Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. trimarmīyā siddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

प्रासृतयोगीयानन्तरं त्रिमर्मीया सिद्धिरुच्यते, त्रिमर्मजरोगाश्रयिव्यापदां बस्तिरूपचिकित्सोपदर्शनार्थं; व्यापत्प्रतीकारानन्तरं बस्तिप्रयोगाधिकारश्च पूर्वाध्यायादनुवर्तते ; किंवा, बस्तिव्यापच्चिकित्सा पूर्वाध्यायादिकृता, बस्तिव्यापादाच्च त्रिमर्मजा अपि रोगा भवन्ति, तेन तेषां ज्ञानपूर्वकचिकित्सोपदर्शनार्थं त्रिमर्मीयसिद्धिरुच्यते| एतदध्यायवक्तव्याश्च गदास्त्रिमर्मीयचिकित्सितेऽध्यायविस्तरभयान्नोक्ताः, त इह प्रतिपाद्यन्ते| अत्रापि मर्मशब्देन मर्मगता गदा उच्यन्ते, तानधिकृता सिद्धिस्त्रिमर्मीयसिद्धिः||१-२||

Adhikarana 2 (3) · Śloka 3

सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!| तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्| तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्; स्कन्धाश्रितेभ्योऽपि हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||३||

🔊 Audio coming soon

सप्तोत्तरं मर्मशतमिति शरीरसङ्ख्याभिहितं; तच्च मांससिरास्नाय्वस्थिसन्धिषु निविष्टम्| स्कन्धशब्देनानन्तराधिरुच्यते; शाखाशब्देन चेह शाखेव शाखेति कृत्वा बाहुद्वयं जङ्घाद्वयं चोच्यते; नेह शाखाशब्देन रक्तादिधातूनां ग्रहणं, रक्तादिधातूनां स्कन्धेऽपि, विद्यमानत्वात्| तत्र शाखाश्रितानि चतुश्चत्वारिंशन्मर्माणि, शेषं स्कन्धाश्रितम्| यदुक्तं सुश्रुते- “तेषामेकादशैकस्मिन् सक्थि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत्” (सु.शा.अ.६) इति; एतेषां च मर्मणां प्रत्येकं विभाग उक्तः सुश्रुते एव “तलहृदय” (सु.शा.अ.६) इत्यादिना प्रपञ्चतोऽनुसरणीयः| सप्तोत्तरशतमर्मणाममर्मशरीरदेशविलक्षणं धर्ममाह- तेषामित्यादि| चेतनानिबन्धवैशेष्यादिति यस्मान्मर्मसु चेतनाधातुर्विशेषेण निबद्ध इत्यर्थः; चेतनानिबन्धश्च मर्मस्वदृष्टकृत एव मर्मपीडया विशेषपीडादर्शनादुन्नीयते| शाखानां तदाश्रितत्वादिति यस्माच्छाखा अपि स्कन्धाश्रिताः, तेन स्कन्धाश्रितशाखाश्रितेभ्यः साक्षात् स्कन्धाश्रितं मर्म गरीयो भवतीत्यर्थः; स्कन्धाश्रितत्वं च शाखानां स्कन्धोपघातेन तदुपघातात्, तथा स्कन्धनिष्पन्नेनैव रसादिना तत्पोषणात्; किञ्च स्कन्धाश्रितान्येव मर्माणि सद्यःप्राणहराणि, न शाखाश्रयाणि; तेन च स्कन्धस्य प्राधान्यम्| यदुक्तं सुश्रुते- “शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरोगुदम्| हृदयं बस्तिनाभी च घ्नन्ति सद्यो हतानि वै” (सु.शा.अ.६) इति| हृद्बस्तिशिरांसि गरीयांसीति सम्बन्धः| एतद्गरीयस्त्वे हेतुमाह- तन्मूलत्वाच्छरीरस्येति| तन्मूलत्वादिति तदाश्रितत्वात्, तथा च हृदयाश्रितत्वं शरीरस्य ‘तत्र हृदये दश धमन्यः’ इत्यादिना ‘नाभ्यामरा इव’ इत्यन्तेन दर्शयिष्यति| यद्यपि च मर्मान्तराण्यपि विशेषेण प्राणाश्रयाण्युक्तानि; यथा ‘दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः| शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्’ (सू.अ.२९) इत्यनेन, तथाऽपि शङ्खादीनि न शरीराश्रयभूतानि यथा हृदयादीनि; तेन प्राणायतनत्वे समानेऽप्युक्तशरीराश्रयत्वविशेषादिह हृदयादीनामेव प्राधान्यमुच्यते; किञ्च, प्राणाश्रयत्वमपि यथा हृदयादीनां न तथा शङ्खादीनाम्; उक्तं हि “सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेषु| मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतान्यृषयो वदन्ति|| प्राणाश्रयान् तानपि पीडयन्तो वातादयोऽसूनपि पीडयन्ति” (सु.शा.अ.६) इति| अन्ये तु शङ्खादिप्राणाश्रयाणां हृदयादिष्वेव सामीप्यादन्तर्भावं दर्शयन्ति, तच्चामूलत्वादुपेक्षितम्||३||

Adhikarana 3 (4-5) · Śloka 5

तत्र हृदये दश धमन्यः प्राणापानौ मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा , बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४|| तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||

🔊 Audio coming soon

दश धमन्य इति ओजोवहा दश धमन्यः, “अर्थे दश महामूलाः समासक्ताः” (सू.अ.३०) इत्यादिना अर्थेदशमहामूलीये प्रतिपादिताः| प्राणापानाविति उच्छ्वासनिश्वासौ, केचित्तु प्राणापानौ यथोक्तावेव वातौ प्राहुः; तत्रापानो यद्यपि मेढ्रश्रोण्याद्याश्रय एवेत्याहुः, तथाऽपि हृदयाव्यतिरिक्तानुविधायित्वाद्धृदयाश्रित इत्युच्यते| मनः अन्तःकरणम्| बुद्धिः महच्छब्दाभिलप्या| चेतना बुद्धिवृत्तिभेदः| महाभूतानीति आत्मसम्बद्धानि सूक्ष्ममहाभूतानि| एतत् सर्वं साङ्ख्यदर्शने व्यवस्थापितं शारीरे च व्युत्पादितमनुसरणीयम्| प्रदेशान्तरे चोक्तं- “षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्| आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संस्थितम्” (सू.अ.३०) इति; तेऽर्था एतच्छ्लोकोक्ताः, अधिकार्थानां च प्रोक्तेष्वेवावरोधो व्याख्येयः; किंवा इह शास्त्रोद्धारेणाभिधानम्| यथा हृदये दश धमन्यादीन्याश्रितानि, तद्दृष्टान्तेन दर्शयति- नाभ्यामरा इव प्रतिष्ठितानीति; नाभिः चक्रनाभिः, अराः चक्रनेमिमध्यस्थकाष्ठानि, यथा- चक्रनाभ्यां सम्बद्धा, अरास्तदुपघातादुपहन्यन्ते, तन्मूलत्वेन तत्सम्बन्धा भवन्ति, एवं धमन्यादयोऽपीत्यर्थः| ‘नाभ्यामपरा’ इति वा पाठः, तेन गर्भनाभ्यामपरा इवेत्यर्थः (अरा इव अपरेति व्याख्यानयन्ति)| एतेन प्रदेशान्तरवर्तिनामपि धमन्यादीनां हृदयाश्रितत्वं सिद्धमिति भावः| शिरस आश्रयत्वमाह- शिरसीत्यादि| इन्द्रियप्राणवहानि स्रोतांसि यद्यपि प्रदेशान्तरेऽपि भवन्ति , तथाऽपि शिरसि विशेषेणैवैतानि प्रबद्धानीति सूर्यमिव गभस्तय इति दृष्टान्तेन दर्शयति| शिरआश्रयत्वं च यथोक्तस्रोतसां तदुपघातेन विशिष्टोपघातदर्शनादुन्नीयते| बस्तेः शरीराश्रयत्वमाहु- बस्तिस्त्वित्यादि| स्थूलगुदादिमध्यस्थितत्वप्रतिपादनेनास्य स्थूलगुदादीनां बस्त्याश्रयत्वं दर्शयति| अम्बुवहानां स्रोतसां प्रतिष्ठेति स्थानमित्यर्थः, उदधिर्यथाऽऽपगानां पूरणीयस्थानं, तथा बस्तिरप्यम्बुवहस्रोतसां विश्रामस्थानम्| तन्मूलैरिति तत्सम्बद्धैर्मर्मसञ्ज्ञकैः; नहि स्रोतसां मर्मत्वमस्ति; किंवा स्रोतोमर्मशब्देन सिरामर्मणां ग्रहणं; किंवा मर्मसम्बद्धानि मर्मपोषकाणि वा स्रोतांसि मर्मसञ्ज्ञकानि स्रोतांसि| आश्रयनाशादाश्रितस्य नाश इति आश्रयनाशादाश्रितस्य नाशो यस्माद्भवति, तस्माद्धृदयादीनामन्यतमस्य नाशाच्छरीरनाशो भवतीति युक्तम्| शरीरस्य हृदयाश्रितत्वं शरीरारम्भकप्रधानदशधमन्याद्याश्रयत्वेनैव ज्ञेयम्| उपघातादिति किञ्चिद्वैकृतात्||४-५||

Adhikarana 4 (6) · Śloka 6

तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, बस्तौ तु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः ; वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि||६||

🔊 Audio coming soon

हृदयाद्यभिघातभवान् व्याधीन् क्रमेणाह- तत्रेत्यादि| क्लोमापकर्षणं क्लोमापकर्षणाकारा वेदना| वेष्टनं शिरसि वेष्टनाकारा वेदना| कुण्डलं बस्तौ कुण्डलरूपा वेदना| उपस्तम्भः बस्तेरेव| चिकित्सिते इति त्रिमर्मीयचिकित्सिते| सक्रियाविधिनीति सचिकित्सितविधानानि||६||

Adhikarana 5 (7) · Śloka 7

किन्त्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमुदीरणे हेतुः प्राणमूलं च, स बस्तिकर्मसाध्यतमः, तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति| तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च||७||

🔊 Audio coming soon

मर्मपरिपालने बस्तेः प्राधान्यं सोपपत्तिकमाह- किन्त्वेतानीत्यादि| यस्मात् पित्तकफयोर्द्वयोरक्रिययोरीरणेऽनिल एव हेतुः, तेन कफपित्तजेऽपि विकारे वायुर्निमित्तं, वातजविकारेऽपि वायुः स्वतन्त्र एव कारणम्, अतः सर्वविकारेषु मर्माणि रक्षयता तत्कारणादनिलादेव मर्माणि रक्षणीयानि| तथा प्राणमूलं चेति जीवितहेतुश्चाविकृतो वायुः, विकृतश्च प्राणोपघातकः; तेन मर्माण्यपि प्राणरक्षार्थं वाताद्रक्ष्याणि| बस्तिसाध्यतम इति इतरचिकित्सापेक्षया बस्तिना साध्यतमः; उक्तं हि- “बस्तिर्वातहराणाम्” (सू.अ.२५) इति| द्वौ चानुवासनस्कन्धाविति रोगभिषग्जितीये “अनुवासनं तु स्नेह एव, स द्विविधः- स्थावरो जङ्गमश्च” (वि.अ.८) इत्यनेनोक्तौ द्वावनुवासनस्कन्धौ ज्ञेयौ| इहेति सिद्धिस्थाने| बुद्ध्या विचार्येति दोषौषधादीनि दश बुद्ध्या विचार्य, वातव्याधिचिकित्सां च बुद्ध्या विचार्य प्रयोजयेदित्यर्थः||७||

Adhikarana 6 (8) · Śloka 8

भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य रसेनान्येन वाऽम्लेन हृद्येन वा पाययेत्, स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं, बिल्वादिपञ्चमूलरससिद्धा च यवागूः, हृद्रोगविहितं च कर्म; मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तःकर्मावपीडनधूमादीनि; बस्तौ तु कुम्भीस्वेदः, वर्तयः, श्यामादिभिर्गोमूत्रसिद्धो निरूहः, बिल्वादिभिश्च सुरासिद्धः, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं च सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति||८||

🔊 Audio coming soon

विशेषेण मर्मभेदचिकित्सितमाह - भूयश्चेत्यादि| हृद्युपसृष्टे ‘वातेन” इति शेषः| लवणानामिति निर्धारणे षष्ठी| अन्य एव अन्यतमः, यथा- श्रेष्ठतम इति| हृद्येनेति मनोऽनुकूलेन; यद् द्वेष्यरसस्य हृदहिततयाऽहृद्यत्वं, तन्मनोऽननुकूलत्वमेव| हृद्रोगविहितं च कर्मेति त्रिमर्मीयचिकित्सिते| धूमादीनीति आदिशब्देन परिषेकोपनाहादिग्रहणम्| बस्तौ त्विति ‘प्रदुष्टे वातेन’ इति प्रकरणाज्ज्ञेयं; पित्तकफदुष्टौ च वायुरेव प्रधानमिति प्रागेव प्रतिपादितं; तेन कफपित्तदुष्टिरपि लभ्यते| वर्तय इति फलवर्तयः| श्यामादिभिरिति “श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनाम्” (वि.अ.८) इत्यादिना प्रागुक्तः श्यामादिः| बिल्वादिरिति बृहत्पञ्चमूलं; किंवा “बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्” (सि.अ.७) इत्यनेनोक्तो बिल्वादिर्ज्ञेयः| शरादिमूलशृतक्षीरहपुषादिकल्कोऽपरः| खराश्वा अजमोदा| पीतदारुसिद्धतैलेन साधितमनुवासनं यस्मिन्निरूहे स तथा| केचित्तु सरलसाराकृष्टतैलं पीतदारुसिद्धतैलमाहुः| तैल्वकसर्पिः तिल्वककल्पोक्तम्| शतावरीत्यादौ द्विसारिवेति अनन्तमूलश्यामे| श्रेयसी रास्ना| उपकुञ्चिका कृष्णजीरकम्| शितिवारकः शालिञ्चः| अश्मभेदकः पाषाणभेदकः| उत्तरबस्तिरिति वक्ष्यमाणोत्तरबस्तिविधानाद्देय इत्यर्थः| निरूहः निरूहस्थाने देय इत्यर्थः||८||

Adhikarana 7 (9-10) · Śloka 10

भवन्ति चात्र श्लोकाः- हृदये मूर्ध्नि बस्तौ च नृणां प्राणाः प्रतिष्ठिताः| तस्मात्तेषां सदा यत्नं कुर्वीत परिपालने||९|| आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्| उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्||१०||

🔊 Audio coming soon

गद्योक्तमर्थं श्लोकेन दर्शयन्नधिकमप्याह- किञ्चित् हृदये इत्यादिना| आबाधवर्जनमिति मर्मोपघातकहेतुवर्जनम्| स्वस्थवृत्तानुवर्तनं च हृदयादिपोषकतयैव पालकं भवति| उत्पन्नार्तिविघात इति उत्पन्नमर्मरोगप्रतीकारः||९-१०||

Adhikarana 8 (11) · Śloka 11

अत उर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते| न प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान्||११||

🔊 Audio coming soon

मर्मपरिपालकबस्तिकथनप्रसङ्गादनुक्तमर्मगतरोगान् सचिकित्सितान् दर्शयन्नाह- अत ऊर्ध्वमित्यादि||११||

Adhikarana 9 (12-15) · Śloka 15

क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते| पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन्||१२|| धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा| (नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं निरुणद्धि च)| कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलकः ||१३|| कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः| दृष्टिं संस्तम्भ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति||१४|| हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः| वायुना दारुणं प्राहुरेके तमपतानकम्||१५||

🔊 Audio coming soon

हृद्रोगमपतन्त्रकमाह- क्रुद्ध इत्यादि| स्थानादूर्ध्वमिति वातस्थानापेक्षया यदूर्ध्वम्| स्तब्धाक्षोऽथ निमीलन इति स्तब्धाक्षो वा भवति निमीलिताक्षो वा भवति| निःसञ्ज्ञ इति व्याधिवेगकाले दृष्टिं संस्तभ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति, निःसञ्ज्ञश्च भवति| मोहं वृते पुनरिति हृदये वृते पुनर्वायुना मोहं याति; वायुनेति कफयुक्तेन; एके तमपतानकमेवापतन्त्रकमाहुः| अत्र जतूकर्णः- “वातकफाभ्यां हृच्छिरःशङ्खपीडनानमनाङ्गाक्षेपप्रमोहाक्षिस्तम्भानिमीलनकृच्छ्रोच्छ्वासकूजनान्यपतन्त्रके”इति| किंवा अपतन्त्रकं द्विविधं वर्णयन्ति- वातात्, कफाच्च ; तत्र ‘निःसञ्ज्ञः सोऽपतन्त्रकः’ इत्यनेन कफज उच्यते; ‘वायुना दारुणं प्राहुः’ इत्यनेन वायुना जनितमपतन्त्रकमेवापतानकमाहुः| तस्य दारुणत्वं दारुणवातारब्धत्वादिति व्याख्येयम्| तथैव सुश्रुते वातव्याधावतन्त्रकः पठितः||१२-१५||

Adhikarana 10 (16-20) · Śloka 20

श्वसनं कफवाताभ्यां रुद्धं तस्य विमोक्षयेत्| तीक्ष्णैः प्रधमनैः सञ्ज्ञां तासु मुक्तासु विन्दति||१६|| मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्| एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्||१७|| तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्| यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके ||१८|| हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्| पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम्||१९|| शोधना बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नशः| सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम्||२०||

🔊 Audio coming soon

तास्विति चेतनावहासु धमनीषु| यवक्वाथाम्बुनेति यवैः षडङ्गविधिना शृतपानीयेन| हृद्रोगनुद् वातकफघ्नं यत् कर्म तद्धितमपतन्त्रके| शोधना इत्यादौ “कृत्स्नशः शोधना न हिताः’ इति वचनेन शोधनार्थस्तोकनिरूहदानं, भूरिशोधननिरूहदाने तु वातक्षोभः स्यादिति भावः||१६-२०||

Adhikarana 11 (21-24) · Śloka 24

मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात् | शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः||२१|| यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्| समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते||२२|| हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्| मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्||२३|| कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च| व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्||२४||

🔊 Audio coming soon

मधुरस्निग्धेत्यादिना तन्द्रालक्षणं चिकित्सितं च केचित् पठन्ति||२१-२४||

Adhikarana 12 (25-26) · Śloka 26

मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसङ्क्षयौ| मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ||२५|| वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्| त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गतः शृणु||२६||

🔊 Audio coming soon

हृद्रोगमभिधाय बस्तिरोगानाह- मूत्रौकसाद इत्यादि| एते च मूत्रदोषा मूत्रकृच्छ्राद्भिन्ना एवेति त्रिमर्मीय एव प्रतिपादितम्||२५-२६||

Adhikarana 13 (27-28) · Śloka 28

पित्तं कफो द्वावपि वा बस्तौ संहन्यते यदा| मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्||२७|| सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्| मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत्||२८||

🔊 Audio coming soon

पित्तं कफ इत्यादिना मूत्रौकसादमाह| अयं च वातकफ-पित्तवात-त्रिदोषैर्जन्यत इत्युक्तं भवति| संहन्यते इति संहते रक्तपीतवर्णता पित्तेन, श्वेतवर्णता कफेन, कफपित्तलक्षणता कफपित्ताभ्यां, वायुस्तु सर्वानुगत एव| अत्र वायोरावरणकृत एव कोपः; तेन पित्तकफयोरेव चिकित्सोक्ता ‘पित्तश्लेष्महरैर्जयेत्’ इत्यनेन, वायोस्त्वावरणजयादेव जयो भवतीति भावः||२७-२८||

Adhikarana 14 (29-31) · Śloka 31

विधारणात् प्रतिहतं वातोदावर्तितं यदा| पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्||२९|| अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्| मूत्रवैरेचनीं तत्र चिकित्सां सम्प्रयोजयेत्||३०|| हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्| हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयोः||३१||

🔊 Audio coming soon

अनिमित्तरुगिति अलक्ष्यमाणनिमित्तरुक्| मूत्रवैरेचनीमिति मूत्रविरेचनीयदशकप्रयोगरूपाम्| हिङ्गुद्विरुत्तरं तु ‘द्विरुत्तरं हिङ्गुवचा’ (चि.अ.२६) इत्यादिनोक्तं, हिङ्गु द्विरुत्तरं यस्मिन् तद्धिङ्गुद्विरुत्तरम्||२९-३१||

Adhikarana 15 (32-48) · Śloka 49

मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्| पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते||३२|| खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं च तिष्ठति| मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक्||३३|| मूत्रोत्सङ्गः स विच्छिन्नमुच्छेषगुरुशेफसः | वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति सङ्क्षयः||३४|| चिरं धारयतो मूत्रं त्वरया न प्रवर्तते| मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते||३५|| आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्| कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्||३६|| मूत्रं धारयतो बस्तौ वायुः क्रुद्धो विधारणात्| मूत्ररोधार्तिकण्डूभिर्वातबस्तिः स उच्यते||३७|| उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्| उष्णवातः सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान्||३८|| गतिसङ्गादुदावृत्तः स मूत्रस्थानमार्गयोः| मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली||३९|| मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः| तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा||४०|| रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्| ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्||४१|| अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते| रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा||४२|| मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः| विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्||४३|| द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्| स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्||४४|| शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि| पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्||४५|| बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्| पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः||४६|| तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता| श्लेष्मणा गौरवं शोफः स्निग्धं मूत्रं घनं सितम्||४७|| श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति| अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः||४८|| स्याद्वस्तौ कुण्डलीभूते हृन्मोहः श्वास एव च|४९|

🔊 Audio coming soon

मूत्रितस्येति मूत्रवेगगतस्य, मूत्रवेगयुक्तस्येति यावत्| च्युतमिति स्वस्थानाच्च्युतम्| वातोद्धतमिति वातविक्षिप्तम्| एतल्लक्षणान्तरयुक्तमेव कृच्छ्रं; मूत्रकृच्छ्रमितोऽन्यदेव, भिन्नक्षणत्वात्| किञ्चिदिति स्तोकम्| उच्छेषगुरुशेफस इति प्रवृद्धमूत्रावशेषेण स्थितेन गुरुशेफस इति| वाताकृतिरित्यादि सङ्क्षयलक्षणम् | वाताकृतिरिति वातलक्षणयुक्तः| विधारणादिति मूत्रवेगरोधात्| ऊष्मणेति पित्तोष्मणा| शोषयन्निति ऊष्मणा सहितो वात एव मूत्रं शोषयन्| गतिसङ्गादित्यादिना वातकुण्डलिकामाह| मूत्रस्य गतिसङ्गादुदावृत्तो वायुर्मूत्रस्थानमार्गयोर्भग्नव्याविद्धकुण्डली मूत्रयति; भग्नः प्रतिहतः, व्याविद्धः वक्री, कुण्डलीति आवर्तमानतया स्थितः; ईदृशं वायोरुपस्थानं मूत्रमार्ग एव भवति| वातकुण्डलिकालक्षणमाह- संस्तम्भेत्यादि| भङ्गः भङ्गाकारवेदना| रक्तं ग्रन्थिं कुर्यात् वातकफाभ्यां दुष्टमिति योज्यम्| विड्युक्तो विघातो विड्विघातः| द्रुताध्वेत्यादिना बस्तिकुण्डलमाह| उद्वृत्त इति परावृत्तमुखः| पीडित इति हस्तादिभिः| श्लेष्मरुद्धबिलो बस्तिर्न सिध्यति, तथा पित्तोदीर्णश्च न सिध्यति| अविभ्रान्तबिल इति अरुद्धद्वारः| कुण्डलीकृत इति वर्तुलीकृतः| वर्तुलीकृतस्यैव लक्षणान्याह- स्याद्बस्तावित्यादि||३२-४८||-

Adhikarana 16 (49) · Śloka 50

दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्||४९|| बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्|५०|

🔊 Audio coming soon

चिकित्सामाह- दोषाधिक्यमित्यादि| मूत्रकृच्छ्रहरैः प्रयोगैर्दोषाधिक्यमवेक्ष्य प्रयुक्तैर्जयेदित्यर्थः||४९||-

Adhikarana 17 (50-57) · Śloka 57

पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०|| जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्| रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१|| तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्| यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२|| स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा| सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ||५३|| ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया| शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४|| ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्| गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५|| हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति| सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च||५६|| प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्| अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च||५७||

🔊 Audio coming soon

उत्तरबस्तिं दापयेदित्युक्तं, तत उत्तरबस्तिविधिमाह- पुष्पनेत्रमित्यादि| पुष्पनेत्रमित्युत्तरबस्तिनेत्रस्य सञ्ज्ञा; उत्तरबस्तिसञ्ज्ञा उत्तरमार्गदीयमानतया, किंवा श्रेष्ठगुणतया उत्तरबस्तिः| जात्यश्वहनवृन्तेन सममिति जातेरश्वहनस्य च पुष्पयोर्वृन्तेनाग्रसमम्; उक्तं हि हारीते “कुन्दस्य वृन्तप्रतिमं तथाऽग्रे” इति; अश्वहनः करवीरः| सर्षपच्छिद्रमिति सर्षपवाहिच्छिद्रम्| द्विकर्णिकमिति नेत्रे बस्तिबन्धनार्थमेकतः कर्णिका, अपराऽग्रे शेफःप्रमाणषडङ्गुलादौ कर्णिका कर्तव्या| त्रिकर्णिकम्’ इति वा पाठः| यथावयोविशेषेण स्नेहमात्रां विकल्प्य चेति यथोक्तस्नेहः पञ्चविंशतिवर्षस्य, ततस्त्वर्वाग्वयोभेदविकल्पेनापकर्षः कर्तव्यः; उक्तं हि सुश्रुते “स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः| पञ्चविंशतिवर्षाणामर्वाग्बुद्धिविकल्पितम्” (सु.चि.अ.३७) इति| हृष्टे इति स्तब्धे, यद्यप्रतिहता व्रजेच्छलाका, तत्र पुष्पनेत्रं शेफःप्रमाणसमं प्रवेशनीयम्| शलाकया प्रथममन्वेषणं मार्गविज्ञानार्थम्| गुदवदिति गुदे यथा नेत्राकम्पनादिगुणयुक्तं प्रवेश्यते तथा मेढ्रेऽपि| अतिगतं लिङ्गप्रमाणातिरेकप्रविष्टं नेत्रं बस्तिं हिंस्यात्| ऊने इति लिङ्गमानस्तोकप्रविष्टे||५०-५७||

Adhikarana 18 (58-61) · Śloka 61

पिप्पलीलवणागारधूमापामार्गसर्षपैः| वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः||५८|| मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्| अग्रे तु सर्षपाकारां पश्चार्धे माषसम्मिताम्||५९|| नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्| नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसम्मिताम्||६०|| स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः| परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः||६१||

🔊 Audio coming soon

पिप्पलीत्यादिना व्युषितेऽप्यनागच्छतः स्नेहस्य प्रवर्तिकां वर्तिमाह| इयं च वर्तिर्गुडपाकेन कठिना कर्तव्या यथा श्लक्ष्णा भवति| पश्चार्धे इति मूले; अङ्गुष्ठसन्निभामिति पायौ स्नेहप्रवृत्त्यर्थं दीयमानाऽङ्गुष्ठसमाना कर्तव्या| ताभ्यामिति मेढ्रगुदाभ्यां दत्तवर्तिभ्याम्| उत्तरबस्तेरनुवासनवत् सेव्यपरिहारव्यापत्सम्यग्दत्तलक्षणान्यतिदिशन्नाह- आनुवासनिको विधिरित्यादि||५८-६१||

Adhikarana 19 (62-64) · Śloka 65

स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्| गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता||६२|| गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते| बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च||६३|| योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे| अप्रस्रवति मूत्रे च बिन्दुं बिन्दुं स्रवत्यपि||६४|| विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम् |६५|

🔊 Audio coming soon

आर्तवकाले त्वौत्सर्गिकतयोक्तं स्त्रीणामुत्तरबस्तिदानमार्तवकाले विधत्ते| आर्तवकालदाने हेतुमाह- गर्भासनेत्यादि| गर्भासना गर्भशय्या, गर्भाशय इत्यर्थः; अन्ये तु योनिमाहुः| आदत्त इति सम्यग् गृह्णाति| अपावृतेति अपगतसञ्चितरजोरूपावरणा||६२-६४||-

Adhikarana 20 (65-69) · Śloka 70

पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्||६५|| मूत्रस्रोतःपरीणाहं मुद्गस्रोतोऽनुवाहि च| अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्||६६|| द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्| उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी||६७|| अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्| द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्||६८|| बस्तौ , बस्तौ प्रणीते च वर्तिः पीनतरा भवेत्| त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्||६९|| अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्|७०|

🔊 Audio coming soon

पुष्पनेत्रप्रमाणं त्वित्यादि| मुद्गस्रोतोऽनुवाहीति मूद्गवाहिच्छिद्रम्| अपत्यमार्गे विधेयं चतुरङ्गुलमिति अपत्यमार्गे स्नेहयितव्ये चतुरङ्गुलप्रवेशनं प्राप्तयौवनानामेव नारीणां कर्तव्यं, मूत्रमार्गे तु स्नेहयितव्ये द्व्यङ्गुलप्रवेशनं प्राप्तयौवनानामेव नारीणां कर्तव्यम्| बालायाः स्वल्पप्रमाणतया एकाङ्गुलप्रवेशनमेव मूत्रमार्गप्रयोगार्थं कर्तव्यं; बालानां त्वपत्यमार्गे न दीयत एव, तासामपत्यमार्गस्यावृतत्वात्| वर्तिः पीनतरा भवेदिति स्नेहप्रत्यागमनार्था वर्तिः पीनतरा कर्तव्या| स्नेहमात्रा चात्र “स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम्” (सु.चि.अ.३७) इत्यनेन सुश्रुतोक्ता ज्ञेया||६५-६९||-

Adhikarana 21 (70-73) · Śloka 73

अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०|| रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः| तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१|| स शिरो विषवद्वेगी निरुध्याशु गलं तथा| त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः||७२|| परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्| शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||

🔊 Audio coming soon

क्रमागतशिरोविकारज्ञानार्थं त्रिमर्मीयाविस्तृतान् वक्तुमाह- अत इत्यादि| दारुण इति आशुकारी| परं त्र्यहाज्जीवतीत्यादिकः प्रभावोऽयं शङ्खकस्य| प्रत्याख्यायाचरेत् क्रियामित्यनेन उत्पन्नमात्र एव प्रत्याख्यानपूर्विका चिकित्सा कर्तव्याऽस्य||७०-७३||

Adhikarana 22 (74-78) · Śloka 78

रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनैः| वेगसन्धारणायासव्यायामैः कुपितोऽनिलः||७४|| केवलः सकफो वाऽर्धं गृहीत्वा शिरसस्ततः| मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५|| शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः| नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत्||७६|| चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम्| नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्||७७|| उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते| प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्||७८||

🔊 Audio coming soon

रूक्षेत्यादिनाऽर्धावभेदकमाह| अवश्यायः हिमः| शस्त्रारणिनिभामिति शस्त्रच्छेदारणिमन्थननिभाम्; अरणिः अग्न्युत्थापनकाष्ठं; किंवा अरणिना कारणेनाग्निरेवात्र लक्ष्यते| चतुःस्नेहस्योत्तमा मात्रा; उत्तमा च मात्रा अहोरात्रपरिणमनीया| जीर्णं दशवर्षस्थितं घृतम्| उपनाहं केचिच्छिरोबस्तिभेदमाहुः, यो मास्तिष्क उच्यते; तन्त्रान्तरे हि मास्तिष्क उपनाहः शिरोबस्तिप्रकार उक्तः- “मास्तिष्केऽष्टाङ्गुलं पट्टं बस्तौ तु द्वादशाङ्गुलम्” इत्यादिना; शिरोबस्तिविधानं शालाक्ये ज्ञेयं; यथा- “द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरःसमम्| आकर्णबन्धनस्थाने ललाटे वस्त्रवेष्टिते|| चेलवेणिकया बद्ध्वा माषकल्केन लेपयेत्| ततो यथाव्याधिशृतं स्नेहं कोष्णं निवेशयेत्|| ऊर्ध्वं केशभुवो यावदङ्गुलं धारयेच्च तम्| आवक्रनासिकाक्लेदाद्दशाष्टौ षड्वातादिषु|| मात्रा सहस्राण्यरुजे ह्येकं स्कन्धादि मर्दयेत्| युक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम्” इति; तथा “आशिरोव्यायतं चर्म कृत्वाऽष्टाङ्गुलमुच्छ्रितम्| तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत्|| निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत्| धारयेदारुजः शान्त्यै यामं यामार्धमेव वा|| शिरोबस्तिर्जयत्येष शिरोरोगं मरुद्भवम्” इत्यादि| दहनं वाऽस्येति तन्त्रान्तरप्रत्ययाद् द्व्यङ्गुलललाटशङ्खप्रदेशेषु शरकाण्डादिना दहनं ज्ञेयम्| यच्चोद्दिष्टं चिकित्सितमिति तच्चात्र शस्यते इति योज्यम्||७४-७८||

Adhikarana 23 (79-83) · Śloka 83

सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ| दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्||७९|| सूर्योदयेंऽशुसन्तापाद्द्रवं विष्यन्दते शनैः| ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते||८०|| दिनक्षये ततः स्त्याने मस्तिष्के सम्प्रशाम्यति| सूर्यावर्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम्||८१|| शिरःकायविरेकौ च मूर्ध्ना त्रिस्नेहधारणम् | जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम् ||८२|| बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्| स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्||८३||

🔊 Audio coming soon

मस्तिष्कं शिरःस्थो मज्जा| द्रवमिति द्रवं सत्| विष्यन्दते इति च्यवते| एतच्च सूर्यावर्तस्य रूपं दोषदूष्ययोर्विकृतिविषमसमवायाद्भवति; तेन नान्यविकार एवम्भूतो भवति| तथा वेदना सूर्यतापे एवास्य वर्धते नाग्नितापे, इत्येतदपि प्रभावकृतमेव ज्ञेयम्| त्रिस्नेहधारणमिति पाठात् तैलघृतवसाधारणं वदन्ति| लावादयो विष्किरा अन्नपानोक्ताः||७९-८३||

Adhikarana 24 (84-87) · Śloka 87

(उपवासातिशोकातिरूक्षशीताल्पभोजनैः )| दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम्||८४|| तीव्रां कुर्वन्ति सा चाक्षिभ्रूशङ्खेष्ववतिष्ठते| स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्||८५|| सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः| वातो रूक्षादिभिः क्रुद्धः शिरःकम्पमुदीरयेत्||८६|| तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः| स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम्||८७||

🔊 Audio coming soon

मन्या ग्रीवासिराद्वयं, घाटा ग्रीवायाः पश्चाद्भागः, पश्चात् पृष्ठम्| सा चाक्षिभ्रूशङ्खेष्ववतिष्ठत इति शङ्खादीन् व्याप्य स्थिरा भवति| अनन्तवातमेनं तन्त्रान्तरे अन्यतोवातमाहुः| सिरार्कावर्तनाशनैरिति सिराव्यधैः, सूर्यावर्तनाशनैश्च भेषजैः||८४-८७||

Adhikarana 25 (88) · Śloka 88

नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्| द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८||

🔊 Audio coming soon

नस्तःकर्म चेति सर्वशिरोरोगसाधारणं चिकित्सितम्| शिरोरोगेषु नस्तःकर्मकरणे हेतुमाह- द्वारं हीत्यादि| तेन नासारूपेण मार्गेण| तदिति नस्तो दत्तमौषधम्| व्याप्येति शिरो व्याप्य| तानिति शिरोगदान्||८८||

Adhikarana 26 (89-92) · Śloka 92

नावनं चावपीडश्च ध्मापनं धूम एव च| प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा||८९|| स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्| शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ||९०|| चूर्णस्याध्मापनं तद्धि देहस्रोतोविशोधनम् | विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः||९१|| प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्| एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा||९२||

🔊 Audio coming soon

शिरोरोगप्रस्तावागतानवश्यवक्तव्यनस्तःकर्मभेदानाह- नावनमित्यादि| नावनादयश्चिकित्सास्थानोक्ताः| अत्र सुश्रुते धूमं वर्जयित्वा पञ्चविधं नस्तःकर्मोक्तं- “तद्द्विविधमपि पञ्चविधविकल्पं; तद्यथा- नस्यं, शिरोविरेचनं, प्रतिमर्शः, अवपीडः, प्रधमनं च” (चि.अ.४०)| इति; इह तु नावनशब्देनैव शिरोविरेचनमपि गृहीतं; यदुक्तं- “स्नेहनं शोधनं चैव नावनं द्विविधं स्मृतम्” इति; तेन सुश्रुतोक्तोऽप्यर्थो गृहीत एव| शोधनः स्तम्भनश्च स्यादवपीड इत्यत्र संशमनमप्यवपीडस्य कर्मेच्छन्ति, तच्च स्तम्भने एवान्तर्भावनीयम्| अवपीड्य यत्र कल्कादीनि दीयन्ते इत्यवपीडः; अनेन शिरोविरेचनार्थं दीयमानसैन्धवपिप्पल्यादिकल्कस्याप्यवरोधः| ध्मापनं तद्धि देहस्रोतोविशोधनमिति वचनाद् ध्मापनं शिरोविरेचनप्रयोजनकमेवेति दर्शयति| शमनादिक इत्यत्र शमनशब्देन प्रायोगिकं गृह्णाति, तेन प्रायोगिकस्नैहिकवैरेचनिकधूमानां नासादीयमानानामिह ग्रहणं, मुखपेयस्तु धुमो न नस्यम्| उभयार्थकृदिति स्नेहनविरेचनार्थकृत्| प्रतिमर्शलक्षणमग्रे “नस्तःस्नेहाङ्गुलिं दद्यात्” इत्यादिना वक्ष्यमाणम्| उक्तपञ्चविधनस्तःकर्मणस्त्रैविध्यमाह- एवमित्यादि| कर्मेति नस्तःकर्म| शमनेन स्तम्भनस्यापि ग्रहणं; तर्पणे स्नेहनस्यावरोधः; अन्ये ये केचित् प्रभेदास्तन्त्रान्तरे प्रतिपादितास्तेऽप्यत्रैवान्तर्भवन्ति||८९-९२||

Adhikarana 27 (93-95) · Śloka 96

स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः| शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते||९३|| ये च वातात्मका रोगाः शिरःकम्पार्दितादयः| शिरसस्तर्पणं तेषु नस्तःकर्म प्रशस्यते ||९४|| रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते| ध्मापनं धूमपानं च तथा योग्येषु शस्यते ||९५|| (दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत्)|९६|

🔊 Audio coming soon

विरेचनादिकर्मत्रयस्य विषयमाह- स्तम्भेत्यादि| तर्पणमिति स्नेहेन तर्पणम्| तथा योग्येषु शस्यत इति ध्मापनधूमयोग्येषु शस्यते; तत्र धूमयोग्याः सूत्रस्थाने प्रतिपादिताः, ध्मापनयोग्यास्तु ध्मापनगुणकथने ‘देहस्रोतोविशोधनम्’ इतिपदेन येऽभिन्यासापस्मारादयः शोधनीयस्रोतस उक्तास्ते ज्ञेयाः||९३-९५||-

Adhikarana 28 (96-97) · Śloka 98

फलादिभेषजं प्रोक्तं शिरसो यद्विरेचनम्||९६|| तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्| यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्||९७|| साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्|९८|

🔊 Audio coming soon

शिरोविरेचनचूर्णं विधिं चाह- फलादीत्यादि| फलादिभेषजमिति रोगभिषग्जितीयोक्तं फलपत्रमूलकन्दपुष्पनिर्यासत्वग्भेदात् सप्तविधमुक्तं शिरोविरेचनद्रव्यम्| चूर्णं कल्पयेदिति प्रधमनार्थमवपीडनार्थं च चूर्णं कल्पयेत्| मधुरस्कन्धोऽपि रोगभिषग्जितीय एवोक्तः||९६-९७||-

Adhikarana 29 (98-110) · Śloka 110

प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च||९८|| उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्| प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च||९९|| दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्| अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते||१००|| अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति| अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१|| संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा| हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२|| प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि| कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३|| तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति| स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः ||१०४|| भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते ततः| श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते||१०५|| ततो नस्तःकृते धूमं पिबेत् कफविनाशनम् | हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः||१०६|| विधिरेषोऽवपीडस्य कार्यः प्रध्मापनस्य तु| तत् षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु||१०७|| विरिक्तशिरसं तूष्णं पाययित्वाऽम्बु भोजयेत्| लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः||१०८|| विरेकशुद्धो दोषस्य कोपनं यस्य सेवते| स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्||१०९|| यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः| अकालकृतजातानां रोगाणामनुरूपतः||११०||

🔊 Audio coming soon

नस्तःकर्मविधिमाह- प्राक्सूर्ये इत्यादि| ग्रीष्मे प्राक्सूर्ये, शीते तु मध्यसूर्ये इति व्यवस्था| प्राक्कृतावश्यकस्य चेति प्राक्कृतावश्यकरणीयमलविसर्गादिकस्य| एवं शयानस्येति किञ्चिदवनतशिरस्कतया शयानस्य| कुर्यादुभयतः सममिति उभयनासापुटेनापि तुल्यं दद्यात्| प्रणाडी नस्यदाननलिका| यथाविधीति प्रमाणादिदोषरहितम्| कृतनस्यस्य धुमपानोपपत्तिवर्णनपूर्वकं धूमपानमाह- स्वेदनेत्यादि| प्रध्मापनस्य चोक्तो विधिस्तथा वक्ष्यमाणश्च ‘षडङ्गुलया’ इत्यादिना| विरिक्तशिरसमित्यादि सर्वविरेचनसाधारणम्| त्रिष्विति वातादिषु| विरेकशुद्ध इति शिरोविरेकशुद्धः| यस्य दोषस्य कोपनं सेवते इति योज्यम्| अकालकृतजातानां रोगाणामनुरूपत इति अकालकृतशिरोविरेचनजातानां रोगाणामनुरूपतश्चिकित्सां कुर्यादित्यर्थः||९८-११०||

Adhikarana 30 (111-115) · Śloka 115

अजीर्णे भोजने भुक्ते तोये पीतेऽथ दुर्दिने| प्रतिश्याये नवे स्नाते स्नेहपानेऽनुवासने||१११|| नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्| तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः||११२|| क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि| वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्गदान्||११३|| तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः| स्वेदादिः, स्याद्घृतं क्षीरं गर्भिण्यास्तु विशेषतः||११४|| ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु| रूक्षैः शीताञ्जनैर्लेपैः पुटपाकैश्च साधयेत् ||११५||

🔊 Audio coming soon

नावनं स्नेहनमिति स्नेहनार्थं नस्यम्| स्वेदादिरिति च्छेदः| घृतं क्षीरमिति गर्भिण्या वातजयार्थं गर्भपुष्टये च| ज्वरेत्यादि| ज्वरादितप्तानां स्नेहनं नावनं तिमिरं कुर्यात्, तथा मद्यपस्य तिमिरं कुर्यात्| अत्र चिकित्सामाह- रूक्षैरित्यादि| शीताञ्जनं स्रोतोञ्जनं वदन्ति; किंवा तिक्तद्रव्यकृतमञ्जनं शीताञ्जनं; यदुक्तं शालाक्ये- “लेखनं रोपणं चैव प्रसादनमथापि च| तिक्तेन रोपणं कार्यं, मधुरेण प्रसादनम्|| कट्वम्ललवणाद्यैश्च लेखनं कारयेद्बुधः| शैत्यान्निर्वापयेत्तिक्तो रौक्ष्याद्रोपयति द्रुतम्” इति| रूक्षैरित्यञ्जनादिभिः सम्बध्यते| लेपः नयनालेपः ; पुटपाकः अक्षितर्पणजविकारहरलेखनः शमनो वा ज्ञेयः; पुटपाको हि शालाक्ये स्नेहन-लेखन-प्रसादनभेदात् त्रिविध उक्तः; तद्विधिश्चेहान्याधिकारान्न प्रपञ्चितः||१११-११५||

Adhikarana 31 (116-117) · Śloka 117

स्नेहनं शोधनं चैव द्विविधं नावनं मतम्| प्रतिमर्शस्तु नस्यार्थं करोति न च दोषावान्||११६|| नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा| न चोच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत्||११७||

🔊 Audio coming soon

प्रतिमर्शस्य नावनसम्पाद्योभयकर्मदर्शनार्थं नावनकर्म प्रागुक्तमनूद्यते- स्नेहनमित्यादि| अन्ये, सर्वनस्तःकर्मणामेवैतत् कर्मद्वयमनूद्यते, तत्र च स्नेहनशमनस्य प्रागुक्तस्यावरोध इति वदन्ति| तस्यार्थमिति स्नेहनं शोधनं च| न च दोषवानिति न व्यापत्तिमान्| प्रतिमर्शविधिमाह- नस्त इत्यादि| स्नेहाङ्गुलिमिति स्नेहपूरितामङ्गुलिम्| सर्वदेति सर्वर्तुषु| दार्ढ्यकृदिति शिरःकपालादिदार्ढ्यकृत्| अयं प्रतिमर्शः स्वल्पस्नेहप्रमाणोऽनुच्छिङ्घनश्च सार्वकालिको ज्ञेयः; यस्तु भूरिस्नेहमात्रो नासौ सार्वकालिकः| यदुक्तम् “ईषदुच्छिङ्घनात् स्नेहो यावान् वक्रं प्रपद्यते| नस्तो निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः” इति; तथा “प्रतिमर्शं तु न पिबेत् कण्ठास्रावभयान्नरः| यावत् स्नेहो व्रजेदास्यं तत्प्रमाणं च तस्य तु” इति||११६-११७||

Adhikarana 32 (118-119) · Śloka 119

तत्र श्लोकौ- त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च| तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः||११८|| विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा| सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||

🔊 Audio coming soon

त्रीणीत्यादिसङ्ग्रहो व्यक्तार्थः||११८-११९||

Adhikarana puShpikA · Śloka 9

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||