Adhikarana 1 (1-3) · Śloka 3
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक्|
लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत||३||
इन्द्रियार्थानुगतरिष्टपारिशेष्यात् स्पर्शगतरिष्टाभिधायकं परिमर्शनीयमिन्द्रियमुच्यते; इममेव चाध्यायसम्बन्धं दर्शयन्नाह- वर्णे स्वरे चेत्यादि||१-३||
Adhikarana 2 (4) · Śloka 4
स्पर्शप्राधान्येनैवातुरस्यायुषः प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वाऽन्येन|
परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति|
तद्यथा- सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभावः, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं, सतामसद्भावः , सन्धीनां स्रंसभ्रंशच्यवनानि; मांसशोणितयोर्वीतीभावः, दारुणत्वं, स्वेदानुबन्धः, स्तम्भो वा; यच्चान्यदपि किञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात्|
इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन||४||
स्पर्शेनेति वक्तव्ये यत् ‘स्पर्शप्राधान्येन’ इति करोति, तेन अस्पर्शग्राह्यमपि चक्षुर्लोहितत्वादि रिष्टमिह स्पर्शपरीक्ष्यमध्ये ओघादायातं वक्तव्यमिति दर्शयति| प्रकृतिस्थेनेति नात्युष्णशीतेन| केवलमिति कृत्स्नम्| गुरुदारादेः स्वयं स्पर्शो यदा न युज्यते तदा कर्तव्यमाह- परिमर्शयेद्वाऽन्येनेति| सतामसद्भाव इति अत्र च वृष्णादीनां सतामिति ज्ञेयं, स्थूलावयवानां रिष्टेऽप्यभावदर्शनात्| स्रंसः मनाग्गमनं, भ्रंशस्तु सुदूराधोगमनं, धावनं तु पार्श्वतो गमनम्| वीतीभावः अतिक्षीणत्वम्| लक्षणमिति मरणलक्षणम्| समासेनेति च्छेदः||४||
Adhikarana 3 (5-6) · Śloka 6
तद्व्यासतोऽनुव्याख्यास्यामः- तस्य चेत् परिमृश्यमानं पृथक्त्वेन पादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं दारुणं वीतमांसशोणितं वा स्यात्, परासुरयं पुरुषो न चिरात् कालं मरिष्यतीति विद्यात्|
तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्कन्नानि वा स्युः, परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति विद्यात्||५||
तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत्|
तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्, परासुरिति विद्यात्|
तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात्|
तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्|
तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्|
तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते- अत्युत्पिण्डिते, अतिप्रविष्टे, अतिजिह्मे, अतिविषमे, अतिमुक्तबन्धने, अतिप्रस्रुते, सततोन्मिषिते, सततनिमिषिते, निमिषोन्मेषातिप्रवृत्ते, विभ्रान्तदृष्टिके, विपरीतदृष्टिके, हीनदृष्टिके, व्यस्तदृष्टिके , नकुलान्धे, कपोतान्धे, अलातवर्णे, कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा स्यातां, तदा परासुरिति विद्यात्|
अथास्य केशलोमान्यायच्छेत्, तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात्|
तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः, परासुरिति विद्यात्|
तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः, परासुरिति विद्यात्|
अथास्याङ्गुलीरायच्छेत्; तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः, परासुरिति विद्यात्||६||
पृष्ठेषिका पृष्ठवंशः| पृथक्त्वेनेति एकैकश्येन| मणिकः करबाहुसन्धिः| मन्ये गलपार्श्वगते धमन्यौ| उच्छ्वासदैर्घ्यह्रासौ नासाग्रदत्तकरस्पर्शादुपलभ्येते| परिकीर्णा इति मललिप्ताः| दन्तादिश्वेतत्वं चक्षुर्ग्राह्यमपि स्पर्शपरीक्षणीयदन्तधर्मप्रस्तावादुच्यते| चक्षुषी प्रकृतिहीने विकृतियुक्ते इति सामान्यवचनं; तस्य विवरणम्- अत्युत्पिण्डिते इत्यादि| अत्युत्पिण्डिते इति अत्यर्थनिर्गते | अतिजिह्मे अतिकुटिले| अतिविषमे इति एकं संवृतम्, अपरं विस्तृतमिति| निमेषोन्मेषक्रियायामत्यर्थं प्रवर्तेते इति निमेषोन्मेषातिप्रवृत्ते| विपरीतदृष्टिके इति केयूरदृष्टिके; किंवा विपरीतदृष्टिके अन्यथाग्राहिणी| हीनदृष्टिके अदूरदर्शिनी, नष्टदृष्टिके वा| नकुलान्धकपोतान्धलक्षणे ग्रन्थः- “नकुलान्धस्तु रूपाणि दिवा शुक्लानि पश्यति| कपोतान्धस्तु रूपाणि दिवा कृष्णानि पश्यति” इति| अलातस्तु तप्ताङ्गारः| इह चक्षुर्गतारिष्टाभिधानप्रस्तावादस्पर्शग्राह्ममपि चक्षुषोरलातवर्णत्वादिकमुच्यते| उदरानुगताः सिरास्त्विह स्पर्शनग्राह्या भवन्तीति उक्ताः; तत्प्रसङ्गाच्चक्षुर्ग्राह्याः सिरावर्णा अप्युक्ताः| आयच्छेदिति स्फोटयेत्| नखाङ्गुलिगतारिष्टपरीक्षायां तु स्पर्शोऽपि व्याप्रियत एवेति कृत्वा तदरिष्टमपीहोक्तम्||५-६||
Adhikarana 4 (7) · Śloka 7
तत्र श्लोकः- एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते|
आतुरे न स सम्मोहमायुर्ज्ञानस्य गच्छति||७||
एतान् स्पृश्यानिति बाहुल्यादुक्तम्; एवं स्पृशन्नित्येतदपि बाहुल्यादुक्तम्| ‘आयुर्ज्ञानस्येति’ पाठपक्षे षष्ठी सम्बन्धविवक्षायाम्||७||
Adhikarana puShpikA · Śloka 3
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयोऽध्यायः||३||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयोऽध्यायः||३||