Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. sudhākalpaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः सुधाकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

षोडशसङ्ख्यप्रयोगाभिधायकतिल्वककल्पानन्तरं यथाक्रममधिकसङ्ख्याप्रयोगाभिधानक्रमाद्विंशतियोगाभिधायकसुधाकल्पोऽभिधीयते; इतश्चानन्तरमतिरिक्तसङ्ख्याभिधानक्रमेणैव ऊनचत्वारिंशत्प्रयोगाभिधायकसप्तलाशङ्खिनीकल्पोऽभिधास्यते||१-२||

Adhikarana 2 (3-4) · Śloka 4

विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता| सङ्घातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमा||३|| तस्मान्नैषा मृदौ कोष्ठे प्रयोक्तव्या कदाचन| न दोषनिचये चाल्पे सति मार्गपरिक्रमे ||४||

🔊 Audio coming soon

विरेचनानामिति विरेचनद्रव्याणाम्| कष्टविभ्रमेति दुःखसाध्यविभ्रमजनिका| तस्मादिति अतितीक्ष्णत्वात् कष्टविभ्रमत्वाच्च| सति मार्गपरिक्रम इति उपक्रममार्गान्तरे सति न सुधा प्रयोक्तव्या, तेन गत्यन्तरासम्भव एव सुधा प्रयोक्तव्येत्यर्थः||३-४||

Adhikarana 3 (5-6) · Śloka 7

पाण्डुरोगोदरे गुल्मे कुष्ठे दूषीविषार्दिते| श्वयथौ मधुमेहे च दोषविभ्रान्तचेतसि||५|| रोगैरेवंविधैर्ग्रस्तं ज्ञात्वा सप्राणमातुरम्| प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः||६|| सद्यो हरति दोषाणां महान्तमपि सञ्चयम्|७|

🔊 Audio coming soon

पाण्डुरोगेत्यादौ मधुमेहशब्देन प्रमेहा एवोच्यन्ते; विशिष्टस्तु वातिकमधुमेहोऽसाध्य एव, तेन तं प्रति विरेचनोपदेशोऽनर्थक एव स्यात्; मधुमेहशब्दश्च यथा प्रमोहमात्र एव वर्तते तत् प्रतिपादितमेव प्रमेहचिकित्सिते| दोषवृद्ध्या विभ्रान्तं चेतो यस्मिन् तस्मिन् दोषविभ्रान्तचेतसि उन्मादे| सप्राणमिति बलवन्तम्||५-६||-

Adhikarana 4 (7-9) · Śloka 9

द्विविधः स मतोऽल्पैश्च बहुभिश्चैव कण्टकैः||७|| सुतीक्ष्णैः कण्टकैरल्पैः प्रवरो बहुकण्टकः| स नाम्ना स्नुग्गुडा नन्दा सुधा निस्त्रिंशपत्रकः||८|| तौ विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक्| द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः||९||

🔊 Audio coming soon

प्रवरो बहुकण्टक इति अनतितीक्ष्णतयाऽल्पकण्टकमहावृक्षतः श्रेष्ठ इत्यर्थः| ताविति स्वल्पकण्टकबहुकण्टकौ महावृक्षौ| यद्यपि मदनकल्पे “शरदि त्वक्कन्दक्षीराणि” (क.अ.१) इत्युक्तं, तथाऽपि सुधाया अत्र शिशिरान्ते क्षीरग्रहणमपवादरूपं ज्ञेयम्| शिशिरस्य शेषा दिवसाः शिशिरान्ताः||७-९||

Adhikarana 5 (10-11) · Śloka 12

बिल्वादीनां बृहत्या वा कण्टकार्यास्तथैकशः| कषायेण समांशं तं कृत्वाऽङ्गारेषु शोषयेत्||१०|| ततः कोलसमां मात्रां पिबेत् सौवीरकेण वा| तुषोदकेन कोलानां रसेनामलकस्य वा||११|| सुरया दधिमण्डेन मातुलुङ्गरसेन वा|१२|

🔊 Audio coming soon

बिल्वादीनामिति बिल्वादिपञ्चमूलस्य| अङ्गारेषु शोषयेदिति अङ्गारोपरिस्थितपात्रस्थं तत् सुधाक्षीरं बिल्वादीनामन्यतमस्य कषायेण समानं शोषणेन कठिनं कुर्यात्; ततः कोलमात्रा गुटिकाः कार्याः, ततः सौवीरकादीनामन्यतमेन पातव्या| एवं सौवीरकादिभेदात् सप्त योगा भवन्ति; तथाऽत्र बिल्वादिकषायस्य भेदेन भेदो न विवक्षितः||१०-११||-

Adhikarana 6 (12-13) · Śloka 13

सातलां काञ्चनक्षीरीं श्यामादीनि कटुत्रिकम् ||१२|| यथोपपत्ति सप्ताहं सुधाक्षीरेण भावयेत्| कोलमात्रां घृतेनातः पिबेन्मांसरसेन वा||१३||

🔊 Audio coming soon

सातलामित्यादिना वातसाधनघृतमांसरसभेदाद्योगद्वयमाह| सातला चर्मकशा| श्यामादिग्रहणेनैव सातलायामपि लब्धायां पृथक् सातलाभिधानमेकयाऽपि सातलया कृतसुधायोगस्य प्राधान्यख्यापनार्थम्||१२-१३||

Adhikarana 7 (14) · Śloka 14

त्र्यूषणं त्रिफलां दन्तीं चित्रकं त्रिवृतां तथा| स्नुक्क्षीरभावितं सम्यग्विदध्याद्गुडपानकम्||१४||

🔊 Audio coming soon

त्र्यूषणमित्यादिना पानकयोगमाह| गुडपानकमिति गुडसंस्कृतपानकम्||१४||

Adhikarana 8 (15-17) · Śloka 17

त्रिवृतारग्वधं दन्तीं शङ्खिनीं सप्तलां समम्| गोमूत्रे रजनीं कृत्वा शोषयेदातपे ततः||१५|| सप्ताहं भावयित्वैवं स्नुक्क्षीरेणापरं पुनः| सप्ताहं भावयेच्छुष्कं ततस्तेनापि भावितम्||१६|| गन्धमाल्यं तदाघ्राय प्रावृत्य पटमेव च| सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः||१७||

🔊 Audio coming soon

त्रिवृतेत्यादिना घ्रेययोगमाह| गोमूत्रे रजनीं कृत्वेति रजनीं व्याप्य गोमूत्रे स्थापयित्वा| पटमेवेति यथोक्तविधिभावितं पटमावृत्येत्यर्थः||१५-१७||

Adhikarana 9 (18) · Śloka 18

श्यामात्रिवृत्कषायेण स्नुक्क्षीरघृतफाणितैः| लेहं पक्त्वा विरेकार्थं लेहयेन्मात्रया नरम्||१८||

🔊 Audio coming soon

श्यामेत्यादिना लेहयोगमाह| मात्रयेति अनपायिमात्रया||१८||

Adhikarana 10 (19) · Śloka 19

पाययेत्तु सुधाक्षीरं यूषैर्मांसरसैर्घृतैः|१९|

🔊 Audio coming soon

पाययेदित्यादिना पृथग्यूषमांसरसघृतैर्योगत्रयमाह|१९|

Adhikarana 11 (19) · Śloka 19

भाविताञ्छुष्कमत्स्यान् वा मांसं वा भक्षयेन्नरः||१९||

🔊 Audio coming soon

भावितानित्यादिना शुष्कमत्स्यमांसयोगावाह||१९||

Adhikarana 12 (20) · Śloka 20

क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पचेत्| सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत्||२०||

🔊 Audio coming soon

क्षीरेणेत्यादिना एकं घृतम्| घृतं वेत्यादिना एकं वक्ष्यति| आमलकैश्चतुरङ्गुलवदिति वचनादामलकरसयुक्तं यच्चतुरङ्गुलकल्पे “चतुरङ्गुलसिद्धाद्वा” (क.अ.८) इत्यादिनोक्तं तस्य विधानमतिदिशति| सुरां वा कारयेत् क्षीरे इति स्नुक्क्षीरभावितमित्यादिविधिना सुरां कुर्यात्| घृतं वा पूर्ववत् पचेदित्यत्र पूर्ववदित्यनेन तिल्वककल्पे पूर्वं यत् “लोध्रकल्केन” (क.अ.९) इत्यादिग्रन्थविहितं, तद्विधिरेव प्रत्यासन्नत्वादतिदिश्यते||२०||

Adhikarana 13 (21-22) · Śloka 22

तत्र श्लोकौ- सौवीरकादिभिः सप्त सर्पिषा च रसेन च| पानकं घ्रेयलेहौ च योगा यूषादिभिस्त्रयः||२१|| द्वौ शुष्कमत्स्यमांसाभ्यां सुरैका द्वे च सर्पिषी| महावृक्षस्य योगास्ते विंशतिः समुदाहृताः||२२||

🔊 Audio coming soon

सौवीरकेत्यादिः सङ्ग्रहो व्याकृत एव||२१-२२||

Adhikarana puShpikA · Śloka 10

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने सुधाकल्पो नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने सुधाकल्पो नाम दशमोऽध्यायः||१०||