Adhikarana 1 (1-2) · Śloka 2
अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः|
इति ह स्माह भगवानात्रेयः||२||
व्यापत्सिद्ध्यभिधानप्रसङ्गाद्वमनविरेचनयोरपि व्यापत्सिद्धिरुच्यते, बस्तिव्यापत्सिद्धिस्तु वमनविरेचनपूर्वकत्वाद्बस्तेः पश्चादभिधीयते; तेन बस्तिव्यापत्सिद्ध्यभिधानेन बस्तेरिह कर्मभ्यः प्राधान्यमपि द्योतितं; बस्तिप्राधान्यं “तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके” (सि.अ.१) इत्यनेनोक्तम्| अत्र चानागतव्यापच्चिकित्सार्थत्वाद्वमनविरेचनयोः सम्यग्विध्यभिधानं तेन नोत्सूत्रता वमनविरेचनविध्यभिधानस्य||१-२||
Adhikarana 2 (3) · Śloka 3
अथ शोधनयोः सम्यग्विधिमूर्ध्वानुलोमयोः|
असम्यक्कृतयोश्चैव दोषान् वक्ष्यामि सौषधान्||३||
अथेत्यादौ सम्यगिति विधिविशेषणम्| ऊर्ध्वानुलोमयोरिति वमनविरेचनयोः| दोषानिति व्यापदः| शोधनयोश्च विधिर्यद्यपि कल्पनासिद्ध्युपकल्पनीयादौ तत्र तत्राभिहितः, तथाऽप्यनुक्तविशेषप्रतिपादनार्थमभिधानं, तत्प्रसङ्गाच्च तत्राप्युक्तोऽर्थ उच्यते, सर्वथाऽनुक्ताभिधानं ‘नातिस्निग्धान् विरेचयेत्’ इत्यादि ज्ञेयम्||३||
Adhikarana 3 (4) · Śloka 4
अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः|
तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रयः||४||
औत्सर्गिकं संशोधनयोग्यं कालं दर्शयन्नाह- अत्युष्णेत्यादि| अत्युष्णेत्यादि ग्रीष्मादिषु यथासङ्ख्यं ज्ञेयम्| तदन्तरे इति ग्रीष्मादीनां मध्ये| प्रावृडाद्या इति प्रावृट्शरद्वसन्ताः| तेषां साधारणा इति उष्णवर्षशीतानां साधारणाः; अनुद्भूतोष्णवर्षशीता इति यावत्||४||
Adhikarana 4 (5-6) · Śloka 6
प्रावृट् शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुनः|
तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति||५||
एतानृतून् विकल्प्यैवं दद्यात् संशोधनं भिषक्|
स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु||६||
प्रावृडादीन् मासविभागेन दर्शयन्नाह- प्रावृट् शुचिनभावित्यादि| शुचिनभौ आषाढश्रावणौ| ऊर्जसहौ कार्तिकमार्गशीर्षौ| तपस्यः फाल्गुनः| मधु चैत्रः| शोधनं प्रतीति शोधने कर्तव्येऽयं यथोक्तः प्रावृडादिऋतुविभागो भवति; स्वस्थवृत्तौ रसोत्पत्तौ वा तस्याशितीयोक्त एव वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्मरूपः ऋतुक्रमो भवति| एतानृतूनिति प्रावृडादीनृतून्| विकल्प्यैवमिति यथोक्तमासविभागेन व्यवस्थाप्य संशोधनं दद्यात्| एतदुक्तसंशोधनाङ्गर्तुक्रमविभागेनैव चरकसंस्कारऽपि नवेगान्धारणीये “माधवप्रथमे मासि” (सू.अ.७) इत्यादिना ग्रन्थेन चैत्रश्रावणाग्रहायणेषु वमनादिसंशोधनमुक्तं, तथा रोगभिषग्जितीये (वि.अ.८) च शिशिरं परित्यज्य प्रावृडादिनैव ऋतुक्रमः संशोधनाङ्गतयोक्तः; तेन, रसबलोत्पादचिन्तायां स्वस्थवृत्तानुष्ठानेषु च शिशिरादिक्रमो भवति, संशोधनव्यवस्थायां तु प्रावृडादिरिति प्रावृडादिक्रमोऽयं संशोधनानुकूलतयाऽऽचार्येण कल्पितो न पारमार्थिकः| ये तु, प्रावृडादिक्रमं गङ्गाया दक्षिणे कूले, उत्तरेऽपि शिशिरादिक्रमं वदन्ति, तन्मते ‘शोधनं प्रति’ इति ग्रन्थोऽनुपपन्नः; तेन, “भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम्| तेन वर्षाप्रावृडाख्यौ ऋतू तेषां प्रकल्पितौ ” इत्यादिना ग्रन्थेन यदि नाम देशभेदेनापि ऋतुक्रमः पारमार्थिकोऽभिधीयते, तथाऽपि नासावाचार्यस्येहाभिमतः, प्रपञ्चितश्चायमर्थः सूत्रस्थान एव| अयं च शोधनकालोपदेशोऽनात्ययिके व्याधौ ज्ञेयः, आत्ययिके तु ऊष्मादिप्रतिकारं कृत्वा अत्युष्णेऽपि काले संशोधनप्रवृत्तिर्भवत्येव, उक्तो ह्ययमर्थो रोगभिषग्जितीये- “आत्ययिके तु पुनः कर्मणि काममृतुं विकल्प्य कृत्रिमगुणोपधानेन” (वि.अ.८) इत्यादिना ग्रन्थेन||५-६||
Adhikarana 5 (7) · Śloka 7
कर्मणां वमनादीनामन्तरेष्वन्तरेषु च|
स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत्||७||
कर्मणामित्यादौ अन्तरेष्विति वमनानन्तरं विरेचने कर्तव्ये विरेचनानन्तरं वा बस्तौ कर्तव्ये स्नेहस्वेदौ यथोक्तविधानेन पुनः कर्तव्यौ, न सकृत्प्रयुक्तेनैव स्नेहस्वेदेन पञ्चकर्माणि कर्तव्यानीत्यर्थः| स्नेहं चान्ते प्रयोजयेदिति संशोधनकर्मपरिसमाप्तौ संशोधनजनितग्लानिपरिहारार्थं संशमनीयस्नेहं प्रयोजयेदित्यर्थः||७||
Adhikarana 6 (8) · Śloka 8
विसर्पपिडकाशोफकामलापाण्डुरोगिणः |
अभिघातविषार्तांश्च नातिस्निग्धान् विरेचयेत्||८||
नातिस्निग्धानिति अनतिस्निग्धकायान् नरान्||८||
Adhikarana 7 (9) · Śloka 9
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्|
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्||९||
अवश्यकर्तव्ये विरेचने सति अतिस्निग्धास्निग्धयोः सम्यग्योगकारकं विरेचनं दर्शयन्नाह- नातीत्यादि| स्नेहविरेचनमिति स्निग्धं विरेचनमित्यर्थः| अनतिस्निग्धे स्नेहविरेचनमनतिस्निग्धत्वेन क्रियमाणविरेचनायोगप्रतिषेधार्थम्; अतिस्निग्धस्य स्नेहविरेचनं स्नेहनप्रकर्षादतिवेगं गच्छन् प्रचलितानपि दोषान् निहन्तुं न शक्नोति, दोषास्तु तेन विरेचनेन स्वस्थानात् प्रच्याविता भूयःस्रोतःसु लीयन्ते, तत्प्रतिषेधार्थं रूक्षं विरेचनं सम्यग्योगकारकं दद्यादित्ययमाशयः||९||
Adhikarana 8 (10) · Śloka 10
स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम्|
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते||१०||
सम्यग्योगकारिकां संशोधनसामग्रीमाह- स्नेहस्वेदोपपन्नेनेत्यादि| मात्रावदिति ‘अल्पमात्रं महावेगं’ इत्यादिना वक्ष्यमाणमल्पमात्रावत्त्वं ज्ञेयम्| एकाग्रमनसेति संशोधनैकचित्तेन, कामादिव्यग्रमनसो हि वेगविघातादयोगः स्यात्||१०||
Adhikarana 9 (11-13) · Śloka 13
स्निग्धात् पात्राद्यथा तोयमयत्नेन प्रणुद्यते|
कफादयः प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधैः||११||
आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वतः|
तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान्||१२||
क्लिष्टं वासो यथोत्क्लेश्य मलः संशोध्यतेऽम्भसा|
स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते शोधनैर्मलः ||१३||
स्नेहस्वेदयोः फलं ‘स्निग्धात् पात्रात्’ इत्यादिना भूरिदृष्टान्तेन दर्शयन् स्नेहस्वेदयोरवश्यकर्तव्यतां सूचयति| अयत्नेनेति अल्पायासेन| प्रणुद्यन्ते इति आकृष्यन्ते| विष्यन्दयति सर्वत इति सर्वतः स्थितं द्रवमाकर्षति| अग्निदृष्टान्तेन स्निग्धगात्रस्य सम्यग्दोषहरणमुच्यते, तृतीयदृष्टान्तेन तु स्नेहस्वेदयोर्मिलितयोः फलमुच्यते| क्लिष्टमिति म्लानम्| उत्क्लेश्येति क्षाराग्निसम्बन्धात् समुत्क्लेश्य||११-१३||
Adhikarana 10 (14) · Śloka 14
अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते|
पीतं संशोधनं चैव विपरीतं प्रवर्तते||१४||
शोधनसम्यग्योगसामग्र्यभिधाने प्रोक्तस्नेहस्वेदयोः फलमभिधाय, क्रमागतस्य जीर्णे पीतमित्यस्य विपर्यये दोषमाह- अजीर्णे वर्धते ग्लानिरिति; अजीर्णावस्थायां पीते शोधने सति ग्लानिर्महती भवति| विपरीतं प्रवर्तते इति वमनमधो याति, विरेचनं चोर्ध्वं याति||१४||
Adhikarana 11 (15-16) · Śloka 16
अल्पमात्रं महावेगं बहुदोषहरं सुखम्|
लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम्||१५||
अविकारि च व्यापत्तौ नातिग्लानिकरं च यत्|
गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम्||१६||
मात्रावदिति यदुक्तं तद्विवृणोति- अल्पमात्रमित्यादि| अल्पमात्रं महावेगमिति अल्पमात्रत्वे सत्यपि प्रशस्तमहावेगम्| अविकारीति व्यापत्तावपि ईषद्विकारकारि| मात्रावदिति प्रशस्तमात्रावत्| यद्यपि च सुखास्वादादयो मात्रायाः फलं न भवन्ति, तथाऽपीह मात्रायाः प्रशस्तत्वेन द्रव्यसंस्कारादिविशेषाधीना अपि ते गृह्यन्ते; सुखाद्याश्रयद्रव्यगतत्वमपि हि मात्रायाः प्राशस्त्यमिह; किंवा, एवम्भूते एव संशोधने एतन्मात्रावत्त्वं परिभाषितं ज्ञेयम्||१५-१६||
Adhikarana 12 (17) · Śloka 17
विधूय मानसान् दोषान् कामादीनशुभोदयान् |
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते||१७||
एकाग्रमनसेति यदुक्तं तद्विवृणोति- विधूयेत्यादि||१७||
Adhikarana 13 (18) · Śloka 19
नरः श्वो वमनं पाता भुञ्जीत कफवर्धनम्|
सुजरं द्रवभूयिष्ठं, लघ्वशीतं विरेचनम्||१८||
उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषाः स्रवन्ति हि|१९|
वमनविरेचनयोः पूर्वदिने यथा भोक्तव्यं तदाह- नर इत्यादि| एतत् प्रागुक्तमपि प्रकरणवशाद्विशेषाभिधित्सयाऽभिधीयते| पातेति पातुकामः| द्रवभूयिष्ठमिति च्छेदः| विरेचनं पाता लघु अशीतं च भुञ्जीतेति सम्बन्धः| एवम्भूतभोजनोपपत्तिमाह- उत्क्लिष्टेत्यादि| उत्क्लिष्टाल्पकफत्वेनेति वमनं प्रति उत्क्लिष्टकफत्वेन, विरेचनं प्रति त्वल्पकफत्वेनेति विभागः||१८||-
Adhikarana 14 (19-20) · Śloka 20
पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत्||१९||
ऊर्ध्वं कफानुगे पित्ते विट्पित्तेऽनुकफे त्वधः|
हृतदोषं वदेत् कार्श्यदौर्बल्ये चेत् सलाघवे||२०||
वमनविरेचनयोः शुद्धिलिङ्गानि यद्यपि प्रागुक्तानि, तथाऽपीह शेषौषधमलादिविशेषाभिधानार्थं पुनः पीतौषधस्येत्यादिना तान्यभिधत्ते| कफानुगे पित्ते ऊर्ध्वहृतदोषं वदेत्, विट्पित्ते चानुकफे दृश्यमानेऽधोहृतदोषं वदेदिति योजना; एतत् कफान्तत्वं विरेचनस्य, वमनस्य च पित्तान्तत्वं पूर्वमेव व्याहृतम्| एतत् पित्तान्तत्वं कफान्तत्वं वाऽसम्यक्शुद्धेऽपि दोषस्यानुपूर्व्याऽवस्थानाद्भवतीति कृत्वा लक्षणान्तराण्यपि एतयोः साहचर्येणाह- कार्श्यदौर्बल्ये चेत् सलाघवे इति||१९-२०||
Adhikarana 15 (21) · Śloka 22
वामयेत्तु ततः शेषमौषधं न त्वलाघवे|
स्तैमित्येऽनिलसङ्गे च निरुद्गारेऽपि वामयेत्||२१||
आलाघवात्तनुत्वाच्च कफस्यापत् परं भवेत्|२२|
विरेचनयोगे सावशेष एवौषधे शुद्धिलक्षणदर्शने सति कर्तव्यमाह- वामयेत्तु ततः शेषमौषधमिति; शुद्धिलक्षणे जाते शेषमौषधमुपलभ्य विरेचनातियोगप्रतिषेधार्थं वामयेदित्यर्थः| न त्वलाघवे इत्यनेन लाघवव्यतिरिक्तशेषशुद्धिलक्षणदर्शने सत्यपि न विरेचनशेषौषधवमिः कर्तव्या| वमनौषधप्रयोगे कर्तव्यमाह- स्तैमित्ये इत्यादि| वमनौषधप्रयोगे यावत् स्तैमित्यानिलसङ्गौ वर्तेते, तावन्निरुद्गारेऽपि भेषजे सति वमनं कारयितव्यम्| एतद्वमनावधिमाह- आलाघवात्तनुत्वाच्च कफस्येति| प्रमादाल्लाघवतनुत्वयोः परतः क्रियमाणवमनस्य दोषमाह- आपत् परं भवेदिति; आपदिति अतियोगलक्षणा| अन्ये तु, स्तैमित्ये इत्यादिनाऽपि विरेचनौषधस्यैवावस्थिकं वमनमुच्यते इत्याहुः||२१||-
Adhikarana 16 (22-23) · Śloka 23
वमिते वर्धते वह्निः शमं दोषा व्रजन्ति हि||२२||
वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यलक्षयन्|
तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्||२३||
यथोक्तवमनफलमाह- वमिते वर्धते इत्यादिना| सम्यग्जीर्णलिङ्गान्यलक्षयन्निति संशोधनभेषजस्य वक्ष्यमाणसम्यग्जीर्णलिङ्गान्यलक्षयन्| तानीति जीर्णौषधलिङ्गानि||२२-२३||
Adhikarana 17 (24) · Śloka 24
संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिनः|
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्||२४||
शुद्धस्य पेयादिक्रमोपपत्तिमाह- संशोधनाभ्यामित्यादि| यद्यपि निरूढस्याप्यग्निमान्द्यं भवति, तथाऽपि निरूढस्य तादृगग्निमान्द्यं न भवति येन पेयादिक्रमः क्रियते, अतो निरूहव्युदासार्थं संशोधनाभ्यामिति द्विवचनं कृतम्| या तु सम्यग्विरिक्तलक्षणे “ऊर्जोऽग्निः” (सि.अ.१) इत्यनेनाग्निवृद्धिरुक्ता, सा च विरेचनौषधक्षोभातिसङ्गात् कृताऽग्निमान्द्यापेक्षयाऽग्निवृद्धिः ; तेनेह यात्यग्निर्मन्दतामिति वचनेन समं न विरोधः||२४||
Adhikarana 18 (25) · Śloka 25
कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके|
तर्पणादिक्रमं कुर्यात् पेयाऽभिष्यन्दयेद्धि तान्||२५||
तर्पणादिविषयमाह- कफपित्ते इत्यादि| विशुद्धेऽल्पमिति असम्यग्विशुद्धे| तर्पणादिक्रमे च पेयायाः स्थाने स्वच्छतर्पणं, विलेप्याः स्थाने च घनतर्पणं देयम्||२५||
Adhikarana 19 (26-27) · Śloka 27
अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता|
लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः||२६||
क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा|
अरतिर्बलहानिश्च सावशेषौषधाकृतिः||२७||
जीर्णौषधलिङ्गान्याह- अनुलोम इत्यादि| ऊर्जः बलम्| इन्द्रियशुद्धिः इन्द्रियपाटवम्| उद्गारस्य चौषधगन्धादिविरहित्वमेव शुद्धिः||२६-२७||
Adhikarana 20 (28) · Śloka 28
अकालेऽल्पातिमात्रं च पुराणं न च भावितम्|
असम्यक्संस्कृतं चैव व्यापद्येतौषधं द्रुतम्||२८||
यादृशमौषधं व्यापद्यते तदाह- अकाले इत्यादि| अल्पं वा अतिमात्रं वाऽल्पातिमात्रम्| न च भावितमिति स्वरसैस्तुल्यवीर्यैर्वाऽभावितम्||२८||
Adhikarana 21 (29-30) · Śloka 30
आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः|
जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः||२९||
अयोगादतियोगाच्च दशैता व्यापदो मताः|
प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य च||३०||
संशोधनायोगातियोगजन्या आविष्कृता व्यापदः प्राह- आध्मानमित्यादि| (आध्मानादयश्चामी नावश्यमयोगातियोगान्ते भवन्ति, तेनोपद्रवभूतत्वात् पृथगुक्ताः|) एता व्यापदः प्रेष्यादिवैगुण्यादुत्पन्ना अयोगादतियोगाच्च भवन्तीति वाक्यार्थः| तत्राध्मानमयोगाद्भवति, परिकर्तिका त्वतियोगात्, स्रावोऽयोगात्, हृद्ग्रहोऽप्ययोगादेव, तथाऽङ्गग्रहोऽयोगाच्च भवति, जीवादानमतियोगात्; विभ्रंशस्तु गुदभ्रंश-सञ्ज्ञाभ्रंश-कण्ड्वादिलक्षणभ्रंशभेदात्त्रिविधो वक्तव्यः; गुदभ्रंश-सञ्ज्ञाभ्रंशावतियोगजन्यौ, शेषस्तु विभ्रंशोऽयोगजन्यः; उपद्रवोऽप्ययोगजन्य एव, क्लमोऽप्ययोगजः| एतेषां चायोगातियोगजन्यत्वविभाग उत्तरग्रन्थे स्फुटो भविष्यति| यद्यपि चायोगातियोगमिथ्यायोगास्तत्र तत्र कारणत्वेनोक्ताः, तथाऽपीह वमनविरेचनयोर्मिथ्यायोगं नेच्छति; यतो दोषाणां चतुर्विधैव प्रवृत्तिर्भवति, यत्- अतिप्रवृतिः, असम्यक्प्रवृत्तिर्वा, अप्रवृत्तिः, अल्पप्रवृत्तिर्वा; तत्राप्यप्रवृत्त्यल्पवृत्ती अयोगगृहीते एव; याऽपि चात्र प्रातिलोम्येन प्रवृत्तिः, साऽपि दोषस्यापेक्षितस्याप्रवर्तकत्वादयोगगृहीततैव; वक्ष्यति हि “अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्” इति||२९-३०||
Adhikarana 22 (31-34) · Śloka 34
योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्तनम्|
अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्||३१||
श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु|
विरेचनमजीर्णे च पीतमूर्ध्वं प्रवर्तते||३२||
क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा|
तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम्||३३||
प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः|
अयोगसञ्ज्ञे, कृच्छ्रेण याति दोषो नवाऽल्पशः||३४||
योगातियोगायोगस्वरूपमाह- योग इत्यादि| अतिवर्तनमिति संशोध्यातिरिक्तप्रवर्तनम्| प्रातिलोम्येनेति वमनस्य विरेचनेन, विरेचनस्य वमनेन प्रवर्तनम्; एतच्च प्रातिलोम्यप्रवर्तनं प्रायो विवक्षितदोषाप्रवर्तकतयैवायोगनिक्षिप्तम्| न चाल्पं वा प्रवर्तनमिति सर्वथाऽप्रवर्तनमल्पं वा प्रवर्तनमिति| स्थितमिति झटिति ऊर्ध्वं गच्छत् | एतत्प्रातिलोम्यप्रवृत्त्या यथाऽयोगत्वं तदाह- प्रातिलोम्येनेत्यादि| प्रातिलोम्येनाकृत्स्नहरणात् अयोगसञ्ज्ञे ते इति योज्यम्| प्रातिलोम्यहरणेऽकृस्नदोषहरणमेव दर्शयन्नाह- कृच्छ्रेणेत्यादि| प्रतिलोमहरणे कृत्स्नो दोषो न याति, अल्पशो वा यातीति भावः; तेनाकृत्स्नदोषहरणं प्रतिलोमहरणे उपपन्नमिति भावः| ‘कृच्छ्रेण यदागच्छति चाल्पश’ इति पाठे, यच्छब्दो हेतौ; पूर्वत्र पाठे वा शब्दो हेतौ||३१-३४||
Adhikarana 23 (35-36) · Śloka 36
पीतौषधो न शुद्धश्चेज्जीर्णे तस्मिन् पुनः पिबेत्|
औषधं न त्वजीर्णेऽन्यद्भयं स्यादतियोगतः||३५||
कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च|
अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा||३६||
आध्मानादीनामयोगातियोगौ कारणत्वेनोक्तौ, तेन कारणयोरयोगातियोगयोः प्रथमं हेतुलिङ्गचिकित्सितानि प्राह- पीतौषध इत्यादि| जीर्णे इति औषधे जीर्णे| पुनः पिबेदिति तदहरेव| भयं स्यादतियोगत इति पूर्वाजीर्णौषधनवीनौषधाभ्यामतियोगः स्यात्| मृदु वा दद्यादित्यादौ गुरुकोष्ठे बलवति तीक्ष्णं, लघुकोष्ठे दुर्बले च मृदु दद्यादिति व्यवस्था||३५-३६||
Adhikarana 24 (37) · Śloka 37
वमनं न तु दुश्छर्दं दुष्कोष्ठं न विरेचनम्|
पाययेतौषधं भूयो हन्यात् पीतं पुनर्हि तौ||३७||
पुनर्वमनविरेचनादानविषयौ प्राह- वमनं न त्वित्यादि| पुनः पीतं तु हन्यादित्यर्थः||३७||
Adhikarana 25 (38-39) · Śloka 39
अस्निग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम्|
दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गदान्||३८||
विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं भृशम् |
पिण्डिकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्||३९||
स्तोकप्रवृत्तिरूपमयोगं कारणभेदेनाह- अस्निग्धेत्यादि| अस्निग्धस्येति असम्यक्स्निग्धस्य| रूक्षस्येति न मनागपि स्निग्धस्य| अनवमिति जीर्णतया मन्दवीर्यम्| निर्हर्तुमिति निःशेषेण हर्तुम्| विभ्रंशमिति विपरीतप्रवृत्तिसामर्थ्यम्||३८-३९||
Adhikarana 26 (40-44) · Śloka 44
स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम्|
शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत्||४०||
तानेव जनयेद्रोगानयोगः सर्व एव सः|
विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम्||४१||
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः|
पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत्||४२||
निरूढं च रसैर्धान्वैर्भोजयित्वाऽनुवासयेत्|
फलमागधिकादारुसिद्धतैलेन मात्रया||४३||
स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्|
न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते||४४||
अपरमयोगमाह- स्निग्धस्विन्नस्य चेत्यादि| जीर्णमिति अल्पत्वाद्दीप्ताग्नित्वाच्च जीर्णम्| आमे इति अपक्वे दोषे, ‘पीतं’ इति शेषः| एतेऽत्रायोगलक्षणत्रयेण ये प्रतिपादिता गदा न ते भिन्नसामग्रीजन्या भिन्नचिकित्सा वा, तेन न पूर्वमयोगजन्यव्यापत्तिप्रस्तावे पठिताः; एवमतियोगलक्षणतया वक्ष्यमाणगदेष्वपि वाच्यम्| यथोक्तमिति ‘पीतौषधो न शुद्धश्चेत्’ इत्यादिनोक्तं; किंवाऽग्रे ‘तं तैल’ इत्यादिग्रन्थेनोक्तम्| पाययेतेति संशोधनं पाययेत| धान्वैरिति धन्वमृगपक्षिमांसरसैः||४०-४४||
Adhikarana 27 (45-51) · Śloka 51
अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्|
हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान्||४५||
बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं तृषाम्|
कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्||४६||
वमने तु विरेकः स्याद्विरेके वमनं पुनः |
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत्||४७||
कषायमधुरैः शीतैरन्नपानौषधैस्तथा|
रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि||४८||
अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम्|
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||४९||
शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्|
वर्चःसाङ्ग्राहिकैः सिद्धं क्षीरं भोज्यं च दापयेत्||५०||
जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते|
मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा||५१||
अतियोगस्य हेत्वादिकमाह- अतितीक्ष्णमित्यादि| इयं च सामग्री विरेचनातियोगस्यैव घटते; यतो मृदुकोष्ठे बुभुक्षिते च विट्पित्तकफहरणक्रमेण च सैवातियुज्यते ; वमनातियोगसामग्री चानेनोदाहरणेनोन्नेया; किंवा, अतितीक्ष्णमिति पदेनैव वमनस्याप्यतितीक्ष्णत्वमतियोगकारणमुक्तं, विट्पित्तकफहरणं यथायोग्यतया क्रमेण विरेचने वमने च बोद्धव्यम्| शेषमौषधमुल्लिखेदिति तादात्विकी चिकित्सा| मृद्वितिपदं वमनेन विरेचनेन च सम्बध्यते| वटादीनामिति न्यग्रोधोदुम्बराश्वत्थकपीतनानाम्| वर्चःसङ्ग्राहिकाः षड्विरेचनशताश्रितीयोक्ताः प्रियङ्ग्वनन्तादयः||४५-५१||
Adhikarana 28 (52-56) · Śloka 56
वमनस्यातियोगे तु शीताम्बुपरिषेचितः|
पिबेत् कफहरैर्मन्थं सघृतक्षौद्रशर्करम्||५२||
सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः|
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||५३||
वमतोऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः|
स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः||५४||
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः|
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||५५||
वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्|
यवागूं तनुकां दद्यात् स्नेहस्वेदौ च बुद्धिमान्||५६||
पुरतोऽम्लफलखादनं मुखस्रावणेन जिह्वास्तब्धत्वं हन्तुम् | अतियोगे निःसृतामिति जिह्वाविशेषणम्||५२-५६||
Adhikarana 29 (57) · Śloka 57
वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घितः|
अग्निप्राणविवृद्ध्यर्थं क्रमं पेयादिकं भजेत् ||५७||
अतियोगेऽपि यथा पेयादिक्रमो भवति तदाह- वमितश्चेत्यादि| अतिहरणादतिवमितोऽतिविरिक्तश्चेति बोद्धव्यम्||५७||
Adhikarana 30 (58-60) · Śloka 60
बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम्|
सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य च||५८||
भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्|
श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम्||५९||
अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्|
उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते||६०||
अयोगातियोगयोराध्मानादिव्यापदां यथाक्रमं हेतुलिङ्गचिकित्सादि निर्दिशन्नाह- बहुदोषस्येत्यादि| एताश्च व्यापदो नावश्यमतियोगायोगयोर्भवन्ति, उपद्रवभूतत्वात् ; अत एवोपकल्पनीये- “अतियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्”- “आध्मानं परिकर्तिका”(सू.अ.१५) इत्यादिना ग्रन्थेन एता दश व्यापदः प्रतिपादिताः||५८-६०||
Adhikarana 31 (61-63) · Śloka 63
स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम्|
क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा||६१||
पीतं गत्वा गुदं साममाशु दोषं निरस्य च|
तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम्||६२||
लङ्घनं पाचनं सामे रूक्षोष्णं लघुभोजनम्|
बृंहणीयो विधिः सर्वः क्षामस्य मधुरस्तथा||६३||
परिकर्तिकामाह- स्निग्धेनेत्यादि| पीतं गत्वा गुदमित्यादि विरेचनातियोगजन्यपरिकर्तिकायां सङ्गतं, न वमनातियोगजन्यपरिकर्तिकायाम्; उपकल्पनीये च साक्षाद्वमनायोगातियोगजन्यतयैवाध्मानादय उक्ताः, तेनानुक्तोऽपि वमनव्यापत्तौ परिकर्तोऽनेनोदाहरणेन कल्पनीयः; तन्त्रान्तरेऽप्युक्तं- ‘या तु परिकर्तिका विरेचने, तद्वमने कण्ठकर्षणं; योऽधःपरिस्रावो विरेचने, स वमने कफप्रसेकः” (सु.चि.अ.३४) इति; तदनया दिशा आध्मानादीनि वमनविरेचनयोरयोगातियोगजन्यतया व्याख्यातानीत्येके| आशु दोषं निरस्येति वमनातियोगजन्येयं व्यापत्| अत्र लङ्घनादिक्रिया अतियोगे सत्यप्यामपाचनाय ज्ञेया| क्षामेण मृदुकोष्ठेनेत्यादिसम्प्राप्तिजनितस्य क्षामपुरुषप्रभवस्य लङ्घनपाचनाद्यमुपक्रान्तमेव||६१-६३||
Adhikarana 32 (64-67) · Śloka 67
आमे जीर्णेऽनुबन्धश्चेत् क्षाराम्लं लघु शस्यते|
पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा||६४||
सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति|
दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा||६५||
देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत्|
अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पयः||६६||
कषायमधुरं शीतं पिच्छाबस्तिमथापि वा|
यष्टीमधुकसिद्धं वा स्नेहबस्तिं प्रदापयेत्||६७||
आमावस्थाकर्तव्यमाह- आमे जीर्ण इत्यादि| क्षाराम्लं लघु शस्यत इति अतीसारे यदुक्तं- “चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्| घृतं” (चि.अ.१९) इति; लघुमात्रं च शस्यत इति ज्ञेयम्| पुष्पकासीसमित्यत्र पुष्पशब्देन केचित् साङ्ग्राहिकानि धातकीकुसुमादीनि ग्राहयन्ति||६४-६७||
Adhikarana 33 (68-70) · Śloka 70
अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम्|
अल्पाल्पं स्रावयेत् कण्डूं शोफं कुष्ठानि गौरवम्||६८||
कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुताः|
परिस्रावः स, तं दोषं शमयेद्वामयेदपि||६९||
स्नेहितं वा पुनस्तीक्ष्णं पाययेत् विरेचनम्|
शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रदापयेत्||७०||
अल्पमित्यादिना परिस्रावमाह| शमयेद्वामयेदपीत्यादौ अल्पदोषे शमनं, बहुदोषे ऊर्ध्वगतदोषे तु वमनमिति व्यवस्था| वामयेदपीत्यत्रापि स्नेहितं पुनरिति सम्बध्यते| चूर्णासवारिष्टा ग्रहण्यर्शश्चिकित्सादिषु ज्ञेयाः||६८-७०||
Adhikarana 34 (71-75) · Śloka 75
पीतौषधस्य वेगानां निग्रहान्मारुतादयः|
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्||७१||
स हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमैः|
जिह्वां खादति निःसञ्ज्ञो दन्तान् किटिकिटापयन्||७२||
न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्|
मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्||७३||
पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्|
कायाग्निं च बलं चास्य क्रमेणोत्थापयेत्ततः ||७४||
पवनेनातिवमतो हृदयं यस्य पीड्यते|
तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफेऽन्यथा||७५||
पीतौषधस्येत्यादिना हृद्ग्रहमाह| न गच्छेद्विभ्रमं तत्रेति हृद्ग्रहपीडितोऽयं म्रियमाणो वाऽयमिति भ्रान्तिं न गच्छेदित्यर्थः| वमनं चात्र मूर्च्छिते दुःशकप्रयोगं, तेन मूर्च्छारम्भ एव वमनं कारयितव्यं; किंवा मूर्च्छायामप्यङ्गुलीप्रवेशादिना वमनं कारयितव्यम्| पित्तमूर्च्छार्तमिति पित्तप्रबलदोषजनितमूर्च्छार्तम्| अतिवमत इति वमनायातिप्रवाहणं कुर्वतः| पित्तकफेऽन्यथेति पित्ते कफे वा हृदयपीडाकरे स्निग्धाम्ललवणविपरीतं रूक्षतिक्तकटुकादिक्रमं कुर्यात्||७१-७५||
Adhikarana 35 (76-77) · Śloka 77
पीतौषधस्य वेगानां निग्रहेण कफेन वा|
रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः||७६||
स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनैः|
तत्र वातहरं सर्वं स्नेहस्वेदादि कारयेत् ||७७||
पीतौषधस्येत्यादिना अङ्गग्रहणमयोगजमतियोगजं चाह| कफेन वा रुद्धो दोषः पुनरङ्गानि निगृह्णाति; शुद्धस्य वा मारुतः कुपितोऽङ्गानि प्रतिगृह्णाति स्तम्भादिभिः||७६-७७||
Adhikarana 36 (78-84) · Śloka 84
अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्|
दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम्||७८||
तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा|
भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत्||७९||
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा|
प्रक्षालितं विवर्णं स्यात् पित्ते शुद्धं तु शोणिते||८०||
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्|
तस्य पित्तहरीं सर्वामतियोगे च या हिता ||८१||
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्|
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति ||८२||
तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्|
श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः||८३||
घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्|
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||८४||
अतितीक्ष्णमित्यादिना जीवादानमाह| लघुदोषस्येति स्वल्पदोषस्य| विनिर्मथ्येति शोणितमेव क्षोभयित्वा | जीवमिति जीवनहेतुधातुरूपं शोणितम्| शोणितं किञ्चिद्रक्तपित्तक्षोभाद्भवति, किञ्चिच्च जीवशोणितं भवति; तद्विशेषपरीक्षार्थमाह- तेनान्नमित्यादि| पित्तमादिशेदिति शोणितगतं पित्तमादिशेद् रक्तपित्तमिति यावत्| आवानमिति शुष्कम्| पित्ते इति रक्तपित्ते सति क्षालितं वस्त्रं विवर्णं भवति, जीवशोणिते तु सति शुद्धं वस्त्रं भवति| परीक्षा च चिकित्साभेदार्थमेव; रक्तपित्ते रक्तपित्तहरी क्रिया, जीवशोणितं तु दृष्ट्वा ‘तृष्णामूर्च्छामदार्तस्य’ इत्यादिनोक्ता कर्तव्या| अतियोगे च या हितेति अत्रैव ‘परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम्’ इत्यादिनोक्ता ज्ञेया| जीवं तद्ध्याशु गच्छतीति असृक्प्रभावादाश्वेव शोणितरूपतां याति सद्यस्कमसृक्| श्यामेत्यादौ श्यामा प्रियङ्गुः||७८-८४||
Adhikarana 37 (85-87) · Śloka 87
गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्|
साम गान्धर्वशब्दांश्च सञ्ज्ञानाशेऽस्य कारयेत्||८५||
यदा विरेचनं पीतं विडन्तमवतिष्ठते|
वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत्||८६||
तदा कुर्वन्ति कण्ड्वादीन् दोषाः प्रकुपिता गदान्|
स विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम्||८७||
गुदं भ्रष्टमित्यादिना गुदभ्रंशरूपं विभ्रंशमाह| कषायैरिति कषायरसैः| सामेत्यादिना सञ्ज्ञाविभ्रंशरूपविभ्रंशचिकित्सामाह| साम सान्त्वनम्| गान्धर्वशब्दो गीतम्| एतौ च विभ्रंशावतियोगजन्यौ| यदेत्यादिना तृतीयमयोगजन्यविभ्रंशमाह| विडन्तमवतिष्ठत इति मलमात्रमपहृत्यावतिष्ठते| भेषजान्तमिति भेषजमात्रं वमनेनावतिष्ठते| नावहेदिति नापहरति| एतद्व्यापदश्च विभ्रंशसञ्ज्ञा पारिभाषिकी| यथाव्याधिभेषजमिति कण्ड्वादिविपरीतं भेषजम्||८५-८७||
Adhikarana 38 (88-89) · Śloka 89
पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्वृतम्|
न वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च्युतान्||८८||
वातसङ्गगुदस्तम्भशूलैः क्षरति चाल्पशः|
तीक्ष्णं बस्तिं विरेकं वा सोऽर्हो लङ्घितपाचितः||८९||
पीतं स्निग्धेनेत्यादिना स्तम्भमाह| मार्दवाद्वृतमिति भेषजस्य मृदुतया दोषैर्वृतम्| स्वस्थानाच्च्युतान् स्तम्भयेदिति योजनीयम्| सोऽर्ह इति लङ्घनपाचनानन्तरं तीक्ष्णं बस्तिं विरेकं वा तीक्ष्णमर्हतीत्यर्थः||८८-८९||
Adhikarana 39 (90-91) · Śloka 91
रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा|
मारुतं कोपयित्वाऽऽशु कुर्याद्धोरानुपद्रवान्||९०||
स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यतः|
स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधिः||९१||
रूक्षमित्यादिना उपद्रवानाह| यद्यप्याध्मानादयोऽप्यमी उपद्रवा एव, तथाऽपि तेषां सञ्ज्ञान्तरेणैव गृहीतत्वाच्छूलादय एव उपद्रवशब्दाभिहिताः| शूलादयश्चामी प्रधानान्युत्तरकालभावित्वादनुपद्रवरूपा अप्युपद्रवशब्देनोच्यन्ते; यथा- “धूमः कुर्यादुपद्रवान्” (सू.अ.५) इति; किंवा, अयोगाख्यस्य व्याधेरमी उपद्रवा इति ज्ञेयम्||९०-९१||
Adhikarana 40 (92-93) · Śloka 93
स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम्|
पित्तं वातं च संरुध्य सतन्द्रागौरवं क्लमम्||९२||
दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत्|
लङ्घनं पाचनं चात्र स्निग्धं तीक्ष्णं च शोधनम्||९३||
स्निग्धस्येत्यादिना क्लममाह| कफं पित्तं चोत्क्लिश्य वातं च ताभ्यामेव संरुध्य भेषजं तन्द्रादियुक्तं क्लमं कुर्यात्| तदुल्लिखेदिति तद् भेषजं कफपित्तं चोल्लिखेदित्यर्थः||९२-९३||
Adhikarana 41 (94-95) · Śloka 95
तत्र श्लोकौ- इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः|
वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम् ||९४||
एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः|
दद्यात् संशोधनं सम्यगारोग्यार्थी नृणां सदा||९५||
इत्येता इत्यादिना अध्यायार्थसङ्ग्रहं दर्शयित्वा व्यापदुत्पादहेतुमाह| दद्यात् संशोधनं सम्यगिति तथा संशोधनं दद्याद् यथा व्यापदो नोत्पद्यन्त एवेत्यर्थः||९४-९५||
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिर्नाम षष्ठोऽध्यायः||६||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धि(संशोधनव्यापत्सिद्धि)र्नाम षष्ठोऽध्यायः||६||