Adhikarana 1 (1-2) · Śloka 2
अथातस्तिल्वककल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
चतुरङ्गुलवत्तिल्वकस्यानपायित्वाच्चतुरङ्गुलकल्पानन्तरं तिल्वककल्पोऽभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातस्तिल्वककल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
चतुरङ्गुलवत्तिल्वकस्यानपायित्वाच्चतुरङ्गुलकल्पानन्तरं तिल्वककल्पोऽभिधीयते||१-२||
Adhikarana 2 (3-5) · Śloka 5
तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः| तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम्||३|| चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ श्चोतयेत्ततः| लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्||४|| भागं तं दशमूलस्य पुनः क्वाथेन भावयेत्| शुष्कं चूर्णं पुनः कृत्वा तत ऊर्ध्वं प्रयोजयेत्||५||
🔊 Audio coming soon
अन्तर्वल्कलवर्जितामिति तिल्वकस्यान्तर्वल्कलं कठिनं भवति, तदर्थं तद्वर्जनम्| श्चोतयेदिति वचनेन षड्गुणद्रवेणैकविंशतिवारान् स्रावयेदिति ज्ञेयं, मदनफलकल्पे एवम्भूतस्यैव स्रावणस्य दृष्टत्वात्| भावनाविधिश्च निरन्तरं व्याकृत एव||३-५||
Adhikarana 3 (6) · Śloka 6
दधितक्रसुरामण्डमूत्रैर्बदरसीधुना | रसेनामलकानां वा ततः पाणितलं पिबेत्||६||
🔊 Audio coming soon
दधिमण्डेत्यादिना पिबेदित्यन्तेन पञ्च योगाः||६||
Adhikarana 4 (7) · Śloka 8
मेषशृङ्ग्यभयाकृष्णाचित्रकैः सलिले शृते| मरुजान् सुनुयात्तच्च जातं सौवीरकं यदा||७|| भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत् सदा|८|
🔊 Audio coming soon
मेषशृङ्गीत्यादिना विशिष्टसौवीरकेण योग एकः| मरुजा भृष्टयवाः||७||-
Adhikarana 5 (8-9) · Śloka 10
सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्||८|| दन्तीचित्रकयोर्द्रोणे सलिलस्याढकं पृथक्| समुत्क्वाथ्य गुडस्यैकां तुलां लोध्रस्य चाञ्जलिम्||९|| आवपेत्तत् परं पक्षान्मद्यपानां विरेचनम्|१०|
🔊 Audio coming soon
सुरामित्यादिना सुरायोगमाह| दन्तीत्यादिनैकमरिष्टयोगमाह| दन्तीचित्रकयोराढकं पृथक् सलिलद्रोणे पचेत्| तिल्वकचूर्णमावापः||८-९||-
Adhikarana 6 (10) · Śloka 11
कम्पिल्लककषायेण दशकृत्वः सुभाविताम्||१०|| मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत्|११|
🔊 Audio coming soon
कम्पिल्लकेत्यादिना कम्पिल्लकयोगमाह| कम्पिल्लकः गुण्डारोचनिका| मात्रामिति तिल्वकचूर्णमात्राम्||१०||-
Adhikarana 7 (11-13) · Śloka 13
चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य एव च||११|| त्रिफलायाः कषायेण ससर्पिर्मधुफाणितः| लोध्रचूर्णयुतः सिद्धो लेहः श्रेष्ठो विरेचने||१२|| तिल्वकस्य कषायेण कल्केन च सशर्करः| सघृतः साधितो लेहः स च श्रेष्ठो विरेचने||१३||
🔊 Audio coming soon
चतुरङ्गुलेत्यादिना प्रथमो लेहः| चतुरङ्गुलकल्पेनेति ‘कषायेणाथवा तस्य’ (क.अ.८) इत्यादिनोक्तविधानेन| तेनात्र तिल्वकक्वाथेन गुडान्वितत्रिवृच्चूर्णं पक्त्वा लेहः कर्तव्यः| त्रिफलाया इत्यादिना द्वितीयो लेहः| तिल्वकस्येत्यादिना तृतीयः||११-१३||
Adhikarana 8 (14-16) · Śloka 16
अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक्| द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्||१४|| पिष्टैस्तैरेव बिल्वांशैः समूत्रलवणैरथ| ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम्||१५|| लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम्| चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेत्||१६||
🔊 Audio coming soon
अष्टाष्टावित्यादिना प्रथमं घृतम्| सनखानिति विद्यमाननखान्| अत्र त्रिवृदादिगृहीतलोध्रस्य प्रधानत्वाद्द्विगुणो भागो भवति| उक्तं हि जतूकर्णे- “त्रिवृदादिद्विगुणो लोध्रक्वाथः” इति| समभागत्वे तु लोध्रप्रयोगत्वस्य केन विशेषः स्यात्, तस्माद् यथाव्याख्यातमेव साधु| लवणमप्यत्र पलांशमेव| लोध्रेत्यादि द्वितीयं घृतम्| चतुरङ्गुलेत्यादिना घृतद्वयमतिदिश्यते| एवं घृतेन चत्वारो योगा भवन्ति| चतुरङ्गुलघृते च “चतुरङ्गुलसिद्धात्” (क.अ.८) इत्यादिना, तथा “तदेव दशमूलस्य” (क.अ.८) इत्यादिना प्रोक्ते ज्ञेये; तथा च चतुरङ्गुलकल्पेन लोध्रादिना द्वे लोध्रघृते भवतः||१४-१६||
Adhikarana 9 (17-18) · Śloka 18
तत्र श्लोकौ- पञ्च दध्यादिभिस्त्वेका सुरा सौवीरकेण च| एकोऽरिष्टस्तथा योग एकः कम्पिल्लकेन च||१७|| लेहास्त्रयो घृतेनापि चत्वारः सम्प्रकीर्तिताः| योगास्ते लोध्रमूलानां कल्पे षोडश दर्शिताः||१८||
🔊 Audio coming soon
पञ्च दध्यादिभिरित्यादिसङ्ग्रहो व्यक्तः||१७-१८||
Adhikarana puShpikA · Śloka 9
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने तिल्वककल्पो नाम नवमोऽध्यायः||९||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने तिल्वककल्पो नाम नवमोऽध्यायः||९||