Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. nētrabastivyāpatsiddhiḥ

Adhikarana 1 (1-3) · Śloka 3

अथातो नेत्रबस्तिव्यापत्सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| अथ नेत्राणि बस्तींश्च शृणु वर्ज्यानि कर्मसु| नेत्रस्याज्ञप्रणीतस्य व्यापदः सचिकित्सिताः||३||

🔊 Audio coming soon

स्नेहव्यापत्सिद्ध्यभिधानप्रसङ्गात् स्नेहदानसाधननलिकादिव्यापत्प्रतीकारार्था नेत्रबस्तिव्यापत्सिद्धिरुच्यते| नेत्रगता तथा बस्तिपुटकगता च व्यापत् तथा नेत्रासम्यक्प्रणिधानजन्या च या व्यापदस्तासां सिद्धिः; तेन नेत्रबस्तिव्यापत्सिद्धिः दुष्टनेत्रबस्तिपुटकयोश्च व्यापत्सिद्धिः तयोः सदोषत्वेन ज्ञात्वा परिवर्जनम्||१-३||

Adhikarana 2 (4-5) · Śloka 5

ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्| पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्||४|| अप्राप्त्यतिगतिक्षोभकर्षणक्षणनस्रवाः| गुदपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्||५||

🔊 Audio coming soon

तदेवाह- ह्रस्वमित्यादि| नेत्रदोषकथने अष्टावितिपदमनुक्तकर्कशत्वादिदोषाणामत्रैवान्तर्भावोपदर्शनार्थम्| कर्कशत्वस्य जीर्णेन कर्तृत्वसाम्यादग्रहणम् | एवमन्यत्रापि सङ्ख्यावचने प्रयोजनमिह वर्णनीयम्| तनु कृशम्| अप्राप्त्यादि यथाक्रमं ह्रस्वनेत्रादिषु ज्ञेयम्| अतिगतिः दूरप्रवेशः| क्षोभः गुदप्रविष्टस्येतस्ततो गमनम्| गुदपीडेति पार्श्वच्छिद्रनिर्गतेन बस्तिद्रवेण योगाद्गुदपीडा| जिह्मेति कुटिला||४-५||

Adhikarana 3 (6-7) · Śloka 7

विषममांसलच्छिन्नस्थूलजालिकवातलाः| स्निग्धः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्||६|| गतिवैषम्यविस्रत्वस्रावदौर्ग्राह्यनिस्रवाः| फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः||७||

🔊 Audio coming soon

विषमः विषमसंस्थानः, स्थुलः अतिप्रमाणः, जालिकः सूक्ष्मानेकच्छिद्रः, वातलः वातदुष्टः, स चात्र विहितस्नेहादेः फेनिलत्वादिना निश्चीयते| स्निग्धः अतिस्निग्धः| क्लिन्नः शीर्णावयवः| गतिवैषम्यादयो यथाक्रमं विषमादिष्वष्टौ दोषाः| विस्रत्वम् आमगन्धता, दौर्ग्राह्यं दुर्ग्रहता, च्युतिः हस्ताद्भ्रंशः, अधार्यत्वं बस्तेरिति क्लिन्नत्वाद्धि धारणायोग्यत्वं बस्तिपुटकस्य||६-७||

Adhikarana 4 (8) · Śloka 8

सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः| अतिबाह्यगमन्दातिवेगदोषाः प्रणेतृतः||८||

🔊 Audio coming soon

सवातेत्यादयः प्रणेतृदोषजनिताः प्रणेतृदोषा उच्यन्ते| तत्र सवातता अनुच्छ्वास्य बद्धे बस्तौ तथा निःशेषं च दत्ते भवति| अतिद्रुतत्वमपि प्रणयने निर्गमनेन| उत्क्षिप्तत्वम् ऊर्ध्वक्षिप्तत्वम्| तिर्यगिति तिर्यक्प्रणिधानम्| उल्लुप्तत्वमिह पीडनदोषो यः पीडनविच्छेदं कृत्वा पुनः पीड्यते स ज्ञेयः| कम्पितत्वं नेत्रस्य| अतीति अतिप्रणयनं नेत्रस्य| बाह्यगं गुदे न प्रविष्टमौषधम्| मन्दत्वं च पक्वाशयाप्राप्तत्वम्, एतद्धि मन्दपीडनाद्भवति| अतिवेगः दूरप्रवेशाद्भवति, स चातिपीडनकृतः||८||

Adhikarana 5 (9) · Śloka 10

अनुच्छ्वास्य च बद्धे वा दत्ते निःशेष एव वा| प्रविश्य कुपितो वायुः शूलतोदकरो भवेत्||९|| तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च|१०|

🔊 Audio coming soon

एतद्व्यापदां चिकित्सितानि प्रत्येकमाह- अनुच्छ्वास्येत्यादि| एते चानुच्छ्वासनादयो यद्यपि पूर्वमेव निषिद्धाः “सुबद्धमुच्छ्वास्य च निर्वलीकं” (सि.अ.३) इत्यादिनैव, तथाऽपि प्रमादात्तथाप्रयोगे सति जातव्यापदां चिकित्साभिधानार्थमस्मिन् प्रकरणे पुनरुक्ताः||९||-

Adhikarana 6 (10-11) · Śloka 11

द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा||१०|| स्यात् कटीगुदजङ्घार्तिबस्तिस्तम्भोरुवेदनाः | भोजनं तत्र वातघ्नं स्नेहाः स्वेदाः सबस्तयः||११||

🔊 Audio coming soon

द्रुतमित्यादि| उत्क्षिप्तमपि समानव्यापत्तिकरतयैकग्रन्थेनैव पठ्यते| निष्कृष्टे सहसेति च्छेदः, उत्क्षेपस्त्वसहसाऽपि व्यापत्तिकर एव| बस्तेर्मूत्राशयस्य स्तम्भो बस्तिस्तम्भः| सबस्तय इति वातहरबस्तियुक्ताः||१०-११||

Adhikarana 7 (12) · Śloka 12

तिर्यग्वल्यावृतद्वारे बद्धे वाऽपि न गच्छति| नेत्रे तदृजु निष्कृष्य संशोध्य च प्रवेशयेत्||१२||

🔊 Audio coming soon

तिर्यक्प्रणिधानदोषेऽभिधातव्ये नलिकामुखरोधि द्रव्यान्तरं तत्समानव्यापत्तिकरत्वादुच्यते| तिर्यग्वल्यावृतद्वारे बद्धे वाऽपीति तिर्यक्प्रणिहिते नेत्रे वल्यावृतद्वारे सति तथा बस्तिद्रव्यगतसूत्रद्रव्यादिना विबद्धे नेत्रे बस्तिद्रव्यं न याति; तन्नेत्रं तिर्यक्प्रणिहितं निष्कृष्य ऋजु प्रवेशयेत्, बद्धद्वारं च संशोध्य प्रवेशयेदिति योज्यम्||१२||

Adhikarana 8 (13-14) · Śloka 15

पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः| उरःशिरोर्तिमूर्वोश्च सदनं जनयेद्बली||१३|| बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्| स्याद्दाहो दवथुः शोफः कम्पनाभिहते गुदे||१४|| कषायमधुराः शीताः सेकास्तत्र सबस्तयः|१५|

🔊 Audio coming soon

अन्तरा मुक्ते मध्ये विच्छेदे कृते| गुदे प्रतिहतोऽनिल इति पीडनविच्छेदजनितो वायुर्गुदात् प्रत्याहतः| बिल्वादि दशमूलं; श्यामादि श्यामात्रिवृदादिविरेचनद्रव्यम्||१३-१४||-

Adhikarana 9 (15-16) · Śloka 16

अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः||१५|| स्यात् सार्ति दाहनिस्तोदगुदवर्चःप्रवर्तनम्| तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते||१६||

🔊 Audio coming soon

अतिमात्रप्रणीतेनेति पुनः पुनः प्रणीतेन; अन्ये तु दुष्प्रवेशनमतिमात्रप्रणीतमाहुः ; अतिप्रणयनं यद्यपि ग्रथितकर्णिकाया उपरि न भवति, तथाऽपि कर्णिकापीडया गुदपीडनादतिप्रवेशो ज्ञेयः| पिच्छाबस्तिः वक्ष्यमाणः||१५-१६||

Adhikarana 10 (17-18) · Śloka 18

न भावयति मन्दस्तु बाह्यस्त्वाशु निवर्तते| स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता||१७|| अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्| तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च||१८||

🔊 Audio coming soon

न भावयतीति पक्वाशयं न प्राप्नोति| अतिपीडने कोष्ठे वा तिष्ठतीति पक्षः मन्दादतिपीडनाद्वातावरणाच्च ज्ञेयः; गलगमनं तु तीव्रातिपीडनादनावरणाच्च भवति| इयं च व्यापत् पूर्वाध्याये आहारं विना दत्तानुवासनविषयतयोक्ता, इह तु निरूहस्यानुवासनस्य चातिपीडनजन्यतया बोध्यत इति विशेषः| इह बस्तिर्विरेको वा कोष्ठस्थेऽप्रवर्तमाने, कण्ठपीडनादि तु गलगते ज्ञेयम्||१७-१८||

Adhikarana 11 (19) · Śloka 19

तत्र श्लोकः- नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्| वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत्||१९||

🔊 Audio coming soon

सङ्ग्रहे तेनेति यथोक्तभेषजाभिज्ञभिषजा||१९||

Adhikarana puShpikA · Śloka 5

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने नेत्रबस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तप्रणीतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने नेत्रबस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः||५||