Adhikarana 1 (1-2) · Śloka 2
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-6) · Śloka 6
धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम्| पुनर्वसुं शिष्यगणः पप्रच्छ विनयान्वितः||३|| काः कति व्यापदो बस्तेः किंसमुत्थानलक्षणाः| का चिकित्सा इति प्रश्नाञ्छ्रुत्वा तानब्रवीद्गुरुः||४|| नातियोगौ क्लमाध्माने हिक्का हृत्प्राप्तिरूर्ध्वता| प्रवाहिका शिरोङ्गार्तिः परिकर्तः परिस्रवः||५|| द्वादश व्यापदो बस्तेरसम्यग्योगसम्भवाः| आसामेकैकशो रूपं चिकित्सां च निबोधत||६||
🔊 Audio coming soon
Adhikarana 3 (7-11) · Śloka 11
गुरुकोष्ठेऽनिलप्राये रूक्षे वातोल्बणेऽपि वा| शीतोऽल्पलवणस्नेहद्रवमात्रो घनोऽपि वा||७|| बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्| करोति गुरुकोष्ठत्वं वातमूत्रशकृद्ग्रहम्||८|| नाभिबस्तिरुजं दाहं हृल्लेपं श्वयथुं गुदे| कण्डूगण्डानि वैवर्ण्यमरुचिं वह्निमार्दवम्||९|| तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः| फलवर्त्योऽथवा कालं ज्ञात्वा शस्तं विरेचनम्||१०|| बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्| सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्||११||
🔊 Audio coming soon
Adhikarana 4 (12-14) · Śloka 14
स्निग्धस्विन्नेऽतितीक्ष्णोष्णो मृदुकोष्ठेऽतियुज्यते| तस्य लिङ्गं चिकित्सा च शोधनाभ्यां समा भवेत्||१२|| पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकं बलाम्| पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने||१३|| द्राक्षायाः पक्वलोष्टस्य प्रसादे मधुकस्य च| विनीय सघृतं बस्तिं दद्याद्दाहेऽतियोगजे ||१४||
🔊 Audio coming soon
Adhikarana 5 (15-20) · Śloka 20
आमशेषे निरूहेण मृदुना दोष ईरितः| मार्गं रुणद्धि वातस्य हन्त्यग्निं मूर्च्छयत्यपि||१५|| क्लमं विदाहं हृच्छूलं मोहवेष्टनगौरवम्| कुर्यात् स्वेदैर्विरूक्षैस्तं पाचनैश्चाप्युपाचरेत्||१६|| पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्| पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्||१७|| वचानागरशट्येला दधिमण्डेन मूर्च्छिताः| पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा||१८|| दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम्| पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्||१९|| बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्| समूत्रमथवा व्यक्तलवणं माधुतैलिकम्||२०||
🔊 Audio coming soon
Adhikarana 6 (21-26) · Śloka 26
अल्पवीर्यो महादोषे रूक्षे क्रूराशये कृतः| बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम्||२१|| स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्| विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम्||२२|| रुणद्धि हृदयं शूलैरितश्चेतश्च धावति| श्यामाफलादिभिः कुष्ठकृष्णालवणसर्षपैः||२३|| धूममाषवचाकिण्वक्षारचूर्णगुडैः कृताम्| कराङ्गुष्ठनिभां वर्तिं यवमध्यां निधापयेत् ||२४|| अभ्यक्तस्विन्नगात्रस्य तैलाक्तां स्नेहिते गुदे| अथवा लवणागारधूमसिद्धार्थकैः कृताम्||२५|| बिल्वादिना निरूहः स्यात् पीलुसर्षपमूत्रवान्| सरलामरदारुभ्यां सिद्धं चैवानुवासनम्||२६||
🔊 Audio coming soon
Adhikarana 7 (27-29) · Śloka 29
मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्| कुर्याद्धिक्कां, हितं तस्मै हिक्काघ्नं बृंहणं च यत्||२७|| बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवैः| सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत्||२८|| कृष्णालवणयोरक्षं पिबेदुष्णाम्बुना युतम् | धूमलेहरसक्षीरस्वेदाश्चान्नं च वातनुत्||२९||
🔊 Audio coming soon
Adhikarana 8 (30-31) · Śloka 31
अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः| घट्टयेद्धृदयं बस्तिस्तत्र काशकुशेत्कटैः||३०|| स्यात् साम्ललवणस्कन्धकरीरबदरीफलैः| शृतैर्बस्तिर्हितः सिद्धं वातघ्नैश्चानुवासनम्||३१||
🔊 Audio coming soon
Adhikarana 9 (32-39) · Śloka 39
वातमूत्रपुरीषाणां दत्ते वेगान्निगृह्णतः| अति वा पीडितो बस्तिर्मुखेनायाति वेगवान्||३२|| मूर्च्छाविकारं तस्यादौ दृष्ट्वा शीताम्बुना मुखम्| सिञ्चेत् पार्श्वोदरं चाधः प्रमृज्याद्वीजयेच्च तम्||३३|| केशेष्वालम्ब्य चाकाशे धुनुयात्त्रासयेच्च तम्| गोखराश्वगजैः सिंहै राजप्रेष्यैस्तथोरगैः||३४|| उल्काभिरेवमन्यैश्च भीतस्याधः प्रवर्तते| वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान्न म्रियते यथा||३५|| प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवान् | अपानः पवनो बस्तिं तमाश्वेवापकर्षति||३६|| ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम्| औष्ण्यात्तैक्ष्यात् सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्||३७|| पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः| यवकोलकुलत्थैश्च विधेयो मूत्रसाधितः||३८|| बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते| शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः||३९||
🔊 Audio coming soon
Adhikarana 10 (40-42) · Śloka 42
स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः| उत्क्लिश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्||४०|| स बस्तिपायुशोफेन जङ्घोरुसदनेन वा| निरुद्धमारुतो जन्तुरभीक्ष्णं सम्प्रवाहते||४१|| स्वेदाभ्यङ्गान्निरूहांश्च शोधनीयानुलोमिकान्| विदध्याल्लङ्घयित्वा तु वृत्तिं कुर्याद्विरिक्तवत्||४२||
🔊 Audio coming soon
Adhikarana 11 (43-46) · Śloka 46
दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुर्मृदुः| शीतोऽल्पश्चावृतो दोषैर्बस्तिस्तद्विहतोऽनिलः||४३|| मार्गैर्गात्राणि सन्धावन्नूर्ध्वं मूर्ध्नि विहन्यते| ग्रीवां मन्ये च गृह्णाति शिरः कण्ठं भिनत्ति च||४४|| बाधिर्यं कर्णनादं च पीनसं नेत्रविभ्रमम्| कुर्यादभ्यञ्जनं तैललवणेन यथाविधि||४५|| युञ्ज्यात् प्रधमनैर्नस्यैर्धूमैरस्य विरेचयेत्| तीक्ष्णानुलोमिकेनाथ स्निग्धं भुक्तेऽनुवासयेत् ||४६||
🔊 Audio coming soon
Adhikarana 12 (47-53) · Śloka 53
स्नेहस्वेदैरनापाद्य गुरुस्तीक्ष्णोऽतिमात्रया| यस्य बस्तिः प्रयुज्येत सोऽतिमात्रं प्रवर्तयेत्||४७|| स्रुतेषु तस्य दोषेषु निरूढस्यातिमात्रशः| स्तब्धोदावृतकोष्ठस्य वायुः सम्प्रतिहन्यते||४८|| विलोमनसमुद्भूतो रुजत्यङ्गानि देहिनः| गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ||४९|| तं तैललवणाभ्यक्तं सेचयेदुष्णवारिणा| एरण्डपत्रनिष्क्वाथैः प्रस्तरैश्चोपपादयेत्||५०|| यवान् कुलत्थान् कोलानि पञ्चमूले तथोभये| जलाढकद्वये पक्त्वा पादशेषेण तेन च||५१|| कुर्यात् सबिल्वतैलोष्णलवणेन निरूहणम्| तं निरूढं समाश्वस्तं द्रोण्यां समवगाहयेत्||५२|| ततो भुक्तवतस्तस्य कारयेदनुवासनम्| यष्टीमधुकतैलेन बिल्वतैलेन वा भिषक् ||५३||
🔊 Audio coming soon
Adhikarana 13 (54-57) · Śloka 57
मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्| बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम्||५४|| त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्| विबन्धोऽल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्||५५|| स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्| यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः||५६|| ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्| विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः||५७||
🔊 Audio coming soon
Adhikarana 14 (58-62) · Śloka 62
पित्तरोगेऽम्ल उष्णो वा तीक्ष्णो वा लवणोऽथवा| बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि||५८|| स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्| सार्यते बहुवेगेन मोहं गच्छति चासकृत्||५९|| आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्| सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत्||६०|| वटादिपल्लवेष्वेष कल्पो यवतिलेषु च| सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते||६१|| गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये| रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते||६२||
🔊 Audio coming soon
Adhikarana 15 (63) · Śloka 63
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः| प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा||६३||
🔊 Audio coming soon
Adhikarana 16 (64) · Śloka 64
आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थितः| वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव||६४||
🔊 Audio coming soon
Adhikarana 17 (65) · Śloka 65
यद्वत् कुसुम्भसम्मिश्रात्तोयाद्रागं हरेत् पटः| तद्वद्द्रवीकृताद्देहान्निरूहो निर्हरेन्मलान्||६५||
🔊 Audio coming soon
Adhikarana 18 (66) · Śloka 66
तत्र श्लोकः- इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः| बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति||६६||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 7
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः||७||
🔊 Audio coming soon