Adhikarana 1 (1-2) · Śloka 2
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्याये शुक्रशोणिते गर्भकारणत्वेनोक्ते, नतु कृत्स्नं गर्भकारणमुक्तम्, अतः सम्पूर्णगर्भकारणाभिधानार्थं खुड्डिकागर्भावक्रान्तिरुच्यते| खुड्डिकामिति अल्पाम्| गर्भस्यावक्रान्तिः मेलकः, उत्पत्तिरिति यावत्||१-२||
Adhikarana 2 (3) · Śloka 3
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा चानयोस्तथायुक्ते संसर्गे शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायते समुदयादेषां भावानां- मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः||३||
पुरुषस्येत्यादि| अनुपहतरेतस इति पदेनैव पुरुषस्येति लभ्यते, यतः पुरुषस्यैव रेतसो गर्भजनकत्वमुक्तं; तेन पुरुषस्येति पदेन य एव सम्पूर्णधातुः पुरुषशब्दवाच्यो बालव्यतिरिक्तस्तं ग्राहयति| स्त्रियाश्चेति पदमर्थलब्धं सद् यौवनवतीं स्त्रियं लम्भयति| संसर्गः मैथुनम्| ऋतौ पुष्पदर्शने प्रशस्तः कालः ऋतुकालः; तेन ऋतुकालस्यादित्र्यहं निषेधयति| यतः “रजस्वलाभिगमनमलक्ष्मीमुखानां” (सू. २५) इत्यादिना ऋतौ त्र्यहं निषिद्धम्| आर्तवदर्शनं च शरदाद्यृतुसाधर्म्याद् ऋतुशब्देनोच्यते| यथा ऋतावुप्तानि बीजानि प्ररोहन्ति, तथा आर्तवदर्शनाख्येऽपि ऋतौ शुक्ररूपं बीजमुप्तमिति ऋतुसाधर्म्यम्| न केवलमेवम्भूतः संसर्ग एव गर्भकारणं, किं तु जीवाधिष्ठाने सतीत्याह- यदेत्यादि| तथायुक्त इति अदुष्टरेतसः पुरुषस्य अदुष्टयोन्यादेश्च स्त्रियाः संसर्गे| अयं चार्थः पुरुषस्येत्यादिनैव लब्धोऽपि पुनः शुक्रशोणितसंसर्गमित्यादिग्रन्थवक्ष्यमाणाधिकधर्मविध्यर्थमनूद्यते, तेन न पौनरुक्त्यम्| किंवा, पुरुषस्येत्यादिना पूर्वं मैथुनात् प्रागनुपहतरेतस्त्वाद्युक्तं, तथायुक्ते चेत्यनेन तु मैथुनसमयेऽपि शुक्रयोन्यादीनामदुष्टिरुच्यते| मैथुनकाले हि ईर्ष्यादिना शुक्रदुष्टिः सम्भाव्यते| शुक्रशोणितसंसर्गमिति शुक्रशोणितमेलकम्| अन्तरित्यनेन गर्भाशयबाह्यगतं संसर्गमकारणं गर्भस्य निषेधयति| जीवशब्देन चेतनाधातुरात्मा| नन्वात्मा व्यापकः, तत् कथमयमवक्रामतीत्याह- सत्त्वेत्यादि| सत्त्वसम्प्रयोगादिति मनोगमनादित्यर्थः| तद् यथोक्तं- “युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः” (शा.अ.१) इति| यद्यप्यात्मा विभुत्वात् सर्वगतत्वेन न क्वचिदपि याति, तथाऽपि यत्रास्य कर्मवशान्मनो याति, तत्रैव चैतन्योपलब्धेरात्माऽपि गत इति व्यपदिश्यत इति भावः| अथैवमुत्पन्नो गर्भः कथमभिवर्धते, कथं वा जायत इत्याह- सम्यगुपचारैरिति; गर्भहितकरैराहारविहारैरित्यर्थः| प्राप्तकाल इति प्राप्तप्रसवकालः, प्रसवकालो नवमदशममासौ| परिपूर्णशरीर इति सर्वाङ्गोपचितदेहः| सम्पच्छब्दो बलादिभिः प्रत्येकमभिसम्बध्यते| समुदयादिति सम्यङ्मेलकात्| एषामित्यनेन पुरुषस्येत्यादिग्रन्थोक्तान् रेत-आर्तव-जीव-सत्त्व-सात्म्य-रस-सम्यगुपचारान् प्रत्यवमृशति| एतदेव समुदायप्रभवत्वं गर्भस्य प्रत्येकं मात्रादिगर्भकारणव्युत्पादनेन दर्शयन्नाह- मातृजश्चेत्यादि| सात्म्यजश्चेत्यत्र सात्म्यशब्देन रसव्यतिरिक्तरूपादि, तथा आचारश्च सात्म्यो ग्राह्यः| सात्म्यरसस्तु ‘रसज’ इत्यनेनैव गृहीतः| औपपादुकमिति आत्मनः शरीरान्तरसम्बन्धोपपादकम्| एतच्च व्याकृतमेव पूर्वम्| अत्र यद्यपि पुरुषस्यानुपहतरेतस इत्यनेन पितैव प्रथममुक्तः, तथाऽपि मातृप्रधानतां गर्भस्य दर्शयितुं मातृजश्चायमिति प्रथमं कृतं; माता च गर्भे प्रधानं कारणं, येन आसेकात् प्रभृति प्रसवपर्यन्तं मातुरेव गुणदोषावनुविदधाति गर्भः; प्रथमं तु पुरुषस्य मैथुने स्वातन्त्र्यात् तथा शरीरधारकप्रधानास्थिकारणत्वाच्चाग्रेऽभिधानं कृतम्||३||
Adhikarana 3 (4 (1)) · Śloka 4
नेति भरद्वाजः, किं कारणं- न हि माता न पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न च परलोकादेत्य गर्भं सत्त्वमवक्रामति (१)|४|
पूर्वपक्षोद्धारेण सिद्धान्तं ग्राहयितुं मात्रादिगर्भकारणानि भरद्वाजमुखेनाक्षिपति- नेत्यादि| नेतीत्यनेन सामान्येनात्रेयवचनस्योक्तस्याक्षेपः| किं कारणमित्यनेन कस्मादात्रेयवचनमेतद्विरुद्धमित्यत्र कारणं पृच्छतो नहि मातेत्यादिनोक्तमात्रादिकारणानामकारणत्वं भरद्वाजः प्रतिजानीते||४ (१)||
Adhikarana 4 (4 (2)) · Śloka 4
यदि हि मातापितरौ गर्भं जनयेतां, भूयस्यः स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः, ते सर्वे पुत्रजन्माभिसन्धाय मैथुनधर्ममापद्यमानाः पुत्रानेव जनयेयुर्दुहितॄर्वा दुहितृकामाः, न तु काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः स्युरपत्यकामा वा परिदेवेरन् (२)|४|
यदि हीत्यादिना मात्रादीनामकारणत्वे हेतुं ब्रूते| किंवा, मात्रादीनामकारणत्वं भरद्वाजेन प्रतिज्ञातं तत्र ‘किं कारणमिति’ हेतुप्रश्नः, ततः ‘नहि माता’ इत्यादिना हेतुकथनम्| अस्य चायमर्थः- यत्- न मात्रादयो गर्भकारणत्वेन प्रत्यक्षेण दृश्यन्ते, ततो न मात्रादयो गर्भकारणम्| यदि हीत्यादिना तूपपत्तिविरोधोऽपि मात्रादिकारणत्वेऽस्तीति दर्शयति; तेन न पौनरुक्त्यम्| मैथुनधर्मः व्यवायः| पुत्रकामाः पुत्रानेव जनयेयुः, दुहितृकामा दुहितॄर्वा जनयेयुरिति योजना| नतु काश्चित् स्त्रिय इत्यत्र मैथुनमापद्यमाना एव स्त्रियः पुरुषाश्च परिदेवेरन् न चेति योजना | मातापित्रधीनत्वेन गर्भस्य यदैवेच्छन्त्यपत्यं, तदैव मैथुनमापद्यमानाः सापत्याः स्युः; ततश्च सर्वापत्यत्वेन न केचित् परिदेवेरन्नित्यर्थः||४ (२)||
Adhikarana 5 (4 (3)) · Śloka 4
न चात्माऽऽत्मानं जनयति|
यदि ह्यात्माऽऽत्मानं जनयेज्जातो वा जनयेदात्मानमजातो वा, तच्चोभयथाऽप्ययुक्तम्|
न हि जातो जनयति सत्त्वात्, न चाजातो जनयत्यसत्त्वात्, तस्मादुभयथाऽप्यनुपपत्तिः|
तिष्ठतु तावदेतत्|
यद्ययमात्माऽऽत्मानं शक्तो जनयितुं स्यात्, न त्वेनमिष्टास्वेव कथं योनिषु जनयेद्वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलजववर्णसत्त्वसंहननसमुदितमजरमरुजममरम्; एवंविधं ह्यात्माऽऽत्मानमिच्छत्यतो वा भूयः (३)|४|
आत्मजत्वं गर्भस्य निषेधयति- न चात्मेत्यादि| मनुष्यकरितुरगादिरूपेण आत्मानं जनयतीत्यर्थः| सत्त्वादिति जन्यस्यात्मनो विद्यमानत्वात्, न च विद्यमानो जन्यत इत्यर्थः| असत्त्वादिति कारणभूतस्यात्मनोऽजातपक्षेऽसत्त्वान्न कारणत्वमुपपन्नमित्यर्थः| अत्रैव दूषाणान्तरमाह- तिष्ठत्वित्यादि| योनिष्विवि जातिषु| अतो वा भूय इति यथोक्तगुणयुक्तादप्यधिकं शक्रादिपरमर्धितुल्यमित्यर्थः||४ (३)||
Adhikarana 6 (4 (4)) · Śloka 4
असात्म्यजश्चायं गर्भः|
यदि हि सात्म्यजःस्यात्, तर्हि सात्म्यसेविनामेवैकान्तेन प्रजा स्यात्, असात्म्यसेविनश्च निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्रैव दृश्यते (४)|४|
तच्चोभयमिति सप्रजत्वमनपत्यत्वं च| उभयत्रेति सात्म्यसेविन्यसात्म्यसेविन्यपि||४ (४)||
Adhikarana 7 (4 (5)) · Śloka 4
अरसजश्चायं गर्भः|
यदि हि रसजः स्यात्, न केचित् स्त्रीपुरुषेष्वनपत्याः स्युः, न हि कश्चिदस्त्येषां यो रसान्नोपयुङ्क्ते; श्रेष्ठरसोपयोगिनां चेद्गर्भा जायन्त इत्यभिप्रेतमिति, एवं सत्याजौरभ्रमार्गमायूरगोक्षीरदधिघृतमधुतैलसैन्धवेक्षुरसमुद्गशालिभृतानामेवैकान्तेन प्रजा स्यात्, श्यामाकवरकोद्दालककोरदूषककन्दमूलभक्षाश्च निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्र दृश्यते (५)|४|
यो रसान्नोपयुङ्क्ते इति रसश्चेद्गर्भकारणं तं च सर्व एव स्त्रीपुरुषाः सेवन्ते, तेन सर्व एव सापत्याः स्युरिति भावः| अथ रसजो गर्भ इत्यस्य श्रेष्ठरस इत्यर्थो वर्ण्यते, तत्रापि दूषणमाह- श्रेष्ठेत्यादि||४ (५)||
Adhikarana 8 (4) · Śloka 4
न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति; यदि ह्येनमवक्रामेत्, नास्य किञ्चित् पौर्वदेहिकं स्यादविदितमश्रुतमदृष्टं वा, स च तच्च न किञ्चिदपि स्मरति (६)||४||
तस्मादेतद्ब्रूमहे- अमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च, न चास्ति सत्त्वमौपपादुकमिति (होवाच भरद्वाजः )||४||
‘अस्ति च सत्त्वमौपपादुकम्’ इति यदुक्तं, तद्दूषयति- न खल्वपीत्यादि| पौर्वदेहिकमिति पूर्वदेहानुभूतम्| अविदितमदृष्टं वेति इह जन्मन्यपि पूर्वदेहानुभूतं नाविदितमदृष्टं वा स्यात्; विदितं प्रत्यक्षव्यतिरिक्तप्रमाणोपलब्धं, दृष्टं तु प्रत्यक्षोपलब्धम्, एतद्विपर्ययादविदितमदृष्टं च विज्ञेयम्| न च किञ्चिदपि स्मरतीति नच पूर्वजन्मानुभूतं स्मरतीत्यर्थः| एवं मन्यते- यन्मनः पौर्वदेहिकमनुभवति तच्चेह जन्मन्यप्यनुवर्तते, तथा यत् तेन जन्मान्तरेऽनुभूतं तदिह जन्मन्यपि तथैव स्मरतु; यथा- देवदत्तो बाल्यानुभूतं यौवने स्मरति, न चायं तथा स्मरति; तेन न पूर्वापरजन्मन्येकं सत्त्वमिति| तस्मादित्यादिना दूषणदूषितमर्थं पुनर्निगमनेन दर्शयति||४||
Adhikarana 9 (5) · Śloka 5
नेति भगवानात्रेयः, सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्यो गर्भोऽभिनिर्वर्तते||५||
भरद्वाजमतमात्रेयवचसा दूषयति- नेतीत्यादि| समुदितेभ्य इति वचनात् प्रत्येकं मात्रादीनामितरकारणनिरपेक्षाणां गर्भकारणत्वं निषेधयति| तेन, मात्रादिगर्भकारणसान्निध्येऽपि गर्भकारणान्तरजीवावक्रमाद्यभावाद् गर्भानुत्पादो युक्त एव| न च सामग्रीजन्ये कार्ये एकदेशस्याजनकत्वेनाकारणत्वम्| एवं सति तन्तूनामपि पटकारणानां कारणान्तरासान्निध्ये पटाजनकत्वेनाकारणत्वं स्यादिति भावः| इदमेव गर्भस्य मात्रादिजन्यत्वं यत्- मात्रादिव्यतिरेकेणानुत्पद्यमानत्वम्||५||
Adhikarana 10 (6) · Śloka 6
मातृजश्चायं गर्भः|
न हि मातुर्विना गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्|
यानि खल्वस्य गर्भस्य मातृजानि, यानि चास्य मातृतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- त्वक्च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषाधानं चामाशयश्च पक्वाशयश्चोत्तरगुदं चाधरगुदं च क्षुद्रान्त्रं च स्थूलान्त्रं च वापा च वपावहनं चेति (मातृजानि)||६||
एवंविधमेव मातुस्तावत् कारणत्वमाह- मातृजश्चायं गर्भ इत्यादिना| गर्भोत्पत्तौ मातुः कारणत्वं दर्शयित्वा जरायुजजन्मनि कारणत्वमाह- न च जन्मेत्यादि| जरायुः अमरा, येन वेष्टिता मनुष्यादयः प्रजायन्ते; जरायुणा वेष्टिता जायन्ते इति जरायुजामनुष्यादयः संस्वेदजानां मशकादीनामुद्भिज्जादीनां भेकादीनां च मातरं विनाऽपि जन्म भवति| अण्डजानामपि यद्यपि माता कारणं भवत्येव जन्मनि, तथाऽपि जरायुजस्य मानुषस्येह प्रकरणेऽभिप्रेतत्वेनाण्डजान् विहाय जरायुजानामिति कृतम्| किंवा, जरायुजस्याभिव्यक्तिरूपे जन्मनि यावदभिव्यक्ति यथा माता कारणं भवति, न तथाऽण्डजे; तत्र कूर्मादावण्डोत्पत्तिमात्र एव माता कारणं, न जन्मन्यभिव्यक्तिरूपे| यत्तु ‘पितुर्विना न जरायुजानां जन्म’ इति वक्ष्यति, तज्जरायुजोत्पादे पितुरवश्यापेक्षणीयत्वोपदर्शनार्थम्; अण्डजास्तु मत्स्यादयः पितरं विनाऽपि ऋतुविशेषप्राप्त्यैव भवन्तीति भावः| मातृजानीत्यस्य विवरणं- यान्यस्य मातृतः सम्भवतः सम्भवन्तीति सम्भवतो गर्भस्य यानि मातृत इति मातुरागताच्छोणितात् सम्भवन्त्युत्पद्यन्ते, तानि मातृजानि त्वगादीन्यनुव्याख्यास्याम इति योजना| एवमन्यत्रापि यानि त्वित्यादिग्रन्थो व्याख्येयः| मातृजत्वं च त्वगादीनामागमगम्यगेव| पुरीषाधानं पक्वाशयः| उत्तरगुदाधरगुदौ गुदोत्तराधरभागौ| वपावहनं ‘तैलवर्तिका’ इति कथ्यते ||६||
Adhikarana 11 (7) · Śloka 7
पितृजश्चायं गर्भः|
नहि पितुरृते गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्|
यानि खल्वस्य गर्भस्य पितृजानि, यानि चास्य पितृतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- केशश्मश्रुनखलोमदन्तास्थिसिरास्नायुधमन्यः शुक्रं चेति (पितृजानि)||७||
शुक्रमिति विच्छिद्यपाठेन शुक्रस्य सर्वधातुसारस्योपादेयतां दर्शयति||७||
Adhikarana 12 (8) · Śloka 8
आत्मजश्चायं गर्भः|
गर्भात्मा ह्यन्तरात्मा यः, तं ‘जीव’ इत्याचक्षते शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि|
स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मनाऽऽत्मानम्, आत्मसञ्ज्ञा हि गर्भे|
तस्य पुनरात्मनो जन्मानादित्वान्नोपपद्यते, तस्मान्न जात एवायमजातं गर्भं जनयति, अजातो ह्ययमजातं गर्भं जनयति; स चैव गर्भः कालान्तरेण बालयुवस्थविरभावान् प्राप्नोति, स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति, या त्वस्य पुरस्कृतातस्यां जनिष्यमाणश्च, तस्मात् स एव जातश्चाजातश्च युगपद्भवति; यस्मिंश्चैतदुभयं सम्भवति जातत्वं जनिष्यमाणत्वं च स जातो जन्यते, स चैवानागतेष्ववस्थान्तरेष्वजातो जन्ययत्यात्मनाऽऽत्मानम्|
सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते तत्र तत्र वयसि तस्यां तस्यामवस्थायां; यथा- सतामेव शुक्रशोणितजीवानां प्राक् संयोगाद्गर्भत्वं न भवति, तच्च संयोगाद्भवति; यथा- सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति, तच्चापत्याद्भवति; तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वं चोच्यते||८||
आत्मज इत्यादिना आत्मजत्वं व्युत्पादयति| अन्तरात्मोच्यत इत्यनेन गर्भकारणभूतमात्मानं षड्धातुसमुदायवर्त्यात्मशब्दाभिधेयाद् व्यावर्तयति| आचक्षत इति आगमेषु शाश्वतादिशब्दैर्ब्रुवते वृद्धाः| अलोड्यमिति अक्षोभ्यम्| गर्भत्वेन जनयत्यात्मानमिति गर्भस्वरूपो यः षड्धातुक आत्मा तं जनयतीत्यर्थः| गर्भस्यात्मशब्दाभिधेयतामाह- आत्मसञ्ज्ञा हि गर्भे इति| तस्येत्यनेन परमात्मानं प्रत्यवमृशति| यस्मादस्यानादित्वाज्जन्म नोपपद्यते तस्माज्जात एवायमजातं गर्भं जनयतीति पक्षोऽन, इति योज्यम्| अथ जातः स न चेज्जनयति कथं तर्हि जनयतीत्यह- अजातो ह्ययमिति; नित्यो ह्ययमित्यर्थः| तेन नित्यत्वेनाकाशवन्न जातः सन्नन्तरात्मा गर्भस्वरूपमात्मानं जनयति| अतश्चान्तरात्मरूपतया नित्यविद्यमानत्वेनाजातः सन् गर्भरूपावस्थायां जात उच्यते| एवमजातत्वं जातत्वं चात्मनि द्वयमपि व्यपदिश्यते| एतदेवात्मनि जातत्वमजातत्वं च दर्शयितुं दृष्टान्तार्थं गर्भ एव जातत्वमजातत्वं च दर्शयति- स चैवेत्यादि| पुरस्कृतेति अग्रे भविष्यन्ती| यथा- बालस्य वृद्धत्वावस्थाऽजाता जन्यत इति च, तथा अजातो जनयत्यात्मनाऽऽत्मनमिति च शब्दप्रयोगसमर्थनमात्रमेतद् विवक्षाभेदाद्बोद्धव्यम्| अनेन चात्मन्यवस्थाभेदकृतजातत्वसमर्थनेन ‘जातो वाजनयेत्, अजातो वा’ इत्यादिग्रन्थकृतपूर्वपक्षः शब्दप्रयोगसमर्थनतया परिहृतः| परमार्थतस्तु नित्यत्वेनाजात एवात्मा आत्मनोऽजातावस्थां गर्भादिरूपां जनयति| तेन, नासतः कारणत्वं सतो वा जन्यत्वमिति पक्षः स्थित एव| सतो हीत्यादिना सत्कार्यपक्षं साङ्ख्यमतं दर्शयति| किंवा वयोभेदेन यदेवावस्थान्तरगमनं तदेव जन्मेति दर्शयति| तस्यां तस्यामवस्थायामिति च्छेदः| पितृत्वमिति पितृत्वेन व्यपदेश इत्यर्थः||८||
Adhikarana 13 (9) · Śloka 9
न खलु गर्भस्य न च मातुर्न पितुर्न चात्मनः सर्वभावेषु यथेष्टकारित्वमस्ति; ते किञ्चित् स्ववशात् कुर्वन्ति, किञ्चित् कर्मवशात्, क्वचिच्चैषां करणशक्तिर्भवति, क्वचिन्न भवति|
यत्र सत्त्वादिकरणसम्पत्तत्र यथाबलमेव यथेष्टकारित्वम्, अतोऽन्यथा विपर्ययः|
न च करणदोषादकरणमात्मासम्भवति गर्भजनने, दृष्टं चेष्टा योनिरैश्वर्यं मोक्षश्चात्मविद्भिरात्मायत्तम्|
नह्यन्यः सुखदुःखयोः कर्ता|
न चान्यतो गर्भो जायते जायमानः, नाङ्कुरोत्पत्तिरबीजात्||९||
यदुक्तं- यद्यात्मा आत्मानं जनयति तदा वशित्वादिगुणयुक्तं जनयेदिति, तत्रोत्तरमाह- न खल्वित्यादि| गर्भस्य सर्वभावेषु न मात्रादीनां यथेष्टकारित्वमिति योज्यम्| अत्र च यद्यप्यात्मैव प्रकृतः, तथाऽपि तुल्यसमाधानत्वेन मातापितरावप्युपात्तौ| यथा आत्मनः सर्वभावेषु यथेष्टकारित्वेनेष्टयोनिगमनादिप्रसक्तिः समाधीयते, तथा मातापित्रोरपि यथेष्टकारित्वेन पुत्रानेव जनयेयुरित्यादिपूर्वपक्षः परिहृतो भवति| अथ कुत एवात्मादीनां यथेष्टकारित्वं क्वचिन्न भवतीत्याह- किञ्चिदित्यादि| किञ्चिदिति न सर्वम्| तत्र मातापितरौ स्ववशौ मैथुनं गर्भकारणं सात्म्यरससेवादिकं चाचरतः, गर्भस्य जीवाधिष्ठानादौ तु कर्माधीने परवशौ; तथा, आत्माऽपि गर्भस्य चैतन्ये तथा धर्माधर्महेतुक्रियानुष्ठाने स्ववशः, कर्मजन्ये इष्टानिष्टयोन्यादिगमने तु धर्माधर्मपराधीन एव; तेन कर्माधीने विषये न मात्रादीनां यथेष्टकारित्वम्| यथेष्टकारित्वमपि मात्रादीनां क्वचिद्दर्शयन्नाह- क्वचिच्चैषामित्यादि| करणमुपकरणं साधनोपाय इति यावत्| सत्त्वं मनः, आदि प्रधानं येषां तानि सत्त्वादीनि मन-इन्द्रियशुक्रशोणितादीनि| यथाबलमिति यथाकर्म; बलशब्देनेहादृष्टमुच्यते | एतेन, यत्र मात्रादीनां पुत्रेच्छायामिष्टयोनिगमनादिकरणशक्तिर्भवति , कर्म चानुगुणं भवति, तत्रेप्सितपुत्रादिष्विष्टयोनिगमनादि कार्यं भवति; यथा- यदि तत्र विशुद्धभूरिशुक्रः पुरुषो भवति, स्त्री च विशुद्धयोन्याश्रयत्वादिगुणयुक्ता, पुत्रजनकं च कर्मं तयोर्बलवत्, तदा पुत्रजन्माभिसन्धाय मैथुनमापद्यमानौ ईप्सितं पुत्रं जनयतः; तथा आत्माऽपि विशुद्धसत्त्वादिगुणयुक्तः शुभकर्मवान् तत्काले इष्टां योनिमनुध्यायति, तदाऽभीष्टयोनिगमनं सम्पादयत्यात्मन इत्यादि यथेष्टकारित्वोदाहरणं ज्ञेयम्| अतोऽन्यथा इति सत्त्वादिकरणाशक्तौ विगुणे च दैवे| विपर्यय इति न यथेष्टकारित्वम्| किंवा, क्वचिच्च मैथुनादावेषां पित्रादीनां स्ववशत्वं, तत् किमिति जीवोपक्रमादावपि न स्ववशत्वमेषां भवतीत्याह- क्वचिच्चैषामित्यादि| क्वचिदेव कार्ये यस्मात् किञ्चित् करणं मात्रादीनां शक्तं न सर्वत्र, तेन सर्वेष्वेव गर्भस्य भावेषु न स्ववशत्वमिति भावः| यत्रापि चैते मात्रादयः स्ववशाः सन्तः कुर्वन्ति, तत्रापि स्वीयस्वीयकरणयुक्ता एव कुर्वन्तीत्याह- यत्र सत्त्वेत्यादि| यथाबलमिति यथाशक्ति| अनेन च मात्रादयो गर्भस्य येषु विशेषेषु शक्ताः, तेषु सत्त्वादिकरणसम्पत्तौ यथेष्टकारिणो भवन्ति, न त्वशक्ये विषये उपहतकरणा वा यथेष्टकारिणो भवन्तीति दर्शयति| अतोऽन्यथा विपर्यय इत्यस्य चार्थोऽग्रे व्याकृतः| ननु सत्त्वादिकरणदोषाच्चेदयमात्मा गर्भं न जनयति तथाविधं, हन्त तर्ह्यकारणमेवायमात्मा, कारणं हि यद्भवति तत् करोत्येव कार्यमित्याह- न चेत्यादि| करणदोषादकुर्वन् गर्भं कदाचिदात्मान गर्भजनने कारणं भवतीति न, अपितु भवत्येव कारणम्; एवं मन्यते- मृदाद्यभावात् घटमकुर्वन्नपि कुम्भकारः कारणमेव घटस्य भवति, घटजननशक्तियुक्तत्वात्; तथा आत्माऽपि करणदोषादकुर्वन्नपि तथाविधं गर्भं, तज्जननशक्तत्वेन भूयोदृष्टत्वात् कारणमेव भवति| तथेष्टयोनिगमने प्रसक्तिरपि प्रोद्भाविता आत्मनः कारणत्वेन सा क्वचिद्भवतीत्यपि दर्शयन्नाह- दृष्टं चेत्यादि| आत्माधीना योनिः पुरुषं प्रति इष्टा योनिः; तथा ऐश्वर्यादयश्चात्माधीना दृष्टाः, यथोक्तं कतिधापुरुषीये- “आवेशश्चेतसो ज्ञानं” (शा. १) इत्यादिना| आत्मनः कारणत्वे हेत्वन्तरमाह- न ह्यन्य इत्यादि|- हि यस्मादात्मनोऽन्यः सुखदुःखयोः कर्ता नास्ति, किं त्वात्मैव सुखदुःखसाधनेन्द्रियकर्मशरीरादिकर्ता; तेन आत्मा कारणं गर्भस्य सुखदुःखाद्याधारस्येति भावः| अथ भूतान्येव कस्मात् संयोगवशाच्चेतनामासाद्य सुखादिकारणानि न भवन्तीत्याह- न चान्यत इत्यादि| अन्यत इति विजातीयात्| जायमान इति उत्पद्य मानः| सदृशमेव कारणात् कार्यमुत्पद्यते; येन न शणस्याङ्कुरोत्पत्तिर्नारिकेलबीजाद्भवति; अबीजादिति कार्यत्वेनाभिमताङ्कुरस्याबीजात्| एतेन, गर्भस्य यच्चैतन्यं तदचेतनेभ्यो भूतेभ्यो न भवति, किन्तु चेतनाधातोरात्मन एवेति दर्शयति||९||
Adhikarana 14 (10) · Śloka 10
यानि तु खल्वस्य गर्भस्यात्मजानि, यानि चास्यात्मतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः तद्यथा- तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वेषौ चेतना धृतिर्बुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेति (आत्मजानि)||१०||
एवमात्मजत्वं गर्भस्य व्युत्पाद्यात्मजान् विशेषानाह- यानीत्यादि| प्रेरणं धारणं चेन्द्रियाणामेव| अत्र च तत्तद्देवादिपश्वादियोनिगमनादौ धर्माधर्मजन्ये धर्माधर्मस्यापि जनकत्वेनात्मैव मूलकारणमुच्यते; आत्मज्ञानप्राणापानप्रेरणादौ तु मनःकरण आत्मैवाव्यवधानेन कारणम्||१०||
Adhikarana 15 (11) · Śloka 11
सात्म्यजश्चायं गर्भः|
नह्यसात्म्यसेवित्वमन्तरेण स्त्रीपुरुषयोर्वन्ध्यत्वमस्ति, गर्भेषु वाऽप्यनिष्टो भावः|
यावत् खल्वसात्म्यसेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते, तावत् समर्था गर्भजननाय भवन्ति|
सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतकाले सन्निपतितानां जीवस्यानवक्रमणाद्गर्भा न प्रादुर्भवन्ति|
नहि केवलं सात्म्यज एवायं गर्भः, समुदयोऽत्र कारणमुच्यते|
यानि खल्वस्य गर्भस्य सात्म्यजानि, यानि चास्य सात्म्यतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः स्वरवर्णबीजसम्पत् प्रहर्षभूयस्त्वं चेति (सात्म्यजानि)||११||
सात्म्यजश्चेत्यादिना सात्म्यजत्वं व्युत्पादयति, असात्म्यसेवां च गर्भोपघातिनीं दर्शयन् सात्म्यसेवाया गर्भं प्रति कारणत्वं द्रढयति| असात्म्यसेविनामपि प्रजाभवनोपपत्तिं दर्शयन् ‘असात्म्यसेविनश्च निखिलेनापत्याः स्युः’ इति पूर्वपक्षं परिहरति| सात्म्यसेविनां पुनरित्यादिना तु ग्रन्थेन ‘सात्म्यसेविनामेकान्तेन प्रजा स्यात्’ इति यदुक्तं तत् परिहरति| सन्निपतितानामिति व्यवायमापन्नानाम्| अत्र स्वरवर्णौ सात्म्यजत्वेन तथा आत्मजत्वेन चोक्तौ, तेन द्वावप्यत्र कारणमिति ज्ञेयम्||११||
Adhikarana 16 (12) · Śloka 12
रसजश्चायं गर्भः|
न हि रसादृते मातुः प्राणयात्राऽपि स्यात्, किं पुनर्गर्भजन्म|
न चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति, न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति, समुदायोऽप्यत्र कारणमुच्यते|
यानि तु खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- शरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्धस्तृप्तिः पुष्टिरुत्साहश्चेति (रसजानि)||१२||
प्राणयात्राऽपि स्यादिति गर्भधारणकारणभूताया मातुरपि प्राणस्थितिरित्यर्थः| न चैवासम्यगुपयुज्यमाना इत्यादिना असात्म्यरसोपयोगस्य गर्भोपघातित्वं दर्शयति| असात्म्यरसोपयोगिनां प्रजाभवनं यत्, तदसात्म्यसेविप्रजाभवनन्यायतुल्यमिति नेह पुनर्दर्शितम्| समुदायोऽप्यत्र कारणमित्यनेन तु असम्यग्रससेविनां चापत्यभवने कारणं धर्मादि दर्शयति| अभिनिर्वृत्तिः अङ्गप्रत्यङ्गव्यक्तता| प्राणानुबन्ध इति बलानुबन्धः पुष्टिः उपचयः| वृद्धिस्तु दैर्घ्येण वृद्धिः| उत्साहः बलम्| इति शब्दः प्रकारे; तेनैवम्प्रकाराण्यन्यान्यपि वर्णादीनि रसजानीति दर्शयति| एवं पूर्वत्रापि इतिशब्दो व्याख्येयः| यदा त्वितिशब्दः परिसमाप्त्यर्थस्तदाऽप्याविष्कृतानां रसजानां परिसमाप्तिर्ज्ञेया; तेन अनाविष्कृता वर्णादयोऽपि रजसा लभ्यन्ते||१२||
Adhikarana 17 (13) · Śloka 13
अस्ति खलु सत्त्वमौपपादुकं; यज्जीवं स्पृक्शरीरेणाभिसम्बध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्तते, भक्तिर्विपर्यस्यते, सर्वेन्द्रियाण्युपतप्यन्ते, बलं हीयते, व्याधय आप्याय्यन्ते, यस्माद्धीनः प्राणाञ्जहाति, यदिन्द्रियाणामभिग्राहकं च ‘मन’ इत्यभिधीयते; तत्त्रिविधमाख्यायते- शुद्धं, राजसं, तामसमिति|
येनास्य खलु मनो भूयिष्ठं, तेन द्वितीयायामाजातौ सम्प्रयोगो भवति; यदा तु तेनैव शुद्धेन संयुज्यते, तदा जातेरतिक्रान्ताया अपि स्मरति|
स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो ‘जातिस्मर’ इत्युच्यते|
यानि खल्वस्य गर्भस्य सत्त्वजानि, यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये, ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः|
नानाविधानि खलु सत्त्वानि, तानि सर्वाण्येकपुरुषे भवन्ति, न च भवन्त्येककालम्, एकं तु प्रायोवृत्त्याऽऽह ||१३||
अस्तीत्यादिना मनस औपपादुकत्वमाक्षिप्तं समादधाति| अपिशब्दोऽवधारणे| अत्र च ‘यज्जीवं स्पृक्शरीरेणाभिसम्बध्नाति’ इत्यादिना मनसोऽसाधारणधर्मकथनमेवौपपादुकसाधनं भवति, मनोव्यतिरेकेणैतदुच्यमानधर्माणामसिद्धेः| नित्यमात्मानं स्पृशतीति स्पृक्, शरीरमातिवाहिकशरीरं; तेन स्पृक्शरीरेण कारणभूतेन जीवमात्मरूपमभिसम्बध्नाति भोगायतनशरीरेणेत्यर्थः| आतिवाहिकशरीरसद्भावश्च “भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्” (शा. २) इत्यनेन प्रतिपादितः|किंवा, जीवम् आत्मानं, स्पृक्शरीरेणेति स्पर्शवता शरीरेण, यन्मनोऽभिसम्बध्नाति तदुपपादुकमस्तीति योजना| एवं मन्यते- यदि मनोऽत्रात्मनः शरीरसम्बन्धेन स्वीक्रियते तदा व्यापकत्वादात्मनः सर्वत्रैवोपलब्ध्या भवितव्यं, न च भवति; तस्माद्यत्रैव स्पर्शवति शरीरे मनः प्रतिबद्धं भवति तत्रैवायं सुखाद्युपलभते| स्पृगितिविशेषणेन शरीरस्य मूत्रनखकेशादौ मनोगमनाभावादात्मनोऽनुपलब्धिं दर्शयति| अपगमनपुरस्कृते इति देहान्तरगमनाभिमुखे| भक्तिः इच्छा| यस्माद्धीन इति मनसा त्यक्तः| येनेति यथाभूतेन सात्त्विकेन राजसेन तामसेन वा मनसा भूयिष्ठमित्यभिप्रायः| द्वितीयायामाजाताविति द्वितीयजन्मनि; पूर्वजन्मनि यादृशं मनस्तादृशमेव जन्मान्तरे प्रायो भवतीत्यर्थः| केचित्तु, ‘तेन न द्वितीयायां’ इत्यादि पठन्ति| तत्रापि प्रायो द्वितीये जन्मनि तुल्येन मनसा योगो न भवति, कदाचित्तु भवतीत्यर्थः| यदुक्तं ‘नास्य किञ्चित् पौर्वदेहिकमविदितं स्यात्’ इति, तत् पौर्वदेहिकं ज्ञानं क्वचिद्भवतीति दर्शयन्नाह- यदा त्वित्यादि| शुद्धेनेति विशुद्धसत्त्वगुणेन| तस्यैवेति वक्ष्यमाणेन यस्येत्यनेन सम्बध्यते| योनियन्त्रपीडायां हि उद्भूतेन तमसा विप्लुतं मनो नातिक्रान्तजन्मगतं स्मरति; यस्तूद्भूतसत्त्वस्तमसा नाभिभूयते, स स्मरत्येवातिक्रान्तजन्मानुभूतमिति भावः| पुरस्कृत्येति कारणत्वेनावधार्य| अयं च मनोधर्मसमूह इन्द्रियोपक्रमणीयोक्तोऽपि पुनरिह प्रकरणवशादुच्यमानो न पुनरुक्तदोषमावहति| यद्यपि सत्त्वस्य गर्भजनकत्वं साक्षान्नोक्तं, तथाऽपि सत्त्वस्य यदुपपादुकत्वं गर्भं प्रति तेनैव सत्त्वस्य गर्भजनकत्वं प्रतिज्ञातं मन्तव्यम्| तेन ‘यानि खल्वस्य गर्भस्य सत्त्वजानि’ इत्यादिना गर्भे सत्त्वजभावकथनमुपपन्नमेव| गर्भकारणस्यापि च सत्त्वस्योपपादुकभाषया कारणत्वं यदुक्तं तद्देहाद्देहान्तरगमनरूपमनोधर्मस्य गर्भकारणत्वातिरिक्तस्य प्रतिपादनार्थम्| नानाविधानीति नानाविधसात्त्विकराजसतामंसवृत्तिभिन्नानि| तान्येकपुरुषे भवन्तीत्यनेनैक एव पुरुषः कदाचिद्धर्मक्रियायां सात्त्विको भवति, कदाचित् कामचिन्तायां राजसः, कदाचिन्मोहे तमोमय इति दर्शयति| न भवन्त्येककालमिति एकदैव सात्त्विकादयो धर्मा न भवन्ति, किन्तु पर्यायेण भवन्ति| ननु यद्येकपुरुष एव सर्वे सात्त्विकादयो भवन्ति, तत् कथम् ‘अयं सात्त्विकः’ इत्यादिव्यपदेशो भवतीत्याह- एकं त्वित्यादि| प्रायोवृत्त्येति भूयिष्ठा यस्य सात्त्विकवृत्तयो भवन्ति स सात्त्विकः, यस्य भूयिष्ठं राजस्यो वृत्तयो भवन्ति स राजस उच्यते इत्यादि| एतदेव पूर्वमुक्तं- “यद्गुणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं, तत्सत्त्वमेवोपदिशन्ति बाहुल्यानुशयात्” (सू. ८) इति||१३||
Adhikarana 18 (14) · Śloka 14
एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः; यथा- कूटागारं नानाद्रव्यसमुदायात्, यथा वा- रथो नानारथाङ्गसमुदायात्; तस्मादेतदवोचाम- मातृजश्चायं गर्भः, पितृजश्च, आत्मजश्च, सात्म्यजश्च, रसजश्च, अस्ति च सत्त्वमौपपादुकमिति (होवाच भगवानात्रेयः)||१४||
एवं मात्रादिकारणव्युत्पादनेन गर्भस्य समुदायप्रभवतां व्युत्पादितां दृष्टान्तेन द्रढयन्नाह- एवमयमित्यादि| कूटागारं वर्तुलाकारं गृहं जेन्ताकस्वेदप्रतिपादितम्; अन्ये तु वस्त्रादिकृतं सञ्चारिगृहं कूटागारमाहुः| अत्र च प्रकरणे यद्यपि मात्रादीनां सर्वेषां समुदितानामेव गर्भं प्रति कारणत्वं, तथाऽपि मातापित्रात्मसत्त्वानि विहाय सात्म्यरसयोरेव कारणत्वव्युत्पादने यत् ‘समुदायोऽप्यत्र कारणम्’ इत्युक्तं तत्रैवं मन्यते- अत्र यथा मात्रादयश्चत्वारोऽवश्यं गर्भं प्रति कारणभूता न तथा सात्म्यं रसो वा; येन शुक्रशोणितसत्त्वात्मसंसर्गादेव गर्भो भवति, नावश्यं गर्भमेलके सात्म्यरसयोरपेक्षा; गर्भमेलकोत्तरकालं सात्म्यरसाभ्यां गर्भस्य हि पुष्ट्यादयो जन्यन्ते, तेन सात्म्ये रसे चावश्यं समुदायापेक्षां दर्शयता तत्रैव ‘समुदायोऽप्यत्र कारणम्’ इत्युक्तं, मात्रादयस्तु परस्परसमुदायमपेक्षमाणा अपि नावश्यं सात्म्यरससमुदायमादिगर्भमेलकेऽपेक्षन्त इति कृत्वा पुनस्तत्र समुदायापेक्षित्वं नोक्तम्| समुदायादेषां भावानामित्यनेन ग्रन्थेन यत् परस्परसमुदायापेक्षित्वं मात्रादीनां चतुर्णां, तदुक्तमेव| यदपि गर्भं प्रत्यविशेषेण सात्म्यरसयोरपि कारणत्वं, ‘सात्म्यजश्चायं, रसजश्चायं’ इत्यनेनोक्तं, तद्गर्भमेलकोत्तरकालं कारणत्वेन, तथा मातापित्रोरपि विशुद्धशुक्रशोणितोत्पादहेतुतया पारम्पर्येण कारणत्वादिति ज्ञेयम्||१४||
Adhikarana 19 (15) · Śloka 15
भरद्वाज उवाच- यद्ययमेषां नानाविधानां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः कथमयं सन्धीयते, यदि चापि सन्धीयते कस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविग्रहेण जायते, मनुष्यश्च मनुष्यप्रभव उच्यते; तत्र चेदिष्टमेतद्यस्मान्मनुष्यो मनुष्यप्रभवस्तस्मादेव मनुष्यविग्रहेण जायते, यथा- गौर्गोप्रभवः, यथा- चाश्वोऽश्वप्रभव इति; एवं सति यदुक्तमग्रे समुदयात्मक इति तदयुक्तम्|
यदि च मनुष्यो मनुष्यप्रभवः, कस्माज्जडान्धकुब्जमूकवामनमिम्मिनव्यङ्गोन्मत्तकुष्ठिकिलासिभ्यो जाताः पितृसदृशरूपा न भवन्ति|
अथात्रापि बुद्धिरेवं स्यात्- स्वेनैवायमात्मा चक्षुषा रूपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्ध्या बोद्धव्यमित्यनेन हेतुना न जडादिभ्यो जाताः पितृसदृशा भवन्ति|
अत्रापि प्रतिज्ञाहानिदोषः स्यात्, एवमुक्ते ह्यात्मा सत्स्विन्द्रियेषु ज्ञः स्यादसत्स्वज्ञः; यत्र चैतदुभयं सम्भवति ज्ञत्वमज्ञत्वं च, सविकारश्चात्मा |
यदि च दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादिविरहादज्ञः स्यात्, अज्ञत्वादकारणम्, अकारणत्वाच्च नात्मेति वाग्वस्तुमात्रमेतद्वचनमनर्थं स्यादिति (होवाच भरद्वाजः)||१५||
पुनर्भरद्वाजः पृच्छति- यद्ययमित्यादि| कथं सन्धीयत इति कया परिपाठ्या मिलतीत्यर्थः| मनुष्यविग्रहेण जायत इति मनुष्यजातौ कस्मान्मनुष्यविग्रहेणैव जायत इत्यर्थः| समुदायात्मक इति यदुक्तं तदयुक्तमिति अत्र मात्राद्यतिरिक्तजातेः कारणत्वकथनेन तथा जातेरेव मनुष्यादिरूपाया बलवत्कारणत्वेन यथोक्तमात्रादिसमुदायप्रभवत्वं न युक्तमिति भावः| दूषणान्तरमाह- यदि चेत्यादि| जडो जडबुद्धिः, मिन्मिनः सानुनासिकाव्यक्तस्वरः| पितृसदृशरूपा इत्यत्र पितृशब्देन मातापितरौ ग्राह्यौ| कारणसदृशरूपत्वेन चेन्मनुष्या भवन्ति तदा जडादिरूपकारणजाता अपि कारणसदृशत्वेन जडादिरूपाः स्युरिति भावः| अत्र जडादिबहूदाहरणकरणं पक्षस्य बहूदाहरणसिद्धत्वेन दृढत्वप्रतिपादनार्थम्| कृतपूर्वपक्षे समाधानमाशङ्कते- अथात्रेत्यादि| स्वेनैवेति आत्मकर्मोपार्जितेनैव| तेन, इन्द्रियाणि यस्मादात्मजान्युक्तानि न तु मातापितृरूपमनुष्यजन्यानि, ततश्च पित्रोरिन्द्रियं प्रत्यकारणत्वेन न तदिन्द्रियसदृशानीन्द्रियाण्यस्य भवन्तीति भावः| स्वेनैवेति श्रोत्रादिभिरभिसम्बध्यते| जडादिभिर्जाता इत्यत्र आदिशब्दः प्रकारवाची, तेन कुब्जकुष्ट्यादीनां ग्रहणम्| कुब्जत्वकुष्ठाद्याधारभूतं हि शरीरं नात्मजं, किन्तु मातापितृजमेव; ततश्च कुब्जादिजातस्य कुब्जत्वादिप्रसङ्गेनैवापकृतत्वं तदवस्थमेव| आशङ्कितं समाधानं दूषयति- अत्रापीत्यादि| प्रतिज्ञादोषः स्यादिति “अत्मा ज्ञः” (शा. १) इत्यादिना आत्मनो ज्ञत्वप्रतिज्ञायाः, तथा “निर्विकारः परस्त्वात्मा” (सू. १) इत्यादिना कृताया निर्विकारत्वप्रतिज्ञाया दोषः स्यादिति भावः| असत्स्वज्ञ इत्यनेन कदाचिदज्ञत्वात् प्रतिज्ञातं ज्ञत्वं व्याहतम्, इन्द्रियाधीनत्वेन ज्ञत्वमात्मनः पराधीनं सन्न वास्तवं स्यादिति भावः| यत्रेत्यादिना सविकारत्वं साधयति| ज्ञत्वपरित्यागेनाज्ञत्वे प्रकृतेरन्यथाभूतत्वेन विकारो भवतीति भावः| सविकार इति ‘विकारवान्’ इत्यर्थो मतुब्लोपाज्ज्ञेयः| आत्मन इन्द्रियाधीनत्वेन ज्ञत्वे दूषणान्तरमाह- यदि चेत्यादि| अज्ञत्वादकारणमिति अज्ञत्वात् ज्ञानपूर्वकशरीरप्रेरणादौ न कारणं स्यादित्यर्थः| अकारणत्वाच्च नात्मेति शरीरप्रेरणादौ बुद्धिनिष्पाद्येऽकारणत्वादचेतनपञ्चभूतातिरिक्तश्चेतनाभिध आत्मशब्दवाच्य इत्यर्थः| वाग्वस्तुमात्रमिति अर्थरहितशब्दमात्रमेतद्- यदुच्यते- आत्मा स्वेन चक्षुषा रूपं पश्यतीत्यादि||१५||
Adhikarana 20 (16) · Śloka 16
आत्रेय उवाच- पुरस्तादेतत् प्रतिज्ञातं- सत्त्वं जीवं स्पृक्शरीरेणाभिसम्बध्नातीति|
यस्मात्तु समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते, मनुष्यो मनुष्यप्रभव इत्युच्यते, तद्वक्ष्यामः- भूतानां चतुर्विधा योनिर्भवति- जराय्वण्डस्वेदोद्भिदः|
तासां खलु चतसृणामपि योनीनामेकैका योनिरपरिसङ्ख्येयभेदा भवति, भूतानामाकृतिविशेषापरिसङ्ख्येयत्वात्|
तत्र जरायुजानामण्डजानां च प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते, तस्यां तस्यां योनौ तथातथारूपा भवन्ति; यथा- कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु, तानि यदा मनुष्यबिम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते, तस्मात् समुदायप्रभावः सन् गर्भो मनुष्यविग्रहेण जायते; मनुष्यश्च मनुष्यप्रभव उच्यते, तद्योनित्वात्||१६||
आत्रेयः समादधाति- पुरस्तादित्यादि|- एतच्च ‘कथमयं सन्धीयते’ इत्यस्योत्तरम्| सत्त्वं शुक्रार्तवसन्धानकारणमित्यर्थः| भूतानामिति प्राणिनाम्| योनिः जातिः, यदाऽपि योनिशब्दः कारणवचनस्तदाऽपि जरायुजादिरूपयोनिजाता अपि जरायुजादय एवोच्यन्ते, कार्ये कारणोपचारात्| आकृतिः संस्थानं, तस्या विशेषाः परस्परविसदृशाकृतय एव नर-करि-तुरगादि-रूपाः| सम्भवे योनिभेदं दर्शयित्वा यथा योन्यनुकारो भवति तदाह- तत्रेत्यादि| गर्भकारा भावाः शुक्रादयः| मधूच्छिष्टविग्रहेष्विति सिक्थकेन मृत्तिकायां निर्मितसञ्चकरूपविग्रहेषु| मनुष्यबिम्बमिति मनुष्याकारं सिक्थककृतं सञ्चकम्| कनकादिबहुद्रव्योदाहरणं यथा कनकादीनां बहूनामपि मनुष्यसञ्चकसिक्थकस्थानां मनुष्याकृतिजनकत्वं, तथा शुक्रादीनामपि बहूनां मनुष्ययोनिपतितानां मनुष्यविग्रहकर्तृत्वमिति साधर्म्योदाहरणार्थम्| समुदायात्मकः सन्निति यद्यपि समुदायजन्यस्तथाऽपि योनिरूपकारणमहिम्ना स्वयोनिसदृश एव भवति नान्ययोनिसदृशः; न च कारणधर्मः पर्यनुयोगमर्हति| तेन, शुक्रादिसमुदायोऽपि कारणं भवति, मातापितरौ विशेषेण गर्भस्य सजातीयत्वे कारणं भवत इति न काचित् क्षतिः| तद्योनित्वादिति विशेषेण मनुष्यस्य कारणत्वात्||१६||
Adhikarana 21 (17) · Śloka 17
यच्चोक्तं- यदि च मनुष्यो मनुष्यप्रभवः, कस्मान्न जडादिभ्यो जाताः पितृसदृशरूपा भवन्तीति; तत्रोच्यते- यस्य यस्य ह्यङ्गावयवस्य बीजे बीज भाग उपतप्तो भवति, तस्य तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात्; तस्मादुभयोपपत्तिरप्यत्र|
सर्वस्य चात्मजानीन्द्रियाणि, तेषां भावाभावहेतुर्दैवं; तस्मान्नैकान्ततो जडादिभ्यो जाताः पितृसदृशरूपा भवन्ति||१७||
बीज इति शुक्रशोणिते| बीजस्याङ्गप्रत्यङ्गनिर्वर्तको भागो बीजभागः| उभयोपपत्तिरप्यत्रेति पितृसदृशरूपा भवन्ति न भवन्ति चेत्यर्थः| आत्मजानीति आत्मप्रतिबद्धकर्मजानि| भावाभावहेतुर्दैवमिति इन्द्रियभावे इन्द्रियजनकं शुभम्, इन्द्रियाभावे चाशुभं दैवं हेतुरित्यर्थः| उपसंहरति- तस्मादित्यादि| एवं मन्यते- मनुष्यबीजं हि प्रत्यङ्गबीजभागसमुदायात्मकं स्वसदृशप्रत्यङ्गसमुदायरूपपुरुषजनकम्, इन्द्रियाणि च भोगसाधनानि आत्मप्रतिबद्धकर्माधीनानि; तेन पिता यदि कुष्ठ्यपि भवति, बीजं चादुष्टं भवति कुष्ठाधारत्वगादिजनकं, ततो निष्कुष्ठान्येव त्वगादीन्यनुपतप्तत्वगादिबीजात् सदृशानि जायन्ते; यदा त्वतिवृद्धकुष्ठतया पित्रोर्बीजमपि कुष्ठजनकदोषेण दुष्टं भवति, तदा दुष्टत्वगादिबीजभागात् कुष्ठदुष्टैव त्वग् जायते| यदुक्तं- “दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः| यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्” (सु. नि. ५) इति| एवं कुष्ठिनोऽपि यदि हेतुबलाद् बीजे कुष्ठजनको दोषो भवति, तदा कुष्ठिनोऽपि कुष्ठवदपत्यं भवति| अन्धत्वादाविन्द्रियोपघातरूपे दुर्दैवमेव कारणं; तच्चान्धापत्येऽप्यवश्यमस्ति; तेन यदाऽन्धेऽपत्ये दृष्ट्युपघातकमशुभं भवति, तदा काकतालीयन्यायादन्धजातोऽप्यन्धो दृश्यते| एवं कुब्जादौ जडादौ च व्याख्येयम्||१७||
Adhikarana 22 (18) · Śloka 18
न चात्मा सत्स्विन्द्रियेषु ज्ञः, असत्सु वा भवत्यज्ञः; न ह्यसत्त्वः कदाचिदात्मा, सत्त्वविशेषाच्चोपलभ्यते ज्ञानविशेष इति||१८||
या चाज्ञत्वप्रसक्तिरात्मन्युक्ता, तत्राह- न चेत्यादि| इन्द्रियभावे तथेन्द्रियाभावेऽपि नित्यं ज्ञानवानेवात्मा इति प्रतिज्ञार्थः | न ह्यसत्त्वः कदाचिदित्यत्र हिशब्दो हेतौ; तेन यस्मात् सर्वदा समनस्क एवात्मा, तेन बाह्येन्द्रियाभावेऽप्यन्तःकरणमनोयोगान्नित्यमात्मा मनःकरणको ज्ञानवानेवायमित्यर्थः| यत्त्वेतद्बाह्यविषयगतं ज्ञानं, तत् सत्त्वस्येन्द्रियाधिष्ठानविशेषाद्भवति; तेन, इन्द्रियभावे इन्द्रियजन्यं विशिष्टं ज्ञानं भवति; यत्तु केवलमनोजन्यमात्मज्ञानं, तद् भवत्येव सर्वदा; तस्माद्यन्नित्यभावि मनोसन्निधिमात्रजन्यमात्मज्ञानं, तत् सदैवास्ति||१८||
Adhikarana 23 (19) · Śloka 20
भवन्ति चात्र- न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते|
या क्रिया वर्तते भावैः सा विना तैर्न वर्तते||१९||
जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्तते|२०|
न चास्य ज्ञानजननशक्तिः पराहता भवतीत्याशयेनाह- नेत्यादि| यत्वैतदैन्द्रियकं विषयोपभोगवत्तद्भवति कदाचित्, कदाचिच्चेन्द्रियाभावान्न भवतीत्यध्यात्मविदो मन्यन्ते; किञ्च बाह्यज्ञानेऽपि ज्ञानजननशक्त एवायमात्मा, परं करणाभावात् कदाचिन्न प्रवर्तते| कार्यज्ञानमिति कार्यप्रवृत्तिजनकबाह्यविषयज्ञानं; तेन निर्विषयं ज्ञानमात्मन इन्द्रियाभावे भवतीति सूचयति | भावैरित्यत्र ‘यैः’ इति शेषः| वर्तते उत्पद्यते| अत्रैव दृष्टान्तमाह- जानन्नपीत्यादि| जानन्नपीति घटं कर्तुं जानन्नपीत्यर्थः| मृदो मृत्तिकाया अभावात्||१९||-
Adhikarana 24 (20-21) · Śloka 22
श्रूयतां चेदमध्यात्ममात्मज्ञानबलं महत्||२०||
इन्द्रियाणि च सङ्क्षिप्य मनः सङ्क्षिप्य चञ्चलम्|
प्रविश्याध्यात्ममात्मज्ञः स्वे ज्ञाने पर्यवस्थितः||२१||
सर्वत्रावहितज्ञानः सर्वभावान् परीक्षते|२२|
आत्मनो ज्ञत्वे साधनान्तरमाह- श्रूयतामित्यादि| आत्मानमधि अध्यात्मम्| आत्मनो ज्ञानस्य बलमात्मज्ञानबलम्| सङ्क्षिप्येति विषयेभ्यो व्यावर्त्य| मनः सङ्क्षिप्येति मनोऽप्यात्मव्यतिरिक्तविषयान्निगृह्य| चञ्चलमिति स्वभावतः| स्वे ज्ञाने इति आत्मज्ञाने| सर्वभावान् परीक्षत इति विनाऽपीन्द्रियैः समाधिबलादेव यस्मात् सर्वज्ञो भवति, तस्माज्ज्ञस्वभाव एव निरिन्द्रियोऽप्यात्मा||२०-२१||-
Adhikarana 25 (22-24) · Śloka 24
गृह्णीष्व चे(वे)दमपरं भरद्वाज विनिर्णयम्||२२||
निवृत्तेन्द्रियवाक्चेष्टः सुप्तः स्वप्नगतो यदा|
विषयान् सुखदुःखे च वेत्ति नाज्ञोऽप्यतः स्मृतः||२३||
नात्मज्ञानादृते चैकं ज्ञानं किञ्चित् प्रवर्तते|
न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः||२४||
अपरमपि लौकिकं निरिन्द्रियस्य ज्ञानसद्भावोदाहरणमाह- गृह्णीष्वेत्यादि| स्वप्नगत इति स्वप्नदर्शनावस्थां प्राप्तः| आत्मज्ञानविषयज्ञानयोर्विशेषमाह- नात्मेत्यादि| आत्मज्ञानान्नित्याद्विना, किञ्चिज्ज्ञानं विषयजम्, एकम् सहायं, न प्रवर्तते इन्द्रियादिकरणरूपसहायं विना नोत्पद्यते| आत्मज्ञानं च नित्यमेव साङ्ख्येऽप्युक्तं - “चिच्छक्तिरपरिणामिनी” इत्यादिना “आत्मनः” इत्यन्तेन| अत्रोपपत्तिमाह- न ह्येको वर्तते भाव इति| भावः उत्पत्तिधर्मा, एकः सन् कारणरहितः सन्, न वर्तते नोत्पद्यते| तथा भावः कारणजन्यत्वे सत्यपि अहेतुक इति अकर्तृको न वर्तते नोत्पद्यते, किन्तु कर्तृकुम्भकाराधिष्ठितान्येव मृच्चक्रादीनि प्रवर्तन्ते; तस्माद्विषयज्ञानान्यपि इन्द्रियमनोर्थैस्तथा कर्त्रा चात्मना जन्यन्त इति भावः||२२-२४||
Adhikarana 26 (25) · Śloka 25
तस्माज्ज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च|
सर्वमेतद्भरद्वाज निर्णीतं जहि संशयम्||२५||
उपसंहरति- तस्मादित्यादि| अत्र चात्मनो ज्ञत्वाज्ञत्वप्रसक्त्याऽऽपादितं सविकारत्वमात्मनो नित्यज्ञानसाधनेनैव परिहृतमिति कृत्वा न पृथक् परिहृतम्| भरद्वाजशब्देनेह नात्रेयगुरुरुच्यते, किन्तु अन्य एव भरद्वाजगोत्रः कश्चित्; तेन, तस्य संशयच्छेदनमात्रेयेणोपपन्नमेव||२५||
Adhikarana 27 (26-27) · Śloka 27
तत्र श्लोकौ- हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः|
पुनर्वसुमतिर्या च भरद्वाजमतिश्च या||२६||
प्रतिज्ञाप्रतिषेधश्च विशदश्चात्मनिर्णयः|
गर्भावक्रान्तिमुद्दिश्य खुड्डीकां तत्प्रकाशितम्||२७||
सङ्ग्रहे हेतुशब्दो गर्भादिषु जन्मान्तेषु सम्बध्यते| प्रतिज्ञाप्रतिषेधो भरद्वाजकृतो ज्ञेयः| तत्साधनं च यदात्रेयस्य तत् ‘विशदश्चात्मनिर्णयः’ इत्यनेनोक्तम्| तदिति सामान्येन मात्रादिप्रत्यवमर्शान्नपुंसकम्||२६-२७||
Adhikarana puShpikA · Śloka 3
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः||३||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः||३||