Adhikarana 1 (1-2) · Śloka 2
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-5) · Śloka 5
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्| भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये||३|| पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||४|| अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्| विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्||५||
🔊 Audio coming soon
Adhikarana 3 (6-9) · Śloka 9
पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान् सुदारुणान्| ये रोगाननुबध्नन्ति मृत्युर्यैरनुबध्यते ||६|| बलं च हीयते यस्य प्रतिश्यायश्च वर्धते| तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते||७|| श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम्| स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति||८|| प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना| सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति||९||
🔊 Audio coming soon
Adhikarana 4 (10-11) · Śloka 11
लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात्| स रक्तपित्तमासाद्य तेनैवान्ताय नीयते||१०|| रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन्| यः स्वप्ने ह्रियते नार्या स रक्तं प्राप्य सीदति||११||
🔊 Audio coming soon
Adhikarana 5 (12-13) · Śloka 13
शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया| नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः||१२|| लता कण्टकिनी यस्य दारुणा हृदि जायते| स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम्||१३||
🔊 Audio coming soon
Adhikarana 6 (14-15) · Śloka 15
कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते| क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम्||१४|| नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्| पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः||१५||
🔊 Audio coming soon
Adhikarana 7 (16-17) · Śloka 17
स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्नन्ति मक्षिकाः| स प्रमेहेण संस्पर्शं प्राप्य तेनैव हन्यते||१६|| स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्| बध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः||१७||
🔊 Audio coming soon
Adhikarana 8 (18-23) · Śloka 23
ध्यानायासौ तथोद्वेगौ मोहश्चास्थानसम्भवः| अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः||१८|| आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्| विद्याद्धीरो मुमूर्षुं तमुन्मादेनातिपातिना||१९|| क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्| मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम्||२०|| नृत्यन् रक्षोगणैः साकं यः स्वप्नेऽम्भसि सीदति | स प्राप्य भृशमुन्मादं याति लोकमतः परम्||२१|| असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्| बहून् बहुविधान् जाग्रत् सोऽपस्मारेण बध्यते||२२|| मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्| स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः||२३||
🔊 Audio coming soon
Adhikarana 9 (24-25) · Śloka 25
स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाऽक्षिणी| यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम्||२४|| शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः| स चेत्तादृक् छर्दयति प्रतिबुद्धो न जीवति||२५||
🔊 Audio coming soon
Adhikarana 10 (26) · Śloka 26
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते| स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||
🔊 Audio coming soon
Adhikarana 11 (27-40) · Śloka 40
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्| व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७|| यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः| वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः||२८|| गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते| रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः ||२९|| वंशवेत्रलतापाशतृणकण्टकसङ्कटे| संसज्जति हि यः स्वप्ने यो गच्छन् प्रपतत्यपि||३०|| भूमौ पांशूपधानायां वल्मीके वाऽथ भस्मनि| श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि ||३१|| कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते| स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते च यः||३२|| स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने| हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३|| उपानद्युगनाशश्च प्रपातः पादचर्मणोः| हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४|| दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम् | पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा||३५|| रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्| गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि||३६|| रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्| दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७|| काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्| कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८|| कृष्णा पापा निराचारा दीर्घकेशनखस्तनी| विरागमाल्यवसना स्वप्ने कालनिशा मता||३९|| इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्| अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०||
🔊 Audio coming soon
Adhikarana 12 (41-42) · Śloka 42
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः| स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१|| नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा| इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२||
🔊 Audio coming soon
Adhikarana 13 (43) · Śloka 43
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा| भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३||
🔊 Audio coming soon
Adhikarana 14 (44-47) · Śloka 47
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्| दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान्||४४|| दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो भवेत्| न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५|| अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः| पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६|| तत्र श्लोकः- पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्| न स मोहादसाध्येषु कर्माण्यारभते भिषक्||४७||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 5
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon