Adhikarana 1 (1-2) · Śloka 2
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इन्द्रियगतरिष्टमभिधाय सत्त्वादीनामग्रे सूचितानामरिष्टमग्रे वक्तुं युज्यते; तत्त्वल्पवक्तव्यत्वादुल्लङ्घ्य बहुवक्तव्यं पूर्वरूपरिष्टमभिधातुं पूर्वरूपीयोऽभिधीयते, प्रथमाध्याये तु सत्त्वादीनामग्रेऽभिधानमिन्द्रियैः समं बुद्धिसाधनत्वादिप्रसङ्गागतं ज्ञेयम्| व्याधिस्तु यद्यपि बहुवक्तव्यः कतमानिशरीरीयेऽग्रे सूत्रितश्च, तथाऽपि पूर्वरूपपूर्वकत्वाद् व्याधेः पूर्वं पूर्वरूपनिरूपणमिह; सूत्रे त्वग्रे व्याधिवचनेन पूर्वं रूपाद् व्याधेः पूर्वरूपबोध्यस्य प्राधान्यं दर्शयति||१-२||
Adhikarana 2 (3-5) · Śloka 5
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्|
भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये||३||
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया|
यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||४||
अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्|
विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्||५||
भिन्नाभिन्नानीति साधारणासाधारणानि| तत्र ‘पूर्वरूपाणि’ इत्यादिना ‘तस्यापि मरणं ध्रुवम्’ इत्यन्तेन सर्वव्याधिपूर्वरूपरिष्टं साधारणमुक्तं, ‘पूर्वरूपैकदेशांस्तु’ इत्यादिना तु प्रतिव्याधिभिन्नपूवरूपारिष्टमुच्यते| अन्ये तु भिन्नाभिन्नानीति उक्तानुक्तानीति ब्रुवते; तत्र ज्वरादिपूर्वरूपाण्युक्तानि, ‘श्वभिरुष्ट्रैः खरैः’ इत्यादि तु पूर्वरूपमनुक्तम्| सर्वाणीति समस्तानि| अतिमात्रयेति अत्युल्बणत्वेन| ज्वरपुरःसर इति ज्वरानन्तरभावी| अनेन कल्पेनेत्यनेन सर्वाणि चातिमात्रया चेति दर्शयति||३-५||
Adhikarana 3 (6-9) · Śloka 9
पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान् सुदारुणान्|
ये रोगाननुबध्नन्ति मृत्युर्यैरनुबध्यते ||६||
बलं च हीयते यस्य प्रतिश्यायश्च वर्धते|
तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते||७||
श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम्|
स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति||८||
प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना|
सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति||९||
रोगाननुबध्नन्तीति रोगेण पश्चाद्भाविनाऽवश्यं युज्यन्ते| मृत्युर्यैरनुबध्यते इति यै रोगैर्मृत्युरनुबध्यते| एतेनैतत् फलति- पूर्वरूपाणां यैर्व्याधिभिर्नियतः सम्बन्धस्तेऽवश्यं मारका भवन्तीत्यर्थः| “श्वोष्ट्रवराहखरैर्यानं” (नि.अ.६) इत्यादि शोषनिदानेऽप्युक्तं, तेन दक्षिणदिशागमनविशेषितमेव तद्रिष्टम्||६-९||
Adhikarana 4 (10-11) · Śloka 11
लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात्|
स रक्तपित्तमासाद्य तेनैवान्ताय नीयते||१०||
रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन्|
यः स्वप्ने ह्रियते नार्या स रक्तं प्राप्य सीदति||११||
अन्तिकादिति समीपात्| रक्तं प्राप्येति रक्तपित्तं प्राप्य| सीदति म्रियते||१०-११||
Adhikarana 5 (12-13) · Śloka 13
शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया|
नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः||१२||
लता कण्टकिनी यस्य दारुणा हृदि जायते|
स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम्||१३||
आटोपः कुक्षौ शब्दवद्वातभ्रमणम्| गृह्यते अनेनेति ग्रहो लिङ्गमित्यर्थः||१२-१३||
Adhikarana 6 (14-15) · Śloka 15
कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते|
क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम्||१४||
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्|
पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः||१५||
संस्पृष्टमिति शस्त्रतृणादिसंस्पृष्टम्||१४-१५||
Adhikarana 7 (16-17) · Śloka 17
स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्नन्ति मक्षिकाः|
स प्रमेहेण संस्पर्शं प्राप्य तेनैव हन्यते||१६||
स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्|
बध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः||१७||
यद्यपि स्नातानुलिप्तगात्रे इत्यादिरिष्टं पुष्पितके “अपिस्नातानुलिप्तस्य” (इं.अ.२) इत्यादिनोक्तं, तथाऽपीह प्रमेहेण मरणोपदर्शनार्थं पुनरुच्यते| तत्र च यदा प्रमेहपूर्वरूपान्तराणि भवन्ति, एतच्च लक्षणं भवति, तदा प्रमेहेण मृत्युः; यदा तु प्रमेहपूर्वरूपाणि न भवन्ति, तदा येन केनापि व्याधिना मृत्युर्ज्ञेयः||१६-१७||
Adhikarana 8 (18-23) · Śloka 23
ध्यानायासौ तथोद्वेगौ मोहश्चास्थानसम्भवः|
अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः||१८||
आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्|
विद्याद्धीरो मुमूर्षुं तमुन्मादेनातिपातिना||१९||
क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्|
मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम्||२०||
नृत्यन् रक्षोगणैः साकं यः स्वप्नेऽम्भसि सीदति |
स प्राप्य भृशमुन्मादं याति लोकमतः परम्||२१||
असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्|
बहून् बहुविधान् जाग्रत् सोऽपस्मारेण बध्यते||२२||
मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्|
स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः||२३||
उदर्दितमिति उदर्दयुक्तं; यद्वा, उदर्दितम् ऊर्ध्ववातार्दितम्| आविध्येति अधःशिरसं कृत्वा||१८-२३||
Adhikarana 9 (24-25) · Śloka 25
स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाऽक्षिणी|
यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम्||२४||
शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः|
स चेत्तादृक् छर्दयति प्रतिबुद्धो न जीवति||२५||
तादृगिति अपूपशष्कुलीरूपम्||२४-२५||
Adhikarana 10 (26) · Śloka 26
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते|
स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||
एषामनुबन्धमिति एतत्पूर्वरूपोत्तरकालभाविनं व्याधिम्| फलं चैषां मृत्युरूपम्||२६||
Adhikarana 11 (27-40) · Śloka 40
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्|
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७||
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः|
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः||२८||
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते|
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः ||२९||
वंशवेत्रलतापाशतृणकण्टकसङ्कटे|
संसज्जति हि यः स्वप्ने यो गच्छन् प्रपतत्यपि||३०||
भूमौ पांशूपधानायां वल्मीके वाऽथ भस्मनि|
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि ||३१||
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते|
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते च यः||३२||
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने|
हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३||
उपानद्युगनाशश्च प्रपातः पादचर्मणोः|
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४||
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम् |
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा||३५||
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्|
गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि||३६||
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्|
दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७||
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्|
कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८||
कृष्णा पापा निराचारा दीर्घकेशनखस्तनी|
विरागमाल्यवसना स्वप्ने कालनिशा मता||३९||
इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्|
अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०||
क्लेशाय महतेऽपि वेत्यत्रारोगिणां क्लेशाय महत इति बोद्धव्यं, रोगिणां तु मरणायैव; यत उत्तरत्रोपसंहारे ‘इत्येते दारुणाः स्वप्नाः’ इत्यादौ यथोक्तमेव विभागं करिष्यति| वयांसीति पक्षिणः| गृध्रादिकाकान्तैः परिवार्यत इति सम्बन्धः| संसज्जतीति संयुक्तो भवति| किंवा, ‘प्रमुह्यति’ इति पाठः; तत्र प्रमुह्यतीति वंशादिसङ्कटे लग्नः सन्न निर्गममार्गमासादयति| प्रपतत्यपीति भूमावित्यादिना योज्यम्| पांशूपधानायामिति धूलिसंयुक्तायाम्| किंवा, भूमावित्यादि प्रपततीत्यनेन योज्यम्| उपानत् पादत्राणम्| रक्तपुष्पमिति वनविशेषणम्| गुहान्धकारसम्बाधमिति गुहान्धकाररूपं कष्टकारकम्| दिग्वासा नग्नः सन्| कपियुक्तेन ‘यानेन’ इति शेषः| कश्चिदेव प्रमुच्यत इति अरोगान् प्रति नैतत् स्वप्नानां रिष्टत्वं; तेन, अरोगेष्वेतेषां मरणव्यभिचारेण नैकान्तत्वेन रिष्टत्वमिति वदन्ति||२७-४०||
Adhikarana 12 (41-42) · Śloka 42
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः|
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१||
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा|
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२||
यथैतत् स्वप्नदर्शनं भवति तदाह- मनोवहानामित्यादि| मनोवहानि स्रोतांसि यद्यपि पृथङ्नोक्तानि, तथाऽपि मनसः “केवलं चेतनावच्छरीरमयनभूतं” (वि.अ.५) इत्यभिधानात् सर्वशरीरस्रोतांसि गृह्यन्ते, विशेषेण तु हृदयाश्रितत्वान्मनसस्तदाश्रिता दश धमन्यो मनोवहा अभिधीयन्ते| त्रिभिरिति त्रिभिरपीत्यर्थः; तेन, पृथगपि दोषैः पूरणं ज्ञेयम्| नातिप्रसुप्त इति नातिनिद्राभिभूत इत्यर्थः| इन्द्रियेशेनेति इन्द्रियप्रेरकेण||४१-४२||
Adhikarana 13 (43) · Śloka 43
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा|
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३||
स्वप्नानां फलवत्त्वमफलवत्त्वं चोक्तं, तद्दर्शयितुं स्वप्नप्रकारानाह- दृष्टमित्यादि| दृष्टमिति चक्षुषा| अनुभूतं तु शेषेन्द्रियज्ञातम्| कल्पितमिति मनसा भावितम्| प्रार्थितं याञ्चाविषयीकृतम्| भाविकमिति भाविशुभाशुभफलसूचकम्| दोषजमिति उल्बणवातादिदोषजन्यम्||४३||
Adhikarana 14 (44-47) · Śloka 47
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्|
दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान्||४४||
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो भवेत्|
न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५||
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः|
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६||
तत्र श्लोकः- पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्|
न स मोहादसाध्येषु कर्माण्यारभते भिषक्||४७||
पूर्वं दृष्टादिकल्पितान्तं पञ्चविधस्वप्नमफलम्| अफलस्वप्नान्तरमाह- दिवास्वप्नमित्यादि| दिवादृष्टं सर्वं स्वप्नं, तथा रात्रिदृष्टमपि अतिदीर्घमतिह्रस्वं च स्वप्नमफलं विद्यात्, फलशून्यत्वादिति| पारिशेष्याद्भाविकं दोषजन्यं च सफलम्| तत्र भाविकं शुभाशुभरूपतया शुभाशुभफलप्रदं, यत्तु दोषजन्यं तद्दोषप्रकोपजन्यव्याधिरूपफलसूचकतया सफलम्| अत्र चाध्याये येषामेव स्वप्नरूपविशिष्टरिष्टसम्भवस्त एवोक्ताः; तेन ग्रहण्यादीनां किमिति स्वप्नारिष्टानि, नोक्तानीति न वाच्यं; तत्र विशिष्टरिष्टासम्भवादेवानभिधानं ज्ञेयम्| ‘दृष्टः प्रथमयामे यः’ इत्यादिग्रन्थं केचिदत्र पठन्ति| स व्यक्तार्थ एव||४४-४७||
Adhikarana puShpikA · Śloka 5
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमोऽध्यायः||५||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमोऽध्यायः||५||