Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. mahatīgarbhāvakrāntiśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातो महतीं गर्भावक्रान्तिं शारीरं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

खुड्डीकागर्भावक्रान्तिप्रपञ्चत्वान्महत्या गर्भावक्रान्तेरनन्तरमभिधानम्||१-२||

Adhikarana 2 (3) · Śloka 3

यतश्च गर्भः सम्भवति, यस्मिंश्च गर्भसञ्ज्ञा, यद्विकारश्च गर्भः, यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ, यश्चास्य वृद्धिहेतुः, यतश्चास्याजन्म भवति, यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति, यतश्च कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तदनुव्याख्यास्यामः||३||

🔊 Audio coming soon

यत इति यतः कारणात्| यद्विकार इति यन्मय इत्यर्थः| ययाऽऽनुपूर्व्या येनानुक्रमेणेत्यर्थः| कार्त्स्न्येनाविनश्यन्निति मरणमगच्छन्||३||

Adhikarana 3 (4) · Śloka 4

मातृतः पितृत आत्मतः सात्म्यतो रसतः सत्त्वत इत्येतेभ्यो भावेभ्यः समुदितेभ्यो गर्भः सम्भवति| तस्य ये येऽवयवा यतो यतः सम्भवतः सम्भवन्ति तान् विभज्य मातृजादीनवयवान् पृथक् पृथगुक्तमग्रे||४||

🔊 Audio coming soon

ये ये भावा मातृजपितृजप्रभृतयस्त्वग्लोहितादयः, यतो यतो मात्रादेः सम्भवन्ति, तान् मातृजादीनवयवान् पृथग्विभज्य, अग्रे पूर्वाध्याये; तेनात्र मातृजादयो नोक्ता इति वाक्यार्थः फलति| अयं चार्थो यद्यपि पूर्वाध्याय एवोक्तो “मातृजश्चायं” (शा. ३) इत्यादिना, तथाऽपि प्रश्नक्रमविशुद्ध्यनुरोधात् पुनरिह कृतः; येन प्रथमं कारणं, तदनु कार्यरूपो गर्भः, तदनु गर्भधर्मोऽभिधेय इति क्रमेण प्रश्नः शोभते||४||

Adhikarana 4 (5) · Śloka 5

शुक्रशोणितजीवसंयोगे तु खलु कुक्षिगते गर्भसञ्ज्ञा भवति||५||

🔊 Audio coming soon

यत्तु “शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं” इत्यादिना, “गर्भोऽभिनिर्वर्तते” (शा.अ.३) इत्यन्तेनोक्तं, तत्रायमसौ गर्भशब्दाभिधेयोऽर्थ इति नाभिहितम्, अपेक्षते च; तेनेह गर्भसञ्ज्ञाभिधेयार्थव्याकरणमपुनरुक्तमेव| कुक्षिगते इति कुक्ष्येकदेशगतगर्भाशयगते| संयोगे इति सम्यग्योगे; तेन जीवस्यातिवाहिकशरीरेण योगः सङ्गृह्यते, न चात्मनो व्यापकत्वेन यो योगो गर्भजनकः| एवम्भूतश्च संयोगो यद्यपि कुक्षावेव भवति, तथाऽपि सिद्धमेवार्थं शिष्यं प्रतिपादयितुं “कुक्षिगते” इति पदं कृतम्||५||

Adhikarana 5 (6) · Śloka 6

गर्भस्तु खल्वन्तरिक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूतः| एवमनया युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधिष्ठानभूतः; स ह्यस्य षष्ठो धातुरुक्तः||६||

🔊 Audio coming soon

गर्भस्त्वित्यादि| गर्भारम्भकाण्यपि भूम्यादीनि परित्यज्यान्तरिक्षमादौ कृतं, वक्ष्यमाणभूतग्रहणानुरोधात्| वक्ष्यति हि- ‘अन्तरिक्षं पूर्वमन्येभ्यो गुणेभ्य उपादत्ते’ इत्यादि| चेतनाधिष्ठानभूत इति आत्मनो भोगायतनस्वरूप इत्यर्थः, चेतनाशब्देन ह्यात्मोच्यते; किंवा, भूतशब्दः सादृश्ये; तेनाधिष्ठानमिवात्मनः शरीरं, न तु परमार्थतो निराश्रयस्यात्मनो भोगायतनत्वव्यतिरेकेण शरीरमाश्रयो भवति| अनया युक्त्येति अनया भूतविकाररूपया योजनया पञ्चमहाभूतविकारसमुदायात्मको भवति, अन्यया युक्त्या कतिधापुरुषीयोक्तश्चतुर्विंशतिको भवति, तथा मातृजादिरूपचिन्तया मात्रादिसमुदायात्मको भवतीत्यर्थः| न चैतेषां पक्षाणां विरोधोऽस्ति; यतो मातृजादिव्यपदेशेऽपि पञ्चमहाभूतविकारत्वमविरुद्धमेव, येन मातृजादयोऽप्यस्य महाभूतविकारा एव; उक्तं हि- “रसात्ममातापितृसम्भवानि भूतानि विद्याद्दश षट् च देहे” (शा. २) इति; चतुर्विंशतिकत्वेऽपि च पञ्चमहाभूतात्मकरूपतैव तत्र प्रपञ्चिता| स हीत्यादि| अस्येति गर्भस्य||६||

Adhikarana 6 (7) · Śloka 7

यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ तां व्याख्यास्यामः- गते पुराणे रजसि नवे चावस्थिते शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतुमतीमाचक्ष्महे| तया सह तथाभूतया यदा पुमानव्यापन्नबीजो मिश्रीभावं गच्छति, तदा तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतोऽङ्गादङ्गात् सम्भवति| स तथा हर्षभूतेनात्मनोदीरितश्चाधिष्ठितश्च बीजरूपो धातुः पुरुषशरीरादभिनिष्पत्त्योचितेन पथा गर्भाशयमनुप्रविश्यार्तवेनाभिसंसर्गमेति||७||

🔊 Audio coming soon

गत इति निवृत्ते | पुराण इति ऋतुकालातिक्रमसञ्चिते| नवे चावस्थित इतिवचनेन नवेऽप्यनवस्थिते गर्भकारणत्वं नास्तीति दर्शयति| शुद्धस्नातामित्यनेन शुद्धस्नातैव स्त्री गम्या नास्नाता, अशुद्धत्वादिति दर्शयति| स्त्यायत्यस्यां गर्भ इति स्त्री; अनेन वन्ध्यां निरस्यति| ऋतुमतीमित्यत्र प्रशंसायां मतुप्| तया सहेति तया स्त्रिया| तथाभूतयेति तादृगृतुयुक्तया| हर्षः प्रीतिविशेषः, तेनोदीरितः प्रेरितः| पर इति सारः; किंवा परकालोत्पन्नः परः, शुक्रं हि सर्वधातुभ्यः परमुत्पद्यते | शरीरधात्वात्मेति शरीरधातुरूपः| शुक्रभूत इति शुक्ररूप एवाङ्गादङ्गात् सम्भवति व्यज्यते| तेन नाङ्गेभ्यः शुक्रमुत्पद्यते, किन्तु शुक्ररूपतयैव स्थितं व्यज्यते| वचनं हि- “सर्वत्रानुगतं देहे शुक्रं” (चि. अ. २पा. ४) इति| हर्षभूतेनेति हर्षमयतां गतेन; उदीरितश्चाधिष्ठितश्चेत्यनेन उदीरणकाले तथा निःसरणकाले हर्षमयात्माधिष्ठानं शुक्रस्य गर्भाशयप्राप्तिकारणं दर्शयति; यदि शुक्रप्रवृत्तिकाले पुरुषो हर्षरहितः स्यान्न तदा सम्यक् शुक्रप्रवृत्तिः, तथा वेगविघातान्न गर्भाशयप्राप्तिर्भवति| बीजरूपो धातुः शुक्रम्| अभिसंसर्गां सम्यङ्मूर्च्छनम्||७||

Adhikarana 7 (8) · Śloka 8

तत्र पूर्वं चेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्तते; स हि हेतुः कारणं निमित्तमक्षरं कर्ता मन्ता वेदिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्मा विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणं प्रधानमव्यक्तं जीवो ज्ञः पुद्गलश्चेतनावान् विभुर्भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति| स गुणोपादानकालेऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते, यथा- प्रलयात्यये सिसृक्षुर्भूतान्यक्षरभूत आत्मा सत्त्वोपादानः पूर्वतरमाकाशं सृजति, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादिकांश्चतुरः; तथा देहग्रहणेऽपि प्रवर्तमानः पूर्वतरमाकाशमेवोपादत्ते, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादिकांश्चतुरः| सर्वमपि तु खल्वेतद्गुणोपादानमणुना कालेन भवति||८||

🔊 Audio coming soon

सत्त्वं मनः करणं यस्य स सत्त्वकरणः; आत्मा निष्क्रियत्वेन क्रियावता मनसा यत् कार्यं करोति, तच्च कार्यं मनसा क्रियमाणमप्यचेतनेन चेतनावत आत्मन एवोच्यते| वचनं हि- “चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते” (शा. १) इति| गुणग्रहणायेत्यत्र गुणशब्देन गुणगुणिनोरभेदोपचाराद्गुणवन्ति भूतान्युच्यन्ते| किंवा, गुणोऽप्रधानं, प्रधानं चात्मा, तद्व्यतिरिक्तानि च भूतानि गुणाः| कस्मादात्मा भूतानि गृह्णात्यप्रधानरूपाणीत्याशङ्कायामात्मनः प्राधान्यख्यापकान् पर्यायानाह- स हीत्यादि| न क्षरतीत्यक्षरम्| गुणी भूतरूपगुणवानित्यर्थः| गृह्णाति भूतानीति ग्रहणम्| एतैः पर्यायैरात्मनोऽभिधेयस्येतरपदार्थोपकार्यत्वेनाश्रयत्वं प्रसिद्धं दर्श्यते| पूर्वतरं प्रथममेव| अन्येभ्यो गुणेभ्य इति वाय्वादिभ्यः| अत्र गर्भे भूतग्रहणक्रमे दृष्टान्तमाह- यथेत्यादि| प्रलयस्य महाप्रलयस्य, अत्यये इति आदिसर्ग इत्यर्थः| सिसृक्षुरिति स्रष्टुमिच्छुः| भूतानि आकाशादीनि| सत्त्वोपादान इति मनःकरणः| महाप्रलये हि विकारस्य प्रकृतौ लयात् प्रकृतिपुरुषावेव परमव्यक्तरूपौ तिष्ठतः, ततश्च सर्गारम्भे प्रकृतेर्महदादिप्रपञ्च उत्पद्यते क्रमेण; तत्र प्रथममाकाशमुत्पद्यते, ततो वाय्वादीनि व्यक्तानीति साङ्ख्यसिद्धान्तः| आकाशस्य च जन्यत्वं साङ्ख्यमतेनैव ज्ञेयम्| देहग्रहणेऽपीति गर्भस्वरूपग्रहणेऽपि| उपादत्त इति शुक्रशोणितगतमाकाशमाकाशमयतया स्वीकरोति| व्यक्ततरगुणानिति आकाशमेकगुणमपेक्ष्य शब्दस्पर्शगुणो वायुर्व्यक्ततरः , तमपेक्ष्य शब्दस्पर्शरूपगुण तेजो व्यक्ततरमित्यादि | अयं च भूतग्रहणक्रम आगमसिद्ध एव, नात्र युक्तिस्तथाविधा हृदयङ्गमाऽस्ति| एतच्च भूतग्रहणं लघुनैव कालेन भवतीति दर्शयन्नाह- सर्वमित्यादि||८||

Adhikarana 8 (9-10) · Śloka 10

स सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मासि सम्मूर्च्छितः सर्वधातुकलुषीकृतः खेटभूतो भवत्यव्यक्तविग्रहः सदसद्भूताङ्गावयवः||९|| द्वितीये मासि घनः सम्पद्यते पिण्डः पेश्यर्बुदं वा| तत्र घनः पुरुषः, पेशी स्त्री, अर्बुदं नपुंसकम्||१०||

🔊 Audio coming soon

सर्वधातुकलुषीकृत इति अव्यक्तसर्वधातुतया कलुषीकृतः| धातुशब्देन च भूतान्युच्यन्ते, किंवा रसादिधातुबीजानि| खेटः श्लेष्मा; तेन खेटभूत इति श्लेष्मसदृश इत्यर्थः| अव्यक्तविग्रह इत्यस्य विवरणं- सदसद्भूताङ्गावयव इति; विद्यमानाविद्यमानाङ्गप्रत्यङ्ग इत्यर्थः; अङ्गानां च बीजरूपतया स्थितत्वेन सत्त्वम्, अव्यक्तभावाच्चासत्त्वम् | किंवा, सदसद्भूताङ्गावयवो घनः सम्पद्यते इति योजना| घनः कठिनः| पिण्डो ग्रन्थ्याकारः| पेशी दीर्घा मांसपेश्याकारा| अर्बुदं वर्तुलोन्नतम्||९-१०||

Adhikarana 9 (11) · Śloka 11

तृतीये मासि सर्वेन्द्रियाणि सर्वाङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते||११||

🔊 Audio coming soon

अङ्गानि शिरःप्रभृतीनि, तदवयवाश्चेत्यङ्गावयवाः| यौगपद्येनेति वचनेन “कुमारस्य शिरः पूर्वमभिनिर्वर्तते” (शा. ६) इत्यादिवक्ष्यमाणान्येकीयमतानि निषेधयति| यौगपद्येन हि सर्वाङ्गनिर्वृत्तिरिति सिद्धान्तः||११||

Adhikarana 10 (12) · Śloka 12

तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत्| महाभूतविकारप्रविभागेन त्विदानीमस्य तांश्चैवाङ्गावयवान् कांश्चित् पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः| मातृजादयोऽप्यस्य महाभूतविकारा एव| तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च, वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्यः, अग्न्यात्मकं रूपं दर्शनं प्रकाशः पक्तिरौष्ण्यं च, अबात्मकं रसो रसनं शैत्यं मार्दवं स्नेहः क्लेदश्च, पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैर्यं मूर्तिश्चेति||१२||

🔊 Audio coming soon

केचिदिति न सर्वे| तत्र मातृजाद्यङ्गकथनेन शब्दादयो य इह भूतविकारत्वेन वक्ष्यन्ते ते न सर्वे प्रोक्ताः, किं तु केचिदेव त्वगादयः| पर्यायान्तरेणेतिवचनाद्ये मातृजादयः ‘त्वक् च लोहितं च’ (शा.अ.३) इत्यादिनोक्तास्त इह न साक्षाद्वक्तव्याः, किन्तु ये त्वग्गता मूर्तिस्नेहमार्दवादयस्ते भूतजन्यत्वेनोच्यमानास्त्वचोऽभिधायका भवन्ति| एवं शोणितादिगतभूतविकारकथनेन शोणितादिकथनं ज्ञेयम्| त्वगादयो वक्ष्यमाणा इति भूतविकारसमुदायरूपा एव| त्वगादीनां मातृजादिरूपेण यदभिधानं, तन्मात्राद्यधीनत्वप्रतिपत्त्यर्थम्| पुनश्चेह भूतजन्यत्वेनाभिधानमङ्गानां क्षये वा वृद्धौ वा सत्यां तत्कारणभूतभूतोपयोगप्रतिषेधाभ्यां वृद्धिक्षयजननज्ञानार्थम्| यदङ्गं यद्भूतप्रभवं तदङ्गं तद्भूतप्रधानेन द्रव्येण वर्धते, क्षीयते च तद्विपरीतेन| लाघवं यद्यपि वायौ पठन्ति- “रूक्षः शीतो लघुश्चैव” (सू.अ.१) इत्यादिना, तथाऽपि आकाशेऽतिशयितं ज्ञेयं, तेनेहाकाशविकारे पठन्ति; आकाशं हि अत्यर्थसूक्ष्मत्वाद्वातादपि लघु| विवेको विच्छेदः| धातुव्यूहनं धातुरचना धातुवहनं च| दृश्यतेऽनेनेति दर्शनं चक्षुरिन्द्रियम्| मूर्तिः काठिन्यम्||१२||

Adhikarana 11 (13) · Śloka 13

एवमयं लोकसम्मितः पुरुषः| यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति; बुधास्त्वेवं द्रष्टुमिच्छन्ति||१३||

🔊 Audio coming soon

एतद्भूतविकारमयत्वं शरीरस्य लोकसाम्येन ज्ञातं सन्मोक्षस्यापि परमाभीष्टस्य कारणं भवतीति लोकसाम्यं दर्शयन्नाह- एवमयमित्यादि| एवमिति पञ्चभूतविकारमयत्वेन| लोकसम्मिति इति लोकतुल्यः| इह च भूतविकारमयत्वं यच्छरीरस्योक्तं तेन भूतविकारमयत्वमधिकृत्य सादृश्यमुक्तं लोकपुरुषयोः; यत्त्वाध्यात्मिकं लोकपुरुषयोः साम्यं पुरुषविचये वक्तव्यं, तदपीहानुक्तमपि ‘यावन्तो हि’ इत्यादिविशेषाभिधानेन सूचितं ज्ञेयम्| तेन, यावन्तो भावविशेषा आध्यात्मिका अन्तरात्मसत्त्वाहङ्कारादयो, भौतिका वा मूर्तिक्लेदादयः, ते पुरुषगता लोकेनापि समाना इति ज्ञेयम्| एतच्च लोकपुरुषयोः साम्यं पुरुषविचये व्यक्तं भविष्यति| एतच्च लोकपुरुषयोः साम्यकथनं मुमुक्षूणामेवोपयुक्तमिति दर्शयन्नाह- बुधास्त्वेवमित्यादि| बुधाः सम्यग्ज्ञानवन्तः, मोक्षयुक्ता इति यावत्| लोकपुरुषसाम्यकथनं च मोक्षार्थमेवेति पुरुषविचये स्वयमेव वक्ष्यति||१३||

Adhikarana 12 (14) · Śloka 14

एवमस्येन्द्रियाण्यङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्तेऽन्यत्र तेभ्यो भावेभ्यो येऽस्य जातस्योत्तरकालं जायन्ते; तद्यथा- दन्ता व्यञ्जनानि व्यक्तीभावस्तथायुक्तानि चापराणि| एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा| सन्ति खल्वस्मिन् गर्भे केचिन्नित्या भावाः, सन्ति चानित्याः केचित्| तस्य य एवाङ्गावयवाः सन्तिष्ठन्ते, त एव स्त्रीलिङ्गं पुरुषलिङ्गं नपुंसकलिङ्गं वा बिभ्रति| तत्र स्त्रीपुरुषयोर्ये वैशेषिका भावाः प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो भूयस्त्वं ततोऽन्यतरभावः| तद्यथा- क्लैब्यं भीरुत्वमवैशारद्यं मोहोऽनवस्थानमधोगुरुत्वमसहनं शैथिल्यं मार्दवं गर्भाशयबीजभागस्तथायुक्तानि चापराणि स्त्रीकराणि, अतो विपरीतानि पुरुषकराणि, उभयभागावयवा नपुंसककराणि भवन्ति||१४||

🔊 Audio coming soon

प्रकृतां तृतीयमासभवामिन्द्रियाद्यङ्गाभिनिर्वृत्तिमुपसंहरति- एवमस्येत्यादि| युगपदेव यौगपद्यं; यौगपद्यमित्यभिधानमिन्द्रियाणामपि सर्वाङ्गाभिनिर्वृत्तेः समकालतोपदर्शनार्थम्| किं दन्तादयोऽपि तृतीयमासे भवन्तीत्याशङ्क्याह- अन्यत्रेत्यादि| व्यञ्जनानि श्मश्रुस्तनादीनि| व्यक्तीभावः शुक्ररजसोराविर्भावः| तथायुक्तानीति जातोत्तरकालजत्वेन दन्तादिसदृशानि चाङ्गानि बुद्ध्यादीनि | एषा प्रकृतिरिति इन्द्रियाण्यङ्गावयवाश्च युगपद्भवन्ति, दन्तादयश्च जातस्यापि चिरेण भवन्तीत्येवंरूपो मनुष्यस्वभाव इत्यर्थः| अन्यथेति कदाचित् सदन्त एव जायत इत्यादिका विकृतिर्मनुष्यस्य| अथ कस्माद्दन्तादयो गर्भादिजायमाना विकृतित्वेनोच्यन्त इत्याह- सन्तीत्यादि| खलुशब्दो हेतौ| नित्या इति यावच्छरीरभाविनः करचरणादयः, अनित्याश्च न यावच्छरीरभाविनो दन्तादयः| एतेन, अनित्यस्वभावानां दन्तादीनां गर्भाद्यजायमानत्वान्नित्यत्वं विकृतिरिति युक्तमित्यर्थः| अथ नित्यानित्येषु मध्ये के स्त्र्यादिलिङ्गं बिभ्रतीत्याह- तस्येत्यादि| सन्तिष्ठन्त इति यावच्छरीरं तिष्ठन्ति| एतेन, य एव नित्या उपस्थादयस्त एव स्त्रीलिङ्गतां पुंलिङ्गतां वा बिभ्रति| तत्रोपस्थरूपो नित्यो भावः स्त्रीलिङ्गं, शेफश्च पुंलिङ्गम्, उपस्थलिङ्गाकारविरहितं च रन्ध्रमात्रं नपुंसकलिङ्गं भवति| किंवा, स्त्रिया यल्लिङ्गं स्तनादि, पुरुषस्य वा श्मश्रुप्रभृति, नपुंसकस्य वा स्त्रीपुंसमानाकाररूपं जातोत्तरकालभावि, तदपि य एव नित्या भावा उरःकपोलप्रभृतयस्त एव कालवशाद्बिभ्रतीति वाक्यार्थः| उर एव हि स्तनारम्भकबीजयुक्तं स्त्रिया उत्तरकालं स्तनवद्भवति, एवं कपोल एव श्मश्रुबीजयुक्तः श्मश्रुवान् भवति| न चावश्यं यत् स्तनश्मश्रुप्रभृतीनां बीजं चेदस्ति शरीरे, तत् किमिति गर्भात् प्रभृति स्तनादि न जायत इति; यतो बीजमहिमाऽयं- यत् स्वकाल एव कार्यं करोति| यथा- अवनिपतितमपि शाल्यादिबीजमृतुप्राप्तावेवाङ्कुरं जनयति; न च स्वभाव उपालम्भमर्हति| ‘यदैवाङ्गावययवाः सन्तिष्ठन्ते, तदैव स्त्र्यादिलिङ्गं बिभ्रति’ इत्यादिपाठपक्षे तु व्यक्त एवार्थः| अथ कुतः समाने शुक्रादौ कारणे स्त्र्यादिविशेषो भवतीत्याह- वैशेषिका इति| वैशेषिका विशिष्टाः परस्परव्यावृत्ता इति यावत्| प्रधानसंश्रया इति आत्मसंश्रयाः| गुणसंश्रया इति शुक्रशोणितगतभूतसंश्रयाः; गुणशब्देनेह भूतान्युच्यन्ते| यत इति सप्तम्यां तसिः; तेन यस्मिन् वैशेषिके भावे भूयस्त्वं दैववशाद्भवति, ततो भावादन्यतरस्य स्त्रीरूपस्य पुंरूपस्य वा गर्भस्योत्पत्तिर्भवति; यदि स्त्रीकरा भावा क्लैब्यादयो भूयांसो भवन्ति तदा स्त्री जायते, विपर्यये पुमानित्यर्थः| तत्र स्त्रीकरान् भावानाह- तद्यथेत्यादि| अवैशारद्यं मोहः| शैथिल्यम् अनिबिडसंयोगता, यथा- दृढशणतन्तुविरलवापितपटस्य शैथिल्यं; मार्दवं तु निबिडसंयोगस्यापि सहजावयवमार्दवं, यथा- पट्टसूत्रे निरन्तरवापितपटस्य मृदुत्वम्| क्लैब्याद्यनवस्थानपर्यन्तं प्रधानसंश्रयं, शेषं गुणसंश्रयम्| तथायुक्तानीत्यनेन योनिबीजभागादीनि ग्राहयति| एते चाधोगुरुत्वादयो रजोधिक एव बीजे भवन्तीति ज्ञेयम्| तेन, “रक्तेन कन्यामधिकेन” (शा. २) इति यदुक्तं तदनेन समं न विरुद्धं भवति| विपरीतानि अक्लैब्यादीनीत्यर्थः| उभयभागावयवा इति स्त्रीपुरुषकारका अवयवाः| नपुंसककराणीति नपुंसकनिर्देशोऽव्यक्तगुणाभिप्रायेण| तेन प्रथमं नपुंसककराणीति अव्यक्तगुणसन्दोहाभिप्रायेण प्रयुक्तं, ततः कानि तानीत्यपेक्षायां विशेषपरिग्रहादुभयभागावयवा इति पुंलिङ्गेन निर्देशो ज्ञेयः|||१४||

Adhikarana 13 (15) · Śloka 15

तस्य यत्कालमेवेन्द्रियाणि सन्तिष्ठन्ते, तत्कालमेव चेतसि वेदना निर्बन्धं प्राप्नोति; तस्मात्तदा प्रभृति गर्भः स्पन्दते, प्रार्थयते च जन्मान्तरानुभूतं यत् किञ्चित्, तद्द्वैहृदय्यमाचक्षते वृद्धाः| मातृजं चास्य हृदयं मातृहृदयेनाभिसम्बद्धं भवति रसवाहिनीभिः संवाहिनीभिः; तस्मात्तयोस्ताभिर्भक्तिः संस्पन्दते | तच्चैव कारणमवेक्षमाणा न द्वैहृदय्यस्य विमानितं गर्भमिच्छन्ति कर्तुम्| विमानने ह्यस्य दृश्यते विनाशो विकृतिर्वा| समानयोगक्षेमा हि तदा भवति गर्भेण केषुचिदर्थेषु माता| तस्मात् प्रियहिताभ्यां गर्भिणीं विशेषेणोपचरन्ति कुशलाः||१५||

🔊 Audio coming soon

सन्तिष्ठन्त इति अभिनिर्वर्तन्ते| वेदना सुखदुःखोपलब्धिः| निर्बन्धं प्राप्नोतीति सम्बन्धं प्राप्नोति, इन्द्रियोत्पादसमकालमेव सुखदुःखज्ञो भवतीति वाक्यार्थः| तस्मादिति सुखदुःखसम्बन्धात्; सुखोत्पादनार्थं दुःखपरिहारार्थं च स्पन्दते चलति, तथा प्रार्थयते च सुखहेतून् जन्मान्तरानुभूतानित्यर्थः| तद्गर्भप्रार्थनायुक्तं मातृहृदयं द्वैहृदय्यमिति वृद्धा ज्ञानवृद्धा आचक्षते| द्विहृदयस्य भावद् द्वैहृदय्यं मातृहृदयं गर्भहृदयेन समं हृदयद्वयं भवति| ननु गर्भहृदयं कथं मातृहृदयेन सम्बद्धं भवतीत्याह- मातृजमिति; मातृकारणकार्तवजम्| रसवाहिनीभिरिति गर्भपोषणार्थाभिर्मातृहृदयगर्भनाभिप्रतिबद्धाभी रसवाहिनीभिः| एतेन, यद् गर्भः प्रार्थयते, तया प्रार्थनया रसवाहिनीभिर्हृदयमागतया माताऽपि तत्प्रार्थनावती भवति एवं मातृप्रार्थनयाऽपि गर्भः प्रार्थनावान् भवति| तयोरिति मातृगर्भयोः| भक्तिः इच्छा| ताभिरिति रसवाहिनीभिः| संस्पन्दत इति मातृहृदयाद्गर्भहृदयं याति, गर्भहृदयाच्च मातृहृदयमित्यर्थः| गर्भस्य विनाशो विकृतिर्वेति महता इच्छाविघातेन विनाशः, स्वल्पेन तु विकृतिः; किंवा गर्भेच्छापूर्विका मातुरिच्छा, तद्विघातेन विनाशो गर्भस्य, सा हीच्छा विहता साक्षाद्गर्भसम्बन्धितया सुकुमारतरं गर्भं वातप्रकोपाद्विनाशयति; या तु मातुरिच्छा विहता, सा मातरि वातक्षोभं जनयती समानयोगक्षेमे गर्भेऽपि मनाग्विकृतिजननाद्विकृतिं जनयति| एतदेव दर्शयति- समानयोगक्षेमा हीत्यादि|- योगः सुखहेतुयोगः, क्षेमः प्रत्यवायपरिहारः, एतौ योगक्षेमौ मातुर्गर्भेण समानौ भवतः| केषुचिदर्थेष्वितिवचनादतुल्ययोगक्षेमता च क्वचिद्भवतीति दर्शयति| तेन, नावश्यं मातुर्विकाराः क्षुदादयो गर्भे विकृतिमावहन्ति, गर्भस्य वा मातरीति दर्शयति| गर्भिणी विशेषेणेतिवचनादगर्भिण्यपि स्त्री ऋतुकाले प्रियहितोपचरणीया| यदुक्तं- “सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुः” (शा. ८) इत्यादि||१५||

Adhikarana 14 (16) · Śloka 16

तस्या गर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः| उपचारसाधनं ह्यस्य ज्ञाने, ज्ञानं च लिङ्गतः, तस्मादिष्टो लिङ्गोपदेशः| तद्यथा- आर्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषश्छर्दिररोचकोऽम्लकामता च विशेषेण श्रद्धाप्रणयनमुच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीषल्लोमराज्युद्गमो योन्याश्चाटालत्वमिति गर्भे पर्यागते रूपाणि भवन्ति||१६||

🔊 Audio coming soon

उपचारसाधनं यथोचितोपचारकरणम्| अस्येति गृहीतस्य गर्भस्य तथा द्वैहृदय्यस्य च| तत्र गृहीतगर्भोपचारो यथा- “शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं काले काले पिबेत्” (शा.अ.८) इत्यादि द्विहृदयोपचारं चात्रैव वक्ष्यति| ज्ञानमिति गर्भस्य द्विहृदयस्य च ज्ञानम्| अम्लकामता विशेषेणेति च्छेदः| श्रद्धा इच्छा| उच्चावचेष्विति उच्चनीचेषु, भक्षणीयत्वेन कृतेषु चाकृतेषु चेत्यर्थः| ईषत् पादयोः श्वयथुः| चाटालत्वं विवृतत्वम्| एतानि च लक्षणानि स्वरूपेण गर्भस्य भवन्ति, तृतीयमासयुक्तानि तु द्वैहृदय्यस्य च लिङ्गानि भवन्तीति ज्ञेयम्||१६||

Adhikarana 15 (17-18) · Śloka 18

सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः||१७|| गर्भोपघातकरास्त्विमे भावा भवन्तिः; तद्यथा- सर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः; इमांश्चान्यानुपदिशन्ति वृद्धाः- देवतारक्षोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयान्न मदकराणि मद्यान्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सर्वेन्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्जयेत्, यच्चान्यदपि किञ्चित् स्त्रियो विद्युः||१८||

🔊 Audio coming soon

दारुणाश्चेष्टा व्यवायादिकाः | देवतारक्षोऽनुचरेभ्यः परिरक्षणं देवतारक्षोऽनुचरपरिरक्षणम्| यदित्यादि| यच्चान्यत् स्त्रियो गर्भकालासेव्यत्वेन विद्युस्तदपि वर्जयेत्| वदन्ति हि स्त्रियः- “न गर्भिणी कूपमवलोकयेत्, न नदीपारं यायात्” इत्यादि| वृद्धस्त्रीवचनमप्यागममूलमेव, इह तु ग्रन्थविस्तरभयान्न दर्शितमिति भावः||१७-१८||

Adhikarana 16 (19) · Śloka 19

तीव्रायां तु खलु प्रार्थनायां काममहितमप्यस्यै हितेनोपहितं दद्यात् प्रार्थनाविनयनार्थम्| प्रार्थनासन्धारणाद्धि वायुः प्रकुपितोऽन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात्||१९||

🔊 Audio coming soon

प्रार्थना ईप्सितार्थयाञ्चा, तस्यास्तु तीव्रत्वं बलवदिच्छाजन्यत्वमेव| हितोपहितमिति हितेन युक्तं, किंवा कल्पनया हितम्| प्रार्थनाया विनयनं विस्फोटनं, तदर्थम्| प्रार्थना च प्रार्थितलाभेनैवापयाति| प्रार्थनाविमानने दोषमाह- प्रार्थनेत्यादि| प्रार्थनायाः सम्यग्धारणं प्रार्थनासन्धारणम्| एतच्च स्तोकक्रमेणापि प्रार्थितादाने सति भवति, यथोक्तविधिना वा हितादाने सति इच्छा मनाक् समग्रा वा खण्डिता भवति| इच्छाविघातश्च मनःक्षोभकरभयादिवद्वातप्रकोपको भवति| आपद्यमानस्येत्यनेन गर्भस्यातितरुणत्वेन मनागपि वातक्षोभासहत्वं दर्शयति| वैरूप्यविनाशविकल्पस्तु वातप्रकोपप्रकर्षापकर्षकृतो ज्ञेयः||१९||

Adhikarana 17 (20) · Śloka 20

चतुर्थे मासि स्थिरत्वमापद्यते गर्भः, तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण||२०||

🔊 Audio coming soon

तृतीयमासानुपूर्वीकथनप्रस्तावागतं गर्भस्य विशेषमभिधाय क्रमागतां चतुर्थमासानुपूर्वीमाह- चतुर्थ इत्यादि| स्थिरत्वमिति निबिडत्वम्| अत एव निबिडेन गुरुतरेण गर्भेणाक्रान्ता गर्भिणी गुरुगात्रा भवतीति युक्तम्||२०||

Adhikarana 18 (21) · Śloka 21

पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण||२१||

🔊 Audio coming soon

अधिकमन्येभ्य इत्यनेन मासान्तरेष्वपि स्तोकक्रमेण मांसादिवृद्धिं दर्शयति| येन शारीरेण भावेन गर्भ उपचीयते, तेन गर्भिणी हीयत इति युक्तमेव| यतो गर्भमांसादिपोषणेनैव क्षीण आहाररसो न मातुर्मांसादि सम्यक् पोषयति||२१||

Adhikarana 19 (22) · Śloka 22

षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी बलवर्णहानिमापद्यते विशेषेण||२२||

🔊 Audio coming soon

बलवर्णयोरुपचयो बलवर्णोपचयः; किंवा, उपचयो धातुपुष्टिः||२२||

Adhikarana 20 (23) · Śloka 23

सप्तमे मासि गर्भः सर्वैर्भावैराप्याय्यते, तस्मात्तदा गर्भिणी सर्वाकारैः क्लान्ततमा भवति||२३||

🔊 Audio coming soon

सर्वभावैरिति मांसशोणितादिभिः| युगपदेव सर्वैः सप्तमे गर्भ आप्याय्यते, पूर्वेषु तु मासेषु न सर्वैर्युगपदिति विशेषः| सर्वाकारैरिति सर्वमांसशोणितादिजन्यरूपैः| क्लान्ततमेति हीनतमा||२३||

Adhikarana 21 (24) · Śloka 24

अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभिः संवाहिनीभिर्मुहुर्मुहुरोजः परस्परत आददाते गर्भस्यासम्पूर्णत्वात् | तस्मात्तदा गर्भिणीमुहुर्महुर्मुदा युक्ता भवति मुहुर्मुहुश्च म्लाना, तथा गर्भः; तस्मात्तदा गर्भस्य जन्म व्यापत्तिमद्भवत्योजसोऽनवस्थितत्वात् | तं चैवार्थमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्षते कुशलाः||२४||

🔊 Audio coming soon

अष्टम इत्यादि| रसवाहिनीभिरिति मातृहृदये गर्भनाड्यां च सम्बद्धाभी रसवाहिनीभिः| परस्परत ओज आददाते इति मातुरोजो गर्भ आदत्ते, गर्भस्य चौजो माता आदत्ते| ओजोऽनवस्थाने हेतुमाह- गर्भस्यासम्पूर्णत्वादिति| यस्माद्गर्भोऽसम्पूर्णः, तस्मादनिष्पन्नाश्रयं गर्भौजोऽनवस्थितं भवति| मातुरोजो गर्भं गच्छतीति यदुच्यते, तद्गर्भौज एव मातृसम्बद्धं सन्मात्रोज इति व्यपदिश्यते; यदि तु मातुरेव यदोजस्तद्गर्भं गच्छतीत्यर्थः स्यात्, तदा गर्भस्यासम्पूर्णत्वादिति हेतुः सम्पूर्णमातृदेहस्थितस्यौजसो गमनेऽसङ्गतः स्यात्; तथा, यथा गर्भौजसो मातर्यवस्थानसमये जन्म गर्भमरणकरं भवति, तथा मातुरोजसो गर्भोवस्थाने सति यद्गर्भजन्म, तत्र मातुरपि मरणं स्यात्; न चैतदिष्टं, येनोभयथाऽपि गर्भस्यैवात्र मरणमुच्यते न मातुः, ‘तदा गर्भस्य जन्म व्यापत्तिमद्भवति’ इतिवचनेन| जतूकर्णेऽप्यष्टमे जन्म गर्भविनाशायैव दर्शितम्| यदुक्तं- “स्त्रीगर्भावन्योन्यस्य ओज आददातेऽष्टमे, तस्मात्तदा प्रसूतिर्गर्भविनाशायैव” इति| अन्ये तु वर्णयन्ति- यत- “सत्यपि मातुरोजसो गर्भगमने जन्मादृष्टवशादेव गर्भस्यैव मरणाय भवति, न मातुः” इति| सुश्रुतव्याख्यातारस्तु- “अष्टममासे नैरृतभागत्वाच्च गर्भस्य सत्यप्योजोऽनवस्थाने तुल्ये गर्भस्यैव नाशो न मातुः” इति वर्णयन्ति| गर्भिणी मुहुर्मुहुर्मुदा युक्ता भवतीति गर्भौजोयोगाद्धर्षयुक्ता भवति, ओजोविगमनात्तु मुहुर्मुहुर्ग्लाना भवतीति योज्यम्| तथा गर्भ इति गर्भिणीवद्गर्भोऽपि मुहुर्मुहुर्मुदायुयुक्तो भवति, मुहुर्मुहुर्ग्लानो भवति| तस्मादिति पूर्वोक्तं गर्भव्यापत्तिहेतुं साक्षाद्ब्रूते| ओजसोऽनवस्थितत्वादिति एतच्च व्याकृतमेव| अष्टममासस्य विशेषान्तरमाह- तं चैवेत्यादि| तं चैवार्थमिति गर्भव्यापत्तिरूपमर्थम्| अगण्यमिति न गणनया गर्भिण्यां प्रतिपादनीयम्| यदि हि गर्भिणी गण्यमानमष्टमं मासं गर्भजन्मव्यापत्तिकरं शृणुयात् ततो भीता स्यात्, तद्भयाच्च गर्भस्य वातक्षोभाद् व्यापत् स्यादिति भावः||२४||

Adhikarana 22 (25) · Śloka 25

तस्मिन्नेकदिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरादशमान्मासात्| एतावान् प्रसवकालः, वैकारिकमतः परं कुक्षाववस्थानं गर्भस्य||२५||

🔊 Audio coming soon

तस्मिन्निति अष्टमे मासि| आदशमादिति वचनं प्रशस्ततरप्रसवकालाभिप्रायेण| सुश्रुते द्वादशमासपर्यन्तं सम्यक्प्रसवकालाभिधानं स्तोकदोषयोरेकादशद्वादशमासयोरल्पदोषत्वेनादोषपक्ष एव निक्षेपाद् बोद्धव्यम्||२५||

Adhikarana 23 (26) · Śloka 26

एवमनयाऽऽनुपूर्व्याऽभिनिर्वर्तते कुक्षौ||२६||

🔊 Audio coming soon

दत्तमुत्तरमुपसंहरति- एवमित्यादि||२६||

Adhikarana 24 (27) · Śloka 27

मात्रादीनां खलु गर्भकराणां भावानां सम्पदस्तथा वृत्तस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात् स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति||२७||

🔊 Audio coming soon

‘यश्चास्य वृद्धिहेतुः’ इति प्रश्नस्योत्तरं- मात्रादीनामित्यादि| आदिग्रहणात् पित्रात्मसात्म्यरससत्त्वानि “मातृजश्चयं” (शा.अ.४) इत्यादिग्रन्थोक्तानि गृह्यन्ते| वृत्तस्य मातुराचाररूपस्य सौष्ठवं सुष्ठुत्वं वृत्तसौष्ठवम्| मातृत इति पदं वृत्तसौष्ठवेन तथा उपस्नेहोपस्वेदाभ्यां च सम्बध्यते| रससात्म्यसौष्ठवं तु मात्रादिसम्पदा लब्धमेव| उपस्नेहो धातुनिष्यन्दसम्बन्धः, उपस्वेदः शरीरस्योष्मणा परं गर्भस्य स्वेदनम्; उपस्वेदश्च गर्भवृद्धिकरो भवत्येव, यथा- अण्डजानां पक्षतेरुपस्वेदनं वृद्धिकरं दृष्टम्| कालपरिणामादिति यथा यथा कालप्रकर्षस्तथा तथा वर्धते गर्भः| वृद्धिहेत्वन्तरमाह- स्वभावसंसिद्धेश्चेति| स्वभावेनैव कर्मजन्येन गर्भो भवति वर्धिष्णुरित्यर्थः| कर्मणा हि भोगलक्षणशरीरनिर्वर्तकेनारभ्यमाणं गर्भशरीरं वर्धिष्णुस्वभावमेवारब्धं, तेन वर्धत एव||२७||

Adhikarana 25 (28) · Śloka 28

मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति||२८||

🔊 Audio coming soon

‘कुतश्चास्याजन्म भवति’ इत्यस्योत्तरं- मात्रेत्यादि| व्यापत्तिनिमित्तमिति व्यापत्तिकारणकं; तत्र मातुर्व्यापच्छोणितगर्भाशयादिदुष्टिः, पितुर्व्यापच्छुक्रदुष्टिरित्याद्यनुसरणीयम्||२८||

Adhikarana 26 (29) · Śloka 29

ये ह्यस्य कुक्षौ वृद्धिहेतुसमाख्याता भावास्तेषां विपर्ययादुदरे विनाशमापद्यते, अथवाऽप्यचिरजातः स्यात्||२९||

🔊 Audio coming soon

‘यतश्च जायमानः’ इत्यादिप्रश्नस्योत्तरं- ये ह्यस्येत्यादि| वृद्धिहेतुसमाख्याता भावाः “मात्रादीनां तु खलु गर्भकराणां भावानां सम्पदः” इत्यादिग्रन्थोक्ताः| अथवाऽप्यचिरजात इति यदा मात्रादीनां सर्वथा दोषवत्त्वेन विपर्ययो भवति, तदा विनाशमापद्यते गर्भः; यदा त्वल्पदोषवत्तया मनाग्विपर्ययो भवति, तदा अचिरजातो विपद्यत इति ज्ञेयम् ||२९||

Adhikarana 27 (30) · Śloka 30

यतस्तु कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तदनुव्याख्यास्यामः- यदा स्त्रिया दोषप्रकोपणोक्तान्यासेवमानाया दोषाः प्रकुपिताः शरीरमुपसर्पन्तः शोणितगर्भाशयावुपपद्यन्ते , न च कार्त्स्न्येन शोणितगर्भाशयौ दूषयन्ति, तदेयं गर्भं लभते स्त्री; तदा तस्य गर्भस्य मातृजानामवयवानामन्यतमोऽवयवो विकृतिमापद्यत एकोऽथवाऽनेके, यस्य यस्य ह्यवयवस्य बीजे बीजभागे वा दोषाः प्रकोपमापद्यन्ते, तं तमवयवं विकृतिराविशति| यदा ह्यस्याः शोणिते गर्भाशयबीजभागः प्रदोषमापद्यते, तदा वन्ध्यां जनयति; यदा पुनरस्याः शोणिते गर्भाशयबीजभागावयवः प्रदोषमापद्यते, तदा पूतिप्रजां जनयति; यदा त्वस्याः शोणिते गर्भाशयबीजभागावयवः स्त्रीकराणां च शरीरबीजभागानामेकदेशः प्रदोषमापद्यते, तदा स्त्र्याकृतिभूयिष्ठामस्त्रियं वार्तां नाम जनयति, तां स्त्रीव्यापदमाचक्षते||३०||

🔊 Audio coming soon

अवशिष्टप्रश्नस्योत्तरं दर्शयितुमाह- यतस्त्वित्यादि| अत्राविनश्यन्नित्यत्र विनाशेन विकृतिरभिप्रेता, विकृतावपि विनाशशब्दो दृष्टः; यथा- असच्छीलत्वेन विकृते पुरुषे ‘विनष्टोऽयम्’ इति व्यपदेशः; एवं च सत्येकदेशेनापि विकृतौ विनाशशब्ददर्शने कार्त्स्न्येनेति विशेषणं युक्तं भवति| दोषप्रकोपणेनैव दोषप्रकोपणसेवायां लब्धायां पुनर्दोषप्रकोपणोक्तान्यासेवमानाया इति पदं दोषाणां स्वहेतुसेवया बलवन्तं प्रकोपं दर्शयितुं, परहेतुसेवयाऽपि हि स्तोकमात्रया अनुबन्धरूपदोषप्रकोपो भवति; यथा- अम्लेन पित्तं जन्यमानं श्लेष्मानुगतं जन्यते| ‘नतु कार्त्स्न्येन दूषयन्ति’ इति वचनेन कार्त्स्न्येन दुष्टौ गर्भजन्मैव न भवतीति दर्शयति| मातृजानामिति त्वग्लोहितादीनाम्| अन्यतम इति जातावेकवचनम्| तत्रैकोऽप्यवयवोऽन्यतमः, तथा अनेकेऽवयवा अन्यतमशब्देन प्रोक्ताः | अत एव ‘एकोऽथवाऽनेके’ इत्यन्यतमविवरणमुपपन्नं भवति| अन्यथा त्वन्यतमपदेनैकस्यैवावयवस्य गृहीतत्वात् ‘अनेके’ इति विवरणमसङ्गतं स्यात्| कुतः पुनरेकस्यानेकस्य वा विकृतिर्भवतीत्याह- यस्येत्यादि| बीज इति कृत्स्न एवारम्भके बीजे| बीजभागे वेत्यवयवबीजस्यैकदेशे| एतां विकृतिमेव शृङ्गग्राहिकतया वक्तुमाह- यदेत्यादि| शोणित इति आर्तवे| गर्भाशयजनको बीजभागो गर्भाशयबीजभागः; किंवा गर्भाशयस्य तथा बीजस्य चार्तवरूपस्य जनको भागः| गर्भाशयार्तवे च मातृजावयवमध्ये पतिते शोणितजन्ये एव; तेन, आर्तवेतरबीजभागस्य दुष्टिरुपपन्ना| आर्तवं च यद्यपि द्वादशवर्षादूर्ध्वं व्यज्यते, तथाऽपि आर्तवोत्पत्तिर्गर्भकाल एव भवति| येन सतामेवार्तवदन्तश्मश्रुप्रभृतीनां काले व्यक्तिर्भवति; तेन, आर्तवारम्भकस्यापि बीजस्य गर्भकाले प्रदोष उपपन्नः | प्रदोष इत्यत्र प्रशब्देन दुष्टिप्रकर्षं प्रकृष्टवन्ध्यतारूपकार्यजनकं दर्शयति| गर्भाशयस्य तथाऽऽर्तवस्य चोपघातेन स्त्रिया वन्ध्यत्वं व्यक्तमेव| गर्भाशयबीजभागावयव इत्यत्रापि पूर्ववद्व्याख्येयम्| अवयवशब्देन गर्भाशयस्यार्तवस्य चैकदेश इहोच्यते| पूतिप्रजामिति म्रियमाणापत्याम्; अन्ये तु क्लिन्नाङ्गप्रत्यङ्गां पूतिमाहुः| स्त्रीकराणां शरीरबीजभागानामिति स्त्रीत्वव्यञ्जकस्तनोपस्थलोमराज्यादिजनकबीजभागानाम्| अस्त्रियमिति असम्पूर्णस्त्रीलक्षणाम्| वार्तां नामेति वार्तासञ्ज्ञा शास्त्रसमयकृता| स्त्रीव्यापदिति स्त्रीनिमित्ताऽऽर्तवदोषकृता व्यापत्| एवं तां पुरुषव्यापदमाचक्षते इत्यत्रापि पुरुषव्यापद्व्याख्येया||३०||

Adhikarana 28 (31) · Śloka 31

एवमेव पुरुषस्य यदा बीजे बीजभागः प्रदोषमापद्यते, तदा वन्ध्यं जनयति; यदा पुनरस्य बीजे बीजभागावयवः प्रदोषमापद्यते, तदा पूतिप्रजं जनयति; यदा त्वस्य बीजे बीजभागावयवः पुरुषकराणां च शरीरबीजभागानामेकदेशः प्रदोषमापद्यते, तदा पुरुषाकृतिभूयिष्ठमपुरुषं तृणपुत्रिकं नाम जनयति; तां पुरुषव्यापदमाचक्षते||३१||

🔊 Audio coming soon

बीजे इति शुक्रे| शुक्ररूपबीजजनको भागो बीजभागः| तदा वन्ध्यमित्यनेन पुरुषवन्ध्यं ब्रूते, इहापि प्रदोषव्याख्या पूतिप्रजाव्याख्या च पूर्ववत्| अपुरुषमिति असमस्तपुरुषलक्षणयुक्तम्| तृणपुत्रिकसञ्ज्ञाऽपि शास्त्रसमयसिद्धैव| वार्तातृणपुत्रिकयोर्व्यवायेच्छा परं भवति, नतु व्यवायसामर्थ्यमिति ब्रुवते||३१||

Adhikarana 29 (32) · Śloka 32

एतेन मातृजानां पितृजानां चावयवानां विकृतिव्याख्यानेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति||३२||

🔊 Audio coming soon

एवं मातापितृजावयवैकदेशविकृतिवत् सात्म्यरससत्त्वजावयवविकृत्यतिदेशार्थमाह- एतेनेत्यादि| सात्म्यविभ्रमात्तु सात्म्यजानामारोग्यानालस्यादीनामन्यतमेन हीयते| एवं रससत्त्वयोरप्युन्नेयम्||३२||

Adhikarana 30 (33) · Śloka 33

निर्विकारः परस्त्वात्मा सर्वभूतानां निर्विशेषः; सत्त्वशरीरयोस्तु विशेषाद्विशेषोपलब्धिः||३३||

🔊 Audio coming soon

आत्मजोऽप्ययं गर्भ उक्तः, तत् कथमिह तद्विकृत्या विकृतिर्गर्भस्य नोच्यत इत्याह- निर्विकार इत्यादि| पर इत्यनेन मनःशरीरादिसमुदायादात्मानं व्यवच्छिनत्ति| सर्वभूतानां निर्विशेष इति सर्वेषु भूतेषु वर्तमानोऽप्ययं परमात्मा तुल्य एव| यस्तु तत्र सुखदुःखादिविशेष उपलभ्यते, स शरीरविशेषस्य तथा मनोविशेषस्य च सुखदुःखादिविशेषकारणस्य विशेषादुपलभ्यते; एतदेव ‘शरीरसत्त्वयोस्तु’ इत्यादिनोक्तम्| सुखादयस्तु न परमात्मविकाराः, किन्तु बुद्धिधर्मा एवेति दर्शितमेव| यानि चात्मजत्वेन गर्भे “तासु तासु योनिषूत्पत्तिः” (शा. ३) इत्यादिना ग्रन्थेन दर्शितानि, तान्यपि परमात्मविकारा न भवन्ति, किन्तु सत्त्वरजस्तमःप्रबलतारूपविकारजमनोविकारजन्यधर्माधर्मजन्यान्येव| तेन, सूक्ष्मचिन्तायामात्मजानि यान्युक्तानि, तान्यपि सत्त्वजान्येव| ततश्चेहात्मजावयवविकारोऽपि सत्त्वजावयवविकार एव बोद्धव्य इति भावः||३३||

Adhikarana 31 (34) · Śloka 34

तत्र त्रयः शरीरदोषा वातपित्तश्लेष्माणः, ते शरीरं दूषयन्ति; द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं दूषयतः| ताभ्यां च सत्त्वशरीराभ्यां दुष्टाभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टाभ्याम्||३४||

🔊 Audio coming soon

‘शरीरसत्त्वयोस्तु’ इत्यादिना शरीरमनसी दुःखरूपविकारेऽपि कारणमुक्ते; तत्रैव च यैर्दोषैः शरीरं, मनश्च याभ्यां दोषाभ्यां युक्तं दुःखकारणं भवति, तानाह- तत्र त्रय इत्यादि| विकृतिरुपजायत इति शारीरमानसरोगरूपा विकृतिरुपजायते||३४||

Adhikarana 32 (35) · Śloka 35

तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमग्रे||३५||

🔊 Audio coming soon

सम्प्रति, शरीरसत्त्वयोस्तु विशेषादित्यनेन दर्शिताञ् शरीरसत्त्वविशेषानेवाह- तत्रेत्यादि| चतुर्विधमिति जरायुजाण्डजोद्भिज्जसंस्वेदजम्| अग्रे इति खुड्डिकायाम्||३५||

Adhikarana 33 (36) · Śloka 36

त्रिविधं खलु सत्त्वं- शुद्धं, राजसं, तामसमिति| तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात्, राजसं सदोषमाख्यातं रोषांशत्वात्, तामसमपि सदोषमाख्यातं मोहांशत्वात्| तेषां तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च| शरीरं ह्यपि सत्त्वमनुविधीयते, सत्त्वं च शरीरम्| तस्मात् कतिचित्सत्त्वभेदाननूकाभिनिर्देशेन निदर्शनार्थमनुव्याख्यास्यामः||३६||

🔊 Audio coming soon

कल्याणांशत्वादिति शुभरूपांशत्वात् | मनो हि कल्याणभाग-रोषभाग-मोहभागैस्त्रिभागं; तत्र रोषांशमोहांशौ सदोषौ, अधर्महेतुतया| भेदाग्रमिति भेदप्रमाणम्| तरतमयोगादिति शुचितर-शुचितममनोभेदयोगात्| शरीरविशेषा बाल-युव-स्थविरादिविशेषाः, योनिविशेषास्तु मनुष्यपश्वादिजातिविशेषाः; किंवा, शरीरस्य नरपश्वादिजातिकृता विशेषाः शरीरयोनिविशेषाः, तेभ्यः| अथ शरीरभेदात् कथं मनोभेदो भवतीत्याह- अन्योन्यानुविधानाच्च| एतदेव विभजते- शरीरं ह्यपीत्यादि| सत्त्वानुरूपं शरीरं भवति, यदि शुद्धसत्त्वं भवति तदा देवादिशरीरं भवतीत्यादि; तथा शरीरानुरूपं च सत्त्वं भवति; यथा- पशुशरीरे तामसं, मनुष्यशरीरे राजसं, देवशरीरे सात्त्विकमित्यादि ज्ञेयम्| किंवा, अन्योन्यानुविधानादिति सत्त्वरजस्तमसां परस्परानुविधानादित्यर्थः| अस्मिन् पक्षे ‘शरीरं ह्यपि सत्त्वमनुविधीयते’ इत्यादिना ग्रन्थेन व्यवहितमपि शरीरानुविधानं मनसो दुर्बोधत्वाद् व्याक्रियत इति व्याख्येयम्| सत्त्वभेदानिति मनोभेदान्| अनूकाभिनिर्देशेन सादृश्यनिर्देशेन||३६||

Adhikarana 34 (37) · Śloka 37

तद्यथा- शुचिं सत्याभिसन्धं जितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनसम्पन्नं स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षामर्षापेतं समं सर्वभूतेषु ब्राह्मं विद्यात् (१)| इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषमोहलोभरोषं प्रतिभावचनविज्ञानोपधारणशक्तिसम्पन्नमार्षं विद्यात् (२)| ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकर्माणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात् (३)| लेखास्थवृत्तं प्राप्तकारिणमसम्प्रहार्यमुत्थानवन्तं स्मृतिमन्तमैश्वर्यलम्भिनं व्यपगतरागेर्ष्याद्वेषमोहं याम्यं विद्यात् (४)| शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भोविहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात् (५)| स्थानमानोपभोगपरिवारसम्पन्नं धर्मार्थकामनित्यं शुचिं सुखविहारं व्यक्तकोपप्रसादं कौबेरं विद्यात् (६)| प्रियनृत्यगीतवादित्रोल्लापकश्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयकं गान्धर्वं विद्यात् (७)| इत्येवं शुद्धस्य सत्त्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात्; तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्यवस्येत्||३७||

🔊 Audio coming soon

संविभागिनमिति सम्यक्फलविभजनशीलम्| अतिथौ यथोचितमर्घ्यादियुक्तं व्रतमाचरतीति अतिथिव्रतः| लेखा कर्तव्याकर्तव्यमर्यादा, तत्र स्थितं वृत्तं यस्य स लेखास्थवृत्तः, तम्; अलङ्घितकर्तव्याकर्तव्यमित्यर्थः| असम्प्रहार्यमिति अशक्यवारणम्| ऐश्वर्यं लभत इति ऐश्वर्यलम्भी| स्थाने उचिते कोपः प्रसादश्च यस्य स स्थानकोपप्रसादः| सुखविहारमिति सुखक्रीडनम्| उल्लापः स्तोत्रम्| विहारः क्रीडा, किंवा स्त्रीभिः समं विहरणं स्त्रीविहारः| गान्धर्वमिति गान्धर्वसत्त्वम्| एवं ब्राह्ममित्यादावपि ज्ञेयम्| एवं च ब्राह्मादिभिः सत्त्ववाचकैः पदैरेवंशब्दप्रत्यवमृष्टैः सत्त्वस्य सप्तविधभेदकथनं समानकारणादुपपन्नं भवति| शुद्धस्येति सत्त्वगुणबहुलस्य| अथ कथमेते ब्राह्मादयः शुद्धसत्त्वस्यैव भेदा इत्याह- कल्याणांशत्वादिति| तत्संयोगादिति कल्याणांशसत्त्वस्य सम्यग्योगात्||३७||

Adhikarana 35 (38) · Śloka 38

शूरं चण्डमसूयकमैश्वर्यवन्तमौपधिकं रौद्रमननुक्रोशमात्मपूजकमासुरं विद्यात् (१)| अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं क्रूरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीर्ष्युं राक्षसं विद्यात् (२)| महाशनं स्त्रैणं स्त्रीरहस्काममशुचिं शुचिद्वेषिणं भीरुं भीषयितारं विकृतविहाराहारशीलं पैशाचं विद्यात् (३)| क्रुद्धशूरमक्रुद्धभीरुं तीक्ष्णमायासबहुलं सन्त्रस्तगोचरमाहारविहारपरं सार्पं विद्यात् (४)| आहारकाममतिदुःखशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपमकर्मशीलं प्रैतं विद्यात् (५)| अनुषक्तकाममजस्रमाहारविहारपरमनवस्थितममर्षणमसञ्चयं शाकुनं विद्यात् (६)| इत्येवं खलु राजसस्य सत्त्वस्य षङ्विधं भेदांशं विद्यात्, रोषांशत्वात्||३८||

🔊 Audio coming soon

औपधिकमिति छद्मप्रचारिणम्| अननुक्रोशमिति निर्दयम्| स्त्रिया समं रहसि स्थातुमिच्छतीति स्त्रीरहस्कामः| क्रुद्धशूरमक्रुद्धभीरुमिति क्रोधे सति शूरं, क्रोधेऽसति भीरुम्| गोचरशब्देन गोचरे विषये प्रचारो लक्ष्यते, तेन सन्त्रस्तगोचरमिति सन्त्रस्तविषयप्रचारम्| पिशाचाद्भिन्न एव यथोक्ताचारः प्रेतः, तेन प्रैतमपि सत्त्वं पृथगुक्तम्||३८||

Adhikarana 36 (39) · Śloka 39

निराकरिष्णुममेधसं जुगुप्सिताचाराहरं मैथुनपरं स्वप्नशीलं पाशवं विद्यात् (१)| भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् (२)| अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद्यात् (३)| इत्येवं तामसस्य सत्त्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात्||३९||

🔊 Audio coming soon

सरणशीलमिति गमनशीलम्| बुद्ध्यङ्गानि ऊहापोहविचारस्मृत्यादीनि उक्तानि||३९||

Adhikarana 37 (40) · Śloka 40

इत्यपरिसङ्ख्येयभेदानां त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः; शुद्धस्य सत्त्वस्य सप्तविधो ब्रह्मर्षिशक्रयमवरुणकुबेरगन्धर्वसत्त्वानुकारेण, राजसस्य षड्विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनिसत्त्वानुकारेण, तामसस्य त्रिविधः पशुमत्स्यवनस्पतिसत्त्वानुकारेण, कथं च यथासत्त्वमुपचारः स्यादिति||४०||

🔊 Audio coming soon

सुखस्मरणार्थं शुद्धादिभेदेन बन्धीकृत्य सत्त्वभेदानाह- शुद्धस्येत्यादि| वनस्पतिसत्त्वानुकारेणेत्यन्तो ग्रन्थो भेदैकदेशो व्याख्यात इत्यनेन संयोजनीयः, क्रियान्तराभावात्| एते च सत्त्वभेदाः प्रायेण भवन्ति मनुष्येष्विति कृत्वा एत एवोदाहरणार्थमुक्ताः; एवमनुक्ता अपि विष्णु-शङ्कर-व्याघ्रादिसत्त्वानुकारेण सत्त्वभेदा बोद्धव्या एवेति दर्शयति| कथमित्यादि कथं नाम यथासत्त्वं सर्वप्राणिमनोभिर्मनुष्याणामुपचारः स्यादित्येतदर्थमुदाहरणरूपा अमी सत्त्वभेदा व्याख्याता इति वाक्यार्थः||४०||

Adhikarana 38 (41) · Śloka 41

केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति गर्भावक्रान्तिसम्प्रयुक्तः ; तस्य चार्थस्य विज्ञाने सामर्थ्यं गर्भकराणां च भावानामनुसमाधिः, विधातश्च विघातकराणां भावानामिति||४१||

🔊 Audio coming soon

यथाप्रतिज्ञं व्याख्यातार्थमुपसंहरति- केवल इत्यादि| केवलः कृत्स्नः| उद्देश इति ‘यतश्चायं गर्भः’ इत्यादिग्रन्थकृतः| यथोद्देशमिति उद्देशक्रमानतिक्रमेण| सामर्थ्यमिति प्रयोजनम्| अनुसमाधिः अनुष्ठानम्| विघातः वर्जनम्| विघातकराणामिति गर्भविघातकराणाम्||४१||

Adhikarana 39 (42-45) · Śloka 45

तत्र श्लोकाः- निमित्तमात्मा प्रकृतिर्वृद्धिः कुक्षौ क्रमेण च| वृद्धिहेतुश्च गर्भस्य पञ्चार्थाः शुभसञ्ज्ञिताः||४२|| अजन्मनि च यो हेतुर्विनाशे विकृतावपि| इमांस्त्रीनशुभान् भावानाहुर्गर्भविघातकान्||४३|| शुभाशुभसमाख्यातानष्टौ भावानिमान् भिषक्| सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति||४४|| अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति| ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः||४५||

🔊 Audio coming soon

अथैतेषु मध्ये के ते गर्भस्य शुभा ये गर्भेऽनुष्ठेयाः, के वा अशुभा ये वर्जनीया इत्याह- निमित्तमित्यादि| निमित्तमिति ‘यतश्च गर्भः सम्भवति’ इति ग्रन्थोद्दिष्टोऽर्थः| आत्मेति गर्भरूप आत्मा ‘यस्मिंश्च गर्भसञ्ज्ञा’ इति ग्रन्थोद्दिष्टोऽर्थः| प्रक्रियतेऽस्माद्गर्भ इति प्रकृतिः ‘यद्विकारश्च गर्भः’ इति ग्रन्थोद्दिष्टोऽर्थः| वृद्धिः कुक्षौ क्रमेण चेति ‘ययाऽनुपूर्व्या कुक्षावभिनिर्वर्तते गर्भः’ इति ग्रन्थोद्दिष्टोऽर्थः| वृद्धिहेतुरिति ‘यश्चास्य वृद्धिहेतुः’ इत्यादिनोद्दिष्टोऽर्थः| अजन्मनि च यो हेतुरित्यनेन ‘यतश्चास्याजन्म भवति’ इत्युद्दिष्टोऽर्थो गृह्यते| विनाशे च यो हेतुरित्यनेन ‘यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति’ इत्युक्तोऽर्थो गृह्यते| विकृतावपाये हेतुरित्यनेन ‘यतश्च कार्त्स्न्येन’ इत्यादिनोक्तार्थसङ्ग्रहः| गर्भविघातत्वेनोक्ता गर्भविघातोक्ताः||४२-४५||

Adhikarana puShpikA · Śloka 4

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः||४||