Adhikarana 1 (1-2) · Śloka 2
अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सम्प्रति बस्तिव्यापत्प्रशमकबस्त्यभिधायकतयैव प्रासृतयोगीया सिद्धिरुच्यते| प्रसृतोपलक्षिता ये योगाः तानधिकृत्य कृता सिद्धिः; तेन प्रसृतालक्षिता अप्यत्र योगा वक्तव्या एव||१-२||
Adhikarana 2 (3) · Śloka 3
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्|
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्||३||
इमानिति अग्रे वक्ष्यमाणान्| तेनाध्यायशेषवक्तव्यानां नावश्यं प्रसृतोपलक्षितविधानम्| सुकुमाराणामिति तन्वादिगुणसम्बद्धं भवति||३||
Adhikarana 3 (4-6) · Śloka 6
क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः|
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्||४||
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्|
बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातनुत्||५||
पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषोः|
एकैकः प्रसृतो बस्तिः स्नेहनीयोऽनिलापहः||६||
प्रसृतं पलद्वयम्| मधुतैलघृतात्त्रय इति मिलितात्| अत्र च यथोक्तैरेव द्रव्यैर्बस्तिर्देयः; तेन नेतरबस्तिन्यायेनानुक्तकल्कादिकल्पना; यत्र नियतमानद्रव्यविभागेन बस्त्यभिधानं, तत्र सामान्यबस्तिद्रव्यमानानवकाशः; यत्र त्वेकदेशकथनं, तत्र निरूहयोगितयोक्तद्रव्यमानाधिकारः; सैन्धवप्रवेशस्त्वत्याज्य एव| बिल्वादिमूलं दशमूलम्| स वातनुदिति स बस्तिर्वातं हन्तीति||४-६||
Adhikarana 4 (7) · Śloka 7
सैन्धवार्धाक्ष एकैकः क्षौद्रतैलपयोघृतात्|
प्रसृतो हपुषाकर्षो निरूहः शुक्रकृत् परम्||७||
हपुषाकर्षः||७||
Adhikarana 5 (8) · Śloka 9
पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भसः|
चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः||८||
निरूहः पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत् |९|
पटोलेत्यादौ अम्भसः इति क्वाथात्| सर्षपकल्कित इति अत्र यद्यपि कल्कमानं नोक्तं, तथाऽपि द्वादशप्रसृते निरूहे द्विपलकल्कस्य विहितत्वादिह पञ्चप्रसृते तदनुसारात् षड्भागोनं पलं भवति; एवमन्यत्राप्यनुक्तमानकल्कव्यवस्था||८||-
Adhikarana 6 (10) · Śloka 10
विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्||९||
कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्|
विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः||१०||
विडङ्गेत्यादौ फलं मदनफलम्| आखुपर्णी दन्ती||१०||
Adhikarana 7 (11-12) · Śloka 12
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्|
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्||११||
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्|
प्रसृताः सर्षपैः कल्कैर्विट्सङ्गानाहभेदनः ||१२||
पयस्येत्यादौ यद्यपि पयस्यादीनां क्वाथो न श्रूयते, तथाऽपि द्रवान्तरैः सममेकैकप्रसृतविधानात् प्रत्येकं पयस्यादिक्वाथस्य प्रसृतमानत्वम्| वृषत्वकृदिति शुक्रवृद्धिकृत्||११-१२||
Adhikarana 8 (13-14) · Śloka 14
श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्|
प्रसृताः पञ्च यष्ट्याह्वकौन्तीमागधिकासिताः||१३||
कल्कः स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तमः|
एते सलवणाः कोष्णा निरूहाः प्रसृतैर्नव||१४||
श्वदंष्ट्रेत्यादौ श्वदंष्ट्रादिद्रव्यत्रयक्वाथस्य प्रत्येकं प्रसृतमानत्वम्, एवं तैलसुरासवप्रसृताभ्यां सह पञ्चप्रसृताः पूरणीयाः; सुराकृत आसवः सुरासवः||१३-१४||
Adhikarana 9 (15) · Śloka 15
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते|
तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते ||१५||
एतदुक्तमृदुबस्तिप्रयोगानामन्ते कर्तव्यमाह- मृद्वित्यादि| स्वादु प्रत्यास्थापनमिष्यत इत्यत्र स्वादु द्राक्षादिद्रव्यकृतम्| केचित्तदहरेव प्रत्यास्थापनमिच्छन्ति| आस्थापनं लक्ष्यीकृत्य दीयत इति प्रत्यास्थापनम्||१५||
Adhikarana 10 (16-17) · Śloka 17
वातोपसृष्टस्योष्णैः स्युर्गुददाहादयो यदि|
द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्||१६||
तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्|
शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्||१७||
वातोपसृष्टस्येत्यादौ उष्णैरिति बस्तिविशेषणम्| दाहादयो दाहमोहतृडादयो वातपित्तजन्याः| द्राक्षाम्बुना त्रिवृत्पानस्य दाहादिकारके पित्ते वाते च हितत्वं दर्शयन्नाह- तद्धीत्यादि||१६-१७||
Adhikarana 11 (18) · Śloka 18
अथवाऽतिविरिक्तः स्यात् क्षीणविट्कः स भक्षयेत्|
माषयूषेण कुल्माषान् पिबेन्मध्वथवा सुराम्||१८||
कुल्माषा इति अर्धस्विन्नयवादिमया भक्ष्याः||१८||
Adhikarana 12 (19) · Śloka 19
सामं चेत् कुणपं शूलैरुपविशेदरोचकी|
स घनातिविषाकुष्ठनतदारुवचाः पिबेत्||१९||
बस्तिमिथ्याप्रयोगोदीरितानामतीसारभेदानां चिकित्सितमाह- सामं चेदित्यादि| सामं यथा स्यात् तथोपविशेदिति; तेन मलादिव्यतिरिक्ताममात्रोपवेशरूपोऽयमतीसारः केवलामशकृद्वातरक्तपित्तकफजन्यानामिह षण्णामतीसाराणां वक्तव्यानां प्रथम उक्तो भवति| कुणपमिति शवगन्धम्| शूलैः ‘युक्त’ इति शेषः| घनं मुस्तकम्||१९||
Adhikarana 13 (20) · Śloka 20
शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते|
पक्वं , तत्र स्ववर्गीयैर्बस्तिः श्रेष्ठं भिषग्जितम्||२०||
केवलशकृदादिजन्यांश्चातिसारानाह- शकृद्वातमित्यादि| पक्वमिति निरामम्| आमशब्देनेहाग्निदौर्बल्यादविपक्वाहाररस एव कोष्ठोपलेपक आमो गृह्यते; यदुक्तमन्यत्र- “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आम इति सञ्ज्ञितः” इति| स्ववर्गीयैरिति पुरीषसङ्ग्रहणवातघ्नशोणितास्थापनपित्तकफहरभेषजवर्गैः; किंवा उत्तरत्र प्रत्येकं शकृदादिवक्ष्यमाणभेषजैः||२०||
Adhikarana 14 (21) · Śloka 21
षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु|
केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि||२१||
अतीसारभेदानाह- षण्णामित्यादि| एषामिति एतदभिहितानाम्| अन्ये तु बस्तिविभ्रंशजाः षट्सङ्ख्या भवन्तीति वदन्ति; पूर्वव्याख्यानमेव साधु||२१||
Adhikarana 15 (22) · Śloka 22
शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्|
तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२२||
उपद्रवानेषामाह- शूलेत्यादि||२२||
Adhikarana 16 (23) · Śloka 23
तत्रामेऽन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्|
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते||२३||
यथोक्तातीसारेषु चिकित्सामाह- तत्रामे इत्यादि| अन्तरपानं पाचनमाहुः| पाचनमित्यनेन चेह पूर्वं ‘स घनातिविषा’ इत्याद्युक्तं पाचनं गृह्यते| व्योषाम्ललवणैर्युतमिति व्योषाम्ललवणयोगेन कृतम्||२३||
Adhikarana 17 (24) · Śloka 24
वातघ्नैर्ग्राहिवर्गीयैर्बस्तिः शकृति शस्यते|२४|
वातघ्नैरित्यादौ वातघ्नं दशमूलं; ग्राहिवर्गश्च षड्विरेचनशताश्रितीयोक्त एव| अत्र जतूकर्णः- “शकृति शोफघ्नग्राहिभिर्बस्तिः” इत्याह; शोफघ्नं च दशमूलमेव|२४|
Adhikarana 18 (24) · Śloka 24
स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिः समीरणे||२४||
स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिरिति स्वाद्वम्ललवणद्रव्यसाधितस्नेहकृतमनुवासनमित्यर्थः| समीरणे इति केवलवातातीसारे||२४||
Adhikarana 19 (25) · Śloka 25
रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकैः|
सार्यमाणे कफे बस्तिः कषायकटुतिक्तकैः||२५||
रक्ते रक्तेनेति सरक्तेऽतीसार्यमाणे रक्तेन बस्तिर्देयः| पित्ते त्विति पित्तेऽतीसार्यमाणे कषायादिकृतो बस्तिरेव||२५||
Adhikarana 20 (26-33) · Śloka 33
शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले|
संसृष्टेऽन्तरपानं स्याद् व्योषाम्ललवणैर्युतम्||२६||
पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुनः|
संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम्||२७||
तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्|
आमेन तु कफे व्योषकषायलवणैर्युतम्||२८||
वातेन विशि पित्ते वा विट्पित्ताभ्यां तथाऽनिले|
मधुराम्लकषायः स्यात् संसृष्टे बस्तिरुत्तमः||२९||
शकृच्छोणितयोः पित्तशकृतो रक्तपित्तयोः|
बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः||३०||
कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः|
व्योषतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः||३१||
स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे|
मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते||३२||
मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्|
बस्तिर्वातेन पित्ते तु कार्यः स्वाद्वम्लतिक्तकः||३३||
संसर्गे चिकित्सामाह- शकृतेत्यादि| शकृताऽऽमे प्रधाने संसृष्टे, तथा वायुना वाऽऽमे संसृष्टे; तेनेत्यामेनाप्रधानेन वर्चसि अनिले च पृथक् संसृष्टे, अत्र तेनेति पूर्ववद्व्याख्येयम्| अत्र संसृष्टेषु तृतीयानिर्दिष्टमल्पमानतयाऽप्रधानं, सप्तमीनिर्दिष्टं बहुमानत्वात् प्रधानं ज्ञेयम्| तयोरिति पित्तासृजोः| संसृष्टयोरिति एकमानेन युक्तयोः| कफे व्योषकषायलवणैर्युतमित्यन्तं यावत् ‘अन्तरपानं’ इत्यनुवर्तते| वातेन विशीत्यादौ मधुराम्लकषायो बस्तिरिति मधुरादिद्रव्यक्वाथादिकृतो बस्तिर्देय इत्यर्थः| शकृच्छोणितयोरित्यादौ अन्योन्यसंसर्गे सति शकृता शोणिते शोणितेन वा शकृति संसृष्टे; एवं पित्तशकृतोः रक्तपित्तयोश्च द्विविधः संसर्गो व्याख्येयः| विट्पित्तशोणितैरिति प्रत्येकं विडादिभिः कफे संसृष्टे| कफविमूर्च्छिते इति कफेनाप्रधानेन संसृष्टे इत्यर्थः||२६-३३||
Adhikarana 21 (34) · Śloka 34
त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्|
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता||३४||
अनुक्तसंसर्गचिकित्सां सूत्रयन्नाह- त्रिचतुरित्यादि| त्रिचतुःपञ्चसंसर्गानिति आमादीनां त्रिक-चतुष्क-पञ्चकरूपान् संसर्गान्| एवमेव विकल्पयेदिति प्रधानादिमेलकेन विकल्पयेत्, तथा भेषजमपि तेषां यथोक्तभेषजानुसारेण कल्पयेदित्यर्थः| एते च भेदा लिख्यमाना अतिबहुप्रभेदतया ग्रन्थगौरवमापादयन्ति, स्वयं च बुद्धिमता सुकरविभागा एवेति न लिख्यन्ते| एवमादिसंसर्गकृतं रोगभेदमन्यत्रापि बुद्ध्या कर्तव्यतयाऽतिदिशन्नाह- सर्वरोगेष्वपि स्मृतेति| इयं व्यवस्था सर्वरोगेष्वेवयथासम्भवमाचार्यानुमतेत्यर्थः| तत्र ग्रहणीगदे यत्र तु षडप्यामादयः सम्भवन्ति, तत्रैवं संसर्गाः प्रकल्प्यन्ते; यत्र च त्रयोदोषाः सम्भवन्ति, शोणितेन वा समं चत्वारः, तत्र तेषामेव परस्परसंसर्गो भेषजविभागार्थं कल्पनीयः||३४||
Adhikarana 22 (35) · Śloka 35
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् |
निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः||३५||
आमादिषट्कसमुदयरूपसंसर्गे कार्यमाह- युगपदित्यादि| युगपदिति एकदैव मिलितानां षण्णामिति यावत्| षड्रसमिति मिलितषड्रसकृतम्| निरामाणामिति आमवर्जितानां शकृदादीनां पञ्चानाम्| षाड्रसिक इति षड्रसमेलकेन कृतः||३५||
Adhikarana 23 (36-42) · Śloka 42
उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः|
शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम्||३६||
पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्|
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्||३७||
कच्छुराधातकीबिल्वसमङ्गारक्तशालिभिः|
मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः||३८||
बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः |
मसूरधातकीपुष्पबलाभिश्च तथा भवेत्||३९||
स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा|
क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्||४०||
कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः|
दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा||४१||
शीताः सशर्कराक्षौद्राः सर्वातिसारनाशनाः|
ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः||४२||
सर्वातीसारसाधारणं भेषजमाह- उदुम्बरेत्यादि| ‘रक्तशालिभिः’ इत्यत्र ‘रक्तमूलिभिः’ इति पाठे ‘रक्तमूली रक्तैरण्डम्’ इत्यपरे| जले शृतैरिति षडङ्गविधानेन जले शृतैः| बालोदुम्बरम् उदुम्बरशलाटु| भवेदिति यवागूर्भवेत्| इक्ष्वादीनामिति तृणपञ्चमूलपठितानां शरवर्जितानामिक्षुकुशकाशशालिमूलानाम्| शाल्यादितण्डुलैरिति रक्तशालिकलमादितण्डुलैः| दध्यादिभिरत्र जलस्थानीयैर्यवागूः साधनीया||३६-४२||
Adhikarana 24 (43-45) · Śloka 45
भवन्ति चात्र श्लोकाः- स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः|
शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च||४३||
तिक्तोष्णकषायकटुश्लेष्मणि सङ्ग्राहि वातनुच्छकृति|
पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते||४४||
अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च|
तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः||४५||
प्रपञ्चोक्तं भेषजं सङ्ग्रहेणाभिदधाति- भवन्ति चात्रेत्यादि| पानमिति पाचनपानम्| बस्तिश्चेति स्निग्धाम्ललवणमधुर एव बस्तिः| मारुते इति मारुतातिसारे; एवमन्यत्रापि पित्ते इत्यादौ पित्तादिजातिसारे इति ज्ञेयम्| सङ्ग्राहि वातनुदित्यत्र ‘भेषजं’ इति शेषः; तच्च भेषजं यथोक्तबस्त्यादिरूपमेव| पाचनमामे पानमिति पाचनघनातिविषादिद्रव्यकृतं पानमित्यर्थः| पिच्छाबस्तयोऽसृग्बस्तयश्चेति पिच्छासृग्बस्तयः| उक्तमिति साक्षादतिदेशेन च त्रिकादिसंसर्गे प्रोक्तम्| मिश्रमिति एतदेव प्रत्येकं मिश्रीकृतम्| द्वन्द्वादियोगजेष्विति त्रिचतुष्कादिसंसर्गजेऽतिसारे| तत्रोद्रेकादिविशेषादिति संसर्ग एव बलाबलविशेषादुपक्रमस्यापि विशेषो भवति| एतदेव बलापेक्षं बहुदुर्बलाऽप्रत्यनीकं बस्त्येकभेषजमिति शेषः(?)||४३-४५||
Adhikarana 25 (46) · Śloka 46
तत्र श्लोकः- प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः|
रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ||४६||
प्रासृतिका इत्याद्यध्यायार्थसङ्ग्रहः| सव्यापत्क्रिया इति व्यापदश्च मृदुबस्तिकृतजाड्यादिका उक्ताः, तथा क्रियाश्च तासामेव व्यापदामुक्ताः| निरूहाश्चातिसारचिकित्सिते प्रोक्ताः| रसकल्पश्चातीसारेषु रसोद्देशचिकित्सया कृतः| घृतं चोदुम्बरेत्यादिनोक्तम्||४६||
Adhikarana puShpikA · Śloka 8
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ||८||
इति श्रीचक्रपाणिदत्तप्रणीतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः||८||