Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. parimarśanīyamindriyam

Adhikarana 1 (1-3) · Śloka 3

अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक्| लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत||३||

🔊 Audio coming soon

Adhikarana 2 (4) · Śloka 4

स्पर्शप्राधान्येनैवातुरस्यायुषः प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वाऽन्येन| परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति| तद्यथा- सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभावः, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं, सतामसद्भावः , सन्धीनां स्रंसभ्रंशच्यवनानि; मांसशोणितयोर्वीतीभावः, दारुणत्वं, स्वेदानुबन्धः, स्तम्भो वा; यच्चान्यदपि किञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात्| इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन||४||

🔊 Audio coming soon

Adhikarana 3 (5-6) · Śloka 6

तद्व्यासतोऽनुव्याख्यास्यामः- तस्य चेत् परिमृश्यमानं पृथक्त्वेन पादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं दारुणं वीतमांसशोणितं वा स्यात्, परासुरयं पुरुषो न चिरात् कालं मरिष्यतीति विद्यात्| तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्कन्नानि वा स्युः, परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति विद्यात्||५|| तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत्| तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्, परासुरिति विद्यात्| तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात्| तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्| तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्| तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते- अत्युत्पिण्डिते, अतिप्रविष्टे, अतिजिह्मे, अतिविषमे, अतिमुक्तबन्धने, अतिप्रस्रुते, सततोन्मिषिते, सततनिमिषिते, निमिषोन्मेषातिप्रवृत्ते, विभ्रान्तदृष्टिके, विपरीतदृष्टिके, हीनदृष्टिके, व्यस्तदृष्टिके , नकुलान्धे, कपोतान्धे, अलातवर्णे, कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा स्यातां, तदा परासुरिति विद्यात्| अथास्य केशलोमान्यायच्छेत्, तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात्| तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः, परासुरिति विद्यात्| तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः, परासुरिति विद्यात्| अथास्याङ्गुलीरायच्छेत्; तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः, परासुरिति विद्यात्||६||

🔊 Audio coming soon

Adhikarana 4 (7) · Śloka 7

तत्र श्लोकः- एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते| आतुरे न स सम्मोहमायुर्ज्ञानस्य गच्छति||७||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon