Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. pannarūpīyamindriyam

Adhikarana 1 (1-2) · Śloka 2

अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्| प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम्||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि| अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव सः||४||

🔊 Audio coming soon

Adhikarana 4 (5-6) · Śloka 6

छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा| नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||५|| एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः| सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||६||

🔊 Audio coming soon

Adhikarana 5 (7) · Śloka 7

संस्थानेन प्रमाणेन वर्णेन प्रभया तथा| छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||७||

🔊 Audio coming soon

Adhikarana 6 (8-9) · Śloka 9

संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा| मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्||८|| प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु| छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||९||

🔊 Audio coming soon

Adhikarana 7 (10-13) · Śloka 13

खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः| नाभसी निर्मला नीला सस्नेहा सप्रभेव च||१०|| रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा| विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया||११|| शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता| स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी||१२|| वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः | वायवी तु विनाशाय क्लेशाय महतेऽपि वा||१३||

🔊 Audio coming soon

Adhikarana 8 (14-15) · Śloka 15

स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता| रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता||१४|| तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः| ताः शुभा रूक्षमलिनाः सङ्क्षिप्ताश्चाशुभोदयाः ||१५||

🔊 Audio coming soon

Adhikarana 9 (16-17) · Śloka 17

वर्णमाक्रामति च्छाया भास्तु वर्णप्रकाशिनी| आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा प्रकाशते||१६|| नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु| नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः||१७||

🔊 Audio coming soon

Adhikarana 10 (18-20) · Śloka 20

कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता| सन्त्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत्||१८|| उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः| मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थनः ||१९|| संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः| व्यापन्ना ग्रहणी प्रायः सोऽर्धमासं न जीवति||२०||

🔊 Audio coming soon

Adhikarana 11 (21-26) · Śloka 26

उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः| बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत्||२१|| दुर्बलो बहु भुङ्क्ते यः प्राग्भुक्तादन्नमातुरः | अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः||२२|| इष्टं च गुणसम्पन्नमन्नमश्नाति यो नरः| शश्वच्च बलवर्णाभ्यां हीयते न स जीवति||२३|| प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते| बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२४|| ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः| मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः||२५|| ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते| हीनवर्णबलाहारो यो नरो न स जीवति||२६||

🔊 Audio coming soon

Adhikarana 12 (27-32) · Śloka 32

ऊर्ध्वाग्रे नयने यस्य मन्ये चारतकम्पने| बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२७|| यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ| शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति||२८|| व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते| कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः||२९|| शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्| अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम्||३०|| निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव दृश्यते| क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत्||३१|| तत्र श्लोकः- इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान्| आयुर्वेदविदित्याख्यां लभते कुशलो जनः||३२||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 7

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon