Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. pramēhanidānam

Adhikarana 1 (1-3) · Śloka 3

अथातः प्रमेहनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| त्रिदोषकोपनिमित्ता विंशतिः प्रमेहा भवन्ति विकाराश्चापरेऽपरिसङ्ख्येयाः| तत्र यथा त्रिदोषप्रकोपः प्रमेहानभिनिर्वर्तयति तथाऽनुव्याख्यास्यामः||३||

🔊 Audio coming soon

दक्षाध्वरे गुल्ममनु प्रमेहोत्पादात् प्रमेहाभिधानं; वचनं हि- “हविःप्राशान्मेहकुष्ठयोर्जन्म” (नि.अ.८) इति| त्रिदोषप्रकोपनिमित्ता इति सर्वमेहेष्वेव त्रिदोषाः कारणम्, अधिकत्वाच्च श्लैष्मिकादिव्यपदेश इति दर्शयति| सुश्रुतेऽप्युक्तं- “सर्व एव मेहाः सर्वदोषजाः” (नि.अ.६) इति| विकारा इति प्रमेहलिङ्गोपद्रवरूपाः; किंवा, अन्येऽपि ये केचन त्रिदोषजास्ते ग्राह्याः||१-३||

Adhikarana 2 (4) · Śloka 4

इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति| यदा ह्येते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्त्यथवा कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्ति न तदा विकाराभिनिर्वृत्तिः, चिराद्वाऽप्यभिनिर्वर्तन्ते, तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा; विपर्यये विपरीताः; इति सर्वविकारविघातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः||४||

🔊 Audio coming soon

इहेत्यादौ निदानादीनां विशेषाः परस्परानुबन्धित्वादयोऽग्रे वक्ष्यमाणा ज्ञेयाः| विकाराणां विघातस्योत्पत्तिप्रतिबन्धस्य भावो विघातभावः, विकाराणां विघातस्याभावो विकारजननमिति विकारविघातभावाभावौ, तयोः प्रतिविशेषा विकारविघातभावाभावप्रतिविशेषाः| तत्र विकाराणां विघातभावस्य प्रतिविशेषाः- विकाराजननं, तथा चिरेण च जननम्, अणुविकारजननं वा, असर्वलिङ्गविकारजननं वाऽग्रे वक्ष्यमाणम्| विघाताभावप्रतिविशेषास्तु विकाराजननादिविपर्ययेणाग्रे वक्ष्यमाणाः| उक्तफक्किकार्थं व्याकरोति- यदेत्यादि| परस्परं नानुबध्नन्ति परस्परं प्रतिकूला भवन्ति, अनुबन्धो ह्यनुकूलेऽभिप्रेतः| तत्र तदेव निदानं दोषमनुबध्नाति, यद्भूयःसामान्यादविरोधेन दोषं दूषयति| दोषस्य दूष्यानुबन्धित्वं यद्- दूष्यं व्याधिकारणं सामान्यगुणत्वादिधर्मयोगादविरोधेन दूषयति| तथा दूष्यस्य च दोषानुबन्धित्वं यद्- दोषस्य दूषणं प्रति शिथिलत्वसमानगुणत्वादिनाऽऽनुकूल्येनावस्थानम्| तथा दोषस्य चेदमेव निदानानुबन्धित्वं यत्- निदानं दोषजननं प्रति समानगुणत्वं, समानगुणतया हि दोषो निदानस्य व्याधिजननं प्रत्यनुकूलो भवति| एतदुदाहरणानां च विपर्ययेणाननुबन्धो बोद्धव्यः| निदानस्य च दोषाननुबन्धः समानासमानगुणयोगात् किञ्चिद्दोषजनने बोद्धव्यः, सर्वथा दोषवैपरीत्ये तथा दोषजननं प्रत्युदासीनत्वे च निदानस्य निदानत्वमेव न स्यात्; जनकं हि निदानमुच्यते| अथवा कालप्रकर्षादिति अनुबध्नन्तीति सम्बन्धः; कालप्रकर्षादनुबध्नन्तीति कालप्रकर्षात् परस्परं निदानादयोऽनुगुणा भवन्ति यदा, तदा विकारा चिरादभिनिर्वर्तन्त इति ज्ञेयम्| यदा परस्परं नानुबध्नन्ति, न तदा विकाराभिनिर्वृत्तिर्भवतीति योजनीयम्| कालप्रकर्षाच्चानुबन्धो निदानस्य दोषेण तदा भवति, यदा हेतुर्विच्छेदं कृत्वा पुनः सेव्यते; काल एव वा चिरेण समानगुणतया हेतुरूपः प्राप्यत इत्यादि तर्क्यम्| अबलीयांसोऽथवाऽनुबध्नन्तीति निदानं यदाऽल्पं भवति तदा स्तोकदोषं करोति, दोषश्च स्तोकः स्तोकं च दूष्यं दूषयतीत्यादि ज्ञेयम्| यदा चा(वाऽ)बलीयांसोऽनुबध्नन्ति, तदा तनवो वा विकारा भवन्ति, अयथोक्तसर्वलिङ्गा वा भवन्तीति योज्यं; तनवः अल्पमात्राः, अयथोक्तसर्वलिङ्गा इति येन प्रकारेण लिङ्गान्युक्तानि न तेन प्रकारेण सर्वाणि लिङ्गानि भवन्तीत्यर्थः| एवमेते निदानादीनामननुबन्धविशेषकृता विकारविघातभावस्य प्रतिविशेषा उक्ताः| सम्प्रति निदानादीनां परस्परानुबन्धविशेषकृतान् विकाराणां विघाताभावविशेषानाह- विपर्यये विपरीता इति| विपर्यय इति निदानादीनामनुबन्धे तथा शीघ्रानुबन्धे तथा बलवतां चानुबन्धे; विपरीता इति निर्वर्तमाना विकाराः, तथा शीघ्रं निर्वर्तमानाः, तथा महान्तो यथोक्तसर्वलिङ्गाश्चेति यथासङ्ख्यं बोद्धव्यम्| उपसंहरति- इतीत्यादि| एतच्च प्रकरणं सर्वविकारसाधारणमपि प्रमेहस्य परस्परानुबन्धिभिरेव निदानादिभिर्जन्यत्वं भवतीति ख्यापयितुं प्रमेहनिदाने कृतम्||४||

Adhikarana 3 (5) · Śloka 5

तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिर्निर्वृत्तिकरा भवन्ति; तद्यथा- हायनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन चोपयोगः, तथा सर्पिष्मतां नवहरेणुमाषसूप्यानां, ग्राम्यानूपौदकानां च मांसानां, शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां, क्षीरनवमद्यमन्दकदधिद्रवमधुरतरुणप्रायाणां चोपयोगः, मृजाव्यायामवर्जनं, स्वप्नशयनासनप्रसङ्गः, यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रसञ्जननः, स सर्वो निदानविशेषः||५||

🔊 Audio coming soon

सम्प्रति प्रकृते कफजादिमेहे परस्परानुबन्धिनो निदानादिविशेषानाह- तत्रेत्यादि| इह कफ एवाग्रेऽभिधीयते, भूरिप्रमेहकर्तृत्वात्| हायनकादयो धान्यविशेषाः| अतिवेलमिति पुनः पुनः| हरेणुः वर्तुलकलायः| तिलतण्डुलमाषकृतमन्नं कृशरा| मृजा उद्वर्तनम्| सर्वः स निदानविशेष इति एवम्भूतमेव निदानं प्रमेहकर्तुः श्लेष्मणः कारणमित्यर्थः||५||

Adhikarana 4 (6) · Śloka 6

बहुद्रवः श्लेष्मा दोषविशेषः||६||

🔊 Audio coming soon

बहुद्रवः श्लेष्मा दोषविशेष इति बहुद्रव एव कफो मेहजनको नाल्पद्रव इति||६||

Adhikarana 5 (7) · Śloka 7

बह्वबद्धं मेदो मांसं शरीरजक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौजःसङ्ख्यात इति दूष्यविशेषाः||७||

🔊 Audio coming soon

अबद्धमिति असंहतम्| अत्र तु बहुत्वमघनत्वं च यथायोग्यतया बोद्धव्यम्| तेन, मेदसि मांसे वसामज्ज्ञोश्च द्वयमपि, शेषेषु बहुत्वम्| ओजःसङ्ख्यात इति ओजोरूप एव| वक्ष्यति हि प्रमेहचिकित्सिते- “मज्जा रसौजः पिशितं च दूष्याः” (चि.अ.५) इति| इतिशब्दो बह्वबद्धमेदआदीन् प्रत्यवमृशति; किंवा ‘सङ्ख्याताः’ इति पाठः सुगमः||७||

Adhikarana 6 (8) · Śloka 8

त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते, प्रागतिभूयस्त्वात्; स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते, शरीरशैथिल्यात्; स विसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति, मेदसश्चैव बह्वबद्धत्वान्मेदसश्च गुणैः समानगुणभूयिष्ठत्वात्; स मेदसा मिश्रीभवन् दूषयत्येनत्, विकृतत्वात्; स विकृतो दुष्टेन मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति, क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्; स मांसे मांसप्रदोषात् पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः सञ्जनयति, अप्रकृतिभूतत्वात्; शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति, मूत्रवहानां च स्रोतसां वङ्क्षणबस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते; ततः प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति, प्रकृतिविकृतिभूतत्वात्||८||

🔊 Audio coming soon

सन्निपाते मेलके| प्रकोपमापद्यत इति प्रमेहकरणायोद्यतो भवति| कुतः प्रमेहकरणायोद्यतो भवतीत्याह- प्रागतिभूयस्त्वात्| प्रागिति उत्पादकाल एव| यस्मात् प्रमेहकरणं प्रत्यभिमुखो भूयांश्च कफो भूतस्तत इत्यर्थः| प्रमेहनिदानेन हि कफोऽयं प्रमेहकरणाभिमुख एव जनितो भूरिश्च; ततो भूरित्वात् तथा प्रमेहकरणशक्तियोगाच्च तथा प्रकुप्यतीति युक्तम्| विसृप्तिं विसरणम्| मेदसश्च गुणानां गुणैः समानगुणभूयिष्ठत्वादित्यादि|- मेदसो गुणानां मधुरस्नेहगौरवादीनां श्लेष्मणो गुणैर्गुरुशीतादिभिर्भूरिसामान्यादित्यर्थः; समानं हि समानेन मिलतीति भावः| विकृतत्वादितिवचनेन प्रकृतेन श्लेष्मणा सम्बन्धो मेदोदूषको न भवति, किन्तर्हि विकृतेनैवेति दर्शयति| अतिप्रमाणवृद्धत्वादिति अतिशयितप्रमाणयोगेन वृद्धत्वात्; न गुणातियोगमात्रेण वृद्धत्वमिह, किन्तर्ह्यवयवोपचयेनेत्यर्थः| पूतिमांसवत्यः पिडकाः पूतिमांसपिडकाः| अप्रकृतिभूतत्वादिति मांसप्रदोषेण नानाविधशराविकादिजनकत्वशक्तित्वादितीह बोद्धव्यम्| तेन, अप्रकृतभूतत्वादितिवचनं हि विशेषार्थत्वान्न पुनरुक्तम्| आसाद्य प्रतिरुध्यत इति गत्वाऽवतिष्ठते| प्रकृतिविकृतिभूतत्वादिति प्रकृतिभूतैर्गुणैः सर्वैरेव विकृतत्वात्; सर्व एव यस्माच्छ्लेष्मणो गुणा विकृतास्तस्मात् प्रकोपप्रकर्षात् स्थिरो भवति, अतिप्रकर्षात्त्वसाध्य इत्यर्थः| किंवा प्रकृतिभूतः श्लेष्मा समाने दूष्ये मेदोवसादौ, विकृतिभूतश्चासमाने शोणितादौ; तेन समानासमानत्वादित्यर्थः| तथा च समानदूष्यप्राप्त्या बलित्वम्, असमानदूष्यप्राप्त्या च विरुद्धोपक्रमत्वं कफस्य भवति; ततश्च स्थैर्यमसाध्यता वा युक्तेति मन्तव्यम्||८||

Adhikarana 7 (9-11) · Śloka 11

शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तैः; तद्यथा- श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः, तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति||९|| ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति; तद्यथा- उदकमेहश्च, इक्षुवालिकारसमेहश्च, सान्द्रमेहश्च, सान्द्रप्रसादमेहश्च, शुक्लमेहश्च, शुक्रमेहश्च, शीतमेहश्च, सिकतामेहश्च, शनैर्मेहश्च, आलालमेहश्चेति||१०|| ते दश प्रमेहाः साध्याः; समानगुणमेदःस्थानकत्वात्, कफस्य प्राधान्यात्, समक्रियत्वाच्च||११||

🔊 Audio coming soon

सम्प्रति यथा कफमेहाः कफगुणयोगाद्दश भवन्ति तथा प्राह- शरीरेत्यादि| वैषम्यमिह वृद्धिकृतमेव बोद्धव्यं, क्षयरूपवैषम्यस्यैवंरूपव्याध्यजनकत्वात्| वैषम्य एव वृद्धवृद्धतरत्वादिना हानिवृद्धी बोद्धव्ये; तेन श्वेतादिगुणवृद्ध्या ये शुक्रमेहादय उक्ताः, तेष्वपीतरे श्लेष्मगुणा हानिवृद्धिरूपवैषम्ययुक्ताः सन्तीत्यर्थः| किंवा वैषम्ये सति क्वचिद्द्वयोः क्वचित्त्रयाणां क्वचिच्चतुर्णां गुणानां वृद्धिर्भवतीति दर्शयति| तेन गुणसङ्ख्योत्कर्षापकर्षाद्धानिवृद्धी ज्ञेये| नचेह श्वेतादिदशगुणयोगाद्यथासङ्ख्यं दश प्रमेहाः, किन्तु व्यस्तसमस्तगुणयोगाच्च; अत एवाह- येन गुणेनैकैकेनानेकेन वेत्यादि| सान्द्रप्रसादशब्देनैक एव गुणो गणनीयः; सान्द्रमेहव्यपदेशस्तु सान्द्रप्रसादगुणैकदेशेनोद्भूतेन ज्ञेयः| तत्समाख्यमित्यादौ तत्समाख्यं वा गौणं वा नामविशेषं प्राप्नोतीति योजनीयम्| तद्गुणस्य समा आख्या यस्य तत् तत्समाख्यं नाम, यथा- शीतमेह-शुक्लमेह-सान्द्रमेहेषु; अत्र हि शीतादिगुणाख्ययैव मेहा व्यपदिश्यन्ते, इतरेषु तूदकमेहादिषु न श्वेतादिगुणसञ्ज्ञातुल्यं नाम, किं तर्हि श्लेष्मणो नैकगुणयुक्तोदकादितुल्यत्वेन गुणयोगप्रवृत्तत्वाद्गौणमुदकमेह इति; अच्छसितशीतादिकफगुणयोगाद्गौणमुदकमेह इति नाम भवति| एवमन्यत्राप्यनुसरणीयम्| उदकादयस्त्विह कफगुणमेलकलक्षणार्थास्तत्तत्कफगुणयुक्ता उपात्ताः सञ्ज्ञाकरणार्थम्||९-११||

Adhikarana 8 (12-23) · Śloka 23

तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति-||१२|| अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्| श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति||१३|| अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम्| काण्डेक्षुरसमङ्काशं श्लेष्मकोपात् प्रमेहति||१४|| यस्य पर्युषितं मूत्रं सान्द्रीभवति भाजने| पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम्||१५|| यस्य संहन्यते मूत्रं किञ्चित् किञ्चित् प्रसीदति| सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः||१६|| शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति| पुरुषं कफकोपेन तमाहुः शुक्लमेहिनम्||१७|| शुक्राभं शुक्रमिश्रं वा मुहुर्मेहति यो नरः| शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१८|| अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम्| शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||१९|| मूर्तान्मूत्रगतान् दोषानणून्मेहति यो नरः| सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२०|| मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनैः| शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः||२१|| तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति| आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः||२२|| इत्येते दश प्रमेहाः श्लेष्मप्रकोपनिमित्ता व्याख्याता भवन्ति||२३||

🔊 Audio coming soon

विशेषविज्ञानार्था भवन्तीति परस्परभिन्नलक्षणप्रतिपादका इत्यर्थः| उदकोपममिति उदकवर्णादितुल्यम्| ननु, इक्षुवालिकामेहे काण्डेक्षुरससङ्काशमिति किमित्युच्यते, इक्षुवालिकाकाण्डेक्ष्वोरर्थान्तरत्वात्| नैवम्, इक्षुवालिकारसस्य तथा काण्डेक्षुरसस्य चैकरूपताप्रतिपादनार्थमुभयोरुपादानं; किंवा, काण्डेक्षुरसतुल्योऽपि तथेक्षुवालिकारसतुल्यश्चेक्षुवालिकामेहो भवतीत्युभयोपादानाद्दर्शयति | संहन्यते स्त्यानीभवति| मूर्तानिति कठिनान्| दोषानिति जातौ बहुवचनं, येन दोषोऽत्रैक एव प्रभूतः कफः| तन्तुबद्धं तन्तुवद्दीर्घमित्यर्थः| लालामिवालालं, समन्ताल्लालारूपमित्यर्थः| प्रति प्रति मेहं च श्लेष्मकोपत इत्यादिवचनं सुखग्रहणार्थम् | नचेह वाच्यम्- यत्- यथा श्लेष्मगुणा दश प्रमेहाञ्जनयन्ति, तथा किमित्यपरानपि गुणसंसर्गाद्विकल्पान्तरेण न कुर्वन्तीति; यतो भावस्वभावोऽयं- यथा दृष्ट एव परं कल्प्यते नादृष्टः; नहि सत्यपि भूतसंसर्गभूयस्त्वे रसभूयस्त्वं भवतीति व्यवस्थितमेव||१२-२३||

Adhikarana 9 (24-26) · Śloka 26

उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽतितीक्ष्णातपाग्निसन्तापश्रम क्रोधविषमाहारोपसेविनश्च तथाविधशरीरस्यैव क्षिप्रं पित्तं प्रकोपमापद्यते, तत्तु प्रकुपितं तयैवानुपूर्व्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्तयति||२४|| तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति; तद्यथा- क्षारमेहश्च, कालमेहश्च, नीलमेहश्च, लोहितमेहश्च, माञ्जिष्ठमेहश्च, हारिद्रमेहश्चेति||२५|| ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णैः पित्तगुणैः पूर्ववद्युक्ता भवन्ति||२६||

🔊 Audio coming soon

उष्णेत्यादिना पित्तमेहनिदानम्| षट् क्षिप्रतरमिति श्लेष्मप्रमेहापेक्षया; श्लेष्मणो हि क्षिप्रकारि पित्तं, तेन क्षिप्रतरोत्पादो युक्तः| पूर्ववद्युक्ता भवन्तीति वैषम्यहानिवृद्धियुक्तैरित्यर्थः ||२४-२६||

Adhikarana 10 (27-35) · Śloka 35

सर्व एव ते याप्याः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति||२७|| तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति-||२८|| गन्धवर्णरसस्पर्शैर्यथा क्षारस्तथाविधम्| पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति||२९|| मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति| पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम्||३०|| चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः| पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम्||३१|| विस्रं लवणमुष्णं च रक्तं मेहति यो नरः| पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम्||३२|| मञ्जिष्ठोदकसङ्काशं भृशं विस्रं प्रमेहति| पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम्||३३|| हरिद्रोदकसङ्काशं कटुकं यः प्रमेहति| पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम्||३४|| इत्येते षट् प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति||३५||

🔊 Audio coming soon

संसृष्टदोषमेदःस्थानत्वादिति संसृष्टं सन्निकृष्टं दोषस्य पित्तस्य मेदसश्च स्थानं यस्मात्; पित्तस्य ह्यामाशयः स्थानं, तथा मेदसोऽपि यत् स्थानं वपावहनं, तदप्यामाशयैकदेश एव; तेन दोषदूष्ययोः स्थानप्रत्यासत्त्या दूषणं नित्यं प्रत्यासन्नत्वाद्दुर्जयमिति भावः| किंवा संसृष्टदोषं मेदोरूपं स्थानं यस्य स तथा, एष विरुद्धोपक्रमत्वे हेतुः| तेन, यस्मात् पित्तरूपेण दोषेण सम्बद्धं मेदोरूपं स्थानं, तस्माद्विरुद्धोपक्रमता| यद्धि पित्तस्य मधुरशीतादि पथ्यं, तदपथ्यं मेदसः; यच्च मेदसः कटुकादि पथ्यं, तदपथ्यं पित्तस्य| चकाराद्व्याधिप्रभावाच्च याप्यत्वमिति दर्शयति||२७-३५||

Adhikarana 11 (36-37) · Śloka 37

कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थापन-शिरोविरेचनातियोगसन्धारणानशनाभिघातातपोद्वेगशोकशोणितातिषेक- जागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्रं वातः प्रकोपमापद्यते||३६|| स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति; यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति; यदा तु लसीकां मूत्राशयेऽभिवहन्मूत्रमनुबन्धं च्योतयति लसीकातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गजः क्षरत्यजस्रं मूत्रमवेगं, तं हस्तिमेहिनमाचक्षते; ओजः पुनर्मधुरस्वभावं, तद् यदा रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहति तदा मधुमेहं करोति||३७||

🔊 Audio coming soon

रूक्षेत्यादि वातमेहस्य निदानम्| मूत्रबस्तावाकर्षति मूत्रबस्तौ स्थित आकर्षति, अर्थान्मूत्रबस्तिमेव नयति| लसीका मांसत्वगन्तरे उदकभागः| वक्ष्यति हि शारीरे- “यन्मांसत्वगन्तरे उदकं, तल्लसीकाशब्दं लभते” (शा.अ.७) इत्यादि| अनुबन्धमिति अविच्छेदेन| च्योतयतीति पातयति| रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्येति मधुरमप्योजो वायुः प्रभावात् कषायरसयुक्तं कृत्वा रौक्ष्यान्मूत्राशयेऽभिवहति, मूत्राशयं रौक्ष्याच्छेदयित्वा रूक्षं च कृत्वा नयत्योजः; स्वमहिम्ना च वायुरोजः कषायं करोति, यतो वातो हि वृद्धः प्रभावात् कषायरसं करोति||३६-३७||

Adhikarana 12 (38-46) · Śloka 46

इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति||३८|| तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा- वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति||३९|| तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति-||४०|| वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः| वसामेहिनमाहुस्तमसाध्यं वातकोपतः||४१|| मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः| मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः||४२|| हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्| हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः||४३|| कषायमधुरं पाण्डु रूक्षं मेहति यो नरः| वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्||४४|| इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति||४५|| एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति||४६||

🔊 Audio coming soon

महात्ययिकत्वादिति मज्जप्रभृतिसारभूतधातुक्षयकरत्वात्| विरुद्धोपक्रमत्वं तु यद्वायोः स्निग्धादि पथ्यं, तन्मेदसोऽपथ्यमित्यादि ज्ञेयम्||३८-४६||

Adhikarana 13 (47) · Śloka 47

त्रयस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति; तद्यथा- जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयोः सुप्ततादाहौ, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलं काये, कायच्छिद्रेषूपदेहं, परिदाहं सुप्ततां चाङ्गेषु, षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान्, विस्रं शरीरगन्धं, निद्रां, तन्द्रां च सर्वकालमिति||४७||

🔊 Audio coming soon

त्रयस्त्विति त्रयोऽपीत्यर्थः| तेन, सर्वप्रमेहाणामप्येतदेव समानं पूर्वरूपमिति दर्शयति||४७||

Adhikarana 14 (48-49) · Śloka 49

उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयश्च तत्प्रसङ्गाद्भवन्ति||४८|| तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति||४९||

🔊 Audio coming soon

तत्प्रसङ्गाद्भवन्तीति प्रमेहात्यनुबन्धाद्भवन्तीत्यर्थः||४८-४९||

Adhikarana 15 (50-52) · Śloka 52

भवन्ति चात्र- गृध्नुमभ्यवहार्येषु स्नानचङ्क्रमणद्विषम्| प्रमेहः क्षिप्रमभ्येति नीडद्रुममिवाण्डजः||५०|| मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम्| मृत्युः प्रमेहरूपेण क्षिप्रमादाय गच्छति||५१|| यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः| सेवते विविधाश्चान्याश्चेष्टाः स सुखमश्नुते||५२||

🔊 Audio coming soon

यादृशे पुरुषे प्रमेहो भवति प्रायस्तमाह- गृध्नुमित्यादि|- गृध्नुं लुब्धम्| नीडद्रुमः पक्षिणां वासवृक्षः| मृत्युः प्रमेहरूपेणेत्यादिवचनान्मन्दोत्साहादियुक्ते प्रमेहो जातोऽसाध्य एव भवतीति दर्शयति| विविधाश्चान्याश्चेष्टा इति धातुसाम्यकरा इत्यर्थः||५०-५२||

Adhikarana 16 (53-55) · Śloka 55

तत्र श्लोकाः- हेतुर्व्याधिविशेषाणां प्रमेहाणां च कारणम्| दोषधातुसमायोगो रूपं विविधमेव च||५३|| दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः| यथा च वायुश्चतुरः प्रमेहान् कुरुते बली||५४|| साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः| प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रं च भाषितम्||५५||

🔊 Audio coming soon

सङ्ग्रहे व्याधिविशेषाणामित्यनेन ‘इह खलु’ इत्यादिग्रन्थं सङ्गृह्णाति| साध्यासाध्यविशेषा इत्यत्रासाध्यविशेषत्वेन पित्तजानां याप्यानां ग्रहणम्||५३-५५||

Adhikarana puShpikA · Śloka 4

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहनिदानं नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने प्रमेहनिदानं नाम चतुर्थोऽध्यायः||४||