Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. prāsr̥tayōgīyā siddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

सम्प्रति बस्तिव्यापत्प्रशमकबस्त्यभिधायकतयैव प्रासृतयोगीया सिद्धिरुच्यते| प्रसृतोपलक्षिता ये योगाः तानधिकृत्य कृता सिद्धिः; तेन प्रसृतालक्षिता अप्यत्र योगा वक्तव्या एव||१-२||

Adhikarana 2 (3) · Śloka 3

अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्| कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्||३||

🔊 Audio coming soon

इमानिति अग्रे वक्ष्यमाणान्| तेनाध्यायशेषवक्तव्यानां नावश्यं प्रसृतोपलक्षितविधानम्| सुकुमाराणामिति तन्वादिगुणसम्बद्धं भवति||३||

Adhikarana 3 (4-6) · Śloka 6

क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः| खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्||४|| एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्| बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातनुत्||५|| पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषोः| एकैकः प्रसृतो बस्तिः स्नेहनीयोऽनिलापहः||६||

🔊 Audio coming soon

प्रसृतं पलद्वयम्| मधुतैलघृतात्त्रय इति मिलितात्| अत्र च यथोक्तैरेव द्रव्यैर्बस्तिर्देयः; तेन नेतरबस्तिन्यायेनानुक्तकल्कादिकल्पना; यत्र नियतमानद्रव्यविभागेन बस्त्यभिधानं, तत्र सामान्यबस्तिद्रव्यमानानवकाशः; यत्र त्वेकदेशकथनं, तत्र निरूहयोगितयोक्तद्रव्यमानाधिकारः; सैन्धवप्रवेशस्त्वत्याज्य एव| बिल्वादिमूलं दशमूलम्| स वातनुदिति स बस्तिर्वातं हन्तीति||४-६||

Adhikarana 4 (7) · Śloka 7

सैन्धवार्धाक्ष एकैकः क्षौद्रतैलपयोघृतात्| प्रसृतो हपुषाकर्षो निरूहः शुक्रकृत् परम्||७||

🔊 Audio coming soon

हपुषाकर्षः||७||

Adhikarana 5 (8) · Śloka 9

पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भसः| चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः||८|| निरूहः पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत् |९|

🔊 Audio coming soon

पटोलेत्यादौ अम्भसः इति क्वाथात्| सर्षपकल्कित इति अत्र यद्यपि कल्कमानं नोक्तं, तथाऽपि द्वादशप्रसृते निरूहे द्विपलकल्कस्य विहितत्वादिह पञ्चप्रसृते तदनुसारात् षड्भागोनं पलं भवति; एवमन्यत्राप्यनुक्तमानकल्कव्यवस्था||८||-

Adhikarana 6 (10) · Śloka 10

विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्||९|| कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्| विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः||१०||

🔊 Audio coming soon

विडङ्गेत्यादौ फलं मदनफलम्| आखुपर्णी दन्ती||१०||

Adhikarana 7 (11-12) · Śloka 12

पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्| एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्||११|| चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्| प्रसृताः सर्षपैः कल्कैर्विट्सङ्गानाहभेदनः ||१२||

🔊 Audio coming soon

पयस्येत्यादौ यद्यपि पयस्यादीनां क्वाथो न श्रूयते, तथाऽपि द्रवान्तरैः सममेकैकप्रसृतविधानात् प्रत्येकं पयस्यादिक्वाथस्य प्रसृतमानत्वम्| वृषत्वकृदिति शुक्रवृद्धिकृत्||११-१२||

Adhikarana 8 (13-14) · Śloka 14

श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्| प्रसृताः पञ्च यष्ट्याह्वकौन्तीमागधिकासिताः||१३|| कल्कः स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तमः| एते सलवणाः कोष्णा निरूहाः प्रसृतैर्नव||१४||

🔊 Audio coming soon

श्वदंष्ट्रेत्यादौ श्वदंष्ट्रादिद्रव्यत्रयक्वाथस्य प्रत्येकं प्रसृतमानत्वम्, एवं तैलसुरासवप्रसृताभ्यां सह पञ्चप्रसृताः पूरणीयाः; सुराकृत आसवः सुरासवः||१३-१४||

Adhikarana 9 (15) · Śloka 15

मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते| तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते ||१५||

🔊 Audio coming soon

एतदुक्तमृदुबस्तिप्रयोगानामन्ते कर्तव्यमाह- मृद्वित्यादि| स्वादु प्रत्यास्थापनमिष्यत इत्यत्र स्वादु द्राक्षादिद्रव्यकृतम्| केचित्तदहरेव प्रत्यास्थापनमिच्छन्ति| आस्थापनं लक्ष्यीकृत्य दीयत इति प्रत्यास्थापनम्||१५||

Adhikarana 10 (16-17) · Śloka 17

वातोपसृष्टस्योष्णैः स्युर्गुददाहादयो यदि| द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्||१६|| तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्| शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्||१७||

🔊 Audio coming soon

वातोपसृष्टस्येत्यादौ उष्णैरिति बस्तिविशेषणम्| दाहादयो दाहमोहतृडादयो वातपित्तजन्याः| द्राक्षाम्बुना त्रिवृत्पानस्य दाहादिकारके पित्ते वाते च हितत्वं दर्शयन्नाह- तद्धीत्यादि||१६-१७||

Adhikarana 11 (18) · Śloka 18

अथवाऽतिविरिक्तः स्यात् क्षीणविट्कः स भक्षयेत्| माषयूषेण कुल्माषान् पिबेन्मध्वथवा सुराम्||१८||

🔊 Audio coming soon

कुल्माषा इति अर्धस्विन्नयवादिमया भक्ष्याः||१८||

Adhikarana 12 (19) · Śloka 19

सामं चेत् कुणपं शूलैरुपविशेदरोचकी| स घनातिविषाकुष्ठनतदारुवचाः पिबेत्||१९||

🔊 Audio coming soon

बस्तिमिथ्याप्रयोगोदीरितानामतीसारभेदानां चिकित्सितमाह- सामं चेदित्यादि| सामं यथा स्यात् तथोपविशेदिति; तेन मलादिव्यतिरिक्ताममात्रोपवेशरूपोऽयमतीसारः केवलामशकृद्वातरक्तपित्तकफजन्यानामिह षण्णामतीसाराणां वक्तव्यानां प्रथम उक्तो भवति| कुणपमिति शवगन्धम्| शूलैः ‘युक्त’ इति शेषः| घनं मुस्तकम्||१९||

Adhikarana 13 (20) · Śloka 20

शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते| पक्वं , तत्र स्ववर्गीयैर्बस्तिः श्रेष्ठं भिषग्जितम्||२०||

🔊 Audio coming soon

केवलशकृदादिजन्यांश्चातिसारानाह- शकृद्वातमित्यादि| पक्वमिति निरामम्| आमशब्देनेहाग्निदौर्बल्यादविपक्वाहाररस एव कोष्ठोपलेपक आमो गृह्यते; यदुक्तमन्यत्र- “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आम इति सञ्ज्ञितः” इति| स्ववर्गीयैरिति पुरीषसङ्ग्रहणवातघ्नशोणितास्थापनपित्तकफहरभेषजवर्गैः; किंवा उत्तरत्र प्रत्येकं शकृदादिवक्ष्यमाणभेषजैः||२०||

Adhikarana 14 (21) · Śloka 21

षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु| केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि||२१||

🔊 Audio coming soon

अतीसारभेदानाह- षण्णामित्यादि| एषामिति एतदभिहितानाम्| अन्ये तु बस्तिविभ्रंशजाः षट्सङ्ख्या भवन्तीति वदन्ति; पूर्वव्याख्यानमेव साधु||२१||

Adhikarana 15 (22) · Śloka 22

शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्| तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२२||

🔊 Audio coming soon

उपद्रवानेषामाह- शूलेत्यादि||२२||

Adhikarana 16 (23) · Śloka 23

तत्रामेऽन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्| पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते||२३||

🔊 Audio coming soon

यथोक्तातीसारेषु चिकित्सामाह- तत्रामे इत्यादि| अन्तरपानं पाचनमाहुः| पाचनमित्यनेन चेह पूर्वं ‘स घनातिविषा’ इत्याद्युक्तं पाचनं गृह्यते| व्योषाम्ललवणैर्युतमिति व्योषाम्ललवणयोगेन कृतम्||२३||

Adhikarana 17 (24) · Śloka 24

वातघ्नैर्ग्राहिवर्गीयैर्बस्तिः शकृति शस्यते|२४|

🔊 Audio coming soon

वातघ्नैरित्यादौ वातघ्नं दशमूलं; ग्राहिवर्गश्च षड्विरेचनशताश्रितीयोक्त एव| अत्र जतूकर्णः- “शकृति शोफघ्नग्राहिभिर्बस्तिः” इत्याह; शोफघ्नं च दशमूलमेव|२४|

Adhikarana 18 (24) · Śloka 24

स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिः समीरणे||२४||

🔊 Audio coming soon

स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिरिति स्वाद्वम्ललवणद्रव्यसाधितस्नेहकृतमनुवासनमित्यर्थः| समीरणे इति केवलवातातीसारे||२४||

Adhikarana 19 (25) · Śloka 25

रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकैः| सार्यमाणे कफे बस्तिः कषायकटुतिक्तकैः||२५||

🔊 Audio coming soon

रक्ते रक्तेनेति सरक्तेऽतीसार्यमाणे रक्तेन बस्तिर्देयः| पित्ते त्विति पित्तेऽतीसार्यमाणे कषायादिकृतो बस्तिरेव||२५||

Adhikarana 20 (26-33) · Śloka 33

शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले| संसृष्टेऽन्तरपानं स्याद् व्योषाम्ललवणैर्युतम्||२६|| पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुनः| संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम्||२७|| तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्| आमेन तु कफे व्योषकषायलवणैर्युतम्||२८|| वातेन विशि पित्ते वा विट्पित्ताभ्यां तथाऽनिले| मधुराम्लकषायः स्यात् संसृष्टे बस्तिरुत्तमः||२९|| शकृच्छोणितयोः पित्तशकृतो रक्तपित्तयोः| बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः||३०|| कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः| व्योषतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः||३१|| स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे| मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते||३२|| मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्| बस्तिर्वातेन पित्ते तु कार्यः स्वाद्वम्लतिक्तकः||३३||

🔊 Audio coming soon

संसर्गे चिकित्सामाह- शकृतेत्यादि| शकृताऽऽमे प्रधाने संसृष्टे, तथा वायुना वाऽऽमे संसृष्टे; तेनेत्यामेनाप्रधानेन वर्चसि अनिले च पृथक् संसृष्टे, अत्र तेनेति पूर्ववद्व्याख्येयम्| अत्र संसृष्टेषु तृतीयानिर्दिष्टमल्पमानतयाऽप्रधानं, सप्तमीनिर्दिष्टं बहुमानत्वात् प्रधानं ज्ञेयम्| तयोरिति पित्तासृजोः| संसृष्टयोरिति एकमानेन युक्तयोः| कफे व्योषकषायलवणैर्युतमित्यन्तं यावत् ‘अन्तरपानं’ इत्यनुवर्तते| वातेन विशीत्यादौ मधुराम्लकषायो बस्तिरिति मधुरादिद्रव्यक्वाथादिकृतो बस्तिर्देय इत्यर्थः| शकृच्छोणितयोरित्यादौ अन्योन्यसंसर्गे सति शकृता शोणिते शोणितेन वा शकृति संसृष्टे; एवं पित्तशकृतोः रक्तपित्तयोश्च द्विविधः संसर्गो व्याख्येयः| विट्पित्तशोणितैरिति प्रत्येकं विडादिभिः कफे संसृष्टे| कफविमूर्च्छिते इति कफेनाप्रधानेन संसृष्टे इत्यर्थः||२६-३३||

Adhikarana 21 (34) · Śloka 34

त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्| युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता||३४||

🔊 Audio coming soon

अनुक्तसंसर्गचिकित्सां सूत्रयन्नाह- त्रिचतुरित्यादि| त्रिचतुःपञ्चसंसर्गानिति आमादीनां त्रिक-चतुष्क-पञ्चकरूपान् संसर्गान्| एवमेव विकल्पयेदिति प्रधानादिमेलकेन विकल्पयेत्, तथा भेषजमपि तेषां यथोक्तभेषजानुसारेण कल्पयेदित्यर्थः| एते च भेदा लिख्यमाना अतिबहुप्रभेदतया ग्रन्थगौरवमापादयन्ति, स्वयं च बुद्धिमता सुकरविभागा एवेति न लिख्यन्ते| एवमादिसंसर्गकृतं रोगभेदमन्यत्रापि बुद्ध्या कर्तव्यतयाऽतिदिशन्नाह- सर्वरोगेष्वपि स्मृतेति| इयं व्यवस्था सर्वरोगेष्वेवयथासम्भवमाचार्यानुमतेत्यर्थः| तत्र ग्रहणीगदे यत्र तु षडप्यामादयः सम्भवन्ति, तत्रैवं संसर्गाः प्रकल्प्यन्ते; यत्र च त्रयोदोषाः सम्भवन्ति, शोणितेन वा समं चत्वारः, तत्र तेषामेव परस्परसंसर्गो भेषजविभागार्थं कल्पनीयः||३४||

Adhikarana 22 (35) · Śloka 35

युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् | निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः||३५||

🔊 Audio coming soon

आमादिषट्कसमुदयरूपसंसर्गे कार्यमाह- युगपदित्यादि| युगपदिति एकदैव मिलितानां षण्णामिति यावत्| षड्रसमिति मिलितषड्रसकृतम्| निरामाणामिति आमवर्जितानां शकृदादीनां पञ्चानाम्| षाड्रसिक इति षड्रसमेलकेन कृतः||३५||

Adhikarana 23 (36-42) · Śloka 42

उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः| शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम्||३६|| पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्| अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्||३७|| कच्छुराधातकीबिल्वसमङ्गारक्तशालिभिः| मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः||३८|| बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः | मसूरधातकीपुष्पबलाभिश्च तथा भवेत्||३९|| स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा| क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्||४०|| कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः| दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा||४१|| शीताः सशर्कराक्षौद्राः सर्वातिसारनाशनाः| ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः||४२||

🔊 Audio coming soon

सर्वातीसारसाधारणं भेषजमाह- उदुम्बरेत्यादि| ‘रक्तशालिभिः’ इत्यत्र ‘रक्तमूलिभिः’ इति पाठे ‘रक्तमूली रक्तैरण्डम्’ इत्यपरे| जले शृतैरिति षडङ्गविधानेन जले शृतैः| बालोदुम्बरम् उदुम्बरशलाटु| भवेदिति यवागूर्भवेत्| इक्ष्वादीनामिति तृणपञ्चमूलपठितानां शरवर्जितानामिक्षुकुशकाशशालिमूलानाम्| शाल्यादितण्डुलैरिति रक्तशालिकलमादितण्डुलैः| दध्यादिभिरत्र जलस्थानीयैर्यवागूः साधनीया||३६-४२||

Adhikarana 24 (43-45) · Śloka 45

भवन्ति चात्र श्लोकाः- स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः| शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च||४३|| तिक्तोष्णकषायकटुश्लेष्मणि सङ्ग्राहि वातनुच्छकृति| पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते||४४|| अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च| तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः||४५||

🔊 Audio coming soon

प्रपञ्चोक्तं भेषजं सङ्ग्रहेणाभिदधाति- भवन्ति चात्रेत्यादि| पानमिति पाचनपानम्| बस्तिश्चेति स्निग्धाम्ललवणमधुर एव बस्तिः| मारुते इति मारुतातिसारे; एवमन्यत्रापि पित्ते इत्यादौ पित्तादिजातिसारे इति ज्ञेयम्| सङ्ग्राहि वातनुदित्यत्र ‘भेषजं’ इति शेषः; तच्च भेषजं यथोक्तबस्त्यादिरूपमेव| पाचनमामे पानमिति पाचनघनातिविषादिद्रव्यकृतं पानमित्यर्थः| पिच्छाबस्तयोऽसृग्बस्तयश्चेति पिच्छासृग्बस्तयः| उक्तमिति साक्षादतिदेशेन च त्रिकादिसंसर्गे प्रोक्तम्| मिश्रमिति एतदेव प्रत्येकं मिश्रीकृतम्| द्वन्द्वादियोगजेष्विति त्रिचतुष्कादिसंसर्गजेऽतिसारे| तत्रोद्रेकादिविशेषादिति संसर्ग एव बलाबलविशेषादुपक्रमस्यापि विशेषो भवति| एतदेव बलापेक्षं बहुदुर्बलाऽप्रत्यनीकं बस्त्येकभेषजमिति शेषः(?)||४३-४५||

Adhikarana 25 (46) · Śloka 46

तत्र श्लोकः- प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः| रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ||४६||

🔊 Audio coming soon

प्रासृतिका इत्याद्यध्यायार्थसङ्ग्रहः| सव्यापत्क्रिया इति व्यापदश्च मृदुबस्तिकृतजाड्यादिका उक्ताः, तथा क्रियाश्च तासामेव व्यापदामुक्ताः| निरूहाश्चातिसारचिकित्सिते प्रोक्ताः| रसकल्पश्चातीसारेषु रसोद्देशचिकित्सया कृतः| घृतं चोदुम्बरेत्यादिनोक्तम्||४६||

Adhikarana puShpikA · Śloka 8

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ||८||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तप्रणीतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः||८||