Adhikarana 1 (1-2) · Śloka 2
अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सम्प्रति पूर्वरूपीयानन्तरं भाविव्याध्याश्रयारिष्टाभिधानार्थं कतमानिशरीरीयमिन्द्रियमुच्यते| कतमानि शरीराण्यधिकृत्य कृतं कतमानिशरीरीयम्||१-२||
Adhikarana 2 (3-6) · Śloka 6
कतमानि शरीराणि व्याधिमन्ति महामुने!|
यानि वैद्यः परिहरेद्येषु कर्म न सिद्ध्यति||३||
इत्यात्रेयोऽग्निवेशेन प्रश्नं पृष्टः सुदुर्वचम्|
आचचक्षे यथा तस्मै भगवांस्तन्निबोधत||४||
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्|
अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||
बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते|
जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||
प्रश्नमिति पृच्छाविषयम्| ऊर्ध्वमुर इति उरऊर्ध्वभाग इत्यर्थः| एतदध्यायप्रतिपाद्यानां चासाध्यव्याधीनां मरणसूचकेन रिष्टेन समं मरणसूचकतया साधर्म्यादनरिष्टानामपि व्याधीनामभिधानमिति ब्रुवते| यदि एत एवासाध्यव्याधयो मरणपूर्वरूपतया रिष्टरूपा एव भवन्ति तथाऽपि न काचित् क्षतिः| तेनारिष्टाधिकारादरिष्टत्वमेव एतदध्यायवाच्यानां व्याधीनामिच्छामः||३-६||
Adhikarana 3 (7-10) · Śloka 10
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते|
न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्|
व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्|
विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९||
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः|
बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
गम्भीरजा इति गम्भीरनाभ्यादिदेशजा, न तु गम्भीरा; तस्याः स्वरूपत एवासाध्यत्वेनोक्तत्वात् ‘शोणितं चातिसार्यते’ इति विशेषणमनर्थकं स्यात्| व्याधितमित्यनेन हि आनाहातिसारातिरिक्तव्याधिगृहीतमिति दर्शयति| आनाहातिसारयो रोगत्वे सिद्धेऽपि ‘रोगौ’ इति विशेषेण रुजाकर्तृत्वोपदर्शनार्थम्| इहालभ्य एव जीविते ‘दुर्लभम्’ इत्युक्तं; यथा- सर्वथाऽलभ्ये दुर्लभमिति| अन्ये तु दुर्लभभाषया अनियतं मरणे रिष्टमिति ब्रुवते, एवम् “संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते” (इं.अ.९) इत्यादावपि व्याख्यानयन्ति| अनियतरिष्टताऽस्वारस्यं त्वस्माभिः पुष्पितक एवोक्तम्| “संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते” इत्यस्य चार्थं यस्यश्यावनिमित्तीये वक्ष्यामः||७-१०||
Adhikarana 4 (11-14) · Śloka 14
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते|
निरूष्मणो जठरिणः श्वसनो न स जीवति||११||
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति|
ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके|
सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत्||१३||
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्|
हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
मूत्रं ग्रथितमिति घनीभूतं ज्ञेयम्| ज्ञातिसङ्घं स सङ्क्लेश्येतिवचनेन चिरमस्य रोगोऽनुवर्तते, ततः प्रत्याशया ज्ञातयस्तत्प्रतीकारार्थं क्लिश्यन्ति, ततस्तु म्रियत एव न प्रतिकर्तुं पार्यते| पिण्डिके इति जङ्घामांसपिण्डिके||११-१४||
Adhikarana 5 (15-19) · Śloka 19
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः|
सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः |
क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः |
कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७||
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये|
दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८||
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः|
डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
उरोयु(मु)क्त इति उरःप्रभवत्वेनानुमीयमानः| कष्टाभिलक्षिता इति दुरुपक्रमत्वेन ज्ञाताः| किंवा ‘कोष्ठा(ष्ठेऽ)भिलक्षिता’ इति पाठः, स व्यक्त एव| डम्बरी स्तब्धाक्षावलोकी; किंवा डम्बरी संरम्भवान्| कुपित उच्छ्वासो यस्य स कुपितोच्छ्वासः||१५-१९||
Adhikarana 6 (20) · Śloka 20
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया|
प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
प्राणाश्चोरसि वर्तन्त इति वायव उरसि प्रकुपिता वहन्ति ; यदि तु जीवितं प्राणा इहोच्यन्ते, तदा तस्योरसि वर्तन्ते, मृत एव पुरुषो भवति, ततश्च तस्मिन् काले रिष्टेनासाध्यतां ज्ञात्वा रोगिपरित्यागे वैद्यस्याप्रसिद्धिर्भवत्येवेति कृत्वा प्राणा वायव इहोच्यन्ते इति ब्रुवते; वयं तु ब्रूमः- सद्योमरणीयारिष्टवदेतत् प्रत्यासन्नमृत्युगमकमेव भविष्यतीति||२०||
Adhikarana 7 (21-25) · Śloka 25
ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति|
क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः||२१||
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्|
वर्धन्ते दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२||
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम् |
एतानि यस्य क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते||२३||
आरोग्यं हीयते यस्य प्रकृतिः परिहीयते|
सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४||
तत्र श्लोकः- इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्|
न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्||२५||
आयच्छते अङ्गानि क्षिपति| विरुद्धयोनय इति परस्परविरुद्धधर्माणः | विरुद्धयोनयोऽपि स्वल्पतयैकदूष्यतया वा अविरुद्धोपक्रमा अपि भवन्तीत्यत उक्तं- विरुद्धोपक्रमा इति| आरोग्यं हीयत इति अत्रोक्तरोगव्यतिरिक्तरोगवृद्ध्या आरोग्यहानिर्बोध्या| प्रकृतिः परिहीयत इति स्वभावः सुशीलत्वादिरूपः क्षीयते; किंवा, प्रकृतिर्जन्मप्रतिबद्धा श्लेष्मप्रकृत्यादिरूपा हीयते||२१-२५||
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानिशरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः||६||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने कतमानिशरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः||६||