Adhikarana 1 (1-2) · Śloka 2
अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
व्याधिरूपानन्तरं वेदनोपद्रवौ उद्दिष्टौ, तौ च पूर्वाध्याय एव “शूलाटोपान्त्रकूजाश्च” (इं.अ.५) इत्यादिना तथा अन्यत्र “आनाहश्चातिसारश्च” (इं.अ.६) इत्यादिना रिष्टरूपतया उक्तावेवेति कृत्वा छायाप्रतिच्छायारूपारिष्टस्य क्रमप्राप्तस्याभिधायकं पन्नरूपीयमुच्यते| पन्नरूपामधिकृत्य कृतं पन्नरूपीयम्||१-२||
Adhikarana 2 (3) · Śloka 3
दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्|
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम्||३||
पन्नरूपामिति नष्टरूपाम्| कुमारिकामिति पुरुषान्तरनयनगतां कुमारिकां; किंवा, आतुरनयनगतामेव| यदुक्तं हारीते- “अदर्शनमसङ्घाते नेत्रे नष्टकुमारिके” इति| प्रतिच्छायामयीमिति प्रतिच्छायारूपाम्||३||
Adhikarana 3 (4) · Śloka 4
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि|
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव सः||४||
अन्यत्रापि छायाविकृतिमाह- ज्योत्स्नेत्यादि| अङ्गेषु विकृतेति शिरोबाहुजङ्घादिषु छायाधिकरणभूतेषु भवन्ती प्रतिच्छाया यस्य विकृता भवतीत्यर्थः| तेन व्यस्तसमस्ताङ्गविकृताऽपि छाया गृह्यते| अन्ये तु- विभक्तिविपरिणामादङ्गानामिति व्याख्यानयन्ति; तथा च सुगम एवार्थः||४||
Adhikarana 4 (5-6) · Śloka 6
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा|
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||५||
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः|
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||६||
एतानेव छायाविकृतिभेदानाह- छिन्नेत्यादि| आकुलेति अनिश्चितप्रतिबिम्बा| विकृता विकृतानुकारिणी | यद्यप्यरिष्टाधिकारेऽनिमित्तमेव यद्भवति तदरिष्टमुक्तं, तथाऽपि पुनः स्पष्टार्थं ‘न चेल्लक्ष्यनिमित्तजाः’ इत्युक्तम्||५-६||
Adhikarana 5 (7) · Śloka 7
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा|
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||७||
सम्प्रति छायारूपं सामान्येन दर्शयञ्छायाश्रयारिष्टमाह- संस्थानेनेत्यादि| एतच्च छायाप्रतिच्छाययोः समानं सूत्रम्| तत्र संस्थानेन प्रमाणेन च प्रतिच्छायाः स्वरूपकथनं, तथा वर्णेन प्रभया च छायायाः स्वरूपकथनम्| तत्र संस्थानेन प्रमाणेन च सदृशी छाया प्रतिच्छाया ज्ञेया; वर्णेन प्रभया च लक्षिता वर्णप्रभाश्रयाऽग्रे वक्ष्यमाणा पञ्चविधा च्छाया ज्ञेया| अत्र यत्तदोर्नित्याभिसम्बन्धात् ‘सा’ इत्यध्याहार्यते| तेन संस्थानादिभिर्या छाया प्रतिच्छायारूपा, सा यस्य विवर्तते अन्यथा भवति, स प्रेत एवेति योजना||७||
Adhikarana 6 (8-9) · Śloka 9
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा|
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्||८||
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु|
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||९||
प्रतिच्छायाकारणभूते संस्थानप्रमाणे एव विवृणोति- संस्थानमित्यादि| आकृतिः आकारः| प्रतीत्यादि प्रतिच्छायाविवरणं, ‘छाया वर्णप्रभाश्रया’ इत्यादि तु छायाविवरणं भविष्यति| प्रतिप्रमाणसंस्थानेत्यत्र प्रति सादृश्ये; तेन प्रमाणसदृशी, संस्थानसदृशी च| प्रमाणसंस्थानसदृशतया जलादिषु या छाया, सा प्रतिच्छाया| छाया तु या पञ्चविधा सा वर्णप्रभाश्रया वर्णप्रभासहचरितोपलभ्यत इत्यर्थः||८-९||
Adhikarana 7 (10-13) · Śloka 13
खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः|
नाभसी निर्मला नीला सस्नेहा सप्रभेव च||१०||
रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा|
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया||११||
शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता|
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी||१२||
वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः |
वायवी तु विनाशाय क्लेशाय महतेऽपि वा||१३||
खादीनामित्यादिना छायां विभजते| सप्रभेति दीप्ताभा| वायवी गर्हितेति वायवी रिष्टाय प्रायो भवति| यस्य जन्मप्रभृति वायवी, स चापि प्रभूतक्लेशभाग्भवतीत्याह- वायवीत्यादि| विनाशायेति अकस्मादुत्पन्ना विनाशाय, सहजा तु वायवी क्लेशायेति ज्ञेयम्||१०-१३||
Adhikarana 8 (14-15) · Śloka 15
स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता|
रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता||१४||
तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः|
ताः शुभा रूक्षमलिनाः सङ्क्षिप्ताश्चाशुभोदयाः ||१५||
सम्प्रति छायाश्रयत्वेन वर्णभेद उक्तः, तत्र वर्णभेदास्तदरिष्टं च प्रथमाध्याय एवोक्तं; प्रभायास्तु भेदं रिष्टं चाह- स्यात्तैजसीत्यादि| प्रभा च यद्यपि प्रथमाध्याये सङ्ग्रहे नोक्ता; तथाऽपि तत्र च्छायाश्रयत्वेन वर्णभेदा उक्ताः, तत्र वर्णभेदास्तदरिष्टं च प्रथमाध्याये सङ्ग्रहेणोक्तं, छायाश्रयत्वेन तत्र प्रभाऽपि सूचितेति ज्ञेयम्| अशुभोदया इति अकस्मादुत्पादे मरणोदयाः, सहजोत्पादे तु बहुदुःखरूपा अशुभोदया इति ज्ञेयम्||१४-१५||
Adhikarana 9 (16-17) · Śloka 17
वर्णमाक्रामति च्छाया भास्तु वर्णप्रकाशिनी|
आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा प्रकाशते||१६||
नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु|
नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः||१७||
प्रभाच्छाययोर्दुर्लक्ष्यत्वेन भेदकं लक्षणमाह- वर्णमित्यादि| वर्णमाक्रामतीति छायाक्रान्तो वर्णो नोपलभ्यते सम्यक्| आसन्ना लक्ष्यते च्छाया, यथा- चित्रगता छाया प्रत्यासन्नैव लक्ष्यते| भाः प्रकृष्टा प्रकाशते; यथा- मणिमौक्तिकादीनां प्रभा दूरादुपलभ्यत इत्यर्थः| विशेषा इति छायाप्रभयोः शुभाशुभरूपविशेषाः| चिह्नयन्तीति गमयन्ति| काले इति परिपाककाले||१६-१७||
Adhikarana 10 (18-20) · Śloka 20
कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता|
सन्त्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत्||१८||
उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः|
मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थनः ||१९||
संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः|
व्यापन्ना ग्रहणी प्रायः सोऽर्धमासं न जीवति||२०||
कामलाऽक्ष्णोरिति कामलिन इव पीताक्षत्वम्| विकत्थन इति निन्दापरः| संसृष्टा इति परस्परसम्बद्धाः, किंवा संसृष्टदोषजन्याः| प्रतिलोमानुलोमगा इति अधोमार्गोर्ध्वमार्गगताः| व्यापन्ना ग्रहणीति च्छेदः; किंवा, व्यापन्ना ग्रहणी यस्य स ‘व्यापन्नग्रहणी’ इति पाठः| प्रायः सोऽर्धमासं न जीवतीति अनेनार्धमासमतिक्रम्यापि मरणं भवति, न तु मरणव्यभिचारः||१८-२०||
Adhikarana 11 (21-26) · Śloka 26
उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः|
बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत्||२१||
दुर्बलो बहु भुङ्क्ते यः प्राग्भुक्तादन्नमातुरः |
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः||२२||
इष्टं च गुणसम्पन्नमन्नमश्नाति यो नरः|
शश्वच्च बलवर्णाभ्यां हीयते न स जीवति||२३||
प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते|
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२४||
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः|
मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः||२५||
ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते|
हीनवर्णबलाहारो यो नरो न स जीवति||२६||
प्राग्भुक्तादिति यावदन्नं भुङ्क्ते स्म पूर्वदिनेषु ततो बहु भुङ्क्ते इत्यर्थः| इष्टमिति इष्टरसम्| गुणसम्पन्नमिति पथ्यम्| शिथिलमिति पूर्वेण सम्बध्यते, तेन श्लथ इव प्रकूजति| प्रश्वसितीति अन्तः श्वासं नयति| व्याविद्धमिति कुटिलम्||२१-२६||
Adhikarana 12 (27-32) · Śloka 32
ऊर्ध्वाग्रे नयने यस्य मन्ये चारतकम्पने|
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२७||
यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ|
शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति||२८||
व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते|
कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः||२९||
शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्|
अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम्||३०||
निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव दृश्यते|
क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत्||३१||
तत्र श्लोकः- इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान्|
आयुर्वेदविदित्याख्यां लभते कुशलो जनः||३२||
ऊर्ध्वाग्रे इति ऊर्ध्वमुखे| आरतकम्पने अविश्रान्तकम्पने| उत्सिक्तमिति अन्तःप्रविष्टम्| अतश्चैव विपर्यास इति शेफोऽतिनिःसृतं, वृषणौ चातिप्रविष्टौ| विकृत्येति स्वभावं विना; तेन स्वभावोत्सिक्तशेफादि न रिष्टं, किन्त्वनिमित्तं कादाचित्कं सदेव रिष्टम्| निचितमिति क्षीणं, निशब्दस्य प्रतिषेधार्थत्वात्| एवं च तथा मांसं क्षीणं भवति, यथा त्वगस्थिष्वेव लग्ना दृश्यते; किंवा निचितमुपचितं मांसं स्यात्, त्वगस्थिष्वेव दृश्यते त्वगस्थिमात्रावशेषो वा भवतीति यावत्||२७-३२||
Adhikarana puShpikA · Śloka 7
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्यायः||७||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्यायः||७||