Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

34. vātavyādhicikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

ऊरुस्तम्भभेषजेन विरूक्षणाद्वातप्रकोपो भवतीति सम्बन्धादूरुस्तम्भानन्तरं वातव्याधिचिकित्सितमुच्यते| तत्र वात एव व्याधिर्वातव्याधिरिति पक्षे वात एव तत्तद्दूष्यसम्प्राप्तः सर्वाङ्गैकाङ्गरूपतामापन्नो विविधपीडाकर्तृत्वाद्वातव्याधिरुच्यते; यदा तु वाताद्व्याधिर्वातव्याधिरिति पक्षस्तदा वातदोषाद् दोषदूष्यसम्मूर्च्छनविशेषरूपः सर्वाङ्गैकाङ्गरूपो व्याधिर्वातव्याधिरुच्यते| ज्वरादयस्तु यद्यपि वातादुत्पद्यन्ते, तथाऽपि ते दोषान्तरेणापि वातं विना भवन्तीति कृत्वा नात्र शास्त्रे वातव्याधिशब्देनोच्यन्ते | येऽपि चात्र कफपित्तावृतवातविकारा वातव्याधित्वेन वक्तव्याः, तेऽपि प्रधानं वातं विना न भवन्तीति कृत्वा वातव्याधिरूपा एव| न च वाच्यं यथा वातिका नानात्मजा व्याधयः पृथक् चिकित्सयोच्यन्ते, तथा पित्तजाः कफजाश्च चिकित्स्यन्तामिति; यतः पित्तकफकृतानां नानात्मजानां व्याधीनां न तथा प्राधान्यं यथा वातजानां; तेन वातजानामेवाविष्कृततमानां पृथक् चिकित्सोच्यते, कफपित्तजानां त्वाविष्कृतानां वमनविरेचनादिका कफपित्तचिकित्सेति ज्ञेयम्||१-२||

Adhikarana 2 (3) · Śloka 3

वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्| वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः||३||

🔊 Audio coming soon

वायोर्विकारान् ज्ञापयितुं स्वभावज्ञानानन्तरीयकत्वाद्विकृतिज्ञानस्य स्वभावमेव तावदाह- वायुरित्यादि| यद्यपि शरीरेन्द्रियसत्त्वात्मसंयोग आयुः, तथाऽपि तादृशसंयोगे प्रधानत्वात् प्रकृतिस्थो वायुरप्यायुरुच्यते| एवं बलस्यापि हेतुर्वायुरिति कृत्वा शरीराधारतया बलाधारहेतुर्वायुरेव बलमित्युक्तः| विश्वता प्रभुता च वायोर्वातकलाकलीये प्रतिपादितैव||३||

Adhikarana 3 (4) · Śloka 4

अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः| वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम्||४||

🔊 Audio coming soon

वायोरायुर्हेतुत्वं दर्शयन्नाह- अव्याहतेत्यादि| अव्याहतगतिः अपरित्यक्तस्वमार्गः | स्थानस्थ इति न विमार्गः| प्रकृतौ स्थित इति अक्षीणवृद्धः| वीतरोग इति नीरोगः||४||

Adhikarana 4 (5-11) · Śloka 11

प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा| देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन्||५|| स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः | ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च||६|| उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च| वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च||७|| स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः| अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः||८|| देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम्| गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा||९|| वृषणौ बस्तिमेढ्रं च नाभ्यूरू वङ्क्षणौ गुदम्| अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति च||१०|| सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते| स्वकर्म कुर्वते देहो धार्यते तैरनामयः||११||

🔊 Audio coming soon

प्राणोदानेत्यादिना व्यवहारार्थं सञ्ज्ञोपदर्शनपूर्वकं प्राणादीनां स्थानं कर्म चाह| देहं तन्त्रयते इति धारयते| स्थानेष्विति वक्ष्यमाणात्मीयस्थानेषु| आहारादीत्यत्र आदिग्रहणादन्नविधारणादीनि गृह्यन्ते| कर्म चेति प्राणस्य वायोरित्यर्थः| प्राणोदानयोर्यद्यपि समानमुरःस्थानं, तथाऽपि कर्मभेदाद्भेद एव; यथैकगृहस्थितमालाकारकुम्भकारयोः| प्रयतनं प्रयत्नः, ऊर्ज उत्साहः; प्रयत्नादिकर्मत्वेन प्रयत्नौर्जोबलवर्णनिष्पादनमुच्यते| स्वेददोषाम्बुवाहीनीत्यादौ स्वेदवाहीनि तथा अम्बुवाहीनि च स्रोतांसि स्रोतोविमाने (वि.अ.५) पृथगेवोक्तानि ज्ञेयानि, दोषवहानि च स्रोतांसि सर्वशरीरचराण्येव, उक्तं हि “वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वस्रोतांस्ययनभूतानि” (वि.अ.५) इति| गतीत्यादौ आदिशब्देनाकुञ्चनप्रसारणादीनां च ग्रहणम्| अन्त्रस्थ इति अन्त्राणि चापानस्थानमित्यर्थः| सृजतीति निःसारयतीति यावत्| आर्तवगर्भौ च सृजतीति सम्बन्धः| एतानि कर्माणि यादृशाः कुर्वन्ति तदाह- युक्ता इत्यादि; युक्ता इति अव्यापन्नाः| स्थानस्थिता इति यथोक्तस्थानस्थिताः| यस्मादेवम्भूता अतो देहो धार्यते तैरनामयः||५-११||

Adhikarana 5 (12-14) · Śloka 14

विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः| शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च||१२|| सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः| अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः||१३|| तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु| केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम्||१४||

🔊 Audio coming soon

वातानां वैगुण्यकार्यमाह- विमार्गस्था इत्यादि| स्वस्थानकर्मजैरिति यस्य वायोर्यत् स्थानमुक्तं तत्स्थानगतैः, तथा ष्ठीवनादि यद्वायोः कर्मोक्तं तज्जैश्च रोगैः शरीरं पीडयन्ति प्राणान् वा महता रोगेण हरन्ति च| अत्र च वायोरेव भूरिप्रधानरोगकर्तृतया भिन्नचिकित्साप्रयोजकाः पञ्चभेदा उक्ता न पित्तकफयोः, अनतिप्रयोजनत्वात्| तथा हि तन्त्रान्तरे पित्तमपि पाचक-रञ्जक-साधकालोचक-भ्राजकभेदात् पञ्चविधमुक्तं; तेषां च यथाक्रमं जठरहृदयदृष्टित्वक्स्थानत्वमुक्तं; तथा श्लेष्माऽपि बोधक-श्लेष्मक-तर्पकावलम्बक क्लेदकभेदात् पञ्चविधः, तेषां च स्थानानि यथाक्रमं हृदयामाशयजिह्वाशिरः सन्धयः, कर्माणि च यथाक्रममवलम्बन-क्लेदन-रसबोधनाक्षतर्पण-सन्धिसंश्लेषाणि पृथगुक्तानि| प्रकृतवातव्याधिकथनायात्र सङ्ख्यादिनिर्देशः| तज्जानामिति पञ्चवातजानाम्| सूत्रे इति महारोगाध्याये (सू.अ.२०)| उच्यमानानिति नखभेदादीन् यथास्थूलमुच्यमानान्| पर्यायैरिति सञ्ज्ञान्तरैः| कथं पुनस्तेऽशीतिनखभेदाद्या उपदिष्टाः? उच्यते- केवलं वायुमुद्दिश्य केचिद्गदा वेपथ्वादय उक्ताः, तथा चावृतं वातमुद्दिश्य केचिदुक्ताः “लिङ्गं पित्तावृते दाहस्तृष्णा” इत्यादिना||१२-१४||

Adhikarana 6 (15-18) · Śloka 19

रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः| विषमादुपचाराच्च दोषासृक्स्रवणादति||१५|| लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः| धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात्||१६|| दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि| वेगसन्धारणादामादभिघातादभोजनात्||१७|| मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात्| देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली||१८|| करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान्|१९|

🔊 Audio coming soon

सम्प्रति निदानमाह- रूक्षेत्यादि| विषमादुपचारादिति उपचारवैरूप्यात्| दोषासृगित्यादौ दोषशब्देन पुरीषमपि गृह्यते| अपतंसनं गजादिभ्यः पतनं, किंवा अवतंसनं धातूनां कर्षणम्; उक्तं हि खरनादे- “विलिखत्यतितैक्ष्ण्याद्यत् स्मृतमुल्लेखनं हि तत्| विकर्षत्यतिधातून् यत्तच्चोक्तमव(प)तंसनम्” इति| रिक्तानीति तुच्छानि, स्नेहादिगुणशून्यानीत्यर्थः||१५-१८||-

Adhikarana 7 (19) · Śloka 20

अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्||१९|| आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः|२०|

🔊 Audio coming soon

अव्यक्तं लक्षणमित्यादिना पूर्वरूपमाह | आत्मरूपमिति वर्तमानरोगरूपम्| अपायो लघुता पुनरिति वातव्याधीनामपायोऽपगमनं शरीरस्य लघुता वातव्याधिलिङ्गविगमेन, शरीरकल्यतेति यावत्; किंवा अपायो लघुता न सर्वथा वातलिङ्गाभावः, येन प्रकृतलिङ्गानि सन्त्येव||१९||-

Adhikarana 8 (20-23) · Śloka 24

सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि||२०|| लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः| खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता||२१|| गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता| शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्||२२|| भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च| एवंविधानि रूपाणि करोति कुपितोऽनिलः||२३|| हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्|२४|

🔊 Audio coming soon

कुपितानां कार्यमाह- सङ्कोच इत्यादि| एते च सङ्कोचादयो व्याधयोऽपि भवन्ति; उक्तं हि- “व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः” (नि.अ.८) इति| हुण्डनं शिरःप्रभृतीनामन्तःप्रवेशः; अन्ये तु केशभूमिस्फुटनं शङ्खललाटभेदश्च शिरोहुण्डनं, नासाहुण्डनं घ्राणनाशः, अक्षिहुण्डनम् अक्षिव्युदासः, जत्रुहुण्डनं वक्षोपरोधः, ग्रीवाहुण्डनं ग्रीवास्तम्भः| वातव्याधिविशेषोत्पादे हेतुमाह- हेतुस्थानविशेषादित्यादि| हेतुविशेषः पित्तावरणादिः, स्थानविशेषः कोष्ठादिः, किंवा हेतुकृतः स्थानविशेषः; उक्तं हि- “प्रकुपितास्तु प्रकोपणविशेषाद् दूष्यविशेषान् दूषयन्तः” (वि.अ.६) इत्यादि| केचित्तु ‘देहे स्थानविशेषाच्च’ इति पठन्ति||२०-२३||-

Adhikarana 9 (24-37) · Śloka 38

तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः||२४|| ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते| सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने||२५|| वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः| ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः||२६|| जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदस्थिते| हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः||२७|| कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते| पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च||२८|| कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्| श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः||२९|| त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते| आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले||३०|| रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः| गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले||३१|| गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा| सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले||३२|| भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः| अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले||३३|| क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा| विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः||३४|| बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च| सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः||३५|| शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा| सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते||३६|| वातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले| प्रसारणाकुञ्चनयोः प्रवृत्तिश्च सवेदना||३७|| (इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च)|३८|

🔊 Audio coming soon

स्थानविशेषकृतमेव व्याधिभेदमाह- तत्र कोष्ठाश्रिते इत्यादि| सर्वाङ्गकुपिते इति कृत्स्नदेहकुपिते| गुदस्थिते इति उत्तरगुदस्थिते| आतन्यते विस्तार्यते| भुक्तस्य स्तम्भ इति भुक्तवतो गात्रस्तम्भो भवतीति| गुर्वङ्गमित्यादि मांसगे मेदेगे च लक्षणं समानं, तथा भेदोऽस्थिपर्वणामित्यादि अस्थिमज्जगयोः समानं लक्षणम्| समानेऽपि लक्षणे विविधाशितपीतीयोक्तविशिष्टधातुलक्षणैर्विशेष उन्नेयः| सन्ततेति सानुबन्धा | क्षिप्रं मुञ्चति बध्नातीति व्यवायकाले क्षिप्रं मुञ्चति वा चिरं धारयते, तथा गर्भमपि क्षिप्रं मुञ्चति वा चिरं धारयति| विकृतमिति व्यङ्गत्वादिनानाविकारयुक्तं गर्भं जनयति| बाह्येत्यादिना स्नायुगतवातलक्षणत्वेनोक्तानि बहिरायामादीन्यग्रे वक्तव्यानि | मन्दरुक्शोफमिति मन्दरुजं मन्दशोफं च| सुप्ता इति निःस्पन्दाः||२४-३७||-

Adhikarana 10 (38-42) · Śloka 42

अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते| यदा तदोपशोष्यासृग्बाहुं पादं च जानु च||३८|| तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च| वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा||३९|| ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकम् | स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते||४०|| दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्य वाक्| दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः||४१|| पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् | अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम्||४२||

🔊 Audio coming soon

इदानीमतिबलान् वातविकारानभिधातुमुद्यतोऽर्दितमाह- अतिवृद्ध इत्यादि| अतिवृद्धग्रहणेन वायोर्बलवत्प्रकोपमाह| एकमिति वामं दक्षिणं वा सङ्कोचयति बाहुं, पादं, जानु च; वक्रं च जिह्मं करोति| वक्रं व्रजति भोजनमिति न समं मुखेन खादति, किन्तु वक्रैकदेशेन| दीनेति अगम्भीरा| जिह्मेति कुटिला| समुत्क्षिप्तेति अतित्वरिता| कलेति अव्यक्ता| बाध्येते श्रवणाविति यद्यपि एकपार्श्वाश्रयो विकारोऽयं, तथाऽपि प्रभावात् कर्णयोर्बाधाऽत्र भवति| केवल इति अर्धे एव न कृत्स्ने| ननु यदा देहार्धव्यापित्वमर्दितस्य तदाऽर्दितेन अर्धाङ्गस्य को भेदः? ब्रूमः-अर्दितो वेगितया न सर्वकालं भवति, अर्धाङ्गस्तु सर्वकालं व्याप्य भवति; उक्तं हि- “स्वस्थः स्यादर्दितादीनां मुहुर्वेगागमे गते” इति| किंवा यथोक्तविशिष्टलक्षणोऽर्दितः, अर्धाङ्गे तु नैतानि सर्वाणि भवन्ति||३८-४२||

Adhikarana 11 (43-44) · Śloka 45

मन्ये संश्रित्य वातोऽन्तर्यदा नाडीः प्रपद्यते| मन्यास्तम्भं तदा कुर्यादन्तरायामसञ्ज्ञितम्||४३|| अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम्| दन्तानां दंशनं लाला पृष्ठायामः शिरोग्रहः||४४|| जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम्| (इत्युक्तस्त्वन्तरायामो ...|४५|

🔊 Audio coming soon

मन्ये इत्यादिना अन्तरायाममाह| अन्तर्यदा नाडीः प्रपद्यते इति मन्यासम्बद्धा एव अन्तर्गताः सिराः प्रपद्यत इत्यर्थः| अन्तरायामसञ्ज्ञितमिति एवंविधो मन्यास्तम्भ अन्तरायाम उच्यते; अपरस्तु मन्यास्तम्भो वक्ष्यमाणबहिरायाम इति वक्तव्यः| तन्त्रान्तरे तु मन्यास्तम्भ आयामयोः पूर्वरूपत्वेनोक्तः| अन्तरायम्यत इति अन्तः आकृष्यते| पृष्ठायाम इति पृष्ठबहिर्निर्गतिः||४३-४४||-

Adhikarana 12 (45-48) · Śloka 48

...बहिरायाम उच्यते)||४५|| पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली| वायुः कुर्याद्धनुस्तम्भं बहिरायामसञ्ज्ञकम्||४६|| चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः| उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते||४७|| दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः| जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति||४८||

🔊 Audio coming soon

पृष्ठेत्यादि बहिरायामलक्षणम्| पृष्ठमन्याश्रिता इति पृष्ठानुगतमन्यासम्बद्धाः| बाह्या इति सिराविशेषणम्| बाह्याश्च सिराः पृष्ठगता एव| केचित्तु पृष्ठमन्याश्रित इति वातविशेषणं पठन्ति| पृष्ठतो नीयते इति पृष्ठं प्रति आकृष्यते| जातवेग इति उद्वेगः | एतौ चायामौ “बाह्याभ्यन्तरमायामं खल्लीं कुब्जत्वमेव च| सर्वैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः” इत्यनेन स्नायुगतानिलजन्यावुक्तौ, इह च सिरागतवातजन्यत्वेनोक्तौ, तेनोभयवचनात् सिरास्नायुगतवातजन्यावेव भवतः| उक्तं ह्यन्यत्र- “महाहेतुर्बली वायुः सिराः सस्नायुकण्डराः| मन्यापृष्ठाश्रिता बाह्याः संशोष्यायामयेद्बहिः” इत्यादि||४५-४८||

Adhikarana 13 (49) · Śloka 50

हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू| विवृतास्यत्वमथवा कुर्यात् स्तब्धमवेदनम्||४९|| हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम्|५०|

🔊 Audio coming soon

हनुस्तम्भसङ्कोचयोर्लक्षणमाह- हनुमूले स्थित इत्यादि| संस्रयतीति च्यावयति| विवृतास्यत्वमथवेति अत्राथवाशब्देन संवृतवक्त्रता पाक्षिकी चापेक्षते| संस्तभ्येति निश्चलीकृत्य संवृतमुखतां करोति| एतद्द्वयमपि हनुस्तम्भ एव||४९||-

Adhikarana 14 (50) · Śloka 51

मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिलः||५०|| पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः|५१|

🔊 Audio coming soon

मुहुरित्यादि आक्षेपलक्षणम्||५०||-

Adhikarana 15 (51) · Śloka 52

पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः||५१|| दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः|५२|

🔊 Audio coming soon

पाणिपादं च संशोष्येत्यादि दण्डाक्षेपकसम्प्राप्तिकथनम्| पाणिपादशिर इत्यादि दण्डकलक्षणम्||५१||-

Adhikarana 16 (52) · Śloka 53

स्वस्थः स्यादर्दितादीनां मुहुर्वेगे गतेऽगते||५२|| पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत्|५३|

🔊 Audio coming soon

अर्दितादीनां दण्डकान्तानां समानं रूपमाह- स्वस्थः स्यादित्यादि| अर्दितहनुस्तम्भादिषु यत्र मुहुर्मुहुर्वेगित्वं दृश्यते तदर्दितान्तर्गतमेव ज्ञेयम्||५२||-

Adhikarana 17 (53-55) · Śloka 55

हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा||५३|| कुर्याच्चेष्टानिवृत्तिं हि रुजं वाक्स्तम्भमेव च| गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च||५४|| पादं सङ्कोचयत्येकं हस्तं वा तोदशूलकृत्| एकाङ्गरोगं तं विद्यात् सर्वाङ्गं सर्वदेहजम्||५५||

🔊 Audio coming soon

हत्वैकमित्यादि पक्षवधलक्षणम्| गृहीत्वाऽर्धमित्यादि एकाङ्गलक्षणम्| सर्वाङ्गं सर्वदेहजमिति सर्वाङ्गलक्षणम्||५३-५५||

Adhikarana 18 (56-57) · Śloka 57

स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्| गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः||५६|| वाताद्वातकफात्तन्द्रागौरवारोचकान्विता| खल्ली तु पादजङ्घोरुकरमूलावमोटनी||५७||

🔊 Audio coming soon

स्फिक्पूर्वेत्यादि| प्रथमं स्फिचं स्तम्भरुक्तोदैर्गृह्णाति, पश्चात्तु कटिपृष्ठोरुजानुजङ्घापदं गृह्णाति सा गृध्रसी वातात्; वातकफात्तु सा पूर्वोक्तलक्षणा सती तन्द्राद्यन्विता भवति; एवं गृध्रसीद्वयं “द्वे गृध्रस्यौ वाताद् वातकफाच्च” (सू.अ.१९) इत्यनेनोक्तं विवृतं भवति||५६-५७||

Adhikarana 19 (58) · Śloka 58

स्थानानामनुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत्|५८|

🔊 Audio coming soon

अनुक्तनखभेदादिपरिग्रहार्थमाह- स्थानानामित्यादि| शेषान् नखभेदादीन् नखगुल्फादीनामनुरूपैर्लिङ्गैर्भेदशूलादिभिर्निर्दिशेदिति ज्ञेयम्| किचित् ‘स्थाननामानुरूपैः’ इति पठन्ति| तत्र नखस्थानानुरूपं भेदसञ्ज्ञानुरूपं च लिङ्गं नखस्फुटनरूपं भवति| एवं चापरवातविकारेष्वपि महारोगोक्तेषु स्थानानुरूपलिङ्गयोगोऽनुसर्तव्यः|५८|-

Adhikarana 20 (58-60) · Śloka 61

सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत्||५८|| वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा)| वातपित्तकफा देहे सर्वस्रोतोऽनुसारिणः||५९|| वायुरेव हि सूक्ष्मत्वाद्द्वयोस्तत्राप्युदीरणः | कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान्||६०|| करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत्|६१|

🔊 Audio coming soon

वातस्य पित्तादिसंसर्गं ज्ञापयन्नाह- सर्वेष्वित्यादि| पित्ताद्यैरिति पित्तकफरक्तपुरीषादिभिः| अथावृतस्य वायोः कथं कुपितत्वं भवति यावता आवृतो दुर्बल एव भवतीत्याह- वायोरित्यादि| धातुक्षयादिति सारक्षयात्| मार्गावरणेन वेगप्रतिबन्धादेव कुपितो भवति| अथ भवतु मार्गरोधाद्वातकोपः, आवरकेण तु पित्तेन कफेन चास्य कथं न सम्बन्धो भवतीत्याह- वातपित्तेत्यादि| त्रितयमेलकेऽपि वायोः प्राधान्यमाह- वायुरेव हि सूक्ष्मत्वादिति; सूक्ष्ममार्गानुसारितया प्रेरकत्वात्| तस्मात् त्रिष्वपि दोषेषु वायुरेवोक्तन्यायेन प्रधानम्, अतः कुपितः पित्तकफौ समुद्धूय ताभ्यामावृतमार्गोऽपि तत्र तत्र प्रदेशे गदान् करोति; तथा रसादींश्च तत्र तत्र क्षिपन् संशोषयेत्||५८-६०||-

Adhikarana 21 (61-71) · Śloka 72

लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः ||६१|| कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता| शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्||६२|| लङ्घनायासरूक्षोष्णकामिता च कफावृते| रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम्||६३|| भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च| कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा||६४|| हर्षः पिपीलिकानां च सञ्चार इव मांसगे| चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा||६५|| आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः| स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति||६६|| सम्भज्यते सीदति च सूचीभिरिव तुद्यते| मज्जावृते विनामः स्याज्जृम्भणं परिवेष्टनम्||६७|| शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम्| शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे||६८|| भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले| मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले||६९|| वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति| व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः||७०|| चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत्| श्रोणीवङ्क्षणपृष्ठेषु रुग्विलोमश्च मारुतः||७१|| अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले|७२|

🔊 Audio coming soon

आवरणकृतं वातकोपं दर्शयित्वा आवरणविशेषकृतं लिङ्गमाह- लिङ्गं पित्तावृते इत्यादि| कट्वाद्युपशय इति कटूष्णादिकफविपरीतैरुपशयः| अधिकमिति वातहरैरप्युपशयो नाधिको भवतीति दर्शयति| मांसगे इति मांसावृते| मांसगतस्य रक्तादिगतस्य च वातस्य पूर्वमेव लक्षणमुक्तम्, इह तु रक्ताद्यावृतस्य लक्षणमुच्यत इति विशेषः| आढ्यवातेति आयुर्वेदसञ्ज्ञेयं मेदसाऽऽवृतवातस्य| स्वस्थाने इति पक्वाशये| परिकृन्तति परिकर्तिकां जनयति||६१-७१||-

Adhikarana 22 (72-74) · Śloka 74

सन्धिच्युतिर्हनुस्तम्भः कुञ्चनं कुब्जताऽर्दितः||७२|| पक्षाघातोऽङ्गसंशोषः पङ्गुत्वं खुडवातता| स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये||७३|| एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा| नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान्||७४||

🔊 Audio coming soon

साध्यासाध्यविभागमाह- सन्धिच्युतिरित्यादि| अत्र कुब्जत्वपङ्गुत्वादयो यद्यपि साक्षान्न प्रपञ्चितास्तथाऽपि शेषातिदेशेनैव तल्लक्षणं ज्ञेयम्| खुडवातता गुल्फवातता, किंवा सन्धिगतवातता| मज्जास्थिगा इति मज्जास्थ्यावृतमज्जास्थिगतवातजन्या इत्यर्थः| स्थानस्य गाम्भीर्यादिति गम्भीरस्थानाश्रितत्वात्; अन्ये तु गाम्भीर्यं कृतास्पदत्वमाहुः| यत्नात् सिध्यन्ति वा नवेति पाक्षिकसिद्धिवचनमितरवैद्याभिप्रायेण ज्ञेयम्; आचार्यस्तु आचार्यप्रख्यो वा वैद्यः साधयत्येव बलात्, इतरवैद्यस्तु नावश्यं सर्वत्राव्याहतज्ञानो भवति, तेन संशयाभिधानं; ततश्च न पारमार्थिकी सन्दिग्धता एतादृशानां साध्यतां प्रतीति ज्ञेयम्| नवानामप्येषां निरुपद्रवतया साध्यतामाह- नवानित्यादि| उपद्रवाश्चात्र शृङ्गग्राहिकयाऽनुक्ता अपि सामान्योपद्रवलक्षणयुक्ता एव केचिद्गदा विज्ञेयाः; किंवा अध्यायशेषे ‘हृद्रोगो विद्रधिः’ इत्यादिना वक्ष्यमाणा उपद्रवा ज्ञेयाः||७२-७४||

Adhikarana 23 (75-82) · Śloka 83

क्रियामतः परं सिद्धां वातरोगापहां शृणु| केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्||७५|| वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः| स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः||७६|| यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः| पायसैः कृशरैः साम्ललवणैरनुवासनैः||७७|| नावनैस्तर्पणैश्चान्नैः सुस्निग्धं स्वेदयेत्ततः| स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः||७८|| तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत्| स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा||७९|| शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत्| हर्षतोदरुगायामशोथस्तम्भग्रहादयः||८०|| स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते| स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः||८१|| बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत्| असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत्||८२|| तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः|८३|

🔊 Audio coming soon

अवसरप्राप्तां क्रियामाह- क्रियामत इत्यादि| केवलमित्यादौ केवलमिति असंसृष्टम्| निरुपस्तम्भमिति अनावृतम्| कैः? स्नेहैः| कथं चोपाचरेदित्याह- सर्पिर्वसातैलमज्जपानैरिति| स्नेहपानप्रयोगानन्तरं कर्तव्यमाह- नरं ततः स्नेहक्लान्तमित्यादि| स्नेहक्लान्तमिति स्नेहपानोद्विग्नं स्नेहग्लानं च| समाश्वास्येति विश्रमयित्वा | स्नेहयेदितिपदं तर्पणैः पानैरित्यन्तं यावदनुवर्तते| अन्यैरिति कुटीभूस्वेदादिभिः| यथायोगमिति सर्वथा स्नेहपूर्वकस्वेदम्| स्नेहपूर्वकस्वेदगुणमाह- स्नेहाक्तं स्विन्नमित्यादि| स्वेदाध्याये “स्नेहपूर्वं प्रयुक्तेन” (सू.अ.१४) इत्यादिनोक्तोऽप्ययं स्नेहपूर्वकस्वेदगुणः पुनः प्रकरणागतत्वादुच्यते| आशु प्रयोजित इति पदं पुष्णातीत्यनेन सम्बध्यते| अनिलामया न तिष्ठन्ति न स्थायिनो भवन्तीत्यर्थः||७५-८२||-

Adhikarana 24 (83-88) · Śloka 89

यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति||८३|| मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत्| घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा||८४|| पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्| स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः||८५|| स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् | दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत्||८६|| पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम्| संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ||८७|| स्वाद्वम्ललवणस्निग्धैराहारैः सततं पुनः| नावनैर्धूमपानैश्च सर्वानेवोपपादयेत्||८८|| इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्|८९|

🔊 Audio coming soon

यद्यनेन सदोषत्वादित्यादि| अत्र केवलो निरुपस्तम्भश्च वायुश्चिकित्स्यत्वेनाधिकृतः, तस्य सदोषत्वमनुपपन्नं; ततः सदोषत्वं कर्मणि योजनीयं; तेन कर्मणोऽविशुद्धत्वाद् वायुर्न प्रशाम्यति, कर्मणश्चोक्तस्याप्यत्राशुद्धिर्मलजनकत्वात्; वक्ष्यति हि “स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः” इत्यादि| किंवा सदोषत्वादित्यनेनोत्तरकालीनं वायोः संशमनमुच्यते, असंसृष्टत्वमनुपस्तम्भत्वं च यदुक्तं तदुपक्रमारम्भकाले ज्ञेयम्| सदोषत्वं च स्नेहप्रयोगेणानुपशमे संशोधनकरणे च हेतुः| समलत्वमेवोत्तरकालीनं कुतो भवतीत्याह- स्निग्धेत्यादि| दुर्बलो योऽविरेच्य इति दुर्बलत्वप्रकर्षेणाविरेच्य इत्यर्थः| तथा हि “अनास्थाप्यास्त्वजीर्णी” (सि.अ.२) इत्यादौ अतिदुर्बलः पठितः| अत्यर्थं दुर्बलतया बस्त्यनर्हेऽपि विधिमाह- पाचनैर्दीपनीयैश्चेति| पाचनं किञ्चिन्न दीपनं, यथा पटोलं दीपनं; दीपनं किञ्चिन्न पाचनं यथा त्रिफला; उक्तं हि सुश्रुते- “त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशिनी| चक्षुष्या दीपनी च” (सु.सू.अ.३८) इति; अतः पाचनैरित्यस्य दीपनैरिति विशेषणं कृतम्| भोज्यैर्वा तद्युतैरिति पाचनदीपनसंयुक्तैर्भोज्यैः| उत्थिते चाग्नौ इति दीप्ते वह्नौ||८३-८८||-

Adhikarana 25 (89-98) · Śloka 99

विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः||८९|| पाचनैर्दीपनैर्युक्तैरम्लैर्वा पाचयेन्मलान्| गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम्||९०|| आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः| सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः||९१|| स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते| शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम्||९२|| विरेको मांसमेदःस्थे निरूहाः शमनानि च| बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्||९३|| हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम्| विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम्||९४|| विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम्| गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम्||९५|| सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः| हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम्||९६|| मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः| वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम्||९७|| तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम्| बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम्||९८|| बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः|९९|

🔊 Audio coming soon

स्थानविशेषेण क्रियाविशेषमाह- विशेषतस्त्वित्यादिना अधो नाभेः शस्यते चावपीडक इत्यन्तेन| क्षारं यवक्षारम्, उक्तं हि “यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां” (सू.अ.२५); किंवा क्षारमिति ग्रहण्यादिनिर्दिष्टं दीपनक्षारम्| उदावर्तनुत्कर्म त्रिमर्मीये “तं तैलशीतज्वरनाशनाक्तं” (चि.अ.२६) इत्यादिनोक्तं ज्ञेयम्| स्वेदा इत्यादि त्वग्गतानिलचिकित्सितम्| प्रहर्षः मनोहर्षणम्| विरेचनानन्तरं प्रतिभोजितो विरिक्तप्रतिभुक्तः| पूर्वोक्तामिति शुक्रजननहर्षिणीं क्रियाम्| उत्थापने इति पुष्टिजनने सितादिभिः सिद्धं पयो हितम्| अंशुमती शालपर्णी|| मत्स्यानिति नाभिप्रदेशे कुपिते वाते मत्स्या बिल्वशलाटुभिः समं सिद्धा देयाः| नाभिप्रदेशकोपश्च वातस्यानुक्तोऽपीह तत्र भवशूलतोदादिभिर्ज्ञेयः| वेष्ट्यमान इति अवमोट्यमाने| उपनाहनं च वातहरद्रव्यैरेव कर्तव्यम्| नस्ये पाने च औत्तरभक्तिकं माषसैन्धवसाधितमेव तैलं ज्ञेयम्| तत्र च माषस्य क्वाथः, सैन्धवस्य कल्कः| सर्पिषोऽवपीडकः यत्र सर्पिः पीत्वा तत्पीडकमन्नं भुज्यते||८९-९८||-

Adhikarana 26 (99-103) · Śloka 103

अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च||९९|| नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः| स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्||१००|| अन्तराकण्डरागुल्फं सिरा बस्त्यग्निकर्म च| गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम्||१०१|| पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः| व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च||१०२|| प्रदेशिनीभ्यां चोन्नाभ्य चिबुकोन्नामनं हितम्| स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत्||१०३||

🔊 Audio coming soon

अर्दितादिचिकित्सामाह- अर्दिते इत्यादि| तर्पणमिति नावनविशेषणं; किंवा तर्पणं सन्तर्पणमेव| अन्तराकण्डरागुल्फं सिरेति कण्डरागुल्फयोर्मध्ये सिराव्यधनं कर्तव्यम्| गृध्रसीष्विति बहुवचनं व्यक्तिभेदतया| व्यात्ताननमिति विवृतास्यम्| प्रदेशिनी अङ्गुष्ठानन्तराऽङ्गुली||९९-१०३||

Adhikarana 27 (104) · Śloka 104

प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत् |१०४|

🔊 Audio coming soon

अनुक्तविशेषचिकित्सोपग्रहणार्थमाह- प्रत्येकमित्यादि| स्थानं पक्वाशयादि, दूष्यं रसरक्तादि, आदिग्रहणादावरणग्रहणम्| स्थानदूष्यापेक्षः क्रियाविशेषस्तु ‘कोष्ठस्थे’ इत्यादिनैवोक्तः|१०४|-

Adhikarana 28 (104-105) · Śloka 106

सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः ||१०४|| स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च| रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च||१०५|| बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम्|१०६|

🔊 Audio coming soon

सर्ववातविकारसमानं चिकित्सितमाह- सर्पिस्तैलमित्यादि||१०४-१०५||-

Adhikarana 29 (106-117) · Śloka 118

बलायाः पञ्चमूलस्य दशमूलस्य वा रसे||१०६|| अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक्| साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान्||१०७|| भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम्| एतैरेवोपनाहांश्च पिशितैः सम्प्रकल्पयेत्||१०८|| घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः| पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने||१०९|| स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम्| आनूपौदकमांसानि दशमूलं शतावरीम्||११०|| कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम्| वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत्||१११|| नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम्| तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च||११२|| मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम्| दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम्||११३|| उत्कारिकावेसवारक्षीरमाषतिलौदनैः| एरण्डबीजगोधूमयवकोलस्थिरादिभिः||११४|| सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक्| एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत्||११५|| क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम्| मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः||११६|| फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान्| प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि||११७|| पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः|११८|

🔊 Audio coming soon

बलाया इत्यादौ पृथक्शब्दाद् बलादयस्त्रयः साधनद्रव्यप्रयोगाः, तेष्वजशीर्षादयश्चत्वारः पृथक् साध्याः, एवं द्वादश रसा भवन्ति| कल्यमिति प्रभाते| फलानां तैलयोनीनामिति तिलातस्यादीनाम्| प्रदेहानुपनाहांश्चेत्यत्र प्रदेह उपनाहापेक्षया तनुर्लेपः| गन्धैरिति अगुर्वाद्यैः||१०६-११७||-

Adhikarana 30 (118-135) · Śloka 136

रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे||११८|| विविधान् विविधव्याधिप्रशमायामृतोपमान्| द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्||११९|| यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह| पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः||१२०|| तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः| सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्||१२१|| निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु| चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्||१२२|| पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्| बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्||१२३|| तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले| ग्राम्यानूपौदकानां तु भित्वाऽस्थीनि पचेज्जले||१२४|| तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्| जीवकर्षभकास्फोताविदारीकपिकच्छुभिः||१२५|| वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्| तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्||१२६|| सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्| ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये||१२७|| बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्| तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा||१२८|| प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते| प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्||१२९|| कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्| रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्||१३०|| जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्| सुरारनालदध्यम्लसौवीरकतुषोदकम्||१३१|| कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्| मज्जानं च पयश्चैव जीवनीयपलानि षट्||१३२|| कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्| सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु||१३३|| वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्| निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः||१३४|| तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु| हितं पामापचीनां च पानाभ्यञ्जनपूरणम्||१३५|| कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्|१३६|

🔊 Audio coming soon

रूक्षशुद्धेत्यादौ शुद्धानिलार्ताः केवलवातपीडिताः| घृतमण्डः घृतस्योपरितनो भागः| शुक्तिः अर्धपलं, प्रकुञ्चः पलम्| तद्वत्सिद्धेति बलाबिल्वप्रभृतिशृतक्षीरसिद्धा| चुलुकी शिशुमारः| प्रत्यग्रेति अभिनवा| नस्यपानेष्विति नस्येषु पानेषु च | कृष्णगन्धात्वक् शोभाञ्जनत्वक्| महास्नेहमिति चतुःस्नेहम्| तेन सिद्धं तैलमित्यत्र सममिति निर्गुण्डीरससमं, नतु समशब्दः सहार्थः; सहार्थस्य तृतीययैवोक्तत्वात्| नाडी नाडीव्रणः; नाडीव्रणस्य सुश्रुतादिषु पञ्चविधत्वमुक्तं ज्ञेयम्| अपची च हन्वस्थिकक्षादिदेशभवा||११८-१३५||-

Adhikarana 31 (136-137) · Śloka 138

मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि||१३६|| तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत्| यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः||१३७|| सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत्|१३८|

🔊 Audio coming soon

मूलकस्वरस इत्यादौ मूलकस्वरसे समक्षीरे दधि स्थाप्यं; तस्याम्लस्येति मूलरसादेरम्लताङ्गतस्य| अत्र च त्रिभिः प्रस्थैरिति वचनात् मूलकरसादीनां प्रत्येकं प्रस्थमानत्वम्| उक्तं हि जतूकर्णे- “विपचेद् दधिमूलकरसपयसा” इत्यादि||१३६-१३७||-

Adhikarana 32 (138-141) · Śloka 142

पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्||१३८|| पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत्| पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत्||१३९|| संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः| यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात्||१४०|| बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत्| तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा||१४१|| पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत्|१४२|

🔊 Audio coming soon

पञ्चमूलकषायेणेत्यादौ पञ्चमूलीकषायं तथा पिण्याकक्वथितं जलं च पृथग्देयमिति केचिद्वदन्ति, वयं तु पञ्चमूलीकषायेणैव जलस्थानीयेन साधितपिण्याकस्य रसमत्रेच्छामः| पाठश्च ‘पञ्चमूलीकषायेण पिण्याकं बहुवार्षिकम्| पक्त्वा तस्य रसं पूत्वा’ इत्यादि पठ्यते; जातूकर्णेऽपि “पिण्याकं बहुवार्षिकं स्थिरादिसलिले पचेत्, रसेऽस्मिनष्टगुणेन पयसा तैलं साध्यम्” इति| द्रवैरम्लैरिति काञ्जिकतक्रादिभिः| फलाम्लैरिति अम्लफलैर्दाडिमादिभिः||१३८-१४१||-

Adhikarana 33 (142-156) · Śloka 156

सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु||१४२|| चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च| रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च||१४३|| निरत्ययानि सिद्धानि सर्वदोषहराणि च| सहाचरतुलायाश्च रसे तैलाढकं पचेत्||१४४|| मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम्| सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक्||१४५|| विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत्| श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह||१४६|| षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा| तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु||१४७|| जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते| बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम्||१४८|| जलाढकशते पक्त्वा दशभागस्थिते रसे| दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः||१४९|| पचेत् साजपयोऽर्धांशैः कल्कैरेभिः पलोन्मितैः| शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः||१५०|| पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः| यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः||१५१|| पलाशरसकस्तूरीनलिकाजातिकोषकैः| स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः||१५२|| त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः | लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः||१५३|| स्थौणेयतगरध्यामवचामदनपल्लवैः| सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते||१५४|| पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत्| श्वासं कासं ज्वरं हिक्कां छर्दिं गुल्मान् क्षतं क्षयम्||१५५|| प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्| बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्||१५६|| (अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्)| इति बलातैलम्|

🔊 Audio coming soon

चतुष्प्रयोगाणीति पानाभ्यञ्जननस्यानुवासनयोगीनि| सहाचरेत्यादौ मूलकल्काद्दशपलमित्यनेन सहचरमूलादेव दशपलः कल्को देयः; जतूकर्णे त्वत्र मूलकस्यैव कल्क उक्तः| जीर्णे तैले इत्यादि पीते तैले जीर्णे सति| क्षीरेण पेयाविधानमत्र प्रयोगसात्म्यत्वात्| गुडूच्याः पादमिति पञ्चविंशतिपलानि| रास्नाष्टभागिकमिति गतापेक्षया रास्नाया अष्टभागेनार्धत्रयोदशपलानि भवन्ति| साजपयोऽर्धांशमिति छागक्षीरार्धयुक्तम्| सूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ| रसः गन्धरसः| नलिका स्वनामख्याता| कटुफला लताकस्तूरी, अन्ये सुगन्धि दक्षिणापथप्रसिद्धं पद्यल(?)माहुः| तुरुष्कः सिल्हकः| नखीस्वल्पनखी| पत्रकल्कमिति सुगन्धित्वादस्य तैलस्य गन्धशास्रपरिभाषया पत्रकल्को देय इत्युच्यते; गन्धशास्त्रे च “चूर्णस्वरसपुष्पाणां सिद्धशीतेऽवतारिते| दीयते गन्धवृद्ध्यर्थं पत्रकल्को मनीषिभिः” इति; तेनात्र कर्पूरादिपत्रकल्कोऽवतारिते एव देयः||१४२-१५६||-

Adhikarana 34 (157-164) · Śloka 164

अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत्||१५७|| पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्| एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः||१५८|| बलातामलकीमेदाशतपुष्पर्धिजीवकैः | काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः||१५९|| महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः| शतावरीमहामेदाकर्कटाख्याहरेणुभिः||१६०|| वचागोक्षुरकैरण्डरास्नाकालासहाचरैः| वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः||१६१|| सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः| मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च||१६२|| कल्कैस्तत् क्षीणवीर्याग्निबलसम्मूढचेतसः| उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्||१६३|| वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्| (कृष्णात्रेयेण गुरुणा भाषितं वैद्यपूजितम्)||१६४|| इत्यमृताद्यं तैलम्|

🔊 Audio coming soon

अमृताया इत्यादौ महाश्रावणी बृहन्मुण्डितिका| काला कालानुसारिवा| त्रिदशाह्वः देवदारुः||१५७-१६४||

Adhikarana 35 (165-166) · Śloka 166

रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्| गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्||१६५|| कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये| क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक्||१६६|| इति रास्नातैलम्|

🔊 Audio coming soon

रास्नासहस्रनिर्यूहे इत्यादौ हैमवतैरिति हिमालयभूतैः अगरुकुष्ठक्षेमकादिभिः| एलाद्यैरिति अमृताद्ये एलामांसीनतेत्यादिनोक्तैः| एष कल्प इत्यनन्तरोक्तरास्नाकल्पो बलादिष्वपि वक्तव्यः| बलादीनामिति अनन्तरोक्तानां बलाप्रसारण्यश्वगन्धानाम्||१६५-१६६||

Adhikarana 36 (167-171) · Śloka 171

मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम्| तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः||१६७|| पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः| भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः||१६८|| पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः| तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान्||१६९|| इति मूलकाद्यं तैलम्| वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च| चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत्||१७०|| सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा| प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम्||१७१|| इति वृषमूलादितैलम्|

🔊 Audio coming soon

वृषमूलेत्यादौ अश्वगन्धाचित्रकाभ्यां मिलिताभ्यां तुला| प्राक्तैलावापसिद्धमिति मूलकस्वरसमित्याद्युक्ततैलकल्केन समं वृषमूलादिक्वाथेन च सिद्धम्| भवेत्तद्द्विगुणोत्तरमिति पाठे वृषमूलादिक्वाथसिद्धात्तैलाद् द्विगुणं श्रेष्ठम्||१६७-१७१||

Adhikarana 37 (172-182) · Śloka 182

रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः||१७२|| स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः| एषां दशपलान् भागान् कषायमुपकल्पयेत्||१७३|| ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः| दध्यारनालमाषाम्बुमूलकेक्षुरसैः शुभैः||१७४|| पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत्| प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् ||१७५|| एतन्मूलकतैलाख्यं वर्णायुर्बलवर्धनम्| इति मूलकतैलम्| यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः| रसेन मूलकानां च तैलं दधिपयोन्वितम्||१७६|| साधयित्वा भिषग्दद्यात् सर्ववातामयापहम्| लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत्||१७७|| तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च| पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम्||१७८|| यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्| अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत्||१७९|| वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च| तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत्||१८०|| नास्ति तैलात् परं किञ्चिदौषधं मारुतापहम्| व्यवाय्युष्णगुरुस्नेहात् संस्काराद्वलवत्तरम्||१८१|| गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः| सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान्||१८२||

🔊 Audio coming soon

सर्वगन्धैश्चेति बलातैलोक्तैः सर्वगन्धैः| सार्धमिति सहितम्| मूलकतैलाख्यमितिसञ्ज्ञया तत्र रास्नादीनां मूलेनैव क्वाथसाधनं दर्शयति| लशुनस्वरसे इत्यादौ एभिश्चेति यवादिक्वाथैरनन्तरोक्तैः| अनेकशतशस्तच्च सिद्धमिति अनेकशतशस्तेनैव विद्यानेन साधितं सदित्यर्थः||१७२-१८२||

Adhikarana 38 (183-188) · Śloka 188

क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते| वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः||१८३|| पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम्| व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते||१८४|| धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः| विरेकः क्षीरपानं च पञ्चमूलीबलाशृतम्||१८५|| मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम्| पञ्चमूलकषायेण कुर्याद्वा शीतवारिणा||१८६|| कफावृते यवान्नानि जाङ्गला मृगपक्षिणः| स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्||१८७|| जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम्| संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्||१८८||

🔊 Audio coming soon

सम्प्रति दोषान्तरादिसंसृष्टवातचिकित्सामाह- क्रिया साधारणीत्यादि| साधारणीति या वाते सा संसर्गिणि च पित्तादौ समाना संसर्गहितेति यावत्; न केवलं संसृष्टे वायौ साधारणी, किन्तु वातपित्तादिभिः स्रोतःस्वावृतेष्वपि साधारणी कर्तव्या| वातेन वातावरणमग्रे वक्ष्यति| केचित्तु ‘वाते पित्तादिभिः’ इति पठन्ति; अयं पाठः सुगमः| विशिष्टसूत्रितां क्रियामाह- पित्तावृते इत्यादि| व्यत्यासादिति परिवर्तनेन शीतां कृत्वोष्णाम्, उष्णां च कृत्वा शीतां कुर्यादित्यर्थः| यापना बस्तयः सिद्धौ वक्ष्यमाणाः| पित्तमादौ विनिर्जयेदिति वचनेन कफापेक्षया पित्तस्याशुकारितया पित्तजयमेवोपदिशति||१८३-१८८||

Adhikarana 39 (189-198) · Śloka 199

आमाशयगतं मत्वा कफं वमनमाचरेत्||१८९|| पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा| स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः||१९०|| पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत्| श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः||१९१|| निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः| मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत्||१९२|| शिरोगते तु सकफे धूमनस्यादि कारयेत्| हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः||१९३|| सशेषः स्यात् क्रिया तत्र कार्या केवलवातिकी| शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम्||१९४|| प्रमेहवातमेदोघ्नीमामवाते प्रयोजयेत्| स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः||१९५|| महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते| अन्नावृते तदुल्लेखः पाचनं दीपनं लघु||१९६|| मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः| शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया ||१९७|| स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत्| वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा||१९८|| (इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् )|१९९|

🔊 Audio coming soon

आमाशयगतं मत्वा कफमिति वातानुबन्धिकफस्यैवेयं चिकित्सा| पक्वाशये विरेकं त्वित्यत्र ‘कफे’ इत्यनुवर्तते| सर्वत्रगे इति अन्यस्थानगतेऽपि पित्ते| यद्यपि दोषान्तरस्थानगते तद्दोषप्रधानमेव कर्म वमनं बस्तिर्वा युक्तः, तथाऽप्यनेन विरेचनमपि तत्र यौगिकमिति दर्शयति| सकफे इति सकफे वाते| ‘उरःस्रोतोगते’ इति केचित् पठन्ति, तत्र सूक्ष्मस्रोतोऽनुगते इत्यर्थः| प्रमेहवातमेदोघ्नीमिति प्रमेहघ्नीं वातघ्नीं मेदोघ्नीं च| महास्नेह इति चतुःस्नेहोऽत्रैवोक्तः| पूर्ववद्रेतसाऽऽवृते इति शुक्रस्थे वाते या क्रिया पूर्वमुक्ता सा रेतसाऽऽवृतेऽपि वाते कार्या| उल्लेख इति उल्लेखनं वमनम्| मूत्रलानीति मूत्रवैरेचनिकानि| शकृता इति मलेन| स्वस्थानस्थ इत्यादि स्वस्थानस्थो यस्मात् स्थानोपबृंहणाद्बली दोषो भवति तस्मात् प्राक् स्वैरौषधैर्जयेत्| कतमैः स्वैरौषधैरित्याह- वमनैरित्यादि| शमनेनेति कफादिशमनेनैव; शमनं च शोधनानन्तरं शोधनानर्हे वा ज्ञेयम्||१८९-१९८||-

Adhikarana 40 (199-205) · Śloka 206

मारुतानां हि पञ्चानामन्योन्यावरणे शृणु||१९९|| लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ!| प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च||२००|| उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्| विंशतिर्वरणान्येतान्युल्बणानां परस्परम्||२०१|| मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत्| सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम्||२०२|| व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम्| स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता||२०३|| प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम्| प्राणावृते समाने स्युर्जडगद्गदमूकताः||२०४|| चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः| समानेनावृतेऽपाने ग्रहणीपार्श्वहृद्गदाः||२०५|| शूलं चामाशये तत्र दीपनं सर्पिरिष्यते|२०६|

🔊 Audio coming soon

मारुतानामन्योन्यावरणमाह- मारुतानामित्यादि| यद्यपि चेह वायोरमूर्तत्वं वातकलाकलीये प्रोक्तं, तथाऽपीदममूर्तत्वमकठिनवाचकं न त्ववयवप्रतिषेधकं; तेन वायोः वाय्वन्तरेण गतिहननरूपमावरणमुपपन्नमेव; दृष्टा च वायुना वाय्वन्तरेणोपहतेन वातकुण्डलिता बहिरपि, तेनोपपन्नमावरणं वातानां परस्परम्| प्राणो वृणोत्युदानादीनित्यादिना विंशत्यावरणान्युक्तानि| प्राणो वृणोत्युदानादीनित्यनेन चत्वार्यावरणानि, प्राणं वृण्वन्ति तेऽपि चेत्यनेन च चत्वारि, उदानाद्यास्तथाऽन्योन्यमित्यनेन द्वादशावरणान्युच्यन्ते| तत्रोदानेन व्यानादीनां त्रयाणामावरणे त्रीणि, तथा व्यानाद्यैश्चोदानावरणे त्रीणि, तथा व्यानेन समानापानावरणे द्वे, ताभ्यां च व्यानावरणे द्वे, परिशिष्टयोश्चान्योन्यावरणे द्वे, एवं द्वादशावरणानि पूर्वाष्टकयुक्तानि विंशतिर्भवन्ति| उल्बणानामिति वृद्धानां; किंवा उल्बणानामिति आविष्कृततमानां मिलितानां पञ्चानां; तेनैतेषामेकद्वित्र्यादिसंसर्गेणावार्यावरकतया भेदाद्बहुविधमावरणं भवतीति दर्शयति||१९९-२०५||-

Adhikarana 41 (206-213) · Śloka 217

शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससङ्ग्रहः||२०६|| हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते| तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा||२०७|| कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा| उदानेनावृते प्राणे तं शनैः शीतवारिणा||२०८|| सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत्| उर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदाः||२०९|| स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम्| मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते||२१०|| वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम्| वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः||२११|| लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत्| अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम्||२१२|| अतिप्रवृत्तिस्तत्रापि सर्वं सङ्ग्रहणं मतम्| मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षयः||२१३|| समानेनावृते व्याने व्यायामो लघुभोजनम्| स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम्||२१४|| उदानेनावृते व्याने तत्र पथ्यं मितं लघु| पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः||२१५|| एषां स्वकर्मणां हानिर्वृद्धिर्वाऽऽवरणे मता| यथास्थूलं समुद्दिष्टमेतदावरणेऽष्टकम्||२१६|| सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये|२१७|

🔊 Audio coming soon

शिरोग्रह इत्यादिना अष्टावावरणानि प्रायोभावीनि अनुक्तशेषोपग्रहणार्थमाह| ऊर्ध्वभागिकं कर्मेति उपर्युक्तस्नेहपाननस्यादिकम्| श्वासादय इति श्वासहिक्कादयः| ऊर्ध्वगेनेति उदानेन| अनुक्तज्ञानार्थमावरणस्वरूपमाह- एषां स्वकर्मणामित्यादि| अत्र आवार्याणां बलीयसाऽऽवरणात् स्वकर्महानिर्भवति, आवरकस्य तूत्सर्गतः स्वकर्मवृद्धिर्भवति, तथा आवरणेन च आवार्यः प्रकुपितो भवति तदा स्वकर्मणां वृद्धिर्भवतीति व्यवस्था; अन्ये तु आवरणीयस्य स्वकर्महानिः, आवरकस्य तूत्सर्गतो वृद्धिर्भवतीति व्यवस्थामाहुः||२०६-२१३||-

Adhikarana 42 (217-218) · Śloka 219

स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्||२१७|| द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम्| कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि सर्वशः||२१८|| क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत्|२१९|

🔊 Audio coming soon

अनुक्तावरणलक्षणज्ञानोपायमाह- स्थानान्यवेक्ष्येत्यादि| कर्मवृद्धिहानिव्याख्यानमत्रापि पूर्ववत्| स्थानान्यवेक्ष्येत्यनेन वातानामुक्तस्थानगतविकारेण च वातविकृतिर्ज्ञातव्येति दर्शयति| उष्णं क्रममनुष्णं चेत्यत्र यद्यप्युष्ण एव क्रमो वाते युज्यते, तथाऽपि स्थानापेक्षया रक्तादिदूष्यं क्रमविपर्ययस्य कारणं ज्ञेयम्||२१७-२१८||-

Adhikarana 43 (219-220) · Śloka 221

उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्||२१९|| समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत्| प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा||२२०|| स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान्|२२१|

🔊 Audio coming soon

विकृतवातानां प्रकृतिस्थापनमाह- उदानं योजयेदूर्ध्वमित्यादि| एतच्च स्वमार्गयोजनं वातानां यथोक्तवमनादिक्रियायोगविधानेन कर्तव्यम्| समानं शमयेदिति देहमध्यस्थितं कुर्यादित्यर्थः| त्रिधा व्यानं तु योजयेदिति ऊर्ध्वमधो मध्ये त्रिधा योजयेत्| प्राणो रक्ष्य इति स्थाने एव यापनीयः | चतुर्भ्योऽपीत्यनेन इतरवातेभ्योऽस्यात्यर्थरक्षणीयतामाह| कुतोऽयं विशेषरक्षणीय इत्याह- स्थाने त्वस्य स्थितिर्ध्रुवेति; अस्य प्राणस्य, स्थाने सम्यगवस्थाने सति, स्थितिः जीवनरूपा, ध्रुवा निश्चिता||२१९-२२०||-

Adhikarana 44 (221-230) · Śloka 231

मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता||२२१|| छर्दनं च विदग्धस्य प्राणे पित्तसमावृते| ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः||२२२|| प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च| मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः||२२३|| ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते| आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः||२२४|| दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते| अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव च||२२५|| पित्तावृते समाने स्यादुपघातस्तथोष्मणः| अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च||२२६|| कफावृते समाने स्याद्गात्राणां चातिशीतता| व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः||२२७|| गात्रविक्षेपसङ्गश्च ससन्तापः सवेदनः| गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः||२२८|| व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः | हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः||२२९|| लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम्| भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्||२३०|| श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः|२३१|

🔊 Audio coming soon

प्राणादीनां पित्तेन कफेन तथा पित्तकफाभ्यां चावरणलक्षणान्याह- मूर्च्छा दाहो भ्रम इत्यादि| मूर्च्छाद्यानि मूर्च्छा दाह इत्यादिना प्रागुक्तानि| उपघातस्तथोष्मण इति अत्र पित्तेनाप्यावृते समाने अग्न्युत्तेजनाभावादूष्मण उपघातो ज्ञेयः| गात्रविक्षेपसङ्गः गात्रविक्षेपणोपरमः| रजस इति आर्तवस्य||२२१-२३०||-

Adhikarana 45 (231-235) · Śloka 236

लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च||२३१|| उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत्| यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ||२३२|| दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान्| आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च||२३३|| गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः| विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम्||२३४|| स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च| सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा||२३५|| उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः |२३६|

🔊 Audio coming soon

मिश्रमावरणमिति मिश्रितकफपित्तावरणम्| यथानिजानिति यथात्मीयान्| गरीयस्त्वेनेति अधिकत्वेन| एतद्गरीयस्त्वे हेतुमाह- विशेषादित्यादि| संश्रितमिति अधीनम्| अपरिज्ञाता इति याथातथ्येनाज्ञाताः| सम्यग्ज्ञाता अप्युपेक्षणाद्, याथातथ्येन ज्ञाता अपि परिसंवत्सरास्तथेति योजनीयम्||२३१-२३५||-

Adhikarana 46 (236-245) · Śloka 245

हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च||२३६|| भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्| तस्मादावरणं वैद्यः पवनस्योपलक्षयेत्||२३७|| पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा| भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत्||२३८|| अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः| कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्||२३९|| सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम्| यापना बस्तयः प्रायो मधुराः सानुवासनाः||२४०|| प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम्| रसायनानां सर्वेषामुपयोगः प्रशस्यते||२४१|| शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा| लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः||२४२|| अभयामलकीयोक्तमेकादशसिताशतम् | अपानेनावृते सर्वं दीपनं ग्राहि भेषजम्||२४३|| वातानुलोमनं यच्च पक्वाशयविशोधनम्| इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम्||२४४|| प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्| पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः| कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः||२४५||

🔊 Audio coming soon

हृद्रोगेत्यादिना उपद्रवानाह| पञ्चात्मकस्येति प्राणादिभेदेन पञ्चस्वरूपस्य| प्रसमीक्ष्येत्यादौ बलाधिक्ये सति स्रंसनं मृदु कर्तव्यमित्यभिप्रायः| अत्यर्थं प्रशस्यत इति सम्बन्धः| लेहं वा भार्गवप्रोक्तमिति च्यवनप्राशं, च्यवनो हि भार्गव उच्यते| उक्तं हि आयुर्वेदसमुत्थाने “भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः” (चि.अ.१पा.४) इति| वातस्यानुलोमनं चिकित्सितं कुर्यादिति नियोजनीयम्||२३६-२४५||

Adhikarana 47 (246) · Śloka 246

लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः| तथा शरीरे वातस्य पित्तस्य च कफस्य च||२४६||

🔊 Audio coming soon

वातादीनां दुर्विज्ञेयतां दृष्टान्तेन दर्शयति- लोक इत्यादि|||२४६||

Adhikarana 48 (247) · Śloka 247

क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक्| विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु||२४७||

🔊 Audio coming soon

क्षयमित्यादौ आवरणमपि क्षयवृद्धिसम्बन्धान्तर्निर्दिष्टमेव, तथाऽप्यावरणस्य विशेषलक्षणचिकित्सार्थं पृथगभिधानम्| कर्मस्विति चिकित्सासु||२४७||

Adhikarana 49 (248-249) · Śloka 249

तत्र श्लोकौ- पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः| प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च||२४८|| प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता| तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी||२४९||

🔊 Audio coming soon

पञ्चात्मन इत्यादिसङ्ग्रहे पञ्चात्मनः स्थानवशादिति च्छेदः| देहधातोरिति देहधारकरूपस्य वायोरविकृतस्येत्यर्थः| उक्तचिकित्साकरणापेक्षणीयं सङ्ग्रहेणाह- तामित्यादि| देशाद्यपेक्षा सूत्रस्थानेऽस्माभिर्विवृता देशादिभेदेन प्रतर्कणीया, विस्तरभीत्या तु न प्रपञ्च्यते||२४८-२४९||

Adhikarana puShpikA · Śloka 28

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः||२८||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः||२८||