Adhikarana 1 (1-2) · Śloka 2
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
वमनविरेचनानन्तरभावित्वाद्बस्तेः संशोधनव्यापत्सिद्धेरनन्तरं बस्तिव्यापत्सिद्धिरुच्यते; अत्र बस्तिशब्दो निरूह एव वर्तते, तद्व्यापदामेवात्र वक्तव्यत्वात्||१-२||
Adhikarana 2 (3-6) · Śloka 6
धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम्|
पुनर्वसुं शिष्यगणः पप्रच्छ विनयान्वितः||३||
काः कति व्यापदो बस्तेः किंसमुत्थानलक्षणाः|
का चिकित्सा इति प्रश्नाञ्छ्रुत्वा तानब्रवीद्गुरुः||४||
नातियोगौ क्लमाध्माने हिक्का हृत्प्राप्तिरूर्ध्वता|
प्रवाहिका शिरोङ्गार्तिः परिकर्तः परिस्रवः||५||
द्वादश व्यापदो बस्तेरसम्यग्योगसम्भवाः|
आसामेकैकशो रूपं चिकित्सां च निबोधत||६||
काः कतीत्यादि पञ्च प्रश्नाः| नातियोगावित्यादिना आद्यप्रश्नस्योत्तरम्| नातियोगाविति अयोगातियोगौ| एतद्द्वादशव्यापदां च विवरण एव स्फुटार्थो भविष्यति| असम्यग्योगसम्भवा इति निरूहस्यायोगातियोगमिथ्यायोगरूपासम्यग्योगसम्भवाः| अनेन च समुत्थानप्रश्नस्य सामान्यकारणाभिधानेनोत्तरं दत्तं भवति| अत्र बस्तिप्रयोगस्यासम्यग्योगेन निरूहकार्यदोषहरणस्यातियोगायोगौ व्यापत्तिरूपौ जन्येते क्लमादयोऽपि चातियोगायोगजाता एव विशिष्टहेतुलक्षणचिकित्सिततया इहापि पृथगुच्यन्ते, यथा संशोधने आध्मानादयोऽयोगातियोगजाता अपि पृथगुक्ताः| केचित् ‘नातियोगात् क्लमाध्माने’ इत्यादि, तथा ‘दशैता व्यापदो बस्तेः’ इत्यादि पठन्ति; तत्र पूर्वाध्यायोक्तव्याख्यानादर्थो नेयः ; किन्तु पूर्व एव पाठो निर्व्यूहः| आसामित्यादौ रूपशब्देनैव प्रति प्रति वक्ष्यमाणहेतुविशेषोऽवरुद्धो ज्ञेयः, येन हेतुरपि हि व्यासगमकतया रूपमेव||३-६||
Adhikarana 3 (7-11) · Śloka 11
गुरुकोष्ठेऽनिलप्राये रूक्षे वातोल्बणेऽपि वा|
शीतोऽल्पलवणस्नेहद्रवमात्रो घनोऽपि वा||७||
बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्|
करोति गुरुकोष्ठत्वं वातमूत्रशकृद्ग्रहम्||८||
नाभिबस्तिरुजं दाहं हृल्लेपं श्वयथुं गुदे|
कण्डूगण्डानि वैवर्ण्यमरुचिं वह्निमार्दवम्||९||
तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः|
फलवर्त्योऽथवा कालं ज्ञात्वा शस्तं विरेचनम्||१०||
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्|
सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्||११||
गुरुकोष्ठे इति क्रूरकोष्ठे मलपूर्णकोष्ठे वा| अल्पशब्दो मात्रान्तैः प्रत्येकं सम्बध्यते| उष्णायाः प्रमथ्याया इति अतीसारोक्तप्रमथ्यानां या प्रमथ्या उष्णा तस्याः प्रयोगः; प्रमथ्येति पाचनकषायस्यायुर्वेदसमयसिद्धसञ्ज्ञेति प्रतिपादितमेवातीसारे| कालं ज्ञात्वेति विरेचनयोग्यावस्थां ज्ञात्वा| सुरादिमूत्रवानित्यत्र आदिशब्देन सौवीरकतुषोदकादीनां ग्रहणम्| सप्राक्पेष्य इति बस्तिसूत्रीयोक्तबलादिबस्त्युक्तकल्कयुक्तः| तमानयेदिति अयोगकारकं विबद्धं बस्तिं हरति||७-११||
Adhikarana 4 (12-14) · Śloka 14
स्निग्धस्विन्नेऽतितीक्ष्णोष्णो मृदुकोष्ठेऽतियुज्यते|
तस्य लिङ्गं चिकित्सा च शोधनाभ्यां समा भवेत्||१२||
पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकं बलाम्|
पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने||१३||
द्राक्षायाः पक्वलोष्टस्य प्रसादे मधुकस्य च|
विनीय सघृतं बस्तिं दद्याद्दाहेऽतियोगजे ||१४||
अयोगमभिधायातियोगमाह- स्निग्धस्विन्ने इत्यादि| अतियुज्यते इति अतियोगकारको भवति| शोधनाभ्यां समा भवेदिति वमनविरेचनातियोगोक्तलिङ्गचिकित्सिताभ्यां समा भवेत्| बस्त्यतियोगजे दाहे विशिष्टचिकित्सामाह- पृश्निपर्णीमित्यादि| अत्र क्षीरादिषु पञ्चद्रवेषु कल्कस्य विलयनम्| द्राक्षादिप्रसादाः शीतकषायविधिकृता ज्ञेयाः||१२-१४||
Adhikarana 5 (15-20) · Śloka 20
आमशेषे निरूहेण मृदुना दोष ईरितः|
मार्गं रुणद्धि वातस्य हन्त्यग्निं मूर्च्छयत्यपि||१५||
क्लमं विदाहं हृच्छूलं मोहवेष्टनगौरवम्|
कुर्यात् स्वेदैर्विरूक्षैस्तं पाचनैश्चाप्युपाचरेत्||१६||
पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्|
पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्||१७||
वचानागरशट्येला दधिमण्डेन मूर्च्छिताः|
पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा||१८||
दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम्|
पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्||१९||
बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्|
समूत्रमथवा व्यक्तलवणं माधुतैलिकम्||२०||
आमशेषे इत्यादिना क्लममाह| आमशेषे सति दत्तेन निरूहेण दोष ईरित इति योज्यम्| दोषशब्देन चात्र पित्तकफावामसहितौ मार्गावरकावुच्येते| मूर्च्छयतीति मार्गावरोधात् कोपयति| मार्गं रुणद्धीति देहे स्रोतांसि रुणद्धि| ये तु, दोषशब्देनेह कफमात्रं ग्राहयन्ति, तन्मते सदाहत्वं क्लमस्याप्यनुपपन्नम्| वचेत्यादौ मूर्च्छिता इति आलोडिताः| क्षारांश्च दीपनानिति ग्रहणीचिकित्साद्युक्तान्| दाशमूलिकमिति “द्विपञ्चमूलस्य रसोऽम्लयुक्तः” (सि.अ.३) इत्यादिनोक्तं; किंवा दशमूलक्वाथकृतम्| माधुतैलिकः वक्ष्यमाणः||१५-२०||
Adhikarana 6 (21-26) · Śloka 26
अल्पवीर्यो महादोषे रूक्षे क्रूराशये कृतः|
बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम्||२१||
स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्|
विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम्||२२||
रुणद्धि हृदयं शूलैरितश्चेतश्च धावति|
श्यामाफलादिभिः कुष्ठकृष्णालवणसर्षपैः||२३||
धूममाषवचाकिण्वक्षारचूर्णगुडैः कृताम्|
कराङ्गुष्ठनिभां वर्तिं यवमध्यां निधापयेत् ||२४||
अभ्यक्तस्विन्नगात्रस्य तैलाक्तां स्नेहिते गुदे|
अथवा लवणागारधूमसिद्धार्थकैः कृताम्||२५||
बिल्वादिना निरूहः स्यात् पीलुसर्षपमूत्रवान्|
सरलामरदारुभ्यां सिद्धं चैवानुवासनम्||२६||
अल्पवीर्य इत्यादिना आध्मानमाह| रुद्धमार्ग इति निवारिताधोमार्गः; स चानिलं रुणद्धि, अनिलश्च रुद्धमार्गतया आध्मानं करोतीति| मर्मपीडनमित्याध्मानविशेषणम्| रुणद्धि हृदयं शूलैरिति शूलैर्हृदयं व्याप्नोति| श्यामाफलादिभिरिति श्यामादिभिर्नवभिः, फलादिभिश्च षड्भिः कल्पस्थानोक्तैः| धूमशब्देनेह गृहधूमग्रहणम्| गुडश्चात्र तावन्मात्रो भवति यावता वर्तिः कर्तुं युज्यते| कराङ्गुष्ठेत्यत्र करग्रहणं पादाङ्गुष्ठनिषेधार्थम्| अथवेत्यादिनोक्तद्वितीयवर्तावपि वर्तित्वसम्पत्त्यर्थं गुडो देयः| बिल्वादिभिश्च निरूह इति “बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्” इत्यादिनोक्तः| सरलेत्यादौ सिद्धमित्यत्र ‘तैलं’ इति शेषः||२१-२६||
Adhikarana 7 (27-29) · Śloka 29
मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्|
कुर्याद्धिक्कां, हितं तस्मै हिक्काघ्नं बृंहणं च यत्||२७||
बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवैः|
सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत्||२८||
कृष्णालवणयोरक्षं पिबेदुष्णाम्बुना युतम् |
धूमलेहरसक्षीरस्वेदाश्चान्नं च वातनुत्||२९||
मृद्वित्यादिना हिक्कामाह| अतिनिर्हरन्निति अतियोगेन दोषान्निर्हरन्| हिक्काघ्नमिति हिक्काचिकित्सोक्तं भेषजम्| हिक्कायां च यद्यपि “प्रसक्तच्छर्दिनिष्ठीविकाकासश्वासहिक्कार्तानामूर्ध्वीभूतो वायुरूर्ध्वं बस्तिं नयेत्” (सि.अ.२) इत्यनेन बस्तिर्निषिद्धः, तथाऽपीह विशिष्टहिक्कायामनुवासनस्य हितत्वात्, “बलास्थिरादि” इत्यादिनोक्तमनुवासनमनवद्यम्| वातनुदिति पदं लिङ्गविपरिणामेन धूमादिभिश्च सम्बध्यते; तेन वातहितानामेवात्र धूमादीनां प्रयोगः||२७-२९||
Adhikarana 8 (30-31) · Śloka 31
अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः|
घट्टयेद्धृदयं बस्तिस्तत्र काशकुशेत्कटैः||३०||
स्यात् साम्ललवणस्कन्धकरीरबदरीफलैः|
शृतैर्बस्तिर्हितः सिद्धं वातघ्नैश्चानुवासनम्||३१||
अतितीक्ष्ण इत्यादिना हृत्प्राप्तिमाह| सवातत्वं बस्तेर्निःशेषदानादिना ज्ञेयम्| असम्यक्पीडितत्वमेव हृत्प्राप्तिजनकतया ज्ञेयम्| लवणस्कन्धः रोगभिषग्जितीयोक्तः| वातघ्नैरिति दशमूलादिभिः||३०-३१||
Adhikarana 9 (32-39) · Śloka 39
वातमूत्रपुरीषाणां दत्ते वेगान्निगृह्णतः|
अति वा पीडितो बस्तिर्मुखेनायाति वेगवान्||३२||
मूर्च्छाविकारं तस्यादौ दृष्ट्वा शीताम्बुना मुखम्|
सिञ्चेत् पार्श्वोदरं चाधः प्रमृज्याद्वीजयेच्च तम्||३३||
केशेष्वालम्ब्य चाकाशे धुनुयात्त्रासयेच्च तम्|
गोखराश्वगजैः सिंहै राजप्रेष्यैस्तथोरगैः||३४||
उल्काभिरेवमन्यैश्च भीतस्याधः प्रवर्तते|
वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान्न म्रियते यथा||३५||
प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवान् |
अपानः पवनो बस्तिं तमाश्वेवापकर्षति||३६||
ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम्|
औष्ण्यात्तैक्ष्यात् सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्||३७||
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः|
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितः||३८||
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते|
शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः||३९||
वातमूत्रेत्यादिनोर्ध्वतामाह| दत्ते इति बस्तौ दत्ते| तस्योर्ध्वं गच्छतो बस्तेर्मूर्च्छारूपं विकारं दृष्ट्वा मुखसेचनादि कर्तव्यम्| आकाशे धुनुयादिति निरवलम्बं धुनुयात्| त्रासयेच्च गोखरादिभिरिति ज्ञेयम्| एवमन्यैरिति अनुक्तैरपि त्रासनप्रकारैः| कण्ठावरोधो यथा कर्तव्यस्तदाह- न म्रियते यथेति| कण्ठोपरोधप्रयोजनमाह- प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवानित्यादि| कण्ठप्रग्रहेण प्राणोदाननिरोधात् प्रसिद्धतरमार्गवानपानो भवति, गुदप्रवर्तनस्वरूपो भवतीत्यर्थः; ततश्च बस्तिमूर्ध्वक्षिप्तमधो नयति; प्राणोदाननिरोधेन तु प्राणोदानाभ्यां पीडितोऽपानः स्वमार्गगामी भवतीति ज्ञेयम्| केचित्तु ‘यावत् प्राणोपरोधाद्धि’ इति पठन्ति, तत्र प्राणोपरोधं यावत् कण्ठपीडनं कर्तव्यमित्यर्थः| क्रमुकं पूगफलम्| शिरःस्थ इति बस्त्येकदेशे शिरसि स्थिते सति| प्रच्छाद्यमिति आलेपनीयम्||३२-३९||
Adhikarana 10 (40-42) · Śloka 42
स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः|
उत्क्लिश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्||४०||
स बस्तिपायुशोफेन जङ्घोरुसदनेन वा|
निरुद्धमारुतो जन्तुरभीक्ष्णं सम्प्रवाहते||४१||
स्वेदाभ्यङ्गान्निरूहांश्च शोधनीयानुलोमिकान्|
विदध्याल्लङ्घयित्वा तु वृत्तिं कुर्याद्विरिक्तवत्||४२||
स्निग्धस्विन्नेत्यादिना प्रवाहिकामाह| प्रवाहिकामतीसारोक्तलक्षणामुक्तां जनयति| शोधनीयानुलोमिकानित्यत्र शोधनीयानिति त्रिवृदादिशोधनद्रव्ययुक्तान्; आनुलोमिकानिति अनुलोमनक्षीरेक्षुरसयुक्तान्| वृत्तिमिति पेयादिक्रमम्||४०-४२||
Adhikarana 11 (43-46) · Śloka 46
दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुर्मृदुः|
शीतोऽल्पश्चावृतो दोषैर्बस्तिस्तद्विहतोऽनिलः||४३||
मार्गैर्गात्राणि सन्धावन्नूर्ध्वं मूर्ध्नि विहन्यते|
ग्रीवां मन्ये च गृह्णाति शिरः कण्ठं भिनत्ति च||४४||
बाधिर्यं कर्णनादं च पीनसं नेत्रविभ्रमम्|
कुर्यादभ्यञ्जनं तैललवणेन यथाविधि||४५||
युञ्ज्यात् प्रधमनैर्नस्यैर्धूमैरस्य विरेचयेत्|
तीक्ष्णानुलोमिकेनाथ स्निग्धं भुक्तेऽनुवासयेत् ||४६||
दुर्बले इत्यादिना शिरोर्तिमाह| तनुः अघनः| तद्विहत इति निरूहबस्तिप्रकोपितः| ऊर्ध्वं मूर्ध्नि विहन्यते इति ऊर्ध्वमनुसरन् मूर्ध्नि विहन्यते; ये तु ‘ऊर्ध्वं विधावति’ इति पठन्ति, तन्मते उपर्युपरि धावतीत्यर्थः| अस्य विरेचयेदिति अत्र ‘शिर’ इति शेषः, ‘अनु विरेचयेत्’ इति वा पाठः| तीक्ष्णानुलोमिकेऽन्ने भुक्ते सति अनुवासयेदिति योज्यम्; किंवा तीक्ष्णानुलोमिकेनैवानुवासनं साध्यमित्यर्थः||४३-४६||
Adhikarana 12 (47-53) · Śloka 53
स्नेहस्वेदैरनापाद्य गुरुस्तीक्ष्णोऽतिमात्रया|
यस्य बस्तिः प्रयुज्येत सोऽतिमात्रं प्रवर्तयेत्||४७||
स्रुतेषु तस्य दोषेषु निरूढस्यातिमात्रशः|
स्तब्धोदावृतकोष्ठस्य वायुः सम्प्रतिहन्यते||४८||
विलोमनसमुद्भूतो रुजत्यङ्गानि देहिनः|
गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ||४९||
तं तैललवणाभ्यक्तं सेचयेदुष्णवारिणा|
एरण्डपत्रनिष्क्वाथैः प्रस्तरैश्चोपपादयेत्||५०||
यवान् कुलत्थान् कोलानि पञ्चमूले तथोभये|
जलाढकद्वये पक्त्वा पादशेषेण तेन च||५१||
कुर्यात् सबिल्वतैलोष्णलवणेन निरूहणम्|
तं निरूढं समाश्वस्तं द्रोण्यां समवगाहयेत्||५२||
ततो भुक्तवतस्तस्य कारयेदनुवासनम्|
यष्टीमधुकतैलेन बिल्वतैलेन वा भिषक् ||५३||
स्नेहस्वेदैरित्यादिना अङ्गार्तिमाह| अनापाद्येति स्नेहस्वेदैः शरीरं नोपपाद्य| सोऽतिमात्रं प्रवर्तयेत् ‘दोषान्’ इति शेषः| ततः स्तब्धोदावृतकोष्ठस्य रुजां करोति| भुक्तवतो यद्यप्यनुवासनं सर्वत्र भवति, तथाऽपि भुक्तवत इति वचनेन भोजनानन्तरमेवानुवासनं दर्शयति||४७-५३||
Adhikarana 13 (54-57) · Śloka 57
मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्|
बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम्||५४||
त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्|
विबन्धोऽल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्||५५||
स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्|
यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः||५६||
ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्|
विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः||५७||
मृद्वित्यादिना परिकर्तिकामाह| बस्तिनिर्लेखनादिति वायुना च तीक्ष्णेन बस्तिकर्षणात्| व्यक्ताम्ल इति बस्तिविशेषणम्||५४-५७||
Adhikarana 14 (58-62) · Śloka 62
पित्तरोगेऽम्ल उष्णो वा तीक्ष्णो वा लवणोऽथवा|
बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि||५८||
स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्|
सार्यते बहुवेगेन मोहं गच्छति चासकृत्||५९||
आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्|
सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत्||६०||
वटादिपल्लवेष्वेष कल्पो यवतिलेषु च|
सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते||६१||
गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये|
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते||६२||
पित्तरोगे इत्यादिना परिस्रावमाह| क्षिणोतीति हिनस्ति| एष कल्प इति आर्द्रशाल्मलीवृन्तोक्तक्षीरसंस्कारकल्पः| सुवर्चलमिति सुनिषण्णकमाहुः| कर्बुदारः काञ्चनारः||५८-६२||
Adhikarana 15 (63) · Śloka 63
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः|
प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा||६३||
सम्प्रति तत्र तत्र बस्तीनां मृदुत्वं तीक्ष्णत्वं च विहितं; तेन तद्विज्ञानार्थं मार्दवतीक्ष्णत्वकारकद्रव्यगणमाह- तीक्ष्णत्वमित्यादि| पीलुः औत्तरपथिकं फलं; पीलुस्थाने केचिद् बिल्वं पठन्ति| प्राप्तकालमिति उक्तावस्थम्||६३||
Adhikarana 16 (64) · Śloka 64
आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थितः|
वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव||६४||
बस्तिप्रभावमाह- आपादेत्यादि| पक्वाशये स्थित इति पक्वाशयगत एव| आदत्ते वीर्येणेति शक्त्या स्वभावसम्बद्धया| एवम्भूतवीर्यं बस्तावेव; तेन पाचनादिप्रयोगाणां न बस्तिवत्तदहरेव सकलदेहगतदोषविजेतृत्वं भवति| खस्थ इति आकाशगतः| सुश्रुते तूक्तं- “वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्| पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव” (सु.चि.अ.३५) इति||६४||
Adhikarana 17 (65) · Śloka 65
यद्वत् कुसुम्भसम्मिश्रात्तोयाद्रागं हरेत् पटः|
तद्वद्द्रवीकृताद्देहान्निरूहो निर्हरेन्मलान्||६५||
सम्प्रति बस्तेः शरीरे मलप्रसादसहितेऽपि यथा मलांशमात्रहारकत्वं भवति, तद्दृष्टान्तेन दर्शयन्नाह- यद्वदित्यादि| द्रवीकृतादिति स्नेहस्वेदाभ्यां विलायितात्| मलानिति दोषान् पुरीषं च||६५||
Adhikarana 18 (66) · Śloka 66
तत्र श्लोकः- इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः|
बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति||६६||
इत्येता इत्यादिसङ्ग्रहः| यस्मादेता व्यापदो बस्तिदुष्प्रयोगजन्या भवन्ति, तस्मात् कार्त्स्न्येन बस्तीन् बुद्ध्वा नियुञ्जन्नापराध्यति, बस्तिव्यापदं नासादयतीत्यर्थः||६६||
Adhikarana puShpikA · Śloka 7
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः||७||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः||७||