Adhikarana 1 (1-2) · Śloka 2
अथातः फलमात्रासिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वसिद्धिषु फलान्याचार्येण प्रयोगेषु विहितानि, तेन तेषां फलानां गुणावधारणार्थं तथाऽनुक्तगजादिबस्तिमानोपदर्शनार्थं च फलमात्रासिद्धिरुच्यते| गजादिबस्तिविधानकथनं यद्यप्यप्रस्तुतं, तथाऽपि गजादिष्वपि यौगिकतया बस्तेरेव प्रतिपाद्यते मात्राऽत्र ; तेन फलादीनां तथा गजादिबस्तिमात्रायाश्च प्रतिपादिका सिद्धिः फलमात्रासिद्धिः||१-२||
Adhikarana 2 (3-14) · Śloka 14
भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्|
फलबस्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन्||३||
भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः|
कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनास्विति||४||
कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः|
मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामकः||५||
कटुतुम्बममन्यतोत्तमं वमने दोषसमीरणं च तत्|
तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत् ||६||
कफपित्तनिबर्हणं परं स च धामार्गवमित्यमन्यत |
तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम्||७||
कुटजं प्रशशंस चोत्तमं न बलघ्नं कफपित्तहारि च|
अतिविज्जलमौर्ध्वभागिकं पवनक्षोभि च काप्य आह तत्||८||
कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति|
तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि||९||
इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् |
प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्||१०||
फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता|
न तु किञ्चिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते ||११||
इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्|
कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु||१२||
उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु|
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्||१३||
कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च|
फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि||१४||
फलादीनां बस्तियोगेषु गुणान् प्रतिपादयितुं पूर्ववृत्तमितिहासमाह- भगवन्तमित्यादि| इतिहासश्च संहिताधर्मतया ग्रन्थे पूज्यतोपदर्शनार्थं च क्रियत एव| फलादीनां बस्तौ वरत्वं फलबस्तिवरत्वं, तस्य निश्चये अवधारणे| फलादिष्विति मदनजीमूतकादिषु| कल्पे जीमूतके यद्यपि पित्तदोषहरत्वमुक्तं, तथाऽपीह वचनात् कफपित्तहरत्वमस्य प्राधान्यादुन्नीयते| मृदुवीर्यतयाऽभिनत्तीति नात्यर्थं भिनत्ति| दोषसमीरणमिति बस्तिना दोषहारकम्| कृतवेधनमित्यादौ आशु कफपित्तं हरेदिति योज्यम्| इहर्षिविवादकथनेन जीमूतकादीनां गुणदोषाश्च कथिता भवन्तीति तात्पर्यं ज्ञेयम्| प्रशशंसेत्यादि| फलेषु जीमूतकादिषु| फलदोषगुणान् प्रतीति लक्ष्यीकृत्य| सरस्वतीति वाक्| अदोषनिर्गुणमिति दोषवदेव गुणवदेव वा न किञ्चिदित्यर्थः| तेन सत्यपि स्तोकदोषसम्बन्धे यद्गुणभूयिष्ठं तदिह रोगप्रशमप्रयोगेषु सार्वयौगिकम्| सर्वगदाविरोधीति पदेन मदनस्य सार्वयौगिकत्वं ब्रूते| आशुकारीति आशुदोषनिर्हरणकारि| अतो लभत इति फलेषु प्रकर्षत्वादेव मदनफलं फलमित्युच्यते, न जीमूतकादिफलम्||३-१४||
Adhikarana 3 (15-18) · Śloka 18
गुरुणेति वचस्युदाहृते मुनिसङ्घेन च पूजिते ततः |
प्रणिपत्य मुदा समन्वितः सहितः शिष्यगणोऽनुपृष्टवान्||१५||
सर्वकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ नैति नाभितः|
नाभ्यधो गुदमतः स शरीरात् सर्वतः कथमपोहति दोषान् ||१६||
तद्गुरुरब्रवीदिदं शरीरं तन्त्रयतेऽनिलः सङ्गविघातात् |
केवल एव दोषसहितो वा स्वाशयगः प्रकोपमुपयाति||१७||
तं पवनं सपित्तकफविट्कं शुद्धिकरोऽनुलोमयति बस्तिः|
सर्वशरीरगश्च गदसङ्घस्तत्प्रशमात् प्रशान्तिमुपयाति||१८||
सर्वकर्मगुणकृदिति सर्वकर्मणां वमनादीनां गुणं दोषहरणादिकं करोतीति सर्वकर्मगुणकृत्; किंवा सर्वकर्माणि लङ्घनबृंहणादीनि, गुणांश्च बलाग्न्यादीन् करोति| नाभ्यधो गुदमिति व्रजति| तन्त्रयते धारयते| विघातादिति प्रकोपकहेतुनाऽसम्बन्धात्(?)| स्वाशयगः स्वाशय एव प्रायः प्रकोपं व्रजति; यस्तु प्रदेशान्तरे वातप्रकोपः स तन्मूल एवेति भावः| तत्प्रशमात् प्रशान्तिमुपयाति पक्वाशयस्थवातमूलप्रशमाद्बस्तिना| कृतात्तन्मूलानुबन्धाः शेषस्थानगतविकाराः प्रशाम्यन्ति| एतच्च ‘वनस्पतिमूलच्छेदवत्’ इत्यादिदृष्टान्तेन प्राक् प्रतिपादितमेव| एतेन बस्तिना मूलविजयाद्देशान्तर्गततन्मूलविकारजयो यः क्रियते स उक्तः| यत्तु बस्तेर्वीर्यमापादमस्तकं प्रसरति तच्च वीर्यं सर्वविकारान् हन्तीति प्रागुक्तमेव ज्ञेयम्| इह तु, वीर्यमपिहितं कृत्वैव शिष्यप्रश्नानुगुणमेवोत्तरं दत्तमिति ज्ञेयम्||१५-१८||
Adhikarana 4 (19-22) · Śloka 22
अथाधिगम्यार्थमखण्डितं धिया गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्|
अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुनः प्रचोदितः||१९||
आजोरणौ सौम्य गजोष्ट्रयोः कृते गवाश्वयोर्बस्तिमुशन्ति माहिषम्|
अजाविकानां तु जरद्गवोद्भवं वदन्ति बस्तिं तदुपायचिन्तकाः||२०||
अरत्निमष्टादशषोडशाङ्गुलं तथैव नेत्रं हि दशाङ्गुलं क्रमात्|
गजोष्ट्रगोश्वाव्यजबस्तिसन्धौ चतुर्थभागोपनयं हितं वदेत् ||२१||
प्रस्थस्त्वजाव्योर्हि निरूहमात्रा गवादिषु द्वित्रिगुणं यथाबलम्|
निरूहमुष्ट्रस्य तथाऽऽढकद्वयं गजस्य वृद्धिस्त्वनुवासनेऽष्टमः||२२||
अथाभिगम्येत्यादौ गजादीनां कर्मापृच्छदिति योज्यम्| रोगनुदिति कर्मविशेषणं, तेन कर्म रोगनुदिति रोगहरणे श्रेष्ठं चिकित्सितमित्यर्थः| बस्तिमब्रवीदिति गजादीनां रोगहरणे श्रेष्ठं बस्तिमेवाब्रवीत्; तदनन्तरं तस्य बस्तेर्विधिः पुनः शिष्येण पृष्ट आजोरणेत्यादिना प्राहेति योजना| उरणः मेषः| बस्तिमिति पुटकम्| जरद्गवः वृद्धवृषः| तदुपायचिन्तका इति गजादिबस्तिसाधने दत्तचित्तकाः| अरत्निः हस्तः| क्रमादिति यथाक्रमं गजादिषु अरत्न्यादि नेत्रप्रमाणम्| चतुर्थभागोपनयमिति नेत्रचतुर्थभागप्रवेशकम्| गवादिष्विति गोप्रकारेषु; गोमहिषाश्वानां ग्रहणाद्बहुवचनं साधु| गजस्य तु वृद्धिरिति द्व्याढकद्व्यैगुण्येन द्रोण इत्यर्थः| अनुवासनेऽष्टममिति यथोक्ताजादिनिरूहमानादजादीनामनुवासनेऽष्टमः स्नेहभागो देयः||१९-२२||
Adhikarana 5 (23-26) · Śloka 26
कलिङ्गकुष्ठे मधुकं च पिप्पली वचा शताह्वा मदनं रसाञ्जनम्|
हितानि सर्वेषु गुडः ससैन्धवो द्विपञ्चमूलं च विकल्पना त्वियम्||२३||
गजेऽधिकाऽश्वत्थवटाश्वकर्णकाः सखादिरप्रग्रहशालतालजाः|
तथा च पर्ण्यौ धवशिग्रुपाटली मधूकसाराः सनिकुम्भचित्रकाः||२४||
पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हितः|
पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिकाः||२५||
खरोष्ट्रयोः पीलुकरीरखादिराः शम्याकबिल्वादिगणस्य च च्छदाः|
अजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धु सबिल्वकोलजम्||२६||
विकल्पना त्वियमिति विशेषकल्पना गजेऽधिका वक्ष्यमाणा| तालजं तालफलम्| तथैवेत्यादिना गवां हितमुच्यते||२३-२६||
Adhikarana 6 (27) · Śloka 27
अथाग्निवेशः सततातुरान् नरान् हितं च पप्रच्छ गुरुस्तदाह च|
सदाऽऽतुराः श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभिः||२७||
अथ बस्तिविषयान् सदातुरान् दर्शयन्नाह- अथाग्निवेश इत्यादि| हितं चेति सदातुराणां हितम्| पण्यजीविनः वणिजः||२७||
Adhikarana 7 (28-30) · Śloka 30
द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न चेष्टते |
नृपोपसेवी नृपचित्तरक्षणात् परानुरोधाद्बहुचिन्तनाद्भयात् ||२८||
नृचित्तवर्तिन्युपचारतत्परा मृजाभि(वि)भूषानिरता पणाङ्गना|
सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविनः||२९||
सदैव ते ह्यागतवेगनिग्रहं समाचरन्ते न च कालभोजनम्|
अकालनिर्हारविहारसेविनो भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते||३०||
यथोक्तानां सदातुरत्वे हेतुमाह- द्विजो हीत्यादि| देहहितं न चेष्टते इति पण्यजीविन इत्यन्तं यावदनुवर्तनीयम्| परानुरोधादिति नृपानुजीविपुरुषान्तरानुरोधात्| उपचारतत्परेति पुरुषोपचारतत्परा| मृजा शरीरमार्जनम्| पणाङ्गना वेश्येत्यर्थः| अत्यनुबन्धविक्रयक्रयादिलोभादिति निरन्तरानुबद्धक्रयविक्रयादेर्लोभात्| अन्यानपि सदातुरानाह- अकालेत्यादि| निर्हारः मलादिनिर्गमः||२८-३०||
Adhikarana 8 (31-36) · Śloka 36
समीरणं वेगविधारणोद्धतं विबन्धसर्वाङ्गरुजाकरं भिषक्|
समीक्ष्य तेषां फलवर्तिमादितः सुकल्पितां स्नेहवतीं प्रयोजयेत्||३१||
पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान्|
महान्ति मूलानि च पञ्च यानि विपाच्य मूत्रे दधिमस्तुसंयुते||३२||
सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथ प्रयोजयेत्|
निरूहितं धन्वरसेन भोजितं निकुम्भतैलेन ततोऽनुवासयेत्||३३||
बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्|
यवान् कुलत्थांश्च पचेज्जलाढके रसः स पेष्यैस्तु कलिङ्गकादिभिः||३४||
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलवर्णवर्धनः|
तथाऽनुवास्ये मधुकेन साधितं फलेन बिल्वेन शताह्वयाऽपि वा||३५||
सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः|
न चान्यदाश्वङ्गबलाभिवर्धनं निरूहबस्तेः शिशुवृद्धयोः परम्||३६||
पुनर्नवेत्यादिर्निरूहः निकुम्भा दन्ती| महान्ति मूलानि पञ्चेति बिल्वादिपञ्चमूलानि| निकुम्भतैलेनेति निकुम्भक्वाथकल्कसिद्धेन तैलेन| बलामित्यादौ कलिङ्गकादिभिरिति “कलिङ्गकुष्ठमधुकबिल्व.” इत्यादिनेहोक्तैः| फलेन बिल्वेन शताह्वयाऽपि वेति तैलत्रयमानुवासनिकम्| सजीवनीयस्तु रसोऽनुवासन इति जीवनीयकषायसाधितः स्नेहोऽनुवासने कर्तव्यः| तथा निरूहणे जीवनीयरसोऽलवणः शिशोः कर्तव्यः| अनुवासनमपि जीवनीयसाधितं शिशोरेव| न चान्यदित्यादिना बालवृद्धयौगिकत्वं बस्तेराह| परमिति श्रेष्ठम्||३१-३६||
Adhikarana 9 (37) · Śloka 37
तत्र श्लोकः- फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्|
सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्||३७||
फलकर्मेत्यादिसङ्ग्रहो व्यक्तः||३७||
Adhikarana puShpikA · Śloka 11
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||