Adhikarana 1 (1-2) · Śloka 2
अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
श्यामात्रिवृत्कल्पानन्तरं मृदुविरेचनत्वसामान्याच्चतुरङ्गुलकल्पोऽभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
श्यामात्रिवृत्कल्पानन्तरं मृदुविरेचनत्वसामान्याच्चतुरङ्गुलकल्पोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः| प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः||३||
🔊 Audio coming soon
व्यवहारार्थं पर्यायानाह- आरग्वध इत्यादि||३||
Adhikarana 3 (4-5) · Śloka 5
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु| राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः||४|| बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे| योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः||५||
🔊 Audio coming soon
अधिकं पथ्य इति ज्वरादिषु विशेषेण विरेचनप्रयोगे हितः||४-५||
Adhikarana 4 (6-7) · Śloka 7
फलकाले फलं तस्य ग्राह्यं परिणतं च यत्| तेषं गुणवतां भारं सिकतासु निधापयेत्||६|| सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक्| ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्||७||
🔊 Audio coming soon
फलकाले इति उचितफलकाले| तेषामिति फलानाम्| भारमिति भूरिद्रव्योपलक्षणम्| मज्जानमिति फलमज्जानम्||६-७||
Adhikarana 5 (8) · Śloka 9
द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते| चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके||८|| चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाऽथवाऽञ्जलिम्|९|
🔊 Audio coming soon
द्राक्षेत्यादिः प्रथमो योगः| चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके इत्यनेनास्य प्रयोगस्य चतुर्वर्षादर्वागूर्ध्वं च द्वादशवर्षादवश्यतया यौगिकत्वं निषेधयति||८||-
Adhikarana 6 (9-10) · Śloka 10
सुरामण्डेन संयुक्तमथवा कोलसीधुना||९|| दधिमण्डेन वा युक्तं रसेनामलकस्य वा| कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा||१०||
🔊 Audio coming soon
सुरामण्डेनेति द्वितीयः| अथवा कोलसीधुनेति तृतीयः| कोलकृतः सीधुः कोलसीधुः| सौवीरकेण वेत्यन्तेन योगत्रयमपरं व्यक्तम्||९-१०||
Adhikarana 7 (11) · Śloka 11
त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेत्| तथा बिल्वकषायेण लवणक्षौद्रसंयुतम्||११||
🔊 Audio coming soon
त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेदिति सप्तमः| तथेत्यादिनाऽष्टमः| एतत्कल्ककषाययोर्द्वयं जतूकर्णेऽप्युक्तमेव- ‘त्रिवृद्बिल्वकषायाभ्यां सक्षौद्रलवणौ द्वौ’ इति| तेनात्र पाठान्तरं न प्रमाणम्| सङ्ग्रहे च करिष्यति- ‘कषाये च त्रिवृतो बिल्वकस्य च’ इति||११||
Adhikarana 8 (12) · Śloka 12
कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्| साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम्||१२||
🔊 Audio coming soon
कषायेणेत्यादिको लेहो नवमः||१२||
Adhikarana 9 (13) · Śloka 13
चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्| मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत्||१३||
🔊 Audio coming soon
चतुरङ्गुलेत्यादिना प्रथमं घृतम्| मज्ज्ञ इति चतुरङ्गुलमज्ज्ञः||१३||
Adhikarana 10 (14) · Śloka 14
तदेव दशमूलस्य कुलत्थानां यवस्य च| कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत्||१४||
🔊 Audio coming soon
तदेवेत्यादिना च द्वितीयं घृतम्| श्यामादिभिरिति मदनकल्पपठितैर्नवभिः ‘श्यामात्रिवृद्दन्ती ... ’ (क.अ.१) इत्यादिभिः||१४||
Adhikarana 11 (15) · Śloka 15
दन्तीक्वाथेऽञ्जलिं मज्ज्ञाः शम्पाकस्य गुडस्य च| दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च||१५||
🔊 Audio coming soon
दन्तीत्यादिनाऽरिष्टयोगमाह| गुडस्य चाञ्जलिमिति सम्बन्धः| मासार्धमासस्थमिति सार्धमासस्थम्||१५||
Adhikarana 12 (16) · Śloka 16
यस्य यत् पानमन्नं च हृद्यं स्वाद्वथ वा कटु| लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम्||१६||
🔊 Audio coming soon
यस्य यदित्यादिनाऽनुक्तमपरापरसाधनं विधत्ते| हृद्येन हि विरेचनयोगस्य प्रियता स्यात्| पानमन्नं चेति हृद्यमित्यादिभिः प्रत्येकं सम्बध्यते||१६||
Adhikarana 13 (17-18) · Śloka 18
तत्र श्लोकाः द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे| सौवीरके कषाये च त्रिवृतो बिल्वकस्य च||१७|| लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिताः| चतुरङ्गुलकल्पेऽस्मिन् सुकुमाराः सुखोदयाः||१८||
🔊 Audio coming soon
द्राक्षेत्यादिसङ्ग्रहो व्यक्तः||१७-१८||
Adhikarana puShpikA · Śloka 8
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने चतुरङ्गुलकल्पो नामाष्टमोऽध्यायः||८||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने चतुरङ्गुलकल्पो नामाष्टमोऽध्यायः||८||