Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. bastisiddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो बस्तिसिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेय||२||

🔊 Audio coming soon

त्रिमर्मीयायां बहुरोगप्रतिपादनाद्बहुरोगहितबस्तिप्रतिपादनार्थं बस्तिसिद्धिरुच्यते| अत्रैव बस्तिशब्देन सिद्धिबस्तयोवक्ष्यमाणा अभिप्रेताः||१-२||

Adhikarana 2 (3) · Śloka 3

सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु| शृण्वग्निवेश ! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्||३||

🔊 Audio coming soon

सिद्धानामिति प्रसिद्धफलानाम्| तेषु तेष्विति वक्ष्यमाणवातगदादिषु| सिद्धिमिति बस्तिनिष्पादिकां, किंवा बस्त्यभिधायकग्रन्थम्||३||

Adhikarana 3 (4-5) · Śloka 5

बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक् स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्नियच्छन्ति||४|| कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्| आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च||५||

🔊 Audio coming soon

बस्तेरितिकर्तव्यतां गुणांश्च प्रतिपादनीयबस्त्यङ्गभूतानाह- बलदोषेत्यादि| अत्र च बलादौ यथाप्रधानमिह गृहीते सर्वपरीक्षावरोधो व्याख्येयः; “परीक्ष्य दोषौषध ... ” (सि.अ.३) इत्यादिनोक्तोऽप्ययमर्थः पुनः प्रकरणवशादुच्यते| स्वैः स्वैरौषधवर्गैरिति यथाव्याधिप्रतिपादितैरौषधैः| स्वान् स्वानिति तत्तद्बस्तिविधेयौषधप्रशमनीयान्| आश्वपतपर्णतर्पणयोगादिति अपतर्पणार्थप्रयुक्तो बस्तिरन्यापतर्पणभेषजेभ्यः शीघ्रमपतर्पणं करोति; एवं तर्पणद्रव्ययुक्तोऽपि बस्तिः शीघ्रमितरतर्पणापेक्षया तर्पणं करोति||४-५||

Adhikarana 4 (6-7) · Śloka 8

सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्| दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः||६|| अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ| आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म||७|| बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु|८|

🔊 Audio coming soon

बस्त्यपेक्ष्या शोधनान्तरेण दोषहरणे दोषमाह- सत्यपीत्यादि| कटुकादिभेषजैर्विरेकदानाद्दुःखं चोद्गारश्चोत्क्लेशश्चाहृद्यत्वं च कोष्ठरुजाश्चैतै सर्वे भवन्ति; तत्र दुःखं कटुकादिना रसेनोद्वेगादेव भवति; एते दोषा बस्तौ न सम्भवन्तीति भावः| विरेकशब्देन वमनविरेकावपि ग्राह्यौ; किंवा वमनं बस्तिना सममत्यन्तभिन्नविषयत्वादेव नोदाहृतं, विरेकस्तु पक्वाशयस्थेऽपि दोषे बस्तिविषये भवतीति कृत्वा विरेकमेव प्रति बस्तेः प्राधान्यमिहोच्यते| अविरेकादिविषये बस्तेर्यौगिकतया प्राधान्यमाह- अविरेच्यावित्यादि| तावित्यादौ यथासङ्ख्यं व्याख्येयम्- अप्राप्तधातुरप्राप्तबलश्च बालः, प्रहीणधातुः प्रहीणबलश्च वृद्धः, एवम्भूतत्वाच्चाविरेच्यावेतौ| सर्वार्थकृदिति निरत्ययदोषहरणबृंहणादिकृत्||६-७||-

Adhikarana 5 (8-10) · Śloka 10

अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः||८|| शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम् | विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः||९|| उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च| तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य विनियुज्यात्||१०||

🔊 Audio coming soon

बस्तेर्भेदानाह- अनुवासनमित्यादि| तद्योग्यौषधयुक्तानिति उष्णार्तिहरेण शीतार्तिहरेण वा औषधेन कल्पितान्||८-१०||

Adhikarana 6 (11-12) · Śloka 12

बस्तीन्न बृंहणीयान् दद्याद् व्याधिषु विशोधनीयेषु| मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः||११|| न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्| युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च||१२||

🔊 Audio coming soon

विशोधनीयान् व्याधीनुदाहरति- मेदस्विन इत्यादि| विशोध्या येऽपीति भूरिदोषत्वेन ये शोधनार्हा इत्यर्थः| दोषनिबद्धायुष इति दोषे मलादिरूपे देहस्थे निबद्धमायुर्येषां शोष्यतिदुर्बलप्रभृतीनां ते तथा; उक्तं हि ‘शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि| अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते’ (चि.अ.८) इति||११-१२||

Adhikarana 7 (13-14) · Śloka 14

वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः| शस्ताः सतैलमूत्रारनाललवणाश्च कफवाते||१३|| युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्| अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्||१४||

🔊 Audio coming soon

कार्यविशेषापेक्षया बस्तीनां संस्कारविशेषानाह- वाजीकरणे इत्यादि| मधुप्रक्षेपो बस्तौ पूर्वोक्तसामान्यविधानलब्धोऽप्यधिकमात्रया प्रक्षेपार्थमवश्यप्रक्षेपार्थं चेहोच्यते| अविरोधाद्धातूनामिति पूर्वेण सम्बध्यते, तेन यस्मिन् संस्कारे अम्लादिषु मध्ये यद्धातुविरोधि न भवति तद्देयं, यत्तु धातुविरोधि भवति न तद्देयं; व्याधितप्रकृत्यविरुद्धं यद् यस्य भवति तत् तस्य देयमित्यर्थः| रसयोनित्वाच्च जलमुष्णमिति जलं यस्माद्रसयोनिः, तेन तदुष्णं सत् सर्वबस्तिगतरसस्य पोषणार्थं सर्वबस्तिषु देयम्; एतच्च जलं बस्तिषु साक्षात् प्रक्षेपादर्शनात् कल्कादिपेषणे विनियोज्यं; किंवा अत्र तद्वचनप्रामाण्यादेव ज्ञेयं; किंवा जलशब्दोऽयं द्रवोपलक्षणः, तेनाम्लादिद्रवदानस्यैवेयमुपपत्तिः| रसयोनित्वं द्रवसम्बन्धादेवाम्लादीनामुपपन्नम्| अन्ये तु जलमुष्णं प्रतिनियतमेव, चूर्णबस्तावेवेच्छन्ति, चूर्णबस्तिश्च यः केवलद्रवेन दीयते; तन्त्रान्तरेऽप्युक्तं यथा “रास्नावचाबिल्वशताह्वयैलापूतीककृष्णाफलदारुकुष्ठैः| ससैन्धवाम्लोष्णजलः सतैलः शूलघ्न इष्टः खलु चूर्णबस्तिः” इति||१३-१४||

Adhikarana 8 (15-17) · Śloka 17

सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः| ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५|| आवापा बस्तीनामतः प्रयोज्यानि येषु यानि स्युः| युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६|| चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः| सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||

🔊 Audio coming soon

सुरदार्वित्यादिना बस्तिषु दोषाद्यपेक्षया व्यस्तसमस्तविधया प्रक्षेप्यानाह| आवापा बस्तीनामिति बस्तिष्वावाप्या इत्यर्थः| यानीति कषाययुक्तानि| चिरजातकठिनबलेषु तीक्ष्णा इति अत्रोक्ततीक्ष्णद्रव्ययोगेन तीक्ष्णाः| विपर्यये चेति अचिरजाते अकठिनबले च| अनुवासननिरूहा इति अनुवासने कषाययोगः स्नेहसाधनार्थमेव, आवापस्त्वनुवासनेऽपि शताह्वादीनां कर्तव्य एव; यदुक्तमन्यत्र- “पिप्पलीं मदनं कुष्ठं शताह्वां मधुकं वचाम्| योजयेन्मात्रया पिष्ट्वा आवापमनुवासने” इति||१५-१७||

Adhikarana 9 (18-24) · Śloka 24

अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु सर्वशः | बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु||१८|| बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा| शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः||१९|| यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले| शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः||२०|| नलवञ्जुलवानीरशतपत्राणि शैवलम्| मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका||२१|| चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः| सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः||२२|| अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा| हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्||२३|| पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु | सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः||२४||

🔊 Audio coming soon

पूर्वं सिद्धानां बस्तीनामित्यादिना प्रतिज्ञातार्थान् बस्तीनाह- अर्धश्लोकैरित्यादि| व्याधिष्वित्यत्र व्याधिशब्दो दोषेऽपि वर्तनीयः| बहुश इति एकैकस्मिन् व्याधौ दोषे च बहुश इत्यर्थः| वीर्यसमैर्भागैरिति अन्योन्यानुपहतसामर्थ्यैर्द्रव्यभागैः| वर्धमानक एरण्डः| पिशितस्य रसान्विता इति प्रक्षिप्तमांसरसाः| वञ्जुलः वेतसः, वानीरः तद्भेदः| तुङ्गः पुन्नागः| अलर्कः मन्दारः| एकाष्ठीला पाठा| कुटन्नटं कैवर्तमुस्तकम्, अन्ये तगरमाहुः||१८-२४||

Adhikarana 10 (25-27) · Śloka 27

फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः | श्यामा च त्रिफला चैव स्थिरा दन्ती द्रवन्त्यपि||२५|| प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा| सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च||२६|| चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः| (व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः )||२७||

🔊 Audio coming soon

क्ष्वेडः कृतवेधनः| द्रवन्ती दन्तीभेदः| प्रकीर्या करञ्जः| नीलिनी नीलवुह्ना, ‘नीलाञ्जनिका’ इत्यन्ये||२५-२७||

Adhikarana 11 (28-29) · Śloka 29

काकोली क्षीरकाकोली मुद्गपर्णी शतावरी| विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके||२८|| आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा| जलजानूपजं मांसमित्येते शुक्रमांसलाः ||२९||

🔊 Audio coming soon

एते शुक्रमांसला इत्यत्र एते इति चत्वारः पूर्वोक्ताः||२८-२९||

Adhikarana 12 (30-31) · Śloka 31

जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ| प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः||३०|| प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका| वटाद्याः किंशुकं लोध्रमिति साङ्ग्राहिका मताः||३१||

🔊 Audio coming soon

पिण्डीतकः मदनः| रक्तमूली समङ्गा| तरुणी आरामतरुणी, नवमालिका वा||३०-३१||

Adhikarana 13 (32) · Śloka 32

परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्| आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया||३२||

🔊 Audio coming soon

तण्डुलीयकयुक्तयेत्यन्तेन परिस्रावे द्वावुक्तौ||३२||

Adhikarana 14 (33) · Śloka 33

कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः | दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः||३३||

🔊 Audio coming soon

काण्डेक्षुः बृहदिक्षुः; पोटगलः होग्गलः| उत्पलादिभिरिति उत्पलादयो नलिनसौगन्धिकादयो जलजाः पुष्पविशेषाः||३३||

Adhikarana 15 (34-35) · Śloka 35

कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः| बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः||३४|| परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः| (देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः )||३५||

🔊 Audio coming soon

कर्बुदारः काञ्चनारः, विदुलो वेतसः| कोविदारजैरित्यन्तेन द्वितीयः परिकर्ते||३४-३५||

Adhikarana 16 (36) · Śloka 36

बस्तिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः| हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च||३६||

🔊 Audio coming soon

वेष्टैः शाल्मलिकस्य चेत्यन्तेन द्वितीयः प्रवाहणे||३६||

Adhikarana 17 (37) · Śloka 38

अश्वावरोहिकाकाकनासाराजकशेरुकैः| सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः||३७|| न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः|३८|

🔊 Audio coming soon

अश्वावरोहिका अश्वगन्धा, अश्वकर्णः, इक्षुरको वा; जतूकर्णदर्शनात्तु अश्वावरोहकः अश्वकर्णः| न्यग्रोधाद्याश्चत्वारः न्यग्रोधोदुम्बराश्वत्थप्लक्षाः| तेनैव विधिनेति पूर्वयोगविधिना| एतौ द्वावतियोगे||३७||-

Adhikarana 18 (38-42) · Śloka 42

बृहती क्षीरकाकोली पृश्निपर्णी शतावरी||३८|| काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः| जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ||३९|| बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ| गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा||४०|| शशैणदक्षमार्जारमहिषाव्यजशोणितैः| सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||४१|| मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः| तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः||४२||

🔊 Audio coming soon

जीवादाने इति जीवशोणितप्रवृत्तौ| गोऽव्यजेत्यादिना जीवादाने प्रशस्यते इत्यन्तेन जीवादाने तृतीयो बस्तिरुच्यते| अयं च यद्यपि श्लोकार्धाविहितो बस्तिः, तथाऽपि श्लोकार्धैरिति प्रतिज्ञा भूरिप्रयोगाणां श्लोकार्धविहितत्वेन ज्ञेया; किंवा अत्रापि गोऽव्यजेत्यादिनाऽर्धश्लोकविहित एव व्यवस्थितः; पूर्वार्धेन तु तस्येतिकर्तव्यतोच्यते; इतिकर्तव्यताभिधानं च श्लोकार्धादतिरेकेणापि भवतीति योगान्तरेष्वपि दृष्टम्||३८-४२||

Adhikarana 19 (43) · Śloka 43

मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा| शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः| रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः||४३||

🔊 Audio coming soon

रक्तपित्ते इति च्छेदः| एतौ द्वौ मिलित्वा सङ्ग्रहे पठितौ ‘द्वौ रक्तपित्ते’ इत्यनेन| सोमवल्कः विट्खदिरः||४३||

Adhikarana 20 (44-45) · Śloka 45

गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु| सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च||४४|| यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः| पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्||४५||

🔊 Audio coming soon

अनुक्तबस्तिकल्पनार्थमाह- गुल्मातिसारेत्यादि| यथास्वैरौषधैरिति यथास्वव्याधिप्रत्यनीकैर्भैषजैः| कुर्याद्योगान् पृथग्विधानिति यथोक्तविधिना द्रव्यावापादिना योगान् यथोचितान् गुल्मादिकल्पनीयान् बस्तिषु कुर्यात्||४४-४५||

Adhikarana 21 (46-48) · Śloka 48

तत्र श्लोकाः- त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः| पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६|| परिस्रावे तथा दाहे परिकर्ते प्रवाहणे| सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः||४७|| द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते| सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः||४८||

🔊 Audio coming soon

त्रिकास्त्रय इत्यादिः सङ्ग्रहो व्यक्त एव| अल्पौषधक्लेशा इति अल्पौषधा अल्पक्लेशाश्च||४६-४८||

Adhikarana puShpikA · Śloka 10

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||