Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. ikṣvākukalpaḥ

Adhikarana 1 (1-2) · Śloka 3

अथात इक्ष्वाकुकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते|३|

🔊 Audio coming soon

उक्ताध्यायसम्बन्धादिक्ष्वाकुकल्पोऽभिधीयते| येषां प्रशस्यते इक्ष्वाकुकल्पस्तान् वक्ष्यामीति योज्यम्||१-२||-

Adhikarana 2 (3) · Śloka 4

लम्बाऽथ कटुकालाबूस्तुम्बी पिण्डफला तथा||३|| इक्ष्वाकुः फलिनी चैव प्रोच्यते तस्य कल्पना|४|

🔊 Audio coming soon

लम्बेत्यादि पर्यायकथनम्||३||-

Adhikarana 3 (4) · Śloka 5

कासश्वासविषच्छर्दिज्वरार्ते कफकर्षिते||४|| प्रताम्यति नरे चैव वमनार्थं तदिष्यते|५|

🔊 Audio coming soon

तदिष्यते इति इक्ष्वाकुकल्पनमिष्यते||४||-

Adhikarana 4 (5-10) · Śloka 11

अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसम्मितम्||५|| क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे| पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा||६|| योगा हरितपाण्डूनां सुरामण्डेन पञ्चमः| फलस्वरसभागं च त्रिगुणक्षीरसाधितम्||७|| उरःस्थिते कफे दद्यात् स्वरभेदे च पीनसे| जीर्णे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि||८|| जातं स्यात् सकफे कासे श्वासे वम्यां च तत् पिबेत्| अजाक्षीरेण बीजानि भावयेत् पाययेत् च||९|| विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च| मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः||१०|| तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्|११|

🔊 Audio coming soon

अपुष्पस्येत्यादिना एकः क्षीरयोगः| अपुष्पस्येति अनुत्पन्नपुष्पस्य| मुष्टिं प्रादेशसम्मितमिति प्रदेशिन्या मूलपर्यन्तकृतमुष्टिपरिमाणम्; एवं च नात्र मुष्टिशब्दः पलवचनः| क्षीरप्रस्थे शृतमिति वचनात् क्षीरप्रस्थे यथोक्तमानमिक्ष्वाकुमावाप्य चतुर्गुणं पानीयं दत्त्वा क्षीरं साधनीयम्| पुष्पादिष्वित्यादिना चतुरः क्षीरयोगानाह| जीमूतके यथा “पयः पुष्पेऽस्य निर्वृत्ते फले पेया पयस्कृता| रोमशे क्षीरसन्तानं दध्युत्तरमरोमशे” (क.अ.२) इत्यनेनोक्तं, तथेहापि योगचतुष्टयं करणीयम्| हरितेत्यादिना सुरायोगमाह| हरितपाण्डूनामिक्ष्वाकुफलानां सुरामण्डे जीमूतकवद्योगः कर्तव्यः; जीमूतकविधानातिदेशेन “आसुत्य च सुरामण्डे मुदित्वा प्रस्रुतं पिबेत्” (क.अ.२) इति ग्रन्थोक्तविधानमिहापि भवति| फलस्वरसेत्यादिना षष्ठः क्षीरयोगोऽभिधीयते| त्रिगुणक्षीरसाधितमिति त्रिगुणेन क्षीरेण साधितं; तच्च चतुर्गुणेन तोयेन साधनीयम्| फलशब्देनात्रेक्ष्वाकुफलमुच्यते| जीर्णे इत्यादिना सप्तमः क्षीरयोगः| मध्योद्धृते इति उद्धृतमध्ये| अजाक्षीरेणेत्यादिनाऽष्टमः क्षीरयोगः| तेन तक्रमित्यादिना तक्रयोगः| तेनेति तुम्बीफलमध्येन||५-१०||-

Adhikarana 5 (11) · Śloka 12

तुम्ब्या फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्||११|| छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः|१२|

🔊 Audio coming soon

तुम्ब्या इत्यादिना घ्रेययोगमाह| गन्धसम्पत्सुखोचित इति गन्धसम्पत् सुगन्धवत्त्वं, तया गन्धसम्पदा सुखमुचितमभ्यस्तं येन सः; अवचूर्णितेक्ष्वाकुफलरसपुष्पं माल्यमाघ्रायैव वमत्यनभ्यस्तदुर्गन्ध इति भावः||११||-

Adhikarana 6 (12) · Śloka 13

भक्षयेत् फलमध्यं वा गुडेन पललेन च||१२|| इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम्|१३|

🔊 Audio coming soon

भक्षयेदित्यादिना वमनयोगमेकमाह| फलमध्यम् इक्ष्वाकुफलमध्यम्| इक्ष्वाकुफलकल्कसाधितं तैलमिक्ष्वाकुफलतैलम्; अयमेक एव तैलयोगः| पूर्ववदिति जीमूतकवत्, तेन “तथा जीमूतकक्षीरात्” (क.अ.२) इत्यादिनोक्तविधानेन जीमूतकस्थाने इक्ष्वाकुफलं दत्त्वेह घृतं साधनीयम्||१२||-

Adhikarana 7 (13) · Śloka 14

पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम्||१३|| पिबेद्विमृद्य बीजानि कषायेष्वाशतं पृथक्|१४|

🔊 Audio coming soon

पञ्चाशदित्यादिना षड् वर्धमानकयोगानाह| पञ्चाशदारभ्य दशकेन वृद्धैरिक्ष्वाकुबीजैः शतं पूरणीयम्| तेन षड्योगा भवन्ति| तानि च यथासङ्ख्यं मदनफलादीनां षण्णामन्यतमकषायेष्वासुत्य विमृदितानि पातव्यानि | अन्ये तु दशबीजादारभ्य पञ्चाशद्बीजपर्यन्तं दोषाद्यपेक्षया पातव्यं; तत्र मदनादिकषायभेदादेव योगभेद इत्याहुः||१३||-

Adhikarana 8 (14) · Śloka 14

यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत्||१४||

🔊 Audio coming soon

यष्ट्याह्वेत्यादिना नवकषाययोगानाह| तत्र यष्ट्याह्वमेकं, कोविदारादयो मदनकल्पोक्ता अष्टौ||१४||

Adhikarana 9 (15) · Śloka 15

कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः|१५|

🔊 Audio coming soon

कषायैरित्यादिना मदनफलसदृशविधा अष्टौ मात्रालक्षिताः प्रयोगा उच्यन्ते|१५|-

Adhikarana 10 (15-18) · Śloka 19

बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत्||१५|| पूतस्यास्य त्रयो भागाश्चतुर्थः फाणितस्य तु| सघृतो बीजभागश्च पिष्टानर्धांशिकांस्तथा ||१६|| महाजालिनिजीमूतकृतवेधनवत्सकान्| तं लेहं साधयेद्दर्व्या घट्टयन्मृदुनाऽग्निना||१७|| यावत् स्यात्तन्तुमत्तोये पतितं तु न शीर्यते| तं लिहन्मात्रया लेहं प्रमथ्यां च पिबेदनु||१८|| कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते|१९|

🔊 Audio coming soon

बिल्वेत्यादिना एको लेहः, तथा ‘कल्प’ इत्यादिना चत्वारो लेहा अन्ते द्रष्टव्याः, एवं पञ्च लेहाः| अञ्जलिः पलचतुष्टयम्| अत्र च “ततश्च कुडवं यावत्तोयमष्टगुणं भवेत्” इति वचनाद्बिल्वमूलकषायस्याष्टावञ्जलयो देयाः, ततश्चतुर्भागावशेषेण कुडवद्वयम्| फाणितम् अर्धशृत इक्षुरसः| ‘चतुर्थः फाणितस्य च’ इत्यस्य स्थाने ‘त्रयस्त्रिकटुकस्य च’ इति केचित् पठन्ति| सघृत इति घृतस्यैको भागः| अर्धांशिकानिति एकभागार्धमानान् प्रत्येकं महाजालिन्यादीन्| महाजालिनी पीतकोषातकी, कृतवेधनः घोषकभेदः ‘ज्योत्स्निका” इति ख्यातः| यावत् स्यात्तन्तुमदित्यादिना लेहपाकलक्षणमाह; एतच्च लक्षणं लेहान्तरेष्वपि पाचनीयेषु ज्ञेयम्| न शीर्यते न विस्तीर्यते| प्रमथ्यां च पिबेदन्विति अतीसारचिकित्सिते “पिप्पली नागरं धान्यं” (चि.अ.१९) इत्यादिनोक्तप्रमथ्यानां मध्येऽन्यतमप्रमथ्याकृतं कषायं पिबेदित्यर्थः| ‘प्रमथ्यां च’ इत्यस्य स्थाने केचित् ‘मन्थं चापि’ इति पठन्ति| अग्निमन्थादाविति प्रत्येकमग्निमन्थ-स्योनाक-पाटला-गम्भारीमूलचतुष्कं पञ्चमूलकथनप्रस्तावे रसायने कथितम्||१५-१८||-

Adhikarana 11 (19) · Śloka 20

शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः||१९|| कफजेऽथ ज्वरे कासे कण्ठरोगेष्वरोचके|२०|

🔊 Audio coming soon

शक्तुभिरित्यादिनैको मन्थयोगः||१९||-

Adhikarana 12 (20) · Śloka 20

गुल्मे मेहे प्रसेके च कल्कं मांसरसैः पिबेत्| नरः साधु वमत्येवं न च दौर्बल्यमश्नुते||२०||

🔊 Audio coming soon

गुल्मे ज्वर इत्यादिना रसैकयोगमाह| कल्कम् इक्ष्वाकुबीजकल्कम्||२०||

Adhikarana 13 (21-23) · Śloka 23

तत्र श्लोकाः- पयस्यष्टौ सुरामण्ड-मस्तु-तक्रेषु च त्रयः| घ्रेयं सपललं तैलं वर्धमानाः फलेषु षट्||२१|| घृतमेकं कषायेषु नवान्ये मधुकादिषु| अष्टौ वर्तिक्रिया लेहाः पञ्च मन्थो रसस्तथा||२२|| योगा इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च च| उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया||२३||

🔊 Audio coming soon

पयस्यष्टावित्यादिसङ्ग्रहार्थो व्याकृत एव| अत्र फलेष्विति मदनफलादिषु| घृतं यद्यपि वर्धमानपूर्वपठितं, तथाऽपि छन्दोनुरोधादिह पश्चात् पठितम्||२१-२३||

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः||३||