Adhikarana 1 (1-2) · Śloka 2
अथातो धामार्गवकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
उक्तसम्बन्धाद्धामार्गवकल्पोऽभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो धामार्गवकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
उक्तसम्बन्धाद्धामार्गवकल्पोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
कर्कोटकी कोठफला महाजालिनिरेव च| धामार्गवस्य पर्याया राजकोशातकी तथा||३||
🔊 Audio coming soon
तत्र कर्कोटकीत्यादिना पर्यायकथनम्| धामार्गवः पीतघोषकः||३||
Adhikarana 3 (4) · Śloka 5
गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते| कफे च कण्ठवक्रस्थे कफसञ्चयजेषु च||४|| रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये|५|
🔊 Audio coming soon
स्थिराश्च गुरवश्च ये इत्यत्र ‘गदाः’ इति शेषः||४||-
Adhikarana 4 (5) · Śloka 5
फलं पुष्पं प्रवालं च विधिना तस्य संहरेत्||५||
🔊 Audio coming soon
विधिनेति भेषजग्रहणोक्तेन विधिना||५||
Adhikarana 5 (6) · Śloka 6
प्रवालस्वरसं शुष्कं कृत्वा च गुलिकाः पृथक्| कोविदारादिभिः पेयाः कषायैर्मधुकस्य च||६||
🔊 Audio coming soon
प्रवालेत्यादिना नवयोगानाह| प्रवालस्य स्वरसः प्रवालस्वरसः| अत्र कोविदारादिकषायैर्गुडिकाकरणं पानं च ज्ञेयम्||६||
Adhikarana 6 (7) · Śloka 7
पुष्पादिषु पयोयोगाश्चत्वारः पञ्चमी सुरा| पूर्ववत्...|७|
🔊 Audio coming soon
पुष्पादिष्वित्यादिना जीमूतककल्पविधानेन निर्दिष्टाश्चत्वारः क्षीरप्रयोगाः, पञ्चमश्च सुरायोगोऽतिदिश्यते; ते च ‘पयः पुष्पेऽस्य’ (क. अ. २) इत्यादिनोक्ता ज्ञेयाः| पूर्ववदिति पूर्वेण सम्बध्यते|७|-
Adhikarana 7 (7-8) · Śloka 9
... जीर्णशुष्काणामतः कल्पः प्रवक्ष्यते||७|| मधुकस्य कषायेण बीजकण्ठोद्धृतं फलम्| सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा||८|| दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामयाः|९|
🔊 Audio coming soon
जीर्णशुष्काणामित्यादिना नवकषाययोगानाह, तथा ‘जात्याः’ इत्यादिना एकादश कषाययोगान् वक्ष्यति; एवं विंशतिः कषाययोगाः सङ्ग्रहे वक्ष्यमाणाः पूर्यन्ते| बीजकण्ठोद्धृतं फलमिति यत्र बीजानि बद्धानि सन्ति स बीजकण्ठ उद्धृतो यस्मिन् तद्बीजकण्ठोद्धृतं फलम्| अत्र च पूर्वनिपातानियम आहिताग्न्यादिपूर्वनिपातवद्बोध्यः| एवम्भूतं च फलं कषायेण सगुडेन पूरितं रात्रिव्युषितं कर्तव्यम्| उक्तं हि जतूकर्णे- धामार्गवकल्पे- “धामार्गवफलेषूद्धृतबीजमध्येषु सगुडोषिताः कोविदारादिकषाया नव” इति| गुल्मिनां चावस्थायां वमनं हितमेव, तेनेह गुल्मविषयतया वमनोपदर्शनं न विरोधि||७-८||-
Adhikarana 8 (9) · Śloka 9
दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये||९||
🔊 Audio coming soon
दद्यादित्यादिना एकोऽन्नयोग उच्यते| अन्ने च धामार्गवस्य संयोगेनैको योगः||९||
Adhikarana 9 (10) · Śloka 10
चूर्णैर्वाऽप्युत्पलादीनि भावितानि प्रभूतशः| रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम्||१०||
🔊 Audio coming soon
चूर्णैरित्यादिना घ्रेये एकयोगमाह| उत्पलादीनां चात्र भेदोऽविवक्षितः उत्पलस्यैक एव घ्रेययोगः| अत्र आदिशब्देन सौगन्धिकपद्मादीनां ग्रहणम्| प्रभूतशश्चूर्णैर्भावितानीति ज्ञेयम्||१०||
Adhikarana 10 (11-12) · Śloka 12
चूर्णीकृतस्य वर्तिं वा कृत्वा बदरसम्मिताम्| विनीयाञ्जलिमात्रे तु पिबेद्गोऽश्वशकृद्रसे ||११|| पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके| श्वदंष्ट्रखरखङ्गानां चैवं पेया शकृद्रसे ||१२||
🔊 Audio coming soon
चूर्णीकृतस्येत्यादिना गोऽश्वशकृद्रसे इति द्वौ योगौ| तथा पृषतेत्यादिदशयोगैः समं शकृद्रसयोगसम्बन्धाद्द्वादश शकृद्योगा उच्यन्ते| पृषतः बिन्दुचित्रितहरिणः; ऋष्यः नीलाण्डः, कुरङ्गः चञ्चलगतिः, अश्वतरः वेगसरः, श्वदंष्ट्रः चतुर्दंष्ट्रो मृगविशेषः||११-१२||
Adhikarana 11 (13-14) · Śloka 15
जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम्| काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम्||१३|| एकैकशोऽभिसञ्चूर्ण्य सह धामार्गवेण ते| शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम्||१४|| सुखोदकानुपानाः स्युः पित्तोष्मसहिते कफे|१५|
🔊 Audio coming soon
जीवकेत्यादिना दश लेहानाह| मधूलिका ‘मर्कटहस्त’ इति ख्याता| अत्र लेहेषु धामार्गवादितरद्रव्यचूर्णस्य समानत्वं; मधुशर्करयोश्च तावती मात्रा यावत्या लेहत्वापत्तिर्भवति| पित्तोष्मसहिते कफे इति उद्यतोष्मगुणेन पित्तेन युक्ते कफे; अन्ये तु पित्तोष्मशब्देन पित्तोष्मणा कृतं ज्वरमाहुः||१३-१४||-
Adhikarana 12 (15) · Śloka 15
धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः||१५||
🔊 Audio coming soon
धान्येत्यादिनैकं कल्कयोगमाह| धान्यतुम्बरुक्वाथ एव धान्यतुम्बुरुयूषः| उक्तं हि जतूकण “धान्यतुम्बुरुरसेन कल्को विषनुत्” इति||१५|
Adhikarana 13 (16-17) · Śloka 18
जात्याः सौमनसायिन्या रजन्याश्चोरकस्य च| वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य च||१६|| बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा पृथक् | एकं धामार्गवं द्वे वा कषाये परिमृद्य तु||१७|| पूतं मनोविकारेषु पिबेद्वमनमुत्तमम्|१८|
🔊 Audio coming soon
जात्या इत्यादिना एकादशकषाययोगानाह| जाती सौमनस्यायिनी, अन्ये यूथिकां वदन्ति| वृश्चीरः श्वेतपुनर्नवा| महासहा क्षुद्रसहा मुद्गमाषपर्ण्यौ| हैमवती वचा||१६-१७||-
Adhikarana 14 (18) · Śloka 18
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||१८||
🔊 Audio coming soon
तच्छृतेत्यादिनैकं घृतयोगमाह||१८||
Adhikarana 15 (19-20) · Śloka 20
तत्र श्लोकौ- पल्लवे नव चत्वारः क्षीर एकः सुरासवे| कषाये विंशतिः कल्के दश द्वौ च शकृद्रसे||१९|| अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम्| कल्पे धामार्गवस्योक्ताः षष्टिर्योगा महर्षिणा||२०||
🔊 Audio coming soon
पल्लवे नवेत्यादिसङ्ग्रहे व्युत्क्रमसङ्ग्रहाभिधानं छन्दोऽनुरोधात्| दश द्वौ चेति द्वादशेत्यर्थः||१९-२०||
Adhikarana puShpikA · Śloka 4
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने धामार्गवकल्पो नाम चतुर्थोऽध्यायः||४||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने धामार्गवकल्पो नाम चतुर्थोऽध्यायः||४||