकः पर्णासः| शक्येषु वोढुं शक्येषु| कल्यमिति प्रातः| शिवामिति हिंस्रजलजन्तुरहितां सुगम्यां च| ननु जलप्रतरणं कथमस्य श्लेष्मक्षयकरं भवति? यस्माज्जलसम्बन्धमात्रेण श्लेष्मवृद्धिरेव प्राप्ता| उच्यते- जलेन बहिर्निर्गच्छदूष्मणो निरुद्धस्यान्तःप्रवेशाच्छ्लेष्मसङ्घातभेदनं भवति, तथा प्रतरणक्रियया श्लेष्मा विच्छिद्यते, समानाभिमता क्रियाऽप्यत्र योग्यत्वात् क्रियत एव| उक्तं हि- “भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया” (चि.अ.३०) इति||४८-५९||-
Adhikarana 11 (60-61) · Śloka 61
श्लेष्मणः क्षपणं यत् स्यान्न च मारुतमावहेत् ||६०||
तत् सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम्|
शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया||६१||
अनुक्तचिकित्सापरिग्रहार्थमाह- श्लेष्मण इत्यादि||६०-६१||
Adhikarana 12 (62) · Śloka 62
तत्र श्लोकः- हेतुः प्राग्रूपलिङ्गानि कर्मायोग्यत्वकारणम्|
द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते||६२||
हेतुरित्यादिसङ्ग्रहः| कर्मायोग्यत्वकारणमिति पञ्चकर्मायोग्यत्वे हेतुः ‘वृद्धये श्लेष्मण’ इत्यादिनोक्तो ज्ञेयः| द्विविधमिति आन्तरं बाह्यं च| भेषजमिति औषधम्||६२||
Adhikarana puShpikA · Śloka 27
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः||२७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सितस्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः||२७||