Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. snēhavyāpatsiddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः स्नेहव्यापत्सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वसिद्धौ बिल्वतैलादीन्यभ्यङ्गसेवानुवासनार्थं निर्दिष्टानि, तदभिधायिका चेयं सिद्धिरित्यनन्तरं स्नेहव्यापत्सिद्धिरुच्यते; स्नेहानामानुवासनिकानां तद्व्यापदां च भेषजानामभिधायिका सिद्धिः||१-२||

Adhikarana 2 (3) · Śloka 3

स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान्| मिथ्याप्रणिहितानां च व्यापदः सचिकित्सिताः||३||

🔊 Audio coming soon

अध्यायवक्तव्यमाह- स्नेहबस्तीनित्यादि| बस्तिप्रयोज्याः स्नेहा एतच्छ्लोकाभिहिता इत्यर्थः; प्रपञ्चानभिधेया ये त्वपरेऽत्रार्थाः “स्नेहबस्तिं निरूहं च” इत्यादिना वक्तव्याः, ते न प्रपञ्चवाच्या इति ते न प्रतिज्ञाताः||३||

Adhikarana 3 (4-7) · Śloka 7

दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्| गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्||४|| शतावरीं सहचरं काकनासां पलांशिकम् | यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्||५|| चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च| तैलाढकं समक्षीरं जीवनीयैः पलोन्मितैः||६|| अनुवासनमेतद्धि सर्ववातविकारनुत्| आनूपानां वसा तद्वज्जीवनीयोपसाधिता||७||

🔊 Audio coming soon

दशमूलमित्यादौ भूतीकं कत्तृणं यवानिका वा; काकनासा वायसीफलम्, अन्ये तु वासाफलं ‘कायुयाटुटी’ इति ख्यातं द्रव्यान्तरमेवाहुः| एतद् दशमूलस्थितबिल्वेन बिल्वतैलमिति वदन्ति||४-७||

Adhikarana 4 (8) · Śloka 8

शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे| सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम्||८||

🔊 Audio coming soon

आनूपानामित्यादौ तद्वदिति पूर्वक्वाथेन साधिता| शताह्वेत्यादि योगान्तरम्| सैन्धवेनेत्यपि योगान्तरम्||८||

Adhikarana 5 (9-12) · Śloka 12

जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्| शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्||९|| स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम्| पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे||१०|| बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्| मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम्||११|| लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम्| तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्||१२||

🔊 Audio coming soon

जीवन्तीमित्यादिना यमकमनुवासनम्| एतद्यमकं पूर्वाध्याये जीवनीयसञ्ज्ञया व्यापदिष्टम्| लाभत इति यथालाभम्| चन्दनाद्यं ज्वरचिकित्सितोक्तम्| तैलं पादं यस्मिन् तत् तैलपादम्||९-१२||

Adhikarana 6 (13-17) · Śloka 17

सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम् | ह्रीवेरं मधुकं भार्गीं देवदारु सकट्फलम्||१३|| नागरं पुष्करं मेदां चविकां चित्रकं शटीम्| विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम्||१४|| बिल्वाजमोदे कृष्णां च दन्तीं रास्नां च पेषयेत्| साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत्||१५|| व्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्| आनाहमश्मरीं चैव हन्यात्तदनुवासनात्||१६|| मदनैर्वाऽम्लसंयुक्तैर्बिल्वाद्येन गणेन वा| तैलं कफहरैर्वाऽपि कफघ्नं कल्पयेद्भिषक्||१७||

🔊 Audio coming soon

मदनैर्वाऽम्लसंयुक्तैरित्यत्र मदनस्य कल्कत्वम्, काञ्जिकादीनामम्लानां द्रवत्वम्| एतच्च मदनतैलमिति ख्यातम्| बिल्वाद्यो गणः दशमूलं; दशमूलं चात्र क्वाथकल्काभ्यामपि देयम्| उक्तं हि- “क्वाथकल्कावनिर्देशे गणात्तस्मात् समावपेत्” इति| कफहरैरिति पूर्वोध्यायोक्तकफहरभेषजैः, किंवा त्रिकटुकपञ्चकोलादिभिः||१३-१७||

Adhikarana 7 (18-24) · Śloka 24

विडङ्गैरण्डरजनीपटोलत्रिफलामृताः| जातीप्रवालनिर्गुण्डीदशमूलाखुपर्णिकाः||१८|| निम्बपाठासहचरशम्पाककरवीरकाः| एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितैः||१९|| फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः| सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकैः||२०|| लतागौरीशताह्वाग्निशटीचोरकपौष्करैः | तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम्||२१|| क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा| प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः||२२|| व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम्| क्षीणशुक्रस्य चातीव स्नेहवस्तिर्बलप्रदः||२३|| पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम्| जनयेदप्रजानां च प्रजां स्त्रीणां तथा नृणाम्||२४||

🔊 Audio coming soon

विडङ्गेत्यादौ एभिश्च कल्कितैरिति वक्ष्यमाणैः| लता मञ्जिष्ठा, गौरी हरिद्रा| स्नेहबस्तिर्बलप्रद इति एतैस्तैलैः कृतः स्नेहबस्तिरित्यर्थः||१८-२४||

Adhikarana 8 (25) · Śloka 25

वातपित्तकफात्यन्नपुरीषैरावृतस्य च| अभुक्ते च प्रणीतस्य स्नेहबस्तेः षडापदः||२५||

🔊 Audio coming soon

वातपित्तेत्यादिना स्नेहबस्तेर्व्यापदः प्राह| एताश्च व्यापदो मिथ्यायोगेन स्नेहस्य क्रियमाणा उच्यन्ते; प्रतिज्ञातं हि ‘मिथ्याप्रणिहितानां च व्यापद’ इति, तेन स्नेहायोगातियोगजन्यव्यापदामिहानवसर एव; अनुवासनायोगातियोगजन्याश्च व्यापदः कल्पनासिद्धावेवोक्ताः; तद्भेषजं चातिस्नेहिते शोधनबस्तिः, अस्नेहिते पुनः स्नेहबस्तिदानमेव ज्ञेयम्| एतच्च “तस्मान्निरूढः संस्नेह्यो निरूह्यश्चानुवासितः” इत्यादिनोक्तत्वात् प्रसङ्गेनेहोक्तम् ||२५||

Adhikarana 9 (26-28) · Śloka 28

शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः| अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा||२६|| दत्तस्तैरावृतः स्नेहो न यात्यभिभवादपि | अभुक्तेऽनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम्||२७|| अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः | पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक्||२८||

🔊 Audio coming soon

यथाक्रमं षड्व्यापदां हेतुमाह- शीत इत्यादि| गुरुरिति गुरुत्वयुक्तः | वर्चःसञ्चयेऽल्पबल इति सञ्चिते मले सति अल्पबलो वर्चःसञ्चयप्रवर्तनाक्षम इत्यर्थः| तैरावृत इति पदं प्रत्येकं वातादिषु पञ्चसु योजनीयम्| अभिभवादपीति वातादिनाऽऽवृतमार्गत्वान्न याति; तथा तेन वातादिनोल्बणेनाभिभूतगुणत्वाच्च न आयाति| अनावृतत्वादिति अन्नेनोर्ध्वमार्गस्यापिहितत्वात्| तस्य लक्षणमिति यथाक्रमं वाताद्यावृतस्य लक्षणं वक्ष्यमाणमङ्गमर्दादि| वेष्टनैरिति पार्श्ववेष्टनैरेव| एते च स्तम्भादयो वातावृतस्नेहमहिम्नैव जायन्ते, तेन स्नेहप्रयोगात् पूर्वं न भवन्त्येव||२६-२८||

Adhikarana 10 (29-31) · Śloka 31

स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः | सौवीरकसुराकोलकुलत्थयवसाधितैः||२९|| निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः| ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्||३०|| दाहरागतृषामोहतमकज्वरदूषणैः| विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्||३१||

🔊 Audio coming soon

रास्नातैलं “रास्नासहस्रनिर्यूहे” (चि.अ.२८) इत्यादिना विहितं वातव्याधावुक्तम्| पीतद्रुतैलं च पीतद्रु-सौवीरकादिद्रवेण साध्यमिति ब्रुवते| ताभ्यामिति रास्नापीतद्रुतैलाभ्याम्||२९-३१||

Adhikarana 11 (32-33) · Śloka 33

तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः| सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्||३२|| कषायकटुतीक्ष्णोष्णैः सुरामूत्रोपसाधितैः| फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||३३||

🔊 Audio coming soon

फलतैलं पूर्वव्याहृतमेव ज्ञेयम्||३२-३३||

Adhikarana 12 (34-35) · Śloka 35

छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः | आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्||३४|| कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्| विरेको मृदुरत्रामविहिता च क्रिया हिता||३५||

🔊 Audio coming soon

आमलिङ्गैरिति आमलक्षणैरालस्यादिभिः| आमविहिता क्रियेति “आमं प्रदुष्टमन्नाभिभूतं पुनरुल्लिखेत्” (वि.अ.२) इत्यादिना विहिताऽनुसर्तव्या||३४-३५||

Adhikarana 13 (36-37) · Śloka 37

विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः| स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः||३६|| श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः| निर्हरेद्विधिना सम्यगुदावर्तहरेण च||३७||

🔊 Audio coming soon

स्नेहं विडावृतमित्यादौ वर्तिभिरिति फलवर्तिभिः, केचित्तु ‘बस्तिभिः’ इति पठन्ति| श्यामाबिल्वादीनि च श्यामा च बिल्वादीनि दशमूलानि च श्यामाबिल्वादीनि; किंवा, श्यामादीन्यप्यत्र कल्पोक्तानि नव गृह्यन्ते; तैर्निरूहस्य तथाऽनुवासनस्य च साधनमिह ज्ञेयम्| उदावर्तहरेणेति त्रिमर्मीयोक्तोदावर्तचिकित्सितेन||३६-३७||

Adhikarana 14 (38-40) · Śloka 40

अभुक्ते शून्यपायौ वा वेगात् स्नेहोऽतिपीडितः| धावत्यूर्ध्वं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि||३८|| मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्| तत्सिद्धतैल इष्टोऽत्र निरूहः सानुवासनः||३९|| कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः| छर्दिघ्नीभिः क्रियाभिश्च तस्य कार्यं निवर्तनम्||४०||

🔊 Audio coming soon

अभुक्ते इत्यादिहेतुत्रयं स्नेहबस्तेरूर्ध्वगमनकारणं ज्ञेयं; पूर्वं च यद्यप्यभोजनदानमेव कारणं प्रतिश्रुतं, तथाऽप्येककार्यतया चिकित्सितसामान्याच्च शून्यपायुत्वातिपीडने अप्यत्र हेतुत्वेनोक्ते; शून्यपायुत्वं चाधोनिरोधाकर्तृतया स्नेहमूर्ध्वं नयति| ऊर्ध्वेभ्यः खेभ्य इति मुखनासादिभ्यः| एतीति निर्गच्छति| अपिशब्दान्मुखादिनिर्गमनस्य कादाचित्कत्वं दर्शयति| तत्सिद्धतैल इति मूत्रश्यामादिसाधिततैलेन युक्तः| सानुवासन इति तत्सिद्धतैलेन चानुवासनं देयम्| आगच्छत इति आगमनसमय एव स्तम्भादि कर्तव्यम्| स्तम्भः व्यजनशीतजलसेकादिना; कण्ठग्रहः ऊर्ध्वगमनप्रतिषेधार्थं कण्ठपीडनम्| छर्दिघ्नीः क्रियाः छर्दिश्चिकित्सिते “मनोऽभिघाते तु मनोऽनुकूलाः” इत्यादिना “सुख एव जेतुम्” (चि.अ.२०) इत्यन्तेनोक्ता इहाभिप्रेता ज्ञेयाः||३८-४०||

Adhikarana 15 (41) · Śloka 41

यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः| सर्वेऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता||४१||

🔊 Audio coming soon

वाताद्यावृतस्नेहप्रवर्तनमभिधाय अप्रवर्तनीयस्नेहमाह- यस्य नोपद्रवमित्यादि| नोपद्रवं कुर्यादिति अनिःसृतोऽपि स्तम्भरुगादीनूर्ध्वोक्तान्न कुर्यात्| अल्पो वाऽऽवृत इति स्तोकनिःसृतः, स्तोकश्च वृतः| वृतस्यापि स्तम्भाद्युपद्रवाकरणे हेतुमाह- रौक्ष्यादिति| तदाऽत्यर्थरूक्षतया शरीरस्य तिष्ठन्नपि स्नेहो न व्यापदमावहतीत्यर्थः; उपेक्ष्य इति न तत्र यथोक्तवातावृतस्नेहचिकित्सा कर्तव्येत्यर्थः; अन्यत्राप्युक्तम्- “अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दूष्यति| कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्” (सु.चि.अ.३७) इति||४१||

Adhikarana 16 (42-45) · Śloka 45

युक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम्| भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्त्र्यहात्||४२|| धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षणः| व्युषिताय निशां कल्यमुष्णं वा केवलं जलम्||४३|| स्नेहाजीर्णं जरयति श्लेष्माणं तद्भिनत्ति च| मारुतस्यानुलोम्यं च कुर्यादुष्णोदकं नृणाम्||४४|| वमने च विरेके च निरूहे सानुवासने| तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये||४५||

🔊 Audio coming soon

उत्पन्नव्यापत्प्रतीकारमभिधायाव्यापन्नानुवासनानुगुणं भोजनमाह- युक्तस्नेहमित्यादि| युक्तस्नेहमिति अव्यापन्नस्नेहमिति भावः| उपसेवनं भोजनम्| त्र्यहादिति विधानं प्रायिकम्| धान्येत्यादौ षडङ्गविधिना तोयं साधनीयम्| कल्यमिति प्रभाते| स्नेहाजीर्णमिति स्नेहस्याजीर्णं कोष्ठोपलेपकमंशम्||४२-४५||

Adhikarana 17 (46-47) · Śloka 47

रूक्षनित्यस्तु दीप्ताग्निर्व्यायामी मारुतामयी| वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने||४६|| एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव| अतोऽन्येषां त्र्यहात्प्रायः स्नेहं पचति पावकः||४७||

🔊 Audio coming soon

प्रत्यहानुवासनीयानाह- रूक्षनित्यस्त्वित्यादि| वङ्क्षणश्रोणिगतश्च तथोदावृत्तश्च वातो येषां ते वङ्क्षणश्रोण्युदावृत्तवाताः| अर्हा इति अनुवासनार्हाः| उक्तं चान्यत्र- “रूक्षस्य बहुवातस्य स्नेहबस्तिं दिने दिने| दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात्” (सु.चि.अ.३७) इति| प्रत्यहदानत्र्यहदानोपपत्तिमाह- एषामित्यादि| त्र्यहात् स्नेहं पचतीति पक्वाशयोपलेपकं स्नेहं बहिर्निःसृतेनोष्मणा पचति; यद्यप्यत्राग्निनोर्ध्वस्थितेन तादृशः सम्बन्धः स्नेहस्य नास्ति, तथाऽपि जाठरस्यैव विमिश्रितैरवयवैस्तत्पाको वक्तव्यः| प्रायःशब्देन पञ्चाहपाकमपि दर्शयति, तेन पञ्चाहदानमप्यनुवासने मन्दाग्निं प्रति प्रागुक्तं ज्ञेयम्, उक्तं हि- “परतस्त्र्यहे वा द्व्यहेऽनुवास्योऽहनि पञ्चमे वा” (सि.अ.१०) इति||४६-४७||

Adhikarana 18 (48-49) · Śloka 49

न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्| सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति||४८|| न चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम्| उभयस्मात् समं गच्छन् वातमग्निं च दूषयेत्||४९||

🔊 Audio coming soon

आममिति अपक्वम्| प्रणयेदिति अनुवासनं दद्यात्| सावशेषं कुर्वीतेति न निःशेषं दद्यात्| गुदकण्ठाभ्यामिति अनुवासनपानाभ्याम्| अनन्तरमिति एककालम्| वातमग्निं च दूषयेदिति अत्र वातदूषणमजीर्णजनकतया वातावरणाच्च ज्ञेयम्||४८-४९||

Adhikarana 19 (50-51) · Śloka 51

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्| उत्क्लेशाग्निवधौ स्नेहान्निरूहात् पवनाद्भयम्||५०|| तस्मान्निरूढः संस्नेह्यो निरूह्यश्चानुवासितः| स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत्||५१||

🔊 Audio coming soon

निरूहानुवासनयोः परस्पराव्यवधानदाने दोषमाह- स्नेहवस्तिं निरूहं वेत्यादि| एकमेविति परस्परानन्तरितम्| उत्क्लेशः कफपित्तोत्क्लेशः| निरूहात् पवनाद्भयमिति निरन्तरनिरूहेण शरीरस्य शोधनातियोगात् पवनाद्भयं भवति| निरूढः संस्नेह्य इति निरूहेण स्रोतःसु शोधितेषु कफपित्तजये कृते स्नेहवस्तिरभ्यस्यः; तथाऽनुवासितश्च सम्यगनुवासनेन हि स्निग्धः सन्निरूह्य एव| एवं प्रयुज्यमानस्नेहनिरूहयोस्त्रिदोषहन्तृत्वं स्नेहेन वातजयान्निरूहेण कफपित्तजयाद्भवतीत्याह- स्नेहशोधनेत्यादि| शोधनमिह निरूहोऽभिप्रेतः||५०-५१||

Adhikarana 20 (52-54) · Śloka 54

कर्मव्यायामभाराध्वया(पा)नस्त्रीकर्षितेषु च| दुर्बले वातभग्ने च मात्राबस्तिः सदा मतः||५२|| यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः| ह्रस्वायाः स्नेहमात्राया मात्राबस्तिः समो भवेत्||५३|| बल्यं सुखोपचर्यं च सुखं सृष्टपुरीषकृत्| स्नेहमात्राविधानं हि बृंहणं वातरोगनुत्||५४||

🔊 Audio coming soon

अनुवासनविशेषस्य मात्राबस्तेर्विषयं प्रमाणं गुणांश्च यथाक्रममाह- कर्मेत्यादि| कर्मात्र कन्दुकचालनादि , व्यायामः धनुराकर्षणादिः| वातभग्ने वातेन पीडिते| सदेति प्रत्यहम्| ह्रस्वाया इति अर्धाहःपरिणमनीयायाः; उक्तं हि- “अहोरात्रमहः कृत्स्नं दिनार्धं च प्रतीक्षते| उत्तमा मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति” (सू.अ.१३) इति| तन्त्रान्तरे स्नेहमात्रात्रयं प्रमाणैरेवोक्तं; यथा- “षट्पली तु भवेज्ज्येष्ठा, मध्यमा त्रिपली भवेत्| कनीयसी सार्धपला त्रिधा मात्राऽनुवासने” इति| सुश्रुतेनापि बस्तिप्रमाणमुक्तं; यथा अनुवासने- “तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिः” (सु.चि.अ.३५) इति| अनेन च सार्धपलमानो मात्राबस्तिरुक्तो भवति; तत्र हि षट्पलः स्नेहबस्तिरुक्तः, अनुवासनं तु त्रिपलम्| सुखोपचर्यमिति चेष्टाहारनियमाभावादेव||५२-५४||

Adhikarana 21 (55-56) · Śloka 56

तत्र श्लोकौ- वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः| तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः||५५|| प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा||५६||

🔊 Audio coming soon

सङ्ग्रहे भोज्यग्रहणेन धान्यनागरजलाद्यपि सङ्ग्राह्यम्| ध्रुवं येऽर्हा इति प्रत्यहमनुवासनीयाः| विधिश्चोक्त इति ‘न त्वामं प्रणयेत्’ इत्यादिग्रन्थोक्तोऽर्थः||५५-५६||

Adhikarana puShpikA · Śloka 4

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने स्नेहव्यापत्सिद्धिर्नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने स्नेहव्यापत्सिद्धिर्नाम चतुर्थोऽध्यायः||४||