Adhikarana 1 (1-2) · Śloka 2
अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-15) · Śloka 15
श्रिया परमया ब्राह्मया परया च तपःश्रिया| अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम्||३|| धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम्| अग्निवेशो गुरुं काले संशयं परिपृष्टवान्||४|| भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा| निर्दिष्टान्यामयनां हि सर्वेषामेव भेषजम्||५|| दोषजोऽस्त्यामयः कश्चिद्यस्य तानि भिषग्वर!| न स्युः शक्तानि शमने साध्यस्य क्रियया सतः||६|| अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम्| सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः||७|| स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः| द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषैः||८|| पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः| लङ्घनाध्यशनायासभयवेगविधारणैः||९|| स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह| रुद्ध्वाऽऽशु गौरवादूरू यात्यधोगैः सिरादिभिः||१०|| पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कटः| अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम्||११|| महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा| तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः||१२|| गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः | भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून्||१३|| ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु| स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः||१४|| प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः| लोमहर्षश्च छर्दिश्च जङ्घोर्वोः सदनं तथा||१५||
🔊 Audio coming soon
Adhikarana 3 (16) · Śloka 16
वातशङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः| पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा||१६||
🔊 Audio coming soon
Adhikarana 4 (17-19) · Śloka 19
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना| पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च||१७|| संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः| अन्यनेयौ हि सम्भग्नावूरू पादौ च मन्यते||१८|| यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत्| ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्||१९||
🔊 Audio coming soon
Adhikarana 5 (20-24) · Śloka 24
तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम्| न चैव वमनं यस्मात्तन्निबोधत कारणम्||२०|| वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च| तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम्||२१|| कफं कफस्थानगतं पित्तं च वमनात् सुखम्| हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि||२२|| पक्वाशयस्थाः सर्वेऽपि बस्तिभिर्मूलनिर्जयात्| शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिताः||२३|| वातस्थाने हि तच्छैत्याद्द्वयोः स्तम्भाच्च तद्गताः| न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलात्||२४||
🔊 Audio coming soon
Adhikarana 6 (25-29) · Śloka 30
तस्य संशमनं नित्यं क्षपणं शोषणं तथा| युक्त्यपेक्षी भिषक् कुर्यादधिकत्वात्कफामयोः||२५|| सदा रूक्षोपचाराय यवश्यामाककोद्रवान्| शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः||२६|| सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवैः| वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः||२७|| क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च| मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः||२८|| समङ्गां शाल्मलीं बिल्वं मधुना सह ना पिबेत्| तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि||२९|| चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा|३०|
🔊 Audio coming soon
Adhikarana 7 (30-32) · Śloka 33
मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम्||३०|| देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम्| पिप्पलीं पिप्पलीमूलं सरलं देवदारु च||३१|| चव्यं चित्रकमूलानि देवदारु हरीतकीम्| भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत्||३२|| सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान्|३३|
🔊 Audio coming soon
Adhikarana 8 (33-38) · Śloka 39
शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् ||३३|| मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा| पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणाऽऽप्लुतम्||३४|| सक्षौद्रं दधिमण्डैर्वाऽप्यूरुस्तम्भविनाशनम्| मूर्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम्||३५|| पूर्ववद्गुग्गुलुं मूत्रे रात्रिस्थितमथापि वा| स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम्||३६|| सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम्| लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम्||३७|| फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम्| त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम्||३८|| लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः|३९|
🔊 Audio coming soon
Adhikarana 9 (39-47) · Śloka 47
अपतर्पणजश्चेत् स्याद्दोषः सन्तर्पयेद्धि तम्||३९|| युक्त्या जाङ्गलजैर्मांसैः पुराणैश्चैव शालिभिः| रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वकः||४०|| स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः| पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा||४१|| सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत्| सक्षौद्रं प्रसृतं तस्मादञ्जलिं वाऽपि ना पिबेत्||४२|| कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्| अजगन्धाऽश्वगन्धा च तैलं तैः सार्षपं पचेत्||४३|| सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दितः पिबेत्| (रौक्ष्यान्मुक्त ऊरुस्तम्भात्ततश्च स विमुच्यते )||४४|| द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्| द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके||४५|| आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम्| गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत्||४६|| पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः| तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः||४७|| इत्यष्टकट्वरतैलम्|
🔊 Audio coming soon
Adhikarana 10 (48-59) · Śloka 60
इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम्| श्लेष्मणः क्षपणं त्वन्यद्बाह्यं शृणु चिकित्सितम्||४८|| वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम्| इष्टकानां ततश्चूर्णैः कुर्यादुत्सादनं भृशम्||४९|| मूलैर्वाऽप्यश्वगन्धाया मूलैरर्कस्य वा भिषक्| पिचुमर्दस्य वा मूलैरथवा देवदारुणः||५०|| क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक्| गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम्||५१|| दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान्| तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजैः||५२|| पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम्| पिष्टं तु सर्षपं मूत्रेऽध्युषितं स्यात् प्रलेपनम्||५३|| वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ| हिंस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः||५४|| दधिसैन्धवसंयुक्तं कार्यमेतैः प्रलेपनम्| (ऊरुस्तम्भविनाशाय भिषजा जानता क्रमम्)||५५|| श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ| शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान्||५६|| अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत्| प्रलेपो मूत्रपिष्टैर्वाऽप्यूरुस्तम्भनिवारणः||५७|| कफक्षयार्थं शक्येषु व्यायामेष्वनुयोजयेत्| स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा||५८|| प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम्| सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः||५९|| तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत्|६०|
🔊 Audio coming soon
Adhikarana 11 (60-61) · Śloka 61
श्लेष्मणः क्षपणं यत् स्यान्न च मारुतमावहेत् ||६०|| तत् सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम्| शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया||६१||
🔊 Audio coming soon
Adhikarana 12 (62) · Śloka 62
तत्र श्लोकः- हेतुः प्राग्रूपलिङ्गानि कर्मायोग्यत्वकारणम्| द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते||६२||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 27
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः||२७||
🔊 Audio coming soon