Adhikarana 1 (1-2) · Śloka 2
अथात उदरचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथात उदरचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-8) · Śloka 8
सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे| तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम्||३|| आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्| पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः||४|| भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्दिता नराः| शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः||५|| प्रनष्टाग्निबलाहाराः सर्वचेष्टास्वनीश्वराः| दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत्||६|| तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजम्| यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम्||७|| सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः| सर्वभूतहितं वाक्यं व्याहर्तुमुपचक्रमे||८||
🔊 Audio coming soon
Adhikarana 3 (9-11) · Śloka 11
अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः| मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु||९|| मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसञ्चयः| प्राणाग्न्यपानान् सन्दूष्य मार्गान्रुद्ध्वाऽधरोत्तरान्||१०|| त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम्| जनयत्युदरं तस्य हेतुं शृणु सलक्षणम्||११||
🔊 Audio coming soon
Adhikarana 4 (12-15) · Śloka 15
अत्युष्णलवणक्षारविदाह्यम्लगराशनात्| मिथ्यासंसर्जनाद्रूक्षविरुद्धाशुचिभोजनात्||१२|| प्लीहार्शोग्रहणीदोषकर्शनात् कर्मविभ्रमात्| क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात्||१३|| स्रोतसां दूषणादामात् सङ्क्षोभादतिपूरणात्| अर्शोबालशकृद्रोधादन्त्रस्फुटनभेदनात्||१४|| अतिसञ्चितदोषाणां पापं कर्म च कुर्वताम्| उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः||१५||
🔊 Audio coming soon
Adhikarana 5 (16-19) · Śloka 19
क्षुन्नाशः स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात्| भुक्तं विदह्यते सर्वं जीर्णाजीर्णं न वेत्ति च||१६|| सहते नातिसौहित्यमीषच्छोफश्च पादयोः| शश्वद्बलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति||१७|| वृद्धिः पुरीषनिचयो रूक्षोदावर्तहेतुका| बस्तिसन्धौ रुगाध्मानं वर्धते पाट्यतेऽपि च||१८|| आतन्यते च जठरमपि लघ्वल्पभोजनात्| राजीजन्म वलीनाश इति लिङ्गं भविष्यताम्||१९||
🔊 Audio coming soon
Adhikarana 6 (20-22) · Śloka 22
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः| प्राणाग्न्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम्||२०|| कुक्षेराध्मानमाटोपः शोफः पादकरस्य च| मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्श्यं चोदरलक्षणम्||२१|| पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः| सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु||२२||
🔊 Audio coming soon
Adhikarana 7 (23-25) · Śloka 25
रूक्षाल्पभोजनायासवेगोदावर्तकर्शनैः| वायुः प्रकुपितः कुक्षिहृद्बस्तिगुदमार्गगः||२३|| हत्वाऽग्निं कफमुद्धूय तेन रूद्धगतिस्ततः| आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः||२४|| तस्य रूपाणि- कुक्षिपाणिपादवृषणश्वयथुः, उदरविपाटनम्, अनियतौ च वृद्धिह्रासौ, कुक्षिपार्श्वशूलोदावर्ताङ्गमर्दपर्वभेदशुष्ककासकार्श्यदौर्बल्यारोचकाविपाकाः, अधोगुरुत्वं, वातवर्चोमूत्रसङ्गः, श्यावारुणत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं तन्वसितराजीसिरासन्ततम्, आहतमाध्मातदृतिशब्दवद्भवति, वायुश्चोर्ध्वमधस्तिर्यक् च सशूलशब्दश्चरति, एतद्वातोदरमिति विद्यात्||२५||
🔊 Audio coming soon
Adhikarana 8 (26-28) · Śloka 28
कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः| विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्||२६|| प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्| निहन्त्यामाशये वह्निं जनयत्युदरं ततः||२७|| तस्य रूपाणि- दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः, कटुकास्यत्वं, हरितहारिद्रत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरं नीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते, दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्यते, मृदुस्पर्शं क्षिप्रपाकं च भवति; एतत् पित्तोदरमिति विद्यात्||२८||
🔊 Audio coming soon
Adhikarana 9 (29-31) · Śloka 31
अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः| दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितैः||२९|| क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतोऽनिलः| तमेव पीडयन् कुर्यादुदरं बहिरन्त्रगः ||३०|| तस्य रूपाणि- गौरवारोचकाविपाकाङ्गमर्दाः, सुप्तिः, पाणिपादमुष्कोरुशोफः, उत्क्लेशनिद्राकासश्वासाः, शुक्लत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम्; अपि चोदरं शुक्लराजीसिरासन्ततं, गुरु, स्तिमितं, स्थिरं, कठिनं च भवति; एतच्छ्लेष्मोदरमिति विद्यात्||३१||
🔊 Audio coming soon
Adhikarana 10 (32-34) · Śloka 34
दुर्बलाग्नेरपथ्यामविरोधिगुरुभोजनैः| स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिभिः||३२|| विषैश्च मन्दैर्वाताद्याः कुपिताः सञ्चयं त्रयः| शनैः कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम्||३३|| तस्य रूपाणि- सर्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते, वर्णाश्च सर्वे नखादिषु, उदरमपि नानावर्णराजीसिरासन्ततं भवति; एतत् सन्निपातोदरमिति विद्यात्||३४||
🔊 Audio coming soon
Adhikarana 11 (35-38) · Śloka 38
अशितस्यातिसङ्क्षोभाद्यानयानातिचेष्टितैः| अतिव्यवायभाराध्ववमनव्याधिकर्शनैः||३५|| वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्धते| शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत्||३६|| तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपलभ्यते; स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति||३७|| तस्य रूपाणि- दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमःप्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसाद- कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वा नीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोध इति; एतत् प्लीहोदरमिति विद्यात्||३८||
🔊 Audio coming soon
Adhikarana 12 (39-41) · Śloka 41
पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे| उदावर्तैस्तथाऽर्शोभिरन्त्रसम्मूर्च्छनेन वा||३९|| अपानो मार्गसंरोधाद्धत्वाऽग्निं कुपितोऽनिलः| वर्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः||४०|| तस्य रूपाणि- तृष्णादाहज्वरमुखतालुशोषोरुसादकासश्वासदौर्बल्यारोचकाविपाक- वर्चोमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरोहृन्नाभिगुदशूलानि, अपि चोदरं मूढवातं स्थिरमरुणं नीलराजि सिरावनद्धराजिकं वा प्रायो नाभ्युपरि गोपुच्छवदभिनिर्वर्तत इति; एतद्बद्धगुदोदरमिति विद्यात्||४१||
🔊 Audio coming soon
Adhikarana 13 (42-44) · Śloka 44
शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः| भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा||४२|| पाकं गच्छेद्रसस्तेभ्यश्छिद्रेभ्यः प्रस्रवद्बहिः| पूरयन् गुदमन्त्रं च जनयत्युदरं ततः||४३|| तस्य रूपाणि- तदधो नाभ्याः प्रायोऽभिवर्धमानमुदकोदरं भवति, यथाबलं च दोषाणां रूपाणि दर्शयति, अपि चातुरः सलोहितनीलपीतपिच्छिलकुणपगन्ध्यामवर्च उपवेशते, हिक्काश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च भवति; एतच्छिद्रोदरमिति विद्यात्||४४||
🔊 Audio coming soon
Adhikarana 14 (45-49) · Śloka 49
स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा| अत्यम्बुपानान्नष्टेऽग्नौ मारुतः क्लोम्नि संस्थितः||४५|| स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः| वर्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ||४६|| तस्य रूपाणि- अनन्नकाङ्क्षापिपासागुदस्रावशूलश्वासकासदौर्बल्यानि, अपि चोदरं नानावर्णराजिसिरासन्ततमुदकपूर्णदृतिक्षोभसंस्पर्शं भवति, एतदुदकोदरमिति विद्यात्||४७|| तत्र अचिरोत्पन्नमनुपद्रवमनुदकमप्राप्तमुदरं त्वरमाणश्चिकित्सेत्; उपेक्षितानां ह्येषां दोषाः स्वस्थानादपवृत्ता परिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसि चोपक्लेदयन्ति, स्वेदश्च बाह्येषु स्रोतःसु प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति; तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दं मृदुस्पर्शमपगतराजीकमाक्रान्तं नाभ्यामेवोपसर्पति| ततोऽनन्तरमुदकप्रादुर्भावः| तस्य रूपाणि- कुक्षेरतिमात्रवृद्धिः, सिरान्तर्धानगमनम्, उदकपूर्णदृतिसङ्क्षोभसंस्पर्शत्वं च||४८|| तदाऽऽतुरमुपद्रवाः स्पृशन्ति- छर्द्यतीसारतमकतृष्णाश्वासकासहिक्कादौर्बल्यपार्श्वशूलारुचिस्वरभेदमूत्रसङ्गादयः; तथाविधमचिकित्स्यं विद्यादिति||४९||
🔊 Audio coming soon
Adhikarana 15 (50-51) · Śloka 51
भवन्ति चात्र- वातात्पित्तात्कफात् प्लीह्नः सन्निपातात्तथोदकात्| परं परं कृच्छ्रतरमुदरं भिषगादिशेत्||५०|| पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा| प्रायो भवत्यभावाय च्छिद्रान्त्रं चोदरं नृणाम्||५१||
🔊 Audio coming soon
Adhikarana 16 (52-54) · Śloka 54
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्| बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत्||५२|| श्वयथुः सर्वमर्मोत्थः श्वासो हिक्काऽरुचिः सतृट्| मूर्च्छा च्छर्दिरतीसारो निहन्त्युदरिणं नरम्||५३|| जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्| बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्||५४||
🔊 Audio coming soon
Adhikarana 17 (55-58) · Śloka 58
अजातशोथमरुणं सशब्दं नातिभारिकम्| सदा गुडगुडायच्च सिराजालगवाक्षितम्||५५|| नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति| हृन्नाभिवङ्क्षणकटीगुदप्रत्येकशूलिनः||५६|| कर्कशं सृजतो वातं नातिमन्दे च पावके| लोलस्याविरसे चास्ये मूत्रेऽल्पे संहते विषि||५७|| अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः| उपाक्रमेद्भिषग्दोषबलकालविशेषवित्||५८||
🔊 Audio coming soon
Adhikarana 18 (59-67) · Śloka 67
वातोदरं बलमतः पूर्वं स्नेहैरुपाचरेत्| स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम्||५९|| हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्| तथाऽस्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः||६०|| दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात्| सम्भवत्युदरं तस्मान्नित्यमेव विरेचयेत्||६१|| शुद्धं संसृज्य च क्षीरं बलार्थं पाययेत्तु तम्| प्रागुत्क्लेशान्निवर्त्यं च बले लब्धे क्रमात् पयः||६२|| यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्| सोदावर्तं पुनः स्निग्धं स्विन्नमास्थापयेन्नरम्||६३|| स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु| दीप्ताग्निं बद्धविड्वातं रूक्षमप्यनुवासयेत्||६४|| तीक्ष्णाधोभागयुक्तोऽस्य निरूहो दाशमूलिकः| वातघ्नाम्लशृतैरण्डतिलतैलानुवासनम्||६५|| अविरेच्यं तु यं विद्याद्दुर्बलं स्थविरं शिशुम्| सुकुमारं प्रकृत्याऽल्पदोषं वाऽथोल्बणानिलम्||६६|| तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः| बस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुधः||६७||
🔊 Audio coming soon
Adhikarana 19 (68-71) · Śloka 71
पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत्| दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरबस्तिना||६८|| सञ्जातबलकायाग्निं पुनः स्निग्धं विरेचयेत्| पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा||६९|| सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा| सकफे वा समूत्रेण सवाते तिक्तसर्पिषा||७०|| पुनः क्षीरप्रयोगं च बस्तिकर्म विरेचनम्| क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत्||७१||
🔊 Audio coming soon
Adhikarana 20 (72-73) · Śloka 73
स्निग्धं स्विन्नं विशुद्धं तु कफोदरिणमातुरम्| संसर्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः||७२|| गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा| सक्षारैस्तैलपानैश्च शमयेत्तु कफोदरम्||७३||
🔊 Audio coming soon
Adhikarana 21 (74) · Śloka 74
सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः| सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता|७४|
🔊 Audio coming soon
Adhikarana 22 (85-88) · Śloka 89
उदावर्तरुजानाहैर्दाहमोहतृषाज्वरैः| गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम्||७५|| लिङ्गैः प्लीह्न्यधिकान् दृष्ट्वा रक्तं चापि स्वलक्षणैः| चिकित्सां सम्प्रकुर्वीत यथादोषं यथाबलम्||७६|| स्नेहं स्वेदं विरेकं च निरूहमनुवासनम्| समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत् सिराम्||७७|| षट्पलं पाययेत् सर्पिः पिप्पलीर्वा प्रयोजयेत्| सगुडामभयां वाऽपि क्षारारिष्टगणांस्तथा||७८|| एष क्रियाक्रमः प्रोक्तो योगान् संशमनाञ्छृणु| पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम्||७९|| विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिबेत्| विडङ्गं चित्रकं शुण्ठीं सघृतां सैन्धवं वचाम्||८०|| दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्| रोहीतकलतानां तु काण्डकानभयाजले||८१|| मूत्रे वा सुनुयात्तच्च सप्तरात्रस्थितं पिबेत्| कामलागुल्ममेहार्शःप्लीहसर्वोदरक्रिमीन्||८२|| स हन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम्| रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम्||८३|| कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्| पलिकैः पञ्चकोलैस्तु तैः सर्वैश्चापि तुल्यया||७४|| रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्| प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्||८५|| तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामलाः| अग्निकर्म च कुर्वीत भिषग्वातकफोल्बणे||८६|| पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः| रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते||८७|| यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः| यकृति प्लीहवत् सर्वं तुल्यत्वाद्भेषजं मतम्||८८|| लघून्यन्नानि संसृज्य दद्यात् प्लीहोदरे भिषक्|८९|
🔊 Audio coming soon
Adhikarana 23 (89-92) · Śloka 93
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्||८९|| सतैललवणं दद्यान्निरूहं सानुवासनम्| परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम्||९०|| उदावर्तहरं कर्म कार्यं वातघ्नमेव च| छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्||९१|| जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्| तृष्णाकासज्वरार्तं तु क्षीणमांसाग्निभोजनम्||९२|| वर्जयेच्छ्वासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम्|९३|
🔊 Audio coming soon
Adhikarana 24 (93-94) · Śloka 95
अपां दोषहराण्यादौ प्रदद्यादुदकोदरे||९३|| मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च| दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्||९४|| द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः|९५|
🔊 Audio coming soon
Adhikarana 25 (95-100) · Śloka 101
सर्वमेवोदरं प्रायो दोषसङ्घातजं मतम्||९५|| तस्मात्त्रिदोषशमनीं क्रियां सर्वत्र कारयेत्| दोषैः कुक्षौ हि सम्पूर्णे वह्निर्मन्दत्वमृच्छति||९६|| तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च| रक्तशालीन् यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान्||९७|| पयोमूत्रासवारिष्टान्मधुसीधुं तथा सुराम्| यवागूमोदनं वाऽपि यूषैरद्याद्रसैरपि||९८|| मन्दाम्लस्नेहकटुभिः पञ्चमूलोपसाधितैः| औदकानूपजं मांसं शाकं पिष्टकृतं तिलान्||९९|| व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत्| तथोष्णलवणाम्लानि विदाहीनि गुरूणि च||१००|| नाद्यादन्नानि जठरी तोयपानं च वर्जयेत्|१०१|
🔊 Audio coming soon
Adhikarana 26 (101-106) · Śloka 107
नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम्||१०१|| त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी| वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्||१०२|| शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत्| यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी||१०३|| पिबेन्मधुयुतं तक्रं कवोष्णं नातिपेलवम्| मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः||१०४|| युक्तं प्लीहोदरी जातं सव्योषं तूदकोदरी| बद्धोदरी तु हपुषायवान्यजाजिसैन्धवैः ||१०५|| पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्| गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम्||१०६|| तक्रं वातकफार्तानाममृतत्वाय कल्पते|१०७|
🔊 Audio coming soon
Adhikarana 27 (107-110) · Śloka 111
शोफानाहार्तितृण्मूर्च्छापीडिते कारभं पयः||१०७|| शुद्धानां क्षामदेहानां गव्यं छागं समाहिषम्| देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः||१०८|| साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः| वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम्||१०९|| भूतीकं नागरं धान्यं जले पक्त्वाऽवसेचयेत्| पलाशं कत्तृणं रास्नां तद्वत् पक्त्वाऽवसेचयेत्||११०|| मूत्राण्यष्टावुदरिणां सेके पाने च योजयेत्|१११|
🔊 Audio coming soon
Adhikarana 28 (111) · Śloka 112
रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम्||१११|| दीपनीयानि सर्पींषि जठरघ्नानि चक्ष्महे|११२|
🔊 Audio coming soon
Adhikarana 29 (112-115) · Śloka 116
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः||११२|| सक्षारैरर्धपलिकैर्द्विप्रस्थं सर्पिषः पचेत्| कल्कैर्द्विपञ्चमूलस्य तुलार्धस्वरसेन च||११३|| दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम्| श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत्||११४|| नागरत्रिफलाप्रस्थं घृततैलात्तथाऽऽढकम्| मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम्||११५|| कफमारुतसम्भूते गुल्मे चैतत् प्रशस्यते|११६|
🔊 Audio coming soon
Adhikarana 30 (116-117) · Śloka 118
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले||११६|| कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्| यवकोलकुलत्थानां पञ्चमूलरसेन च||११७|| सुरासौवीरकाभ्यां च सिद्धं वाऽपि पिबेद्घृतम्|११८|
🔊 Audio coming soon
Adhikarana 31 (118) · Śloka 119
एभिः स्निग्धाय सञ्जाते बले शान्ते च मारुते||११८|| स्रस्ते दोषाशये दद्यात् कल्पदिष्टं विरेचनम्|११९|
🔊 Audio coming soon
Adhikarana 32 (119-123) · Śloka 124
पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम्||११९|| कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत्| षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान्||१२०|| कृत्वा चूर्णमतो मुष्टिं गवां मूत्रेण ना पिबेत्| विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलै रसैः||१२१|| मण्डं पेयां च पीत्वा ना सव्योषं षडहं पयः| शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुनः पुनः||१२२|| हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि| कामलां पाण्डुरोगं च श्वयथुं चापकर्षति||१२३|| पटोलाद्यमिदं चूर्णमुदरेषु प्रपूजितम्|१२४|
🔊 Audio coming soon
Adhikarana 33 (124-132) · Śloka 132
गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम्||१२४|| पिबेद्द्राक्षाम्बुगोमूत्रकोलकर्कन्धुसीधुभिः| यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका||१२५|| कारवी पिप्पलीमूलमजगन्धा शटी वचा| शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका||१२६|| द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्| विडङ्गं च समांशानि दन्त्या भागत्रयं तथा||१२७|| त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा| एतन्नारायणं नाम चूर्णं रोगगणापहम्||१२८|| नैनत् प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुराः| तक्रेणोदरिभिः पेयं गुल्मिभिर्बदराम्बुना||१२९|| आनद्धवाते सुरया वातरोगे प्रसन्नया| दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसैः||१३०|| परिकर्ते सवृक्षाम्लमुष्णाम्बुभिरजीर्णके| भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे||१३१|| हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे| दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे||१३२|| यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्| इति नारायणचूर्णम्|
🔊 Audio coming soon
Adhikarana 34 (133-137) · Śloka 137
हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम्||१३३|| नीलिनीं त्रायमाणां च सातलां त्रिवृतां वचाम्| सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत्||१३४|| दाडिमत्रिफलामांसरसमूत्रसुखोदकैः| पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च||१३५|| श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु| शोथार्शःपाण्डुरोगेषु कामलायां हलीमके||१३६|| वातं पित्तं कफं चाशु विरेकात् सम्प्रसाधयेत्| इति हपुषाद्यं चूर्णम्| नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि च||१३७|| चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्| इति नीलिन्याद्यं चूर्णम्|
🔊 Audio coming soon
Adhikarana 35 (138-140) · Śloka 140
क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि||१३८|| जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद्घृतम्| तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत्||१३९|| स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च| गुल्मानां गरदोषाणामुदराणां च शान्तये||१४०|| इति स्नुहीक्षीरघृतम्|
🔊 Audio coming soon
Adhikarana 36 (141-145) · Śloka 146
दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात्| घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये||१४१|| एषां चानु पिबेत् पेयां पयो वा स्वादु वा रसम्| घृते जीर्णे विरिक्तस्तु कोष्णं नागरकैः शृतम्||१४२|| पिबेदम्बु ततः पेयां यूषं कौलत्थकं ततः| पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजितः||१४३|| पुनः पुनः पिबेत् सर्पिरानुपूर्व्या तयैव च| घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक्||१४४|| गुल्मानां गरदोषाणामुदराणां च शान्तये| पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम्||१४५|| गुल्मघ्नं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्|१४६|
🔊 Audio coming soon
Adhikarana 37 (146-171) · Śloka 172
क्रमान्निर्हृतदोषाणां जाङ्गलप्रतिभोजिनाम् ||१४६|| दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यतः परम्| चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत्||१४७|| मासं युक्तस्तथा हस्तिपिप्पली विश्वभेषजम्| विडङ्गं चित्रकं दन्ती चव्यं व्योषं च तैः पयः||१४८|| कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्| पिबेत् कषायं त्रिफलादन्तीरोहितकैः शृतम्||१४९|| व्योषक्षारयुतं जीर्णे रसैरद्यात्तु जाङ्गलैः| मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम्||१५०|| क्षीरानुपानां गोमूत्रेणाभयां वा प्रयोजयेत्| सप्ताहं माहिषं मूत्रं क्षीरं चानन्नभुक् पिबेत्||१५१|| मासमौष्ट्रं पयश्छागं त्रीन्मासान् व्योषसंयुतम्| हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु||१५२|| शिलाजतुविधानेन गुग्गुलुं वा प्रयोजयेत्| शृङ्गवेरार्द्रकरसः पाने क्षीरसमो हितः||१५३|| तैलं रसेन तेनैव सिद्धं दशगुणेन वा| दन्तीद्रवन्तीफलजं तैलं दूष्योदरे हितम्||१५४|| शूलानाहविबन्धेषु मस्तुयूषरसादिभिः| सरलामधुशिग्रूणां बीजेभ्यो मूलकस्य च||१५५|| तैलान्यभ्यङ्गपानार्थं शूलघ्नान्यनिलोदरे| स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च||१५६|| अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे| श्लेष्मणो विलयार्थं तु दोषं वीक्ष्य भिषग्वरः||१५७|| पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्पलीम्| भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम्||१५८|| देवदारु हरिद्रे द्वे सरलातिविषे वचाम् | कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च||१५९|| दधिसर्पिर्वसामज्जतैलयुक्तानि दाहयेत्| अन्नादूर्ध्वमतः क्षाराद्बिडालकपदं पिबेत्||१६०|| मदिरादधिमण्डोष्णजलारिष्टसुरासवैः| हृद्रोगं श्वयथुं गुल्मं प्लीहार्शोजठराणि च||१६१|| विसूचिकामुदावर्तं वाताष्ठीलां च नाशयेत्| क्षारं चाजकरीषाणां स्रुतं मूत्रैर्विपाचयेत्||१६२|| कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च| पिप्पलीं चित्रकं शुण्ठीं त्रिफलां त्रिवृतां वचाम्||१६३|| द्वौ क्षारौ सातलां दन्तीं स्वर्णक्षीरीं विषाणिकाम्| कोलप्रमाणां वटिकां पिबेत् सौवीरसंयुताम्||१६४|| श्वयथावविपाके च प्रवृद्धे च दकोदरे| भावितानां गवां मूत्रे षष्टिकानां तु तण्डुलैः||१६५|| यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्| पिबेदिक्षुरसं चानु जठराणां निवृत्तये||१६६|| स्वं स्वं स्थानं व्रजन्त्येवं तथा पित्तकफानिलाः| शङ्खिनीस्नुक्त्रिवृद्दन्तीचिरबिल्वादिपल्लवैः||१६७|| शाकं गाढपुरीषाय प्राग्भक्तं दापयेद्भिषक् | ततोऽस्मै शिथिलीभूतवर्चोदोषाय शास्त्रवित्||१६८|| दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं शिवम्| पार्श्वशूलमुपस्तम्भं हृद्ग्रहं चापि मारुतः||१६९|| जनयेद्यस्य तं तैलं बिल्वक्षारेण पाययेत्| तथाऽग्निमन्थस्योनाकपलाशतिलनालजैः||१७०|| बलाकदल्यपामार्गक्षारैः प्रत्येकशः स्रुतैः| तैलं पक्त्वा भिषग्दद्यादुदराणां प्रशान्तये||१७१|| निवर्तते चोदरिणां हृद्ग्रहश्चानिलोद्भवः|१७२|
🔊 Audio coming soon
Adhikarana 38 (172-174) · Śloka 175
कफे वातेन पित्तेन ताभ्यां वाऽप्यावृतेऽनिले||१७२|| बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्| सुविरिक्तो नरो यस्तु पुनराध्मापितो भवेत्||१७३|| सुस्निग्धैरम्ललवणैर्निरूहैस्तमुपाचरेत्| सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम्||१७४|| तीक्ष्णैः सक्षारगोमूत्रैर्बस्तिभिस्तमुपाचरेत्|१७५|
🔊 Audio coming soon
Adhikarana 39 (175-183) · Śloka 184
क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति||१७५|| ज्ञातीन् ससुहृदो दारान् ब्राह्मणान्नृपतीन् गुरून्| अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रुवन्||१७६|| अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्| एवमाख्याय तस्येदमनुज्ञातः सुहृद्गणैः||१७७|| पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत्| यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले विषम्||१७८|| भोजयेत्तदुदरिणं प्रविचार्य भिषग्वरः| तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः||१७९|| विषेणाशुप्रमाथित्वादाशु भिन्नः प्रवर्तते| विषेण हृतदोषं तं शीताम्बुपरिषेचितम्||१८०|| पाययेत भिषग्दुग्धं यवागूं वा यथाबलम्| त्रिवृन्मण्डूकपर्ण्योश्च शाकं सयववास्तुकम्||१८१|| भक्षयेत् कालशाकं वा स्वरसोदकसाधितम् | निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्||१८२|| मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्| एवं विनिर्हृते दोषे शाकैर्मासात् परं ततः||१८३|| दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः|१८४|
🔊 Audio coming soon
Adhikarana 40 (184-188) · Śloka 188
इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम्||१८४|| वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्| मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्||१८५|| विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः| सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत्||१८६|| मूर्च्छनाद्यच्च सम्मूढमन्त्रं तच्च विमोक्षयेत्| छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः||१८७|| बहुशः सङ्गृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्| प्रतियोगैः प्रवेश्यान्त्रं प्रेयैः सीव्येद्व्रणं ततः||१८८||
🔊 Audio coming soon
Adhikarana 41 (189-194) · Śloka 194
तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक्| वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा च गालयेत्||१८९|| विस्राव्य च विमृद्यैतद्वेष्टयेद्वाससोदरम्| तथा बस्तिविरेकाद्यैर्म्लानं सर्वं च वेष्टयेत्||१९०|| निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्| अतः परं तु षण्मासान् क्षीरवृत्तिर्भवेन्नरः||१९१|| त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत्| श्यामाकं कोरदूषं वा क्षीरेणालवणं लघु||१९२|| नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम्| प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्||१९३|| दोषानुबन्धरक्षार्थं बलस्थैर्यार्थमेव च| प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः| सर्वधातुक्षयार्तानां देवानाममृतं यथा||१९४||
🔊 Audio coming soon
Adhikarana 42 (195-196) · Śloka 196
तत्र श्लोकौ- हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः| उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च||१९५|| जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः| समासव्यासनिर्देशैरुदराणां चिकित्सिते||१९६||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 13
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने उदरचिकित्सितं नाम त्रयोदशोऽध्यायः||१३||
🔊 Audio coming soon