Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. caturaṅgulakalpaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः| प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः||३||

🔊 Audio coming soon

Adhikarana 3 (4-5) · Śloka 5

ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु| राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः||४|| बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे| योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः||५||

🔊 Audio coming soon

Adhikarana 4 (6-7) · Śloka 7

फलकाले फलं तस्य ग्राह्यं परिणतं च यत्| तेषं गुणवतां भारं सिकतासु निधापयेत्||६|| सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक्| ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्||७||

🔊 Audio coming soon

Adhikarana 5 (8) · Śloka 9

द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते| चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके||८|| चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाऽथवाऽञ्जलिम्|९|

🔊 Audio coming soon

Adhikarana 6 (9-10) · Śloka 10

सुरामण्डेन संयुक्तमथवा कोलसीधुना||९|| दधिमण्डेन वा युक्तं रसेनामलकस्य वा| कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा||१०||

🔊 Audio coming soon

Adhikarana 7 (11) · Śloka 11

त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेत्| तथा बिल्वकषायेण लवणक्षौद्रसंयुतम्||११||

🔊 Audio coming soon

Adhikarana 8 (12) · Śloka 12

कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्| साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम्||१२||

🔊 Audio coming soon

Adhikarana 9 (13) · Śloka 13

चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्| मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत्||१३||

🔊 Audio coming soon

Adhikarana 10 (14) · Śloka 14

तदेव दशमूलस्य कुलत्थानां यवस्य च| कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत्||१४||

🔊 Audio coming soon

Adhikarana 11 (15) · Śloka 15

दन्तीक्वाथेऽञ्जलिं मज्ज्ञाः शम्पाकस्य गुडस्य च| दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च||१५||

🔊 Audio coming soon

Adhikarana 12 (16) · Śloka 16

यस्य यत् पानमन्नं च हृद्यं स्वाद्वथ वा कटु| लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम्||१६||

🔊 Audio coming soon

Adhikarana 13 (17-18) · Śloka 18

तत्र श्लोकाः द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे| सौवीरके कषाये च त्रिवृतो बिल्वकस्य च||१७|| लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिताः| चतुरङ्गुलकल्पेऽस्मिन् सुकुमाराः सुखोदयाः||१८||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 8

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने चतुरङ्गुलकल्पो नामाष्टमोऽध्यायः||८||

🔊 Audio coming soon